#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00359 Uniform title: nāṭyaśāstram Vol. 1 Main title: nāṭyaśaāstram with the commentary of Abhinavagupta ch. 1 - 7 Commentator : abhinavagupta Editor : M. Ramakrishna Kavi Editor : K. S. Ramaswami Shastri Description: Gaekwads Oriental Series no. 36 edited by M. Ramakrishna Kavi second revised edition by K. S. Ramaswami Shastri Notes: Data entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: Oct. 2, 2016 Publisher : Oriental Institute Publication year : 1956 Publication city : Baroda Publication country : India #################################################### श्रीरस्तु | भरतमुनिप्रणीतं नाट्यशास्त्रम् | प्रथमोऽध्यायः | प्रणम्य शिरसा देवौ पितामहमहेश्वरौ | नाट्यशास्त्रं प्रवक्ष्यामि ब्रह्मणा यदुदाहृतम् || १ || अभिनवभारती | श्रीमदभिनवगुप्तविरचिता विवृतिः | यस्तन्मयान्हृदयसंवदनक्रमेण द्राक्चित्रशक्तिगणभूमिविभागभागी | हर्षोल्लसत्परविकारजुषः करोति वन्देतमां तमहमिन्दुकलावतंसम् || १ || षड्विंश(षट्त्रिंश)कात्मकजगद्गगनावभास- संविन्मरीचिचयचुम्बितबिम्बशोभम् | षट्त्रिंशकं भरतसूत्रमिदं विवृणव- न्वन्दे शिवं श्रुतितदर्थविवेकि धाम || २ || विश्वबीजप्ररोहार्थं मूलाधारतया स्थितम् | धर्तृशक्तिमयं वन्दे धरणीरूपमीश्वरम् || ३ || सद्विप्रतोतवदनोदितनाट्यवेद- तत्त्वार्थमर्थिजनवाञ्छितसिद्धिहेतोः | माहेश्वराभिनवगुप्तपदप्रतिष्ठः संक्षिप्तवृत्तिविधिना विशदीकरोति || प्. २) उपादेयस्य सम्पाठस्तदन्यस्य प्रतीकनम् | स्फुटव्याख्या विरोधानां परिहारः सुपूर्णता || ५ || लक्ष्यानुसरणं श्लिष्टवक्तव्यांशविवेचनम् | सङ्गतिः पौनरुक्त्यानां समाधानसमाकुलम् || ६ || सङ्ग्रहश्चेत्ययं व्याख्याप्रकारोऽत्र समाश्रितः || भरतमुनिरुचितदेवतानमस्कारपूर्वकमभिधेयगुणीभावेन प्रयोजनं मुख्यया वृत्त्या प्रतिजानानो विशेषणद्वारेण गुरुपर्वक्रममर्थाक्षिप्ततया चाभिधेयप्रयोजनतत्सम्बन्धान्दर्शयति - प्रणम्येत्यादिना - पितामहोऽत्र न पितुः पिता महेश्वरश्च न राजादिरिति देवशब्दः | एतच्च नाशङ्कनीयं प्रसिद्धेः | एको विजिगीषुर्नाट्यप्रवर्तीयेतेति देवः | भगवांस्त्वानन्दनिर्भरतया क्रीडाशीलः सन्ध्यादौ नृत्यतीति नाट्ये तदुपस्कारिणि च नृत्ते तदुपज्ञं प्रवृत्तिरिति तावेवात्राधिदैवतं गुरु चेति नमस्कार्यौ | लक्ष्मीपतिस्तु यद्यपि वृत्तीनां निर्माता तथापि पितामहादिवदसौ स्वकर्तव्यमात्रनिष्ठस्तथाचरन्नात्र नाट्ये लोकवदुपजीवित इति गुरुत्वाभावान्न नमस्कृतः | (इत्ये)तदपि नमस्कारहेतुनिरूपणस्यानुचितत्वादसत् | तस्मात्प्रणमनं प्रह्वीभावः कायेन वाचा मनसा च | आद्यः शिरसेति दर्शितः | द्वितीयो देवावित्यनेन | प्रणम्यस्य निरुपपदनामग्रहणानौचित्यात् | तेन प्रथमं देवावित्युक्तम् | अभिनेयप्राधान्याचाङ्गिकः शिरसेति | वाचिकश्च देवावित्यादिना वाक्याभिनयो दर्शितः | लोकसिद्धो ह्ययमभिनयो न च नाट्यधर्मिरूपः | चतुर इव भुजादावूर्ध्वादिभिन्न इत्यभिनेयोऽपि प्रदर्शनीय एव | मानसी तु प्रह्वता वाक्कायव्यापारगम्येति नासौ पृथगुक्ता | पितामहमहेश्वराविति क्रमः छेकानुप्रासार्थः | सालङ्कारस्य च वाक्याभिनयतां दर्शयितुम् | सालङ्कारस्य देवतापरितोषहेतुत्वं च प्. ३) दर्शयितुम् | पितामहमहेश्वरावित्यनेन देवयोर्लोकहितैषित्वमुक्तम् | नाट्यशास्त्रमिति | नाट्यस्य नटवृत्तस्य शास्त्रं शासनोपायं ग्रन्थं प्रवक्ष्यामीति | नैतदित्यन्ये | नाट्यवेदः नाट्यशास्त्रम् इति हि पर्यायौ | तत्र नाट्यशास्त्रशब्देन चेदिह ग्रन्थः तद्ग्रन्थस्येदानीं करणम् | न तु प्रवचनम् | तद्धि व्याख्यानरूपं करणाद्भिन्नं कठेन प्रोक्तमिति यथा | ग्रन्थस्य च नाट्यवेदत्वे उत्पत्त्यादिपञ्चकस्य तद्गतस्यान्यग्रन्थसाधारण्यात् प्रश्नासङ्गतिः | उत्तरग्रन्थस्य चानुपपत्तिः - दृश्यं श्रव्यं च यद्भवेत् (१-११) जग्राह पाठ्यमृग्वेदात् (१-७) इत्यादेर्ग्रन्थं प्रत्यसङ्गत्वत्वात् | तस्मान्नाट्यं च तच्छास्त्रञ्च | व्युत्पत्तिप्रदत्वात् | तत् प्रवक्ष्यामि व्याख्यास्ये | नाट्याख्यं वेदं लक्षणतो निरूपयिष्य इत्यर्थः | एतदप्यमनोरमम् | शब्दात्मताव्यतिरेकेण प्रवचनायोगात् | नाट्यस्य चाशब्दात्मकत्वात् | निरूपणमात्रे च प्रवचने ग्रन्थस्यापि प्रवचनोपपत्तेः | नाट्यस्य च प्रोच्यमानतयैवालाक्षणिकबाह्यस्वरूपनिरासलाभे शास्त्रशब्दानर्थक्यप्रसङ्गात् | य इमं शृणुयात्प्रोक्तं नाट्यवेदम् इति शास्त्रान्ते यद्वक्ष्यते तस्यासङ्गत्यापत्तेः | शब्दविषयतातिरेकेण शृणुयादित्यस्यावाचकत्वात् | तस्मादित्थमेतदिति मद्गुरवः | सकलहितकरणप्रवृत्त उत्साहसम्पदोपेतस्तदभिवृद्धये तत्प्रत्यूहापसिसारयिषया स्वविज्ञानक्रमोपारूढगुरुरूपब्रह्मसर्वाधिपतिपरमेश्वरविषयां स्मृतयुत्सुक्यधृतिमत्यादिलक्षणां व्यभिचारसरणिं बाह्यकरणीयविषयं च जडतावहित्थप्रभृतिभावगणं पुरस्सरीकृत्य धर्मवीरानुप्रविष्टस्तदुचिताङ्गिकवाचिकानुभाव प्रकटनपूर्वं स्वप्रवृत्तिप्रयोजनमेव निरूपयति | प्रयोजनस्यैव प्रवर्तकत्वात् | यदाहुः - यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम् (न्या. सु. १-१-२४) इति | तत्र नाट्यं नाम लौकिकपदार्थव्यतिरिक्तं तदनुकारप्रतिबिम्बालेख्यसादृश्यारोपाध्यवसायोत्प्रेक्षास्वप्नमायेन्द्रज अलादिविलक्षणं तद्ग्राहकस्य सम्यग्ज्ञानभ्रान्तिसंशयानवधारणानध्यवसायविज्ञानभिन्नवृत्तान् तास्वादनरूपसंवेदनसंवेद्यं वस्तु रसस्वभावमिति वक्ष्यामः | तस्य शास्त्रं शासनं बाह्यभाण्डनाट्यादिवैलक्षण्येन सम्यक्तत्स्वरूपावगमोपायं प्रकर्षेण परब्रह्मशिष्योदीरितानुपयोगिविकासत्वावधानेन (विकासावधूननेन?) प्. ४) वक्ष्यामि | यद्वक्ष्यति - य इमं शृणुयात्प्रोक्तं नाट्यवेदं स्वयम्भुवा | कुर्यात्प्रयोगं यश्चैनं तथाऽधीयीत वा नरः || या गतिर्वेदविदुषां या गतिर्यज्ञवेदिनाम् | या गतिर्दानशीलानां तां गतिं प्राप्नुयात्तु सः || इति || (...... ग्रन्थपातः ?) (ना. शा. अ. ३६) एतेन कामजो दशको गणः (मनु. ७-४७) इति वर्जनीयत्वेन नाट्यस्यानुपादेयतेति यत्केचिदाशशङ्किरे तदयुक्तीकृतम् | याज्ञवल्क्यस्मृतिपुराणादौ चास्य प्रशंसाभूयस्त्वश्रवणात् | न चागमादृते धर्मोऽनुमानगम्य इति न्यायात् | एतत्तु वृथैवास्थानभीरून्प्रति शङ्काशमनार्थमभिधीयते नाम | तथा हि - नटानातावदेतत्स्वधर्माम्नायरूपतयाऽनुष्ठेयमेव | न चास्माकं तच्चेष्टितं विचार्यम् | सोमक्रयोपदेशिनो विधिवाक्यस्य न तद्विक्रेष्यद्ब्राह्मणान्तरगतकृत्याकृत्यविचारणोद्योगो युक्तः | न चाप्यस्योपदिश्यते गायेन्नृत्येत् इति | किन्तु प्रथमनाट्यावसरक्रमप्रवृत्तविरिञ्चवचनप्रवर्तकभरतमुनिशासनानु वर्तिशिष्यपरमपरापरिचयागताद्यतनकालावधिमहानटजनस्वकप्रवृत्तिवि शेषोपदेशपरम् | अत एव तद्गतसिद्धिसंपत्तिसदुपायोपदेशनपरमिदं शास्त्रमिति | नटस्य तावन्नानेन किञ्चिदुपदिश्यते तं प्रत्युपकारादृते | कवेरपि स्वहृदयायतन - सततोदितप्रतिभाभिधानपरवाग्देवतानुग्रहोत्थितविचित्रापूर्वार्थनिर्माणऽऽ सक्तिशालिनः प्रजापतेरिव कामजनितजगतः | परं प्रत्याशङ्का यदि परमत्रावशिष्यते व्युत्पाद्यो वराकः | तस्यापि तु नेह गायेन्नृत्येद्वादयेत्तन्निरतो वा भवेत् इत्युपदेशः क्रियते | अपि तु स्वरसत एव तावन्मनोज्ञविषयास्वादप्रवृत्तस्यात एव वेदशास्त्रपुराणादिभीरुहृदयस्य तन्मनोज्ञवस्तुमध्ये तादृगिदं वस्त्वनुप्रवेशितं यद्बलादेव पुमर्थोपायावगतिं करोतीति वक्ष्यामः | उत्पत्त्यादिप्रश्नास्तु ये भविष्यन्ति ते नाट्याख्यवेदविषयाः | न तु नाट्यवेदशास्त्रविषयाः | यतो नाट्यवेदः कथं ब्रह्मन् (ना. शा. १-४) इत्यत्र नाट्यमेव वेद इति व्याख्यास्यामः | एतच्च नाट्यवेदशास्त्रं ब्रह्मणोदाहृतं मह्यमुक्तम् | यद्वक्ष्यते - आज्ञापितो प्. ५) समाप्तजप्यं व्रतिनं स्वसुतैः परिवारितम् | अनध्याये कदाचित्तु भरतं नाट्यकोविदम् || २ || मुनयः पर्युपास्यैनमात्रेयप्रमुखाः पुरा | पप्रच्छुस्ते महात्मानो नियतेन्द्रियबुद्धयः || ३ || विदित्वाऽहं नाड्यवेदं पितामहात् | पुत्रानध्यापयामास (ना. शा. १-२५) इति | अत्र तु नाट्यस्य वेदः शास्त्रमिति समासः | अन्यथाऽध्यापनासम्भवात् | तेन ब्रह्मप्रोक्तमेव मया यथापरिपाटि निरूप्यत इति यावत् | नाट्यं च ब्रह्मणोद्धृत्योद्धृत्य वेदङ्गान्याहृतमिति तद्विषयं शास्त्रमप्युदाहृतमित्युक्तम् | यदि हि नाट्यस्य वेदनं सत्तालाभो विचारस्य यत्र तन्नाट्यवेदशब्देन नाट्याश्रयरूपं दशरूपकमित्युच्यते - यद्वक्ष्यति इतिहासो मया दृष्टः इति (ना. शा- १-१९) | अत्र पक्षे ब्रह्मणोदाहृतं र्पदर्शितोदाहरणं कृतनिदर्शनमित्यर्थः | अन्ये तु नटनीयमनुकरणं दशरूपकमेव नाट्यम् | तस्येदं शास्त्रम् | दशरूपकलक्षणमेव हीदम् | एवं दशरूपकं कविना कार्यम् | एव च नटनीयमिति ग्रन्थतात्पर्यात् | रसादीनां पदार्थानां तत्रैव पर्यवसानात् | तच्च ब्रह्मणोदाहृतं कृतनिदर्शनम् | अन्ये तु ब्रह्मणा वेदाख्येन भगवता शब्दराशिनोदाहृतं निरूपितं त्याज्यानुष्ठेयरूपमायदागच्छत् व्युत्पाद्यतया स्वीकुर्वन्नाट्यशास्त्रं प्रवक्ष्यामीति प्रयोजनमनेनैव स्वीकृतमित्याहुः | भट्टनायकस्तु ब्रह्मणा परमात्मना यदुदाहृतमविद्याविरचितनिस्सारभेदग्रहे यदुदाहरणीकृतं नाट्यं तद्वक्ष्यामि | यथा हि कल्पनामात्रसारं तत एवान - वस्थितैकरूपं क्षणेन कल्पनाशतसहस्त्रसहं स्वप्नादिविलक्षणमपि सुष्ठुतरां हृदयग्रहनिदानमत्यक्तस्वालम्बनब्रह्मकल्पनटोपरचितं रामरावणादिचेष्टितमसत्यं कुतोऽप्यभूताद्भुतवृत्त्या भाति | तथा भासमानमपि च पुमर्थोपायतामेति | तथा तादृगेव विश्वमिदमसत्यनामरूपप्रपञ्चात्मकमथ च श्रवणमननादिवशेन परमपुमर्थप्रापकमिति लोकोत्तरपरमपुरुषार्थसूचकेन शान्तरसोपक्षेपोऽयं भविष्यति | स्वं स्वं निमित्तमादाय शान्तादुत्पद्यते रसः | इति || (ना. शा. ६) तदनेन पारमार्थिकं प्रयोजनमुक्तम् | इति व्याख्यानं हृदयदर्पणे पर्यग्रहीत् | यदाह - प्. ६) योऽयं भगवता सम्यग्ग्रथितो वेदसम्मितः | नाट्यवेदः कथं ब्रह्मन्नुत्पन्नः कस्य वा कृते || ४ || कत्यङ्गः किंप्रमाणश्च प्रयोगश्चास्य कीदृशः | सर्वमेतद्यथातत्त्वं भगवन्वक्तुमर्हसि || ५ || नमस्त्रैलोक्यनिर्माणकवये शम्भवे यतः | प्रतिक्षणं जगन्नाट्यप्रयोगरसिको जनः || इति || एवं नाट्यशास्त्रप्रवचनं प्रयोजनमुक्तम् | तत्प्रयोजनन्तु दर्शितमेव | अभिधेयश्च नाट्यवेदः | व्युत्पाद्यव्युत्पादकभावलक्ष्णश्च सम्बन्धः | यच्च शास्त्रं यो जिज्ञासते स तावत्तदवसरे तच्छास्त्रप्रणेतरि प्रसिद्धे सिद्धवदेव प्रामाण्यमभिमन्यत इति तद्वचनोक्ताय सम्बन्धाभिधेयप्रयोजनाय तदैव निर्विशङ्कः प्रवर्तते | परस्त्वधिगतसकलशास्त्रार्थो बहुमन्यते न वेति तदिदमन्यत् | प्रथमं तावत्प्रवृत्तमादिवाक्यं प्रयुक्तमेवेति स्वानुभवप्रसिद्धम् | तेनार्थसंशयतर्ककौतुकज(न)नादिवाक्यं प्रवर्तकमिति किमनेन | अत्र मुनिः सकललोकहितकरणप्रवृत्तोत्साहसंपदुपेतो धर्मपीठानुप्रविष्टस्तदुचिताङ्गिकवाचिकानुभावप्रकटनपुरस्सरं स्वप्रवृत्तिप्रयोजनमेव निरूपितवान् | अस्य च पितामहमहेश्वरौ प्रति स्मृत्यौत्सुक्यधृतिमत्त्यादयो व्यभिचारिभावाः प्रतीयन्ते | अथ मुनिरात्मानमेव परत्वेन कल्पयन्ब्रह्मणा यदुदाहृतमित्येतदेव पुराकल्पप्रदर्शनेन निश्चाययति - समाप्तजप्यमित्यादिना श्लोकद्वयेन | अनुरागित्वं नाट्यवेदयोग्यता नाट्यस्यादुष्टता विनोदहेतुता सुज्ञानत्वं प्रश्नावसरलाभयोगः प्रसिद्धत्वं चाचार्ययोग्यता शिष्टप्रामाणिकत्वं नियमपूर्वशास्त्रग्रहण प्रसिद्धादरणानुमेयोपादेयत्वप्रकटनमनिदम्प्राथम्यप्रवृत्तता शिष्याणामूहापोहपाटवं ग्रहणयोग्यता चेति क्रमेण पदानां तात्पर्यमपुनरुक्तम् | (२-३) किं पप्रच्छुरिति दर्शयति - योऽयमिति | भगवता तत्रभवता गुरुणेति भरतमुनिरेवैवमुक्तः | तेन भरतमुनिना यो ग्रथितः सुन्दरतमवस्तुसमाहरणयोजनया गुम्फितः कोऽप्ययं वस्तुविशेषः स तावत्प्रयोगसमयेऽस्माभिर्दृष्त इति प्रत्यक्षत्वेन अयमिति परामर्शः | अविदितान्तस्सारतया चास्माकं प्रत्यक्षोऽप्यप्रत्यक्षकल्प इति यच्छब्देनानिर्वाच्यविशेषत्वमुक्तम् | अत एव न तच्छब्दसङ्गतिरत्र मृग्यते यथा यत्किञ्चिद्वदतीति | स चायं परीक्षणीयतत्त्वो यतो वेदैः सम्मितः तुल्यः | प्. ७) तथा हि - धीरोदात्तधीरललितधीरोद्धतधीरप्रशान्तानां पूर्णोपायप्रवृत्तत्वेन नायकानामतादृगुपायाश्रयेऽन् प्रतिनायकानां च चरितं सफलत्वाफलत्वेन साक्षात्क्रियमाणं वीराद्भुताभ्यां वीरशृङ्गारहास्यैः वीररौद्रभयानककरुणैः वीरबीभत्सशान्तैश्च प्रतिनायकगतरसान्तरसान्तरतया सातिशयचमत्कारगोचरीभूतैर्हृदयानुप्रवेशं विदधद्धर्मादिचतुष्कोपायोपादेयधियमधर्मादिभ्यश्च निवृत्तिं निर्विशङ्कं विधत्त इत्यस्माकमधिगतश्रुतितत्त्वानामपि प्रत्यक्षसिद्धमेवैतत् | प्रसिद्धा चास्य नाट्यवेदसंज्ञा | अत एवोपदेशहेतुत्त्वाद्वेदः | एवं च जिज्ञास्यतत्त्व एवायम् | स कथमुत्पन्नः | केन प्रकारेणोत्पन्नः | तत्प्रयोजनस्य वेदेभ्य एव सिद्धेः | उत्पन्न इति यदि पूर्वमेव वेदवद(नादिपदा?)र्थः स्यात्तत्कथं नामायं पर्यनुयुज्येत | श्रुतिचतुष्टयवदेवेत्यर्थः | अथ यस्य वेदेभ्यो नोपदेशः सिद्धः स कस्तादृगित्याह - कस्याधिकारिणः | कृते प्रयोजनकरणाय | किं वेदाधिकृत एवात्राधिकारी उत तदन्योऽपीत्यधिकारिविषयोऽयं प्रश्नः | पूर्वस्तु सिद्धसाध्यतया निष्प्रयोजनत्वेनाक्षेपोऽयं प्रश्नः | कत्यङ्ग इति | यद्यस्य सुबहून्यङ्गानि तद्दुरवधारतयाऽशक्यनिर्णयः | तथा परिदृश्यमानगीतातोद्याभिनयादिमध्ये कत्यस्याङ्गानि | किञ्च तदङ्गिरूपमुताङ्गसमुदायमात्रं नाट्यमिति तृतीयः प्रश्नः | किं प्रमाणश्चेति | ननु प्रत्यक्षप्रमाणसिद्धत्वं तावन्नाट्यस्य | यद्वक्ष्यति - दृश्यं श्रव्यं च यत् (ना. शा. १-११) इति | श्रेयःप्राप्त्युपायज्ञापकत्वमपि मुनीनां स्वसंवेदनसिद्धम् | अन्यथा तु विचार्यत्वमेवास्य न स्यादित्युक्तम् | तत्कोऽयं प्रश्नः | सत्यम् | किन्तु अङ्गविषयोऽयं प्रश्नः | किं प्रमाणः किं प्रमाणाङ्ग इति यावत् | यान्यङ्गानि कानिचित्तानि यदि विज्ञेयानि केन प्रमाणेन किमङ्गं ज्ञायते | तथा केन प्रमाणेनाङ्गाङ्गिभावनियमोऽत्र ज्ञेयः | प्रमाणमत्र निश्चयजनकम् | अन्ये तु नाट्यगतानां रूपकादीनां पाठ्याभिनयरसगीतानां च किं प्रमाणं का सङ्ख्येति विभागविषयोऽयं प्रश्न इत्याचक्षते | अस्येति नाट्यस्य | कीड्र्क्प्रयोगः | यदि युगपदङ्गानि प्रयुज्यन्ते तद्भिन्नाक्षग्राह्येषु युगपत्संवेदनाभावात् कथमेकं नाट्यमिति प्रतिपत्तिः | क्रमप्रयोगेऽपि नि(न)तराम् | तस्मात्कथं प्रयोग इति | तथा किं नियतेनैवाङ्गाङ्गिभावेन प्रयोग उतानियतेनेति नाट्याङ्गप्रयोगद्वारेण सामान्याभिनयचित्राभिनयनाटकादिरूपकवैचित्र्यविषयः प्रश्नः प्. ८) तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः | प्रत्युवाच ततो वाक्यं नाट्यवेदकथां प्रति || ६ || भवद्भिः शुचिभिर्भूत्वा तथाऽवहितमानसैः | श्रूयतां नाट्यवेदस्य सम्भवो ब्रह्मनिर्मितः || ७ || पञ्चमः | एवं प्रश्नपञ्चकात् कविप्रयोक्त्रोरुपदेशपरं शास्त्रमिति लक्ष्यते | तेन यदाह तस्मात्कर्तुर्द्रष्टुः प्रयोक्तुरुपदेशपरमिदं शास्त्रम् इति तत्र द्रष्टुरित्यसत् | न ह्यनेन सामाजिको विनीयते | अयोग्यत्वात् | श्रुतिस्मृतीतिहासादिष्विवात्रापि न च तदुपदेशोऽत्र श्रूयते | द्रष्टा तु यदि प्रेक्षाप्रवर्तक उच्यते तदा तस्यापि न प्रबन्धेनोपदेशः | अपि तु क्वचिदेव नर्तकोऽर्थपतिर्वा इत्यादौ | एवं चोपदेश्यत्वे स्थपतिमालाकारप्रभृति विश्वमपीहोपदेश्यं स्यादित्यलमनेन | यथातत्त्वमिति | नात्र क्रमं प्रति भरोऽस्माकम् | नापीयत्तां प्रति | अज्ञा हि वयमत्र प्रष्टारः | अत एवोपेयपरत्वेनैव मुख्यतया प्रश्नो यथा बालक आह - दुःखं मे शमय इति | तज्ज्ञस्तूपायं प्रश्नयति कुतोऽन्नं लभ्यत इति | तेनोपेयमुखेन प्रवृत्तमिदं शास्त्रमुत्तरदानोपनतवस्त्वन्तरोपेयप्रश्नक्रमेण तदुपेयोपायादिप्रबन्धेन स्थितमिति मन्तव्यम् | तेन यादृशा क्रमेण रूपणयोग्यं तथाप्यप्र(थाऽप्र)श्नितमपि यदि किञ्चिदस्ति तदपि सयमेव निरूपयेति | तत्त्वानतिक्रमेण तत्त्वयोग्यं तत्त्वं च निरूपणीयम् | एतदिति | लक्षणपरीक्षापर्यन्तमेतत् | (४-५) यदि त एवं पप्रच्छुः भरतमुनिः किमकार्षीदित्याह - तेषां त्विति | तुरवधारणे | श्रेत्वैव न तु विलम्ब्येति | पौर्वकाल्यमात्रे क्ताल्यपोर्विधानात् | तत इति | यतः स तत्त्वविन्मुनिः ते च तदुपदेशयोग्याः तस्माद्धेतोः | कथाग्रहणं यथातत्त्वमित्येतस्यैवार्थं स्फुटीकरोति | यत्तु प्रयोगप्रश्ने प्रत्यक्षेण प्रयोगप्रकटनमुत्तरं स्यादित्याशङ्कां परिहर्तुं कथाग्रहणमिति तत्त्वसत् | वक्तुमर्हसीत्युक्ते तस्याः कोऽवसरः | एवं भरतमुनिः परवदात्मानं प्रकल्प्येयन्तं ग्रन्थमभिहितवान् | अन्ये त्वियन्तं ग्रन्थं कश्चिच्छिष्यो व्यरीरचत् | तत्र ब्रह्मणेति भरतमुनिः प्रथमश्लोके निर्दिष्टः | कथं ब्रह्मन्नुत्पन्न इत्येतदेवमेकवाक्यत्वेन निर्वहति | तदनन्तरन्तु भवद्भिः शुछिरित्यादिर्भरतमुनिरचितो ग्रन्थः | मध्येऽत्र प्. ९) पूर्वं कृतयुगे विप्रा वृत्ते स्वायम्भुवेऽन्तरे | त्रेतायुगेऽथ सम्प्राप्ते मनोर्वैवस्वतस्य तु || ८ || ग्राम्यधर्मप्रवृत्ते तु कामलोभवशं गते | ईर्ष्याक्रोधादिसंमूढे लोके सुखितदुःखिते || ९ || षट्त्रिंशदध्याययां यानि प्रश्नप्रतिवचनयोजनवचनानि तानि तच्छिष्यवचनान्येवेत्याहुः | तच्चासत् | एकस्य ग्रन्थस्यानेकवक्तृवचनसन्दर्भत्वे प्रमाणाभावात् | स्वपरव्यवहारेण पूर्वपक्षोत्तरपक्षादीनां श्रुतिस्मृतिव्याकरणतर्कादिशास्त्रेष्वेकविरचितेष्वपि दर्शनात् | एतेन सदाशिवब्रह्मभरतमतत्रयविवेचनेन ब्रह्ममतसारताप्रतिपादनाय मतत्रयीसारासारविवेचनं तद्ग्रन्थखण्डप्रक्षेपेण विहितमिदं शास्त्रम् न तु मुनिविरचितमिति यदाहुर्नास्तिकधुर्योपाध्यायास्तत्प्रत्युक्तम् | सर्वानपह्नवनीयाबाधितशब्दलोकप्रसिद्धिविरोद्धाच्च | अत्र केचिदाहुः - प्रश्नपञ्चकमत्रैवाध्याये तावन्निर्णीयते | उद्देशस्थित्या तद्विभागलक्षणपरीक्षापराणि चाध्यायान्तराणीति | अन्ये त्वाहुः पञ्चभिरध्यायैः पूर्वरङ्गविधानपर्यन्तैः प्रश्नद्वयं निर्णीतम् | सामान्याभिनयचित्राभिनयान्तैः शिष्टैस्तु प्रश्नत्रयमिति | वयं तु ब्रूमः - नात्र क्रमः कश्चित् | अपि तु यथावसरं महावाक्यात्मना षट्सहस्रीरूपेण प्रधानतया प्र्श्नपञ्चकनिरूपणपरेण शास्त्रेण तत्त्वं निर्णीयते | न तु क्रमः कश्चित् | एतच्च ग्रन्थव्याख्यानप्रसङ्ग एव स्फुटीकरिष्यामः | (६) तत्र कथं कस्य वा इत्यमुमर्थं निर्णिनीषुराह - भवद्भिरित्यादि | घटादीनामुत्पत्तिर्व्यवहारसिद्धैव कुलालादिभिरनुगम्यत इति घटः क्रियत इति युक्तम् | नत्वेवं नाट्यस्य | तस्य तूत्पत्तिरेव विरिञ्चोपज्ञतया स्थितेति सम्भवो ब्रह्मनिर्मित इत्युक्तम् | केचिदत्रानादित्वं वेदवन्नाट्यस्याचक्षाणाः उत्पत्त्यादिशब्दान् स्मरणाभिव्यञ्जनादावुपचरन्ति (७) | तत्र सम्भूतेः कारणमुखेनाभिधाने कर्तव्ये कालस्य सर्वत्र पूर्वकारणत्वादुचितकालपरिग्रहेण तद्विधाधिकारिविषयतां दर्शयितुमाह - पूर्वमित्यादिश्लोकपञ्चकम् | प्. १०) देवदानवगन्धर्वयक्षरक्षोमहोरगैः | जम्बूद्वीपे समाक्रान्ते लोकपालप्रतिष्ठिते || १० || महेन्द्रप्रमुखैर्देवैरुक्तः किल पितामहः | क्रीडनीयकमिच्छामो दृश्यं श्रव्यं च यद्भवेत् || ११ || अस्मिन्नवसरे पितामहो देवैरिदमुक्त इति महावाक्यस्य सङ्गतिः - कस्मिन्नवसरे पूर्वमिति | नास्मिन्नेव कल्पेऽपि तु पूर्वकल्पेष्वपीत्यर्थः | मन्वन्तराणि चतुर्दश तावत्कल्पोऽयं तद्ब्राह्मं दिनम् | तत्र स्वायम्भुवं नाम यत्कल्पस्य प्रथमं मन्वन्तरम् | वैवस्वतमन्वन्तरन्तु सप्तमम् यत्राद्य वर्तामहे | तत्र सर्वेष्वेव मन्वन्तरेषु त्रेतावसरे ब्रह्मणा नाट्यवेदः प्रवर्तितः | कृतयुगे तु नेति तात्पर्यम् | योजना तु - स्वायम्भुवे आद्य नन्वन्तरे यत्कृतयुगं तस्मिन् निवृत्ते सति यत्रेतायुगं तस्मिन् सम्यक्सन्ध्यतिक्रमेण स्फुटतरं प्रवृत्ते | न केवलं तत्रैव मन्वन्तरे | तु शब्दो यावच्छब्दार्थे | यावद्वैवस्वतस्य मनोरन्तरे समये यत्त्रेतायुगं तस्मिन्प्रवृत्तेऽपि | तेनाद्यन्तनिरूपणेन सर्वेषां मध्यममन्वन्तराणां सङ्ग्रहः | तेन सर्वेषु त्रेतायुगेषु नाट्यप्रवृत्तिरित्युक्तं भवति | अस्मिन्नवसरे किमसावुक्तः | आह - जम्बूद्वीपे कर्मभूमिस्थाने यो लोकः सुखित - दुःखितश्च तद्विषयं क्रीडनीयकं क्रीड्यते चित्तं विक्षिप्यते विह्रियते येन तदिच्छामः | करणे कृत्यो बाहुलकात् | चित्तं च इतोऽमुतश्च नीयमानं मार्गेऽपि नियोज्यते | यदि वा क्रीडनाय हितं क्रीडनीयकम् | उभयत्राज्ञाताद्यर्थे कः | इदमस्माकं गुडप्रच्छन्नकटुकौषधकल्पं चित्तविक्षेपमात्रफलमिति यन्न ज्ञायते | तच्च क्रीडनीयकं सुखितदुःखिन एव भवति | न ह्येकान्तसुखिते काले देशे वा क्रीडया किञ्चित् | नाप्येकान्तदुःखिते | तेन कृतयुगे कलिप्रान्ते वा इलावृतादिनिवासिनि जने नारके वा न क्रीडोपपत्तिः | उत्तरपदार्थप्रधानस्तत्पुरुषः दुःखस्य बाहुल्यमाह | कथं ज्ञायते सुखितदुःखितो लोक इति | यतः ईर्ष्याक्रोधादिभिः संमूढोऽधिवासितहृदयः | आदिग्रहणादनुरागतृष्णादिभिः | तत्र क्रमेण कारणमाह - कामवशगतत्वादीर्ष्यादयो राज्यलोभादिना क्रोधादयः | किमित्यधिकौ कामलोभौ ? यतः सुखितदुःखितत्वस्य कारणं कामादीनां हेतुः ग्राम्यधर्मप्रवृत्तत्वम् | ग्राम्योऽश्रुतशास्त्रार्थजनाकीर्णदेशोचितो धर्मः स्वधर्माननुपालनलक्षणः | तद्विषये यतोऽसौ लोकः प्रवृत्तः | (८- ९) प्. ११) न वेदव्यवहारोऽयं संश्राव्यः शूद्रजातिषु | तस्मात्सृजापरं वेदं पञ्चमं सार्ववर्णिकम् || १२ || नन्वेवं त्वधर्मबाहुल्यात् सुखमेषां कुत इत्याह - देवैः श्रीमद्विजयाविमुक्तादिरुद्रावतारैः तथा राजसतासहृदयजनकल्प्यमानसपर्याकैर्दानवादिभिराक्रान्ते जम्बूद्वीपे | देवादिभिश्चाक्रान्ते स्ववशीक्रियमाणे | नन्वेवं सत्सु विशुद्धव्यामिश्रधर्मसाधनेषु कथं धर्मः ? तेषां तत्राप्रवर्तमानत्वात् | सत्यम् | किन्तु लोकपालैः लोकपालांशसंविभागसमुत्पादितैः नरपतिभिः प्रतिष्ठिते स्वधर्मसाधनं प्रति नियोजिते लोके | दृश्यं श्रव्यं चेति | द्रष्टुं श्रोतु चार्हम् | न धर्मसाधनम् | शक्यं च | न तु दुर्भगपरुषप्रायम् | लोक इत्येकवचनेन सर्वसाधारणतयैव यद्योग्यं तच्च स्पृश्यादिरूपं न भवति | दृश्यश्रव्ययोस्तु बहुतरसाधारण्योपपत्तिः | असाधारणे चेर्ष्याक्रोधादय एव प्रवर्तन्ते | एतदुक्तं भवति - कृतयुगे सत्त्वप्रधाने स्वधर्ममात्रनिष्ठो लोको न सुखदुःखे प्रति हेयोपादेयधिया प्रयस्यते | त्रेतायान्तु राजसत्त्वाद्दुःखं जिघांसति | सुखं च प्रेप्सति | रजसश्चलत्वात् | तदाऽसौ शास्त्रितेषु राजनियन्त्रणया प्रवर्त्यते | तत्र च तादृगुपायो निरूप्यो येन स्वयमेषां भवति प्रवृत्तिः | तच्च नाट्यमेवेति | चकारेणेदमाह - तादृशा केनचिदुपायेन सम्बन्ध(त?)स्तत्कुरुते(स्तु कृतः) येन भिन्नेन्द्रियग्राह्ये अपि दृश्यश्रव्ये एकानुसन्धानविषयत्वं न विजहीत इति सामान्याभिनयकालप्राणत्वं प्रयोगस्य सूचितम् | दृश्यमिति हृद्यं श्रव्यमिति व्युत्पत्तिप्रदमिति प्रीतिव्युत्पत्तिदमित्यर्थ इति | अनेन त्वि(नन्वि)न्द्रादीनां क एतावता स्वार्थः ? आह | लोकपालप्रतिष्ठिते जम्बूद्वीपे गता ये लोकाः ते हि स्वधर्मावस्थिता इज्यादिना नाकमाप्याययन्ति | अत एवेच्छाम इति सर्वेषामैकमत्यमाह | अतोऽन्योन्योपकारवृत्त्या च दैवमानुषसर्गौ निरूपितौ विन्ध्यवासिप्रभृतिभिः | अन्ये तु स्वप्रयोजनमेव क्रीडा महेन्द्रादीनमित्याहुः | त्रेतायुगे प्रवृत्ते एवम्भूते च लोक इत्यनेनेदमुक्तं भवति - स्वर्गेऽपि हि तदा तदा मानुषगतराजसधर्माभिसम्बन्धचित्रितयागादियोगसरजसीकृतहृदयत्वाद्द् एवा अपि क्रीडनीयकमभिलेषुरिति | (१०-११) एवं शास्त्राधिकृतोऽपि जनः नाट्येन सुखं विनीयत इति प्रयोजनप्रयोजनमुक्त्वा प्रयोजनान्तरमप्याह - न वेदव्यवहार इत्यादिना | कृतयुगे सत्त्वोत्कर्षबलादेव सर्वः प्. १२) एवमस्त्विति तानुक्त्वा देवराजं विसृज्य च | सस्मार चतुरो वेदान्योगमास्थाय तत्त्ववित् || १३ || नेमे वेदा यतः श्राव्याः स्त्रीशूद्राद्यासु जातिषु | वेदमन्यत्ततः स्रक्ष्ये सर्वश्राव्यं तु पञ्चमम् || १४ || स्वधर्ममनुपालयति | अद्यत्वे तु राजसत्वात् शूद्रप्रकाराः करणादिजातीयाः सर्वेऽखर्वगर्वाक्रान्ता वर्णत्रयानुवृत्तिं न विदधते | शास्त्रं भवद्भ्य एवमादिशतीति च ते वचनमात्रेण नाद्रियन्ते | न च ते वेदशास्त्रोपदेशयोग्याः | अत एवमाह - सम्यगिह स्थाने | श्रुत्या भवतामेतदुपदिष्टमिति ना(न) श्राव्याः | सार्ववर्णिकमिति | अधिकृतानामनधिकृतानामपि सुकुमाराणां व्युत्पत्तिदायीत्यर्थः | सर्वे वर्णाः प्रयोजनं विनेयत्वेन यस्येत्यनेन पूर्वोक्तस्त्याधुनोक्तस्य च समस्तस्योपसंहारः | अन्ये तु पौनरुक्त्यं परिहर्तुमाहुः - सर्वेषां वर्णानां सरससुकुमारेण नयेन स्वकर्तव्यनिरूपणं यत्र काव्ये तस्मिन् भवं तदाश्रितम् | येन सर्वो जनः सरसकुमारानुरज्यदाशयः तदुपभोगनान्तरीयकतयैव कार्याकार्यज्ञानमप्युपयुङ्क्ते क्षीरमध्यावस्थितौषधोपयोगवत् | तेनाधिकृतानामनधिकृतानामपि सुकुमाराणां व्युत्पत्तिदायि नाट्यम् | अश्रुतशास्त्राणामपि संवादादविचलकार्याकार्यविवेकसिद्धिरिति | (१२) एवमस्त्विति तानिति | देवराजमिति | तानुक्त्वा ताअन्विसृज्य | देवराजं विसृज्येति प्राधान्यादुक्तम् | इन्द्रादीन् विसृज्येत्यर्थः | योगमिति | युगपत् सर्ववेदाभासकरम् | तत्त्वविदिति समस्तलोकवेदज्ञ इत्यर्थः | (१३) ततः किं चकारेत्याह श्लोकत्रयेण धर्म्यमित्यादिना | एवमिति (१-१६) धर्म्यमित्यादियुगलोक्तमर्थं सङ्कल्प्य | चतुर्वेदस्मरणेन हेतुना तत इति | चतुर्भ्यो नाट्यवेदं चक्रे | हेतौ शता | धर्म्यमिति | धर्मे साधूपदेशाय | एवमर्थेऽपि | अन्ये तु धर्मार्थाभ्यामनपेतं यशः प्रयोजनमस्येति | अत्र व्याख्यानद्वयेऽपरपुरुषार्थसङ्ग्रहः स्यात् | नाट्योत्पत्तिगर्भाधानकल्पे चास्मिन् सङ्कल्पे यत्त्यक्तं तत्त्यक्तमेव | यशसश्च धर्मफलत्वात् पृथगुपादानं किमर्थम् | सोपदेशमित्यादेश्च पौनरुक्त्यम् | तस्मादयमत्रार्थः - धर्मशब्देन चत्वारोऽपि पुरुषार्थाः | तेषु साधु साधकम् | ननु किं साक्षात् | नेत्याह | प्. १३) धर्म्यमर्थ्यं यशस्यं च सोपदेश्यं ससङ्ग्रहम् | भविष्यतश्च लोकस्य सर्वकर्मानुदर्शकम् || १४ || सर्वशास्त्रार्थसम्पन्नं सर्वशिल्पप्रवर्तकम् | नाट्याख्यं पञ्चमं वेदं सेतिहासं करोम्यहम् || १५ || सोपदेश्यं सहोपदिश्यमानैरुपायैः (पुरुषार्थचतुष्टयोपायैः दशरूपकैरुपेत) यद्वर्तते चतुर्वर्गोपायप्रदर्शकमित्यर्थः | ननु वेदादयोऽप्येवम् | नैतत् | सम्यग्ग्रहणं सङ्ग्रहः | यतः परं निर्विशङ्कप्रतीत्यर्थं प्रमाणान्तरं नाभ्यर्थ्यते | तच्च साक्षात्काररूपमेव | यदाहुः - सर्वा च प्रमा प्रत्यक्षपरा इति | तेन सहेति ससङ्ग्रहम् | एवमपि प्रत्यक्षेण सदाचारयज्ञादिदर्शनात्कोऽस्य भेदः | आह - सर्वकर्मानुदर्शकम् | सर्वेषां कर्माणां क्रियमाणानामनु पश्चादचिरेणैव कालेन दर्शकं पञ्चषादिभिरेव दिवसैः शुभाशुभकर्मतत्फलसम्बन्धसाक्षात्कारो यत्रेत्यर्थः | कस्येत्याह - लोकस्य यो यः कश्चिदस्मात्क्षणादूर्ध्वं भविष्यति लोकस्तस्योपदेश्यस्येत्यर्थः | अनुकार्याभिप्रायेणात्र भविष्यत इति व्याख्यातम् | (न) च शब्देन भूतवर्तमानग्रहणमित्यधरोत्तरीधूतम् | वृत्तराजर्षिवंशकीर्तनादेर्हि प्रधानतया स्वकण्ठेनाभिधानं युक्तम् | न तु भविष्यत इत्यास्तामेतत् | तस्मात् व्युत्पाद्याभिप्रायेणैव लोकस्येति व्याख्येयम् | एवमपि तत्रैव केन लोकः प्रवर्त्यत इत्याह - अर्थ्यम् | हृद्यतया सर्वजनानामपि नानाधिकारत्वेनाभिलषणीयमित्यर्थः | ननु प्रथममज्ञातपरमार्थे कथमभिलषणम् ? आह | यशस्यम् | सर्वत्र हृद्यतया प्रथितम् | न केवलं प्रधानपुरुषार्थोपायदर्शकं यावत्सर्वेषां शास्त्राणां कलाप्रधानानां येऽर्था गीतनृत्तवाद्यादयस्तैः सम्पन्नं युक्तम् | तथा सर्वाणि शिल्पानि चित्रपुस्तादीनि प्रवर्तयति सोपयोगत्वेनाक्षिपतीत्येवमेकेन यत्नेन समस्तवस्तुसिद्धिर्यतो भवति तन्नाट्यमित्युक्तं भवति | तच्च सेतिहासम् | इतिहासोपदेशकरूपं सप्रभेदम् | इतिरेवमर्थे प्रत्यक्षनिर्देशं प्. १४) एवं सङ्कल्प्य भगवान् सर्ववेदाननुस्मरन् | नाट्यवेदं ततश्चक्रे चतुर्वेदाङ्गसम्भवम् || १६ || जग्राह पाठ्यमृग्वेदात्सामभ्यो गीतमेव च | यजुर्वेदादभिनयान् रसानाथर्वणादपि || १७ || द्योतयति | हः इहशब्द आगमः | आसनमासः | एवंप्रकाराः प्रत्यक्षपरिदृश्यमाना आगमिकार्थाः कर्मफलसम्बन्धस्वभावा यत्रासते तेनेतिहासेन सहेतिपाठे मत्वर्थीयोऽकारः | इतिः ज्ञानम् | तस्य हासो हर्षपूर्वको विकासो यत इति केचित् | इतिहासश्च - तल्लक्षणमित्थं किलासनं यत्र रूपकभेदानां भण्यते | उपदेशशब्देन च दशरूपकं तदुपयोगवदेव (वद्देश) द्विहस्तादिलक्षणनाट्यवेदशास्त्रम् | तत्सहितस्यैव करणीयत्वेन सङ्कल्पः | अन्यथा बुद्ध्या कलितस्यापि नाट्यस्य कथमन्यत्र सङ्क्रमणम् | तेन च विना कथं प्रयोगः | पञ्चममिति | य एकोऽपि चतुर्वेदानतिशेत इत्यर्थः | अहमिति यस्य सर्वलोककृत्योद्वहनमेव परं कृत्यम् | एवं सङ्कल्प्येति | सङ्कल्पव्यापारं एवायं बुद्ध्या वेदाङ्गैकीकारलक्षणो ब्रह्मणो नाट्यवेदोत्पादनम् | ननु वेदस्मरणेन तत्र कथं हेतुता लब्ध | आह | चतुर्वेदाङ्गसम्भवमिति | चत्वारो वेदाः | अङ्गानां पाठ्यादीनां सम्भवो यस्य | सम्भवत्यस्मादिति सम्भवः | अत एव वेदचतुष्टयमपि यत्राङ्गानि प्रत्युपकरणीभूतमिति (स तथोक्तः) (१४- १६)| कुत्राङ्गे कस्य वेदस्योपयोग इति दर्शयति-जग्राह पाठयमृग्वेदादिति | इह पठ व्यक्तायां वाचीत्युक्तं व्यक्तत्वं विवक्षाविशिष्टस्वार्थार्पणक्षमत्वम् | तच्च काक्वध्यायवक्ष्यमाणस्वरालङ्कारादिसामग्रीयोजनेन भवतीति तयोपस्कृतं पाठ्यमुच्यते | तच्च प्राधान्यात्प्रथममुपात्तम् | तथा हि वक्ष्यति - वाचि यत्नस्तु कर्तव्यो नाट्यस्यैषा तनूः स्मृता | अङ्गनैपथ्यसत्त्वानि वाक्यार्थ व्यञ्जयन्ति हि || इति (१४-२) प्. १५) धर्मकर्मार्थसंयुक्तं सापदेशं ससंग्रहम् | रुचिभिः सर्वलोकस्य सर्वकर्मानुदर्शकम् || सर्वशास्त्रार्थसंपन्नं सर्वशिल्पसमन्वितम् | नाट्याख्यं पञ्चमं वेदमितिहासमचिन्तयत् || वेदोपवेदैः सम्बद्धो नाट्यवेदो महात्मना | एवं भगवता सृष्टो ब्रह्मणा सर्ववेदिना || १८ || सर्वलोकहितार्थं तु नाट्यवेदो महात्मना | उत्पाद्य नाट्यवेदं तु ब्रह्मोवाच सुरेश्वरम् | इतिहासो मया सृष्टः स सुरेषु नियुज्यताम् || १९ || अत एवाभिनयान्तर्भूतत्वेऽपि पृथगुपात्तम् | तदृग्वेदाद्गृहीतम् | तस्य त्रैस्वर्यप्रधानस्य स्तोत्रशब्द(शस्त्र)द्वारेण यागोपकारित्वात् | पाठ्यमपि च त्रैस्वर्योपेतम् | ऐकस्वर्ये काक्व(भाव)भावाभ्यां च स्वरस्यादौ (चैकस्वभावाच्च स्वरादौ) गीतरूपापत्तेरिति हि वक्ष्यामः | (ना. शा. १७) पाठ्यगतस्वरप्रसङ्गात् तदनन्तरं सामभ्यो गीतं जग्राहेत्युक्तम् | उपरञ्जकत्वेन हि पश्चात्तस्याभिधानं न्याययमिति केचित् | गीतं प्राणाः प्रयोगस्य इति वक्ष्यमाणत्वात् | तदायत्तत्वाट्सचर्वणायाः समुचितमस्यात्रैवाभिधानमित्यस्मदुपाध्यायाः | चकारेणैतत्तुल्यकक्ष्यतामाह | एवकारेण गीतमात्रं ततो गृहीतं गीतिषु सामाख्या (जैमिनि. २-१-३६) इति न्यायात् | तदाधारध्रुवापदयोजनमृग्वेदादेवेति दर्शयति | तत एव ध्रुवाध्याये वचनादत्रैव सङ्गृहीतम् (?) | घनावनद्धरूपिसामगानक्रियाप्राणभूतकालसाध्यात्मकतालसामान्य अं स्वीकृतमत्रैव प्रविष्टम् (?) | आध्वर्यवकर्मप्रधाने तु यजुर्वेदेऽङ्गकर्मणां प्रदक्षिणगमनादिक्रम (कम्?) एव प्रथमम् | पठिष्यति या ऋचः पाणिका (३२-२) इत्यादि | ततसुषिरात्मकं चाप्यातोद्यं स्वरप्राधान्यात् | आथर्वणवेदे तु शान्तिकमारणादिकर्मसु नटस्येव तस्यर्त्विजः प्राष्टुदवैषुण्णा (?) द्यनुभावानां प्रजाशत्रुप्रभृतिनाऽवधानग्रहणादिना लोहितोष्णीषादेर्नेपथ्यस्य तेषु तेषु च कर्मसु विशिष्टप्रयत्नपुरुषसम्पाद्यमनोवष्टम्भात्मनः सत्त्वस्य सम्भवात् | प्. १६) कुशला ये विदग्धाश्च प्रगल्भाश्च जितश्रमाः | तेष्वयं नाट्यसंज्ञो हि वेदः संक्राम्यतां त्वया || २० || तच्छ्रुत्वा वचनं शक्रो ब्रह्मणा यदुदाहृतम् | प्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम् || २१ || ग्रहणे धारणे ज्ञाने प्रयोगे चास्य सत्तम | अशक्ता भगवन् देवा अयोग्या नाट्यकर्मणि || २२ || ततोऽभिनयनामग्रहणम् | वाचिकस्त्वभिनयः पूर्वमेवोक्तः | प्राधान्यवि(न्यात् वि)भावानां धृतिप्रमोदादिव्यभिचारिणां च परमार्थसतां समाहरणं प्रधानमिति विभावादिसामग्रीरूपरसात्मकचर्वणासम्भव इति ततस्तद्ग्रहणमुक्तमिति न तटस्था एवैते | अत एव रस्यन्ते | तत्रैव च रस्यन्त इति हि वक्ष्यामः | तदेवं नाट्यादिरूपकोपक्रमं गीतातोद्यप्राणाभिनयवर्गपरिपुष्यद्रसचर्वणात्मकं परप्रीतिमयमेव नाट्यम् | ततस्तद्व्युत्पत्तिरिति नाट्यमेव वेद इति क्रमेण प्रदर्शितम् | तेनाक्रम्य योजनात्मकनियोगात्मकशासनप्राणशास्त्रवैलक्षण्येन स्वयमुपारूढज्ञानाभिधानविदः प्राणवेदरूपता नाट्यस्यैवेति सिद्धम् | एतदुपसंहरति - वेदोपवेदैरित्यादि | वेदा व्याख्याताः | वेदार्थानामुपकारकोऽर्थो वेद्यते येन स उपवेदात्मा | तद्यथा ऋग्वेदस्य मन्त्रार्थवादादिव्याख्यानोपनयनप्रजारक्षणप्रदर्ऽऽअक आयुर्वेदः | यतो महात्मा ततः सर्ववेदी | सर्ववित्त्वाच्च तथाविधसृष्टिशक्तः | एवमित्युपसंहरन् प्रश्नत्रयं कृतोत्तरमिति दर्शयति | प्रयोजनस्याधिकारिणामङ्गानामङ्गाङ्गिभावस्य च निर्णीतत्वात् (१७-१८) | एवं पितामहसदृशेन सर्वदा नाट्यवेदशरीररूपकनिर्माणे कविना भाव्यमिति प्रदर्श्य तत्र विभवयुक्तो विधेयनटजनश्च राजा प्रयोजयिता | भरतमुनिसदृशश्च सम्पन्नपरिवारः सर्ववित्प्रयोक्ता | प्रयोजकमहोत्सवप्रायः प्रयोगकालः | क्रीडाप्रस्तावव्याजोपदेशकाः विगतरागद्वेषा मध्यस्थवृत्तयः निर्मलहृदयमुकुरे सति तन्मयीभवनयोग्यतोपेताः रसास्वादननिपुणाः | सामाजिका इत्येतत् पुराकल्पमुखेन दर्शयत्यध्यापन - (ध्ययान्त?) ग्रन्थेन - उत्पाद्य नाट्यवेदं त्वित्यादिना | राजैव प्रयोजयितुं शक्त इति तु शब्दः | प्. १७) य इमे वेदगुह्यज्ञा ऋषयः संशितव्रताः | एतेऽस्य ग्रहणे शक्ताः प्रयोगे धारणे तथा || २३ || श्रुत्वा तु शक्रवचनं मामाहाम्बुजसम्भवः | त्वं पुत्रशतसंयुक्तः प्रयोक्ताऽस्य भवानघ || २४ || आज्ञापितो विदित्वाऽहं नाट्यवेदं पितामहात् | पुत्रानध्यापयामास प्रयोगं चापि तत्त्वतः || २५ || इतिहासो दशरूपकम् | कुशलाः | ग्रहणधारणयोग्याः | विदग्धाः | ऊहापोहसमर्थाः | प्रगल्भाः | परिषद्यभीरवः | जितश्रमाः | योग्याः समुचितदेहा अखिन्नाकायाश्च | ग्रहणे इति | (पूर्वं) गुरुमुखादवगमः | धारणं तस्याविस्मरणम् | ज्ञानमूहापोहविचारः | प्रयोगः पर्षदि प्रकटीकरणम् | चकारेण च तदुपयोगिगुणनिका व्यायामाभ्यासादिः | देवाः सुखभूयिष्ठत्वात् | स्वाम्यादेशात्कथमपि यदि प्रवर्तेरन् तत्पूर्णपर्यवसानत्वं दुर्लभमेतैरित्यर्थः || (१९-२२) तर्हि किं क्रियतामित्याह - य इम इति | वेदज्ञा इति ग्रहणधारणसामर्थ्यम् | गुह्यज्ञत्वेनाध्यात्मोपनिषदर्थवेदनधारणकौशलेन | रसाद्युपयोगिसात्त्विकसम्पादितसामर्थ्यम् | यद्वक्ष्यति - सत्त्वं मनःप्रयत्ननिर्वर्त्यम् इत्यादि | तेन - न्यस्येत्प्राणं भ्रुवोर्मध्ये स्तम्भो बाष्पश्च चाक्षुषः | स्वेदो हृदि गुदे कम्पः पुलको मूर्ध्नि वक्त्रतः || वैवर्ण्यं स्वरितं कण्ठे प्रलयो नासिकान्तरे || इत्यादियोग्यत्वं तेषाम् | अत एवानुषङ्गतो नटस्यापि परमपुरुषार्थलाभो धारणादिवशात् | ऋषय इति | दर्शा(र्शना)दृषिरिति | ऊहापोहयोग्याः | संशितव्रता इति | प्. १८) शाण्डिल्यं चैव वात्स्यं च कोहलं दत्तिलं तथा | जटिलाम्बष्टकौ चैव तण्डुमग्निशिखं तथा || २६ || सैन्धवं सपुलोमानं शाड्वलिं विपुलं तथा | कपिञ्जलिं बादिरं च यमधूम्रायणौ तथा || २७ || जम्बुध्वजं काकजङ्घं स्वर्णकं तापसं तथा | कैदारिं शालिकर्णं च दीर्घगात्रं च शालिकम् || २८ || कौत्सं ताण्डायनिं चैव पिङ्गलं चित्रकं तथा | बन्धुलं भल्लकं चैव मुष्ठिकं सैन्धवायनम् || २९ || अभ्यासे शक्ताः | तथेति | ग्रहणादीनामार्थक्रमः प्रदर्शनीय इत्यर्थः | इम इति प्रत्यक्षेणैव दृष्टमेषां तदिति दर्शयति | (२३) श्रुत्वा त्विति | मां त्विति तु शब्देन ऋषिभ्योऽप्यन्येभ्योऽस्य विशेषमाह | ब्रह्मैव मामाहेत्यादरातिशयः | पुत्रशतयोगाद्य(द)न्यप्रवर्तितबहुतरपरिवारयोगः | अनघेत्यध्येषणया सोत्साहपरिषदा कृतसम्मानस्य सम्यक्प्रयोगनिष्पत्तिरिति सूचितम् | आज्ञापित इत्यनुल्लङ्घनीयवचनताऽस्योक्ता | पितामहादित्यनाचार्योषितत्वाशङ्कां व्युदस्यति | प्रयुज्यत इति प्रयोगो दशरूपकम् | प्रयुज्यते निर्वर्त्यतेऽनेनेति प्रयोगः | नाट्यलक्षणशास्त्रम् | तदहं पुत्रान्पाठयाञ्चकार | प्रयुक्तिश्च प्रयोगः | तमध्यवसायपर्यन्तमहं पुत्रानध्यापयामास | तथाऽहं चकार यथा प्रयुक्तिं ते पुत्राः सम्यक्प्राप्तवन्त इत्यर्थः | चापिशब्दाभ्यां सूचिते द्वे द्वे आवृत्ती | मुनिसमुचितकर्तव्यान्तरव्यासङ्गोऽपि लिटा सूचितः | तत्त्वत इति नाट्याचार्यस्य सम्यगाप्तत्वं गम्यते | (२४-२५) प्. १९) तैतिलं भार्गवं चैव शुचिं बहुलमेव च | अबुधं बुधसेनं च पाण्डुकर्णं सुकेरलम् || ३० || ऋजुकं मण्डकं चैव शम्बरं वञ्जुलं तथा | मागधं सरलं चैव कर्तारं चोग्रमेव च || ३१ || तुषारं पार्षदं चैव गौतमं बादरायणम् | विशालं शबलं चैव सुनाभं मेषमेव च || ३२ || कालियं भ्रमरं चैव तथा पीठमुखं मुनिम् | नखकुट्टाश्मकुट्टौ च षट्पदं सोत्तमं तथा || ३३ || पादुकोपानहौ चैव श्रुतिं चाषस्वरं तथा | अग्निकुण्डाज्यकुण्डौ च वितण्ड्यं ताण्ड्यमेव च || ३४ || कर्तराक्षं हिरण्याक्षं कुशलं दुस्सहं तथा | लाजं भयानकं चैव बीभत्सं सविचक्षणम् || ३५ || पुत्रान्नामभिर्दर्शयति - शाण्डिल्यमित्यादिना | अत्र प्रसिद्धत्वं नटानामादरकारणमिति तावन्मुख्यं नामग्रहणे प्रयोजनम् | आनुषङ्गिकं त्वन्यदपि | तद्यथा विदूषक - तापसादिनाम्नां तलाकमीनां (तथाकर्मिणां?) निर्वचनलब्धार्थयुक्त्या भूमिकाविशेषोपयोग इति | अन्यस्त्वाह - शतमेवेह पठितम् | कञ्चना(तच्चा)भिनेयानां स्थाप्युत्पादन - रसनवकतद्गतव्यभिचारित्रयस्त्रिंशत्सात्त्विकाष्टकानुरूपाणां पञ्चाशतोऽर्थानां न्याययान्याययभेदेन नायकप्रतिनायकविषयतया प्राधान्याभिप्रायेणेति | तत्र तु कैशिक्यपि प्रयुक्ता स्यात् इत्युत्तरग्रन्थावकाशाभाव इत्यलमसहृदयाभिनिवेशव्याख्याभिः | (२६-३९) प्. २०) पुण्ड्राक्षं पुण्ड्रनासं चाप्यसितं सितमेव च | विद्युज्जिह्वं महाजिह्वं शालङ्कायनमेव च || ३६ || श्यामायनं माठरं च लोहिताङ्गं तथैव च | संवर्तकं पञ्चशिखं त्रिशिखं शिखमेव च || ३७ || (शङ्खवर्णमुखं षण्डं शङ्कुकर्णमथापि च | शक्रनेमिं गभस्तिं चाप्यंशुमालिं शठं तथा || ३८ ||) यस्मिन्निति | उत्तमप्रकृतिविचेष्टितादौ | यथेति | कश्चित् तदीयहृदयहर्षप्रदर्शनप्रकारेण योग्योऽन्यस्तदीयशोकप्रकटीकरणेनेति | (४०) अथ सकलप्रयोगप्राणभूतकैशिक्युपयुज्यमानोपकरणान्तरसंहरणायोपक्र मं दर्शयति भारतीमित्यादि | वृत्तिमिति | धर्मादिपुरुषार्थचतुष्टये साध्ये वागङ्गसत्त्वचेष्टासामान्यम् | तच्च संक्षिप्तेनावान्तरभेदेन चतुर्धा | यद्यत्किल कर्मारभ्यते तत्र वाङ्मनः - कायव्यापारस्तावदस्ति | तत्र कस्यचिल्लालित्यवैचित्र्यक्रमस्यानुप्रवेशः | यत उत्तमप्रकृतीनां सौष्ठवमय एव सर्वो व्यापारः | तदेव तद्वृत्तिचतुष्टयम् | भारती वाग्वृत्तिः | मनोव्यापाररूपा सात्त्विकी सात्त्विती मनोवृत्तिः | सदिति प्रख्यारूपं संवेदनम् | तद्यत्रास्ति तत्सत्त्वं मनः | तस्येयमिति | इयर्ति इत्यरा भटाः सोत्साहा अनलसाः | तेषामियमारभटी कायवृत्तिः | केशाः किञ्चिदप्यर्थक्रियाजातमकुर्वन्तो देहशोभोपयोगिनः | तद्वत्सौन्दर्योपयोगी व्यापारः कैशिकीवृत्तिरिति तावन्मुख्यः क्रमः | अन्यस्य तु यस्तद्व्यपदेशः स तत्प्रधानत्वादनेकरसप्रधानं पानकरीत्या कैशिकीत्यादि मधुरव्यपदेशवत् | एतच्च प्रागे वितनिष्यामः | प्. २१) विद्युतं शातजङ्घं च रौद्रं वीरमथापि च | पितामहाज्ञयाऽस्माभिर्लोकस्य च गुणेप्सया || ३९ || प्रयोजितं पुत्रशतं यथाभूमिविभागशः | यो यस्मिन्कर्मणि यथा योग्यस्तस्मिन् स योजितः || ४० || भारतीं सात्त्वतीं चैव वृत्तिमारभटीं तथा | समाश्रितः प्रयोगस्तु प्रयुक्तो वै मया द्विजाः || ४१ || परिगृह्य प्रणम्याथ ब्रह्मा विज्ञापितो मया | अथाह मां सुरगुरुः कैशिकीमपि योजय || ४२ || एवं यत्किञ्चिल्लालित्यं तत्सर्वं कैशिकीविजृम्भितम् | सा च तैः (पुरुषैः) प्रयोक्तुमशक्येति तुशब्देनोक्तम् | तेन दशरूपं सर्वं वैचित्र्यशून्यं तान्प्रति योजितम् | अत एव तादृशे प्रयोगेऽवज्ञां वै शब्देन द्योतयति | प्रयुक्त इति | तेषामभ्यासभूमौ योजित इत्यर्थः | (४१) क्षममिति | प्रयोगसमर्थं सादरविचित्रं प्रयुङ्क्ते | अत एवाह - द्रव्यम् | सुन्दरम् | यतः सौन्दर्यप्राणैव सा कैशिकी | एवमिति | बुद्धिकौशलं ज्ञातुं मदीयं तेनाहमेतत्पृष्टः | चकारेण प्रत्युत्पन्नप्रतिभानत्वं दर्शयति | अनेन झटिति कविहृदयग्रहणयोग्यत्वं नाट्याचार्यगुण इति सूचयति | (४२-४३) न चात्यन्तापरिदृष्टे वस्तुनि उपकरणमुन्नेतुं शक्यम् | ब्रह्मणा तूपदेशसमये वचनमात्रेणोक्तमेतन्मध्ये हृदयहारि वैचित्र्यं योजनीयमिति | अनेनाभिप्रायेण कैशिकीसाक्षात्करणं वर्णयति नृताङ्गहारेत्यादिना युगलकेन | नर्तनं नृत्तम् | गात्राणामङ्गोपाङ्गानां विलासेन क्षेपः | न तु केनचित्कर्तव्यांशेन | लोकोऽप्येवंविधे विषये एवमेवाह - नृत्यतीव गच्छति इत्यादि | तत्र येऽङ्गहारा अङ्गानां हरणानीति अत्रुटितरूपतया समुचितस्थानप्राप्तिः तैः सम्पन्ना | शङ्करस्यैव भगवतः परिपूर्णानन्दनिर्भरीभूतदेहोच्चलदान्तरनिर्वारसुन्दराकारस्य अत एव नृत्यतः इतिकर्तव्यान्तरवैकल्यादानन्दनृत्तमात्रस्थितस्य | प्रयोज्यत्वेन मया दृष्टा | प्. २२) यच्च तस्याः क्षमं द्रव्यं तद्ब्रूहि द्विजसत्तम | एवं तेनास्म्यभिहितः प्रत्युक्तश्च मया प्रभुः || ४३ || दीयतां भगवन्द्रव्यं कैशिक्याः सम्प्रयोजकम् | नृताङ्गहारसम्पन्ना रसभावक्रियात्मिका || ४४ || दृष्टा मया भगवतो नीलकण्ठस्य नृत्यतः | कैशिकी श्लक्ष्णनैपथ्या शृङ्गाररससम्भवा || ४५ || अशक्या पुरुषैः सा तु प्रयोक्तुं स्त्रीजनादृते | ततोऽसृजन्महातेजा मनसाऽप्सरसो विभुः || ४६ || ननु सा नाट्योपयोगिनी कथम् | आह | सैव यदि श्लक्ष्णेन श्लिष्यतोचितेन नेपथ्येन सहिता भवति | यद्वक्ष्यति - शृङ्गार उज्ज्वलवेषात्मक (ना. शा. ६- ५०) इति तन्नाट्योक्तशृङ्गाररसः सम्भवति | नान्यथा | नेपथ्यग्रहणं सुकुमारस्याङ्गिकादेरप्युपलक्षणम् | तेन शृङ्गाराभिव्यक्तिहेतौ सुकुमारे चतुर्विधेऽप्यभिनये योजिते मधुरमन्थरवलनावर्तनाभ्रूक्षेपकटाक्षादिना विना शृङ्गाररसास्वादस्य नामापि न भवति | कमत्रैव सोपयोगेत्याह - रसभावक्रियात्मिकेति | रसानां भावो भावना कविनटसामाजिकहृदयव्याप्तिः | तस्या या क्रिया इतिकर्तव्यता सैवात्मा स्वभावो यस्याः | एतदुक्तं भवति - रौद्रादिरसाभिव्यक्तावपि कर्तव्यायां योऽभिनय उपादीयते सोऽप्यनुप्रासवलनावर्तनाद्यात्मकसुन्दरवैचित्र्यस्यामिश्रणया दुःश्लिष्टोऽश्लिष्ट एव वा न रसाभिव्यक्तिहेतुर्भवतीति सर्वत्रैव कैशिकी प्राणाः | यद्वक्ष्यति - अस्य शाखा च नृत्तं च वस्तून्यभिनयस्य (ना. शा. ८-१५) इति | शृङ्गाररसस्य तु नामग्रहणमपि न तया विना शक्यम् | स्त्रीजनादृत इति | अयं भावः - यावन्निजहृदयरसविलसद्विकस्वरनिर्वारचमत्कारपवित्रता न जाता भगवत इव तावच्छिक्षाशतैरपि वैचित्र्यमनाहार्यम् | मुनीनां च निसर्गविषयविमुखचित्तवृत्तीनां को निर्वृतिचमत्कारः | योऽपि वा ससमाधिजः सोऽपि देहपर्यन्तता न भजति | प्रत्युत ततः पलायमानाः (नः) | अतः स्त्रीणां तादृगस्ति वैचित्र्यम् | तत्सम्पर्कसम्भवदार्द्रभावास्तु कदाचिच्छक्नुयुरपि | प्. २३) नाट्यालङ्कारचतुराः प्रादान्मह्यं प्रयोगतः | मञ्जुकेशीं सुकेशीं च मिश्रकेशीं सुलोचनाम् || ४७ || सौदामिनीं देवदत्तां देवसेनां मनोरमाम् | सुदतीं सुन्दरीं चैव विदग्धां विपुलां तथा || ४८ || ये त्वाहुः - न भगवतः कैशिकीप्रयोगसामर्थ्यम् | तेन दृष्टोमयेति पाठः उमया सह भगवतो नृत्यतो भगवन्तमप्यनादृत्य भगवत्या प्रयुज्यमाना मया दृष्टा इति-त उक्तनीत्या पराकृताः | तथा - विचित्रैरङ्गहारैस्तु देवो लीलासमन्वितैः | बबन्ध यः शिखापाशं कैशिकी तत्र निर्मिता || (ना. शा. २०-१३) इति भगवतो विष्णोः कैशिकीनिर्माणमनुचितं स्यादित्यलं बहुना | जनशब्देन रागिताशङ्कां परिहरति | ततोऽसृजदिति | मनसेति | यथारुचि विनिर्मिता इत्यर्थः | (४४-४६) | नाट्यस्य योऽलङ्कारो वैचित्र्यहेतुः कैशिकी (लीलाविलासादिर्वा |) तत्र चतुराः | अन्ये तु नाट्यालङ्काराः सामान्याभिनये (अ-२२) वक्ष्यमाणाः स्वभावजा लीला विलास इत्याद्या दश शोभा कान्तिः इत्याद्याश्च सप्त(प्ता)यत्नजा इति | अनेन मुनिकन्यानामत्रायोग्यत्वं तावदुक्तम् | तासां नामग्रहणे पूर्ववत्प्रयोजनं निरूप्यम् | मे ददाविति | नाट्याचार्यपरवशत्वमुपकरणसम्भारस्य दर्शितम् | ताश्च मया यथोचितं शिक्षादानेन प्रतिगृहीता इति सूचयन् कैशिकीमप्यहं योजितवानिति दर्शयति | एवं वृत्तिचतुष्टयसम्पूर्णं नाट्यं गुणनिकायामभ्यस्तमिति प्रदर्श्य गीतातोद्याभ्यामुपरञ्जकाभ्यां योगं दर्शयति - स्वातिरित्यादि | स्वातिः ऋषिविशेषः | येन जलधरसमयनिपतत्सलिलधारावैचित्र्याभिहन्यमानपुष्करदलविलसितरचितवि चित्रवर्णानुहरणयोजनया यथास्वं वृत्तिनियमेन पुष्करवाद्यनिर्माणं कृतमित्यर्थः | सह शिष्यैरिति | त्रिपुष्करस्य वाद्यस्यापूरकपणवमृदङ्गझल्लर्याद्युपयोगेन पक्षातोद्यपरिग्रहः उक्तः | भाण्डस्यात्र पूर्वमुपादानं वृत्ति(त्ते)र्येन तस्यैव परिक्रमणादौ सति सोपयोगात् | कैशिकी चात्र प्. २४) सुमालां सन्ततिं चैव सुनन्दां सुमुखीं तथा | मागधीमर्जुनीं चैव सरलां केरलां धृतिम् || ४९ || नन्दां सपुष्कलां चैव कलमां चैव मे ददौ | स्वातिर्भाण्डनियुक्तस्तु सह शिष्यैः स्वयम्भुवा || ५० || नारदाद्याश्च गन्धर्वा गानयोगे नियोजिताः | एवं नाट्यमिदं सम्यग्बुद्ध्वा सर्वैः सुतैः सह || ५१ || स्वातिनारदसंयुक्तो वेदवेदाङ्गकारणम् | उपस्थितोऽहं ब्रह्माणं प्रयोगार्थं कृताञ्जलिः || ५२ || नाट्यस्य ग्रहणं प्राप्तं ब्रूहि किं करवाण्यहम् | एतत्तु वचनं श्रुत्वा प्रत्युवाच पितामहः || ५३ || मध्ये नियोजितेत्युक्तम् | न (तेन) तत्प्रधानमेतत् | गानयोग इति | गानशब्देन ततसुषिरपरिग्रहः | गानशब्देन गान्धर्वस्यात्रानुपयोगमाह | नियुक्तो इत्यनेन वादकगायकादीनां नाट्याचार्यायत्ततां दर्शयति | नृत्तगीतातोद्याभिनयानां साम्यसिद्ध्यर्थमेकीभावेन मेलनं कृत्वा प्रयोगः कार्य इति दर्शयति श्लोकद्वयेन - एवं नाट्यमित्यादिना | एवं मेलनिकायां नाट्यमिदम् इत्येकबुद्धिग्राह्यं सम्मिलितं सम्यक्सम्पन्नमिति बुद्ध्वा ज्ञात्वा | पुत्रैः स्वातिनारदाभ्यां च सह ब्रह्माणमुपस्थितः उपनिमन्त्रणार्थं ब्रह्मणोऽग्रे स्थित इत्यर्थः | (४७-५२) उपनिमन्त्रणं दर्शयति - नाट्यस्येति | ग्रहणमिति | गृहीतं शिक्षितं तावन्नाट्यमित्यर्थः | ग्रहणं तदवलोकनं तत्प्राप्तं प्रेक्षणयोग्यं जातमित्यर्थः | एतत्त्विति | तुशब्द एवकारार्थे | श्रुत्वैव | अत एव प्रत्युपस्थितः अयत्नादेवाभिमुख्येनोपस्थितो दैवसङ्घटित इत्यर्थः | ध्वजस्येन्द्रार्थस्य महनं पूजनं यत्र स ध्वजमहः | ध्वजमहस्य विशेषणद्वारेण सम्भवं दर्शयति निहतासुरदानव इत्यादिना | तत्र प्रयोगे क्रमं दर्शयति - पूर्वं कृता मया नान्दीति | नान्द्याख्यं मुख्यं मङ्गलं प्. २५) महानयं प्रयोगस्य समयः प्रत्युपस्थितः | अयं ध्वजमहः श्रीमान् महेन्द्रस्य प्रवर्तते || ५४ || अत्रेदानीमयं वेदो नाट्यसंज्ञः प्रयुज्यताम् | ततस्तस्मिन्ध्वजमहे निहतासुरदानवे || ५५ || प्रहृष्टामरसंकीर्णे महेन्द्रविजयोत्सवे | पूर्वं कृता मया नान्दी ह्याशीर्वचनसंयुता || ५६ || सकलपूर्वरङ्गाङ्गोपलक्षणमिति केचित् | पूर्वरङ्गाङ्गानां मध्यान्नान्दी केवलापि प्रयोज्येत्येवंपरमेतदित्यन्ये | अस्मदुपाध्यायास्तु - यावद्दैत्यैस्तत्र विघ्नाद्याचरण न कृतं तावत्पूर्वरङ्गस्य विधिपूर्वकस्य कोऽवकाशः | स हि विघ्नरक्षाकरणेन मण्डपभागनिवेशितदेवतापरितोषहेतुः प्राधान्येन | नान्तरीयकतया च दैत्यपरितोषकारणम् | विघ्नास्तु यदा जातास्ततः प्रभृति पूर्वरङ्गः | तथा चतुर्थेऽध्याये वक्ष्यते - (ना. शा. ४-१०) पूर्वरङ्गे कृते मया भगवते शिवभट्टारकाय दर्शित इति - यथा तथा तु यः कुतपविन्यासा - दि न(दिः स न) पूर्वरङ्गशब्दवाच्यः | तस्मादिह नान्दीमात्रस्य प्रयोगः | किमर्थाऽसावित्याह - वेदनिर्मिता | तत्राशिवमाशास्ते इति हि श्रुतिः सर्वकर्मस्वाशीःपूर्वकत्वमाह | यत्ततो नान्दीप्रयोगः | न तु पूर्वरङ्गाङ्गत्वेन | (५३-५६) अष्टौ यान्यङ्गभूतानि पदानि वाक्यं महावाक्यं वा | तानि सुप्तिङन्तान्यवान्तरवाक्यानि वेत्युभयथा | अत एव विचित्रेत्युक्तम् | तेन - जितमुडुपतिना नमः सुरेभ्यो द्विजवृषभा निरुपद्रवा भवन्तु | अवतु च पृथिवीं समुद्धसस्यां प्रतिपच्चन्द्रवपुर्नरेन्द्रचन्द्रः || (रत्ना. १-४) इत्येषाऽपि भारतीयत्वेन प्रसिद्धा कोहलेन प्रदर्शिता नान्द्युपपन्ना भवति | अत्र तु पक्षे - नान्दीपदान्तरेष्वेषु ह्येवमस्त्विति नित्यशः | वदेतां सम्यगुक्ताभिर्वाग्भिस्तौ पारिपार्श्विकौ || (ना. शा. ५-११४) इति श्लोकेऽन्तरशब्दोऽवान्तरवाक्यविच्छेदी द्रष्टव्यः | प्. २६) अष्टाङ्गपदसंयुक्ता विचित्रा वेदनिर्मिता | तदन्तेऽनुकृतिर्बद्धा यथा दैत्याः सुरैर्जिताः || ५७ || सम्फेटविद्रवकृता च्छेद्यभेद्याहवात्मिका | ततो ब्रह्मादयो देवाः प्रयोगपरितोषिताः || ५८ || प्रददुर्मत्सुतेभ्यस्तु सर्वोपकरणानि वै | प्रीतस्तु प्रथमं शक्रो दत्तवान्स्वं ध्वजं शुभम् || ५९ || विवेचकास्त्वाहुः - अङ्गग्रहणादत्रावान्तरवाक्यान्येव तावतोपात्तानि | तत्र चाष्टद्वादशसङ्ख्या चतुरस्रत्र्यश्रतालानुसारी पूर्वरङ्गद्वयाभिप्रायेण | तत्र नान्दीं पदैर्द्वादशभिरष्टभिर्वाप्यलङ्कृताम् || (ना. शा. ५-१०९) इत्यत्रापिशब्दाच्चतुष्पदत्वं षोडशपदत्वं चतुरश्रगतं लभ्यते | त्र्यशगतं च त्रिपदत्वं षट्पदत्वं चेत्येवमल्पमपि तद्भेदेन तिस्रस्तिस्रो नान्द्यः | ततः परमपि भूयस्त्वात् | तेन जितमुडुपतिनेति चतुष्पदेयम् | षोडशपदा तु जयति भुवनकारणम् इत्यादि | तदन्त इति | नान्द्यन्ते परिसमाप्तौ | अनुकृतिरिति नाट्यम् | तत्र च बद्धेति गुणनिका योजिता | न तु प्रयोग इत्येतच्चासत् | तत्पूर्वोत्तरव्याघातात् | पूर्वं ह्युक्तम् - एवं नाट्यमिदमित्यादि नान्दी कृतेत्यन्तम् | वक्ष्यते च ब्रह्मादयः प्रयोगपरितोषिता इति | तस्माद्वद्धेति प्रस्ताविता | न तु निष्पादिता | प्रस्तावना तावत्प्रयुक्तेत्यर्थः | अन्ये त्वनुकृतिरिति नाट्यानुकाररूपा प्रस्तावनेत्याहुः | कृता तदन्तेऽनुकृतिः इति च पठन्ति | एतदुपजीवनेनैव चिरन्तनाः कवयो नान्द्यन्ते (ततः प्रविशति) सूत्रधारः इति पुस्तके लिखन्ति स्म | किं प्रस्तावितमित्याह - यथा दैत्या इति | डिमसमवकारेहामृगादीनामन्यतमः प्रयोगः प्रास्तावीत्यर्थः | यद्यपिभरतपुत्रैर्दशरूपकमभ्यस्तं तथापि न युगपत्सर्वः प्रयोक्तुं पार्यत इत्येवमुक्तम् | तेन यत्केचिदचूचुदन् - समवकारे कः कैशिकीयोजनावसर इति पूर्वग्रन्थोऽसङ्गत इति तन्निरवकाशमेव | समवकारादावपि च सौन्दर्यात्मकं वैचित्र्यं कैशिकीविजृम्भ एवेत्युक्तम् | (५७) प्. २७) ब्रह्मा कुटिलकं चैव भृङ्गारं वरुणः शुभम् | सूर्यश्छत्रं शिवस्सिद्धिं वायुर्व्यजनमेव च || ६० || विष्णुः सिंहासनं चैव कुबेरो मकुटं तथा | श्राव्यत्वं प्रेक्षणीयस्य ददौ देवी सरस्वती || ६१ || शेषा ये देवगन्धर्वा यक्षराक्षसपन्नगाः | तस्मिन्सदप्स्यभिप्रेतान्नानाजातिगुणाश्रयान् || ६२ || अंशांशैर्भाषितं भावान् रसान् रूपं बलं तथा | दत्तवन्तः प्रहृष्टास्ते मत्सुतेभ्यो दिवौकसः || ६३ || रोषग्रथितवाक्यं तु सम्फेटः | शङ्काभयत्रासकृतो विद्रवः | छेदमर्हतीति च्छेद्यं शस्त्राहवः | भेदमर्हतीति भेद्यं मल्लयुद्धात्मकं नियुद्धम् | तत इति | प्रभुपरितोषाय प्रभुचरितं कदाचिन्नाट्ये वर्णनीयमिति यथा दैत्याः सुरैर्जिता इत्येतस्माल्लभ्यत इति केचिदाहुः | तदसत् | दशरूपकलक्षणयुक्तिविरोधात् | तत्र हि किञ्चित्प्रसिद्धचरितं किञ्चिदुत्पाद्यचरितमिति वक्ष्यते | न च वर्तमानचरितानुकारो युक्तः | विनेयानां तत्र रागद्वेषमध्यस्थतादिना तन्मयीभावाभावे प्रीतेर्भावेन व्युत्पत्तेरप्यभावात् | वर्तमानचरिते य च धर्मादिकर्मफलसम्बन्धस्य प्रत्यक्षत्वे प्रयोगवैयर्थ्यम् | अप्रत्यक्षत्वे भविष्यति प्रमाणाभावात् इति न्यायेन व्युत्पत्तेरसम्भवान्नानुकारः | एतच्च दशरूपकाध्याये वितनिष्याम इत्यास्तां तावत् | देवानां त्वद्य प्रसिद्धवर्णनीयासम्भवात्पूर्वकल्पमन्वन्तरादिगतदेवासुरचरितकीर्तन म् | अनादित्वात्संसारस्य श्रुतिस्मृत्यनुमतदेवासुरकीर्तनवदिति | तत्र वर्तनो (वर्तमानो) - पवर्णनं तज्जातीयानाम् | अथ चारित्रभ्रमविप्रलब्धास्त्वसुराश्चुक्षुभिरे इति वक्ष्यामः | न च स्वचरितव्यावर्णनाद्देवाअनां परितोष इह | यत आह - प्रयोगपरितोषिता इति | ध्वजमिति | यस्य विघ्नशान्त्यै पूजार्थमुपयोगो भावी | (५८-५९) कुटिलकमिति | वक्रदण्डको विदूषकोपयोगी | ब्रह्मायुधात्मा दण्डः | अपकामत्वेन प्. २८) एवं प्रयोगे प्रारब्धे दैत्यदानवनाशने | अभवन्क्षुभिताः सर्वे दैत्या ये तत्र सङ्गताः || ६४ || विरूपाक्षपुरोगांश्च विघ्नान्प्रोत्साह्य तेऽब्रुवन् | न क्षमिष्यामहे नाट्यमेतदागम्यतामिति || ६५ || ततस्तैरसुरैः सार्धं विघ्ना मायामुपाश्रिताः | वाचश्चेष्टां स्मृतिं चैव स्तम्भयन्ति स्म नृत्यताम् || ६६ || तथा विध्वंसनं दृष्ट्वा सूत्रधारस्य देवराट् | कस्मात्प्रयोगवैषम्यमित्युक्त्वा ध्यानमाविशत् || ६७ || भीषणत्वाकृत्यापीत्यर्थः | भृङ्गारः पारिपार्श्विकोपयोगी | छत्रमत्र वितानः जलदानां सूर्योद्भवत्वात् तत्प्रतिमः | यदाहुः - ऋतवे वर्षान्ते महतो मेघसम्प्रवानिति | (मेघसंप्लवादिति (?) ) | भगवदायत्ता दवी मानुषी च सिद्धिरिति मध्ये तदुपादानं सर्वव्यापकत्वं दैव्याः सिद्धेः प्रतिपादयितुम् | व्यजनं घर्मापनुत्तये | सिंहासनादि राजभूमिकायामुपयोगि | यक्षादयो ये तत्त्वज्ञा नाट्यस्य | भाषितमिति | तत्तद्भूमिकोपयोगिवाचिके शिक्षा | भावानिति | विभावादिषु | तथा हि रक्तमांसादीनि भयजुगुप्साविभावरूपाणि यक्षरक्षसां हर्षोत्साहविभावतां यान्तीति तदुपदेशादेव तज्ज्ञेयम् | रसानिति | स्वोचितस्थायिभावसम्बध्यमानतत्तद्रसोपयोगिनोऽनुभावव्यभिचारिवर्गस्य शिक्षा दर्शिता | रूपमिति मुखरागस्य | बलमित्याङ्किकस्य | प्रतिभूमिकं परितुष्टेन | अन्ततोऽत्र शिष्टा(क्षा)पि काचिद्देया | सामाजिकेभ्यश्च धनविज्ञानमित्याहरणीयातोद्या (द्याद्या) जिहीर्षता च परिषत्परितोषाय यतितव्यमित्येतदनेन दर्शितम् | (६०-६३) अथ विघ्नोपशमनाय जर्जरपूजा कार्येति दर्शयितुमितिहासेनोपक्रमते - एवं प्रयोग इति | दैत्यादीनां विनाशनं यत्र प्रयोज्यतया | आगम्यतामिति | अवधार्यतां यदि वा सम्भूयास्यताम् | मायामिति अदृश्यत्वमित्यर्थः | चेष्टेत्याङ्गिकी | यद्यपि स्मृतिस्तम्भनेन सर्वं स्तम्भितं भवति तथापि तत्तदभिनेयप्राधान्येन तदेव स्तम्भितमित्युक्तम् | सूत्रधारस्येति सपरिवारस्येति | प्रस्तावनाप्रयोगमध्य एवायं विघ्न इति यावत् | ध्यानमिति | यत्र माया न प्रभवति || (६४-६७) प्. २९) अथापश्यत्सदो विघ्नैः समन्तात्परिवारितम् | सहेतरैः सूत्रधारं नष्टसंज्ञं जडीकृतम् || ६८ || उत्थाय त्वरितं शक्रः गृहीत्वा ध्वजमुत्तमम् | सर्वरत्नोज्ज्वलतनुः किञ्चिदुद्वृत्तलोचनः || ६९ || रङ्गपीठगतान्विघ्नानसुरांश्चैव देवराट् | जर्जरीकृतदेहांस्तानकरोज्जर्जरेण सः || ७० || निहतेषु च सर्वेषु विघ्नेषु सह दानवैः | सम्प्रहृष्य ततो वाक्यमाहुः सर्वे दिवौकसः || ७१ || अहो प्रहरणं दिव्यमिदमासादितं त्वया | जर्जरीकृतसर्वाङ्गा येनैते दानवाः कृताः || ७२ || यस्मादनेन ते विघ्ना सासुरा जर्जरीकृताः | तस्माज्जर्जर एवेति नामतोऽयं भविष्यति || ७३ || शेषा ये चैव हिंसार्थमुपयास्यान्ति हिंसकाः | दृष्ट्वैव जर्जरं तेऽपि गमिष्यन्त्येवमेव तु || ७४ || एवमेवास्त्विति ततः शक्रः प्रोवाच तान्सुरान् | अक्षाभूतश्च सर्वेषां भविष्यत्येष जर्जरः || ७५ || सद इति यत्र प्रयोगः क्रियते सीदत्यस्मिन्निति | जीर्यत्यतिशयेनेति पचाद्यचि (यङ्लुकि)रूपम् | अतिशयेन जीर्णीकृतो देहो येषान्ते तथा | जर्जरेणेति यङ्लुगन्ताण्णिचि पुनः पचाद्यचि रूपम् | एवं राज्ञा सिद्धिविघातका दण्ड्या इति दर्शितम् | प्. ३०) प्रयोगे प्रस्तुते ह्येवं स्फीते शक्रमहे पुनः | त्रासं सञ्जनयन्ति स्मं विघ्नाः शेषास्तु नृत्यताम् || ७६ || दृष्ट्वा तेषां व्यवसितं दैत्यानां विप्रकारजम् | उपस्थितोऽहं ब्रह्माणं सुतैः सर्वैः समन्वितः || ७७ || निश्चिता भगवन्विघ्ना नाट्यस्यास्य विनाशने | अस्य रक्षाविधिं सम्यगाज्ञापय सुरेश्वर || ७८ || ततश्च विश्वकर्माणं ब्रह्मोवाच प्रयत्नतः | कुरु लक्षणसम्पन्नं नाट्यवेश्म महामते || ७९ || ततोऽचिरेण कालेन विश्वकर्मा महच्छुभम् | सर्वलक्षणसम्पन्नं कृत्वा नाट्यगृहं तु सः || ८० || प्रोक्तवान्द्रुहिणं गत्वा सभायान्तु कृताञ्जलिः | सज्जं नाट्यगृहं देव तदवेक्षितुमर्हसि || ८१ || ततः सह महेन्द्रेण सुरैः सर्वैश्च सेतरैः | आगतस्त्वरिता द्रष्टुं द्रुहिणो नाट्यमण्डपम् || ८२ || यदि वा मूलत एव तत्परिरक्षायै मण्डपः कार्यः | ये च दण्डस्याविषया वातातपवर्षादयश्च तत्कृतो हि सिद्धिविघातो मण्डपे सति न भवति | एतेनैवाभिप्रायेण पुराकल्पमाह - प्रयोग इत्यादि | शेषा इति | जर्जरीकृतशरीरशेषा अपीत्यर्थः | यद्वक्ष्यति - निश्चिता भगवन्विघ्ना इति | तथाऽस्मिन् जर्जरीकरणकाले एते चासन्निहिता अभूवन् | त्रासमिति | सर्वथा तु न शक्ता नाशयितुमिति | जर्जरप्रभावः गमिष्यत्येवमेव इति ह्युक्तम् | ततो विश्वकर्मेति | वास्तुविद्या तत्त्वविदो नाट्यमण्डपे स्थपतित्वं सूचयति | द्रुहिण इति ब्रह्मा | इतरे विद्याधरगन्धर्वाद्याः | प्. ३१) दृष्ट्वा नाट्यगृहं ब्रह्मा प्राह सर्वान्सुरांस्ततः | अंशभागैर्भवद्भिस्तु रक्ष्योऽयं नाट्यमण्डपः || ८३ || रक्षणे मण्डपस्याथ विनियुक्तस्तु चन्द्रमाः | लोकपालास्तथा दिक्षु विदिक्ष्वपि च मारुताः || ८४ || नेपथ्यभूमौ मित्रस्तु निक्षिप्तो वरुणोऽम्बरे | वेदिकारक्षणे वह्निर्भाण्डे सर्वदिवौकसः || ८५ || वर्णाश्चत्वार एवाथ स्तम्भेषु विनियोजिताः | आदित्याश्चैव रुद्राश्च स्थिताः स्तम्भन्तरेष्वथ || ८६ || धारणीष्वथ भूतानि शालास्वप्सरसस्तथा | सर्ववेश्मसु यक्षिण्यो महीपृष्ठे महोदधिः || ८७ || अंशभागैरिति | अंशैर्यानि भाजनान्यधिष्ठानानि तैः | मण्डपस्यांशेषु वः भवतां ये तृतीयचतुर्थादयो भागास्तैः | (६८-८३) अंशविभागमेवाह - रक्षण इति | अनेन चैतत्तुल्या एव मण्डपभागरक्षा काचिन्नियोज्या इति दर्श्यते | मण्डपस्य सर्वस्याधिष्ठाता हि सौम्यप्रकृतिः सोमः प्रधानो योज्य इति दर्शयति - चन्द्रमा इति | अपि चेति | विदिक्ष्विति | न केवलं पश्चिमोत्तररूपे स्वकोणे यावदन्यास्वपि विदिक्षु | चकाराद्दिक्ष्वपि | ते हि घर्मदोषवारकत्वादत्यन्तोपकारिणः | अनेन गवाक्षकरणं सूच्यत इत्येके | आदित्ये मित्रशब्दः पुल्लिङ्ग इति | तेन यद्वार्तिककारी(रीय)तदुपलक्षितो नर्तकी हि(भिः) लज्जापरिहारहेतोः नपुंसको नेपथ्यगृहे इति तदपरामृष्टाभिधानम् | मित्र इति तेजस्विता आहार्योपयोगी रत्नादेरुक्ता | वेदिका | रङ्गवेदिका | तत्र तीक्ष्णोऽधिष्ठातेत्यर्थः | भाण्ड इति | त्रिपुष्करे सोपकरणे | दिवौकसो मेघा मन्द्रगम्भीरशब्दसिद्धये | इत्येवं सर्वत्र दृष्टमपि सदृशोपलक्षणान्तं प्रयोजनमुत्प्रेक्ष्यम् | सर्वथा तदलाभे नियमाद्दृष्टमेव | वर्णा इति | तदधिष्ठातारो देवताविशेषाः | स्तम्भान्तरेष्विति | वर्णस्तम्भचतुष्कादिरित्येषु | न अन्येषु स्तम्भेष्वित्यर्थः | (८४-८६) प्. ३२) द्वारशालानियुक्तौ तु कृतान्तः काल एव च | स्थापितौ द्वारपत्रेषु नागमुख्यौ महाबलौ || ८८ || देहल्यां यमदण्डस्तु शूलं तस्योपरि स्थितम् | द्वारपालौ स्थितौ चोभौ नियतिर्मृत्युरेव च || ८९ || पार्श्वे च रङ्गपीठस्य महेन्द्रः स्थितवान्स्वयम् | स्थापिता मत्तवारण्यां विद्युद्दैत्यनिषूदनी || ९० || स्तम्भेषु मत्तवारण्याः स्थापिताः परिपालने | भूतयक्षपिशाचाश्च गुह्यकाश्च महाबलाः || ९१ || जर्जरे तु विनिक्षिप्तं वज्रं दैत्यनिबर्हणम् | तत्पर्वसु विनिक्षिप्ताः सुरेन्द्रा ह्यमितौजसः || ९२ || शालास्विति | स्तम्भद्वयमष्टवेश्मनि गवाक्षनेपथ्यगृहद्वितीयभूमिसन्निवेशादिति | नागमुख्याविति | अनन्तगुलिकौ | द्वारपत्रं कवाटात्मकम् | द्वारबहुत्वाच्च बहुवचनम् | देहल्यामिति | द्वाराधस्तनकाष्ठे | तस्येति | शूलमिति | एतेन प्रक्रान्तद्वारमेव परामृष्टम् | तेनोर्ध्वकाष्ठे उत्सङ्गशब्दवाच्ये त्रिशूलमित्यर्थः | पार्श्वे स्वयमिति | राजादेस्तत्स्थानमित्युक्तम् | चकारात्स्वदिशि अंशेनावस्थानमनुस्मृतम् | विद्युदिति | वज्रायुधरूपा | स्तम्भेष्वपि चतुर्षु यथाक्रमं तद्भूतादयः | ते च नाट्यतत्त्वविदः | अत एव विघ्नैः सह ये(ते)नयेन मिलिता इति द्रष्टव्यम् | एतेन सिद्धिविघातका भेदाख्येनाप्यु- पायेन दुर्बलीकर्तव्या इति सूचितम् | प्रतिस्.ठित इति | सदैव सन्निहितो वास्तुमध्य इत्यर्थः | कवेश्च सन्निधानं सूचितम् | अधस्तादिति | येन सुरङ्गाखननादि विघ्नकरणं निवार्यत इत्यर्थः | प्रधानपात्राणि पृथग्रक्षणीयानीत्याह - नायकमिति | हास्यशृङ्गाराङ्गत्वाद्विदूषकमित्युक्तम् | अत एव दशरूपकप्रयोगसूचनमेतत् | समवकारे विदूषकाभावात् | हर इति | बहुमूर्तिप्रथमत्वात् | देवता एव दैवतम् | (८७-९८) प्. ३३) शिरःपर्वस्थितो ब्रह्मा द्वितीये शङ्करस्तथा | तृतीये च स्थितो विष्णुश्चतुर्थे स्कन्द एव च || ९३ || पञ्चमे च महानागाः शेषवासुकितक्षकाः | एवं विघ्नविनाशाय स्थापिता जर्जरे सुराः || ९४ || रङ्गपीठस्य मध्ये तु स्वयं ब्रह्मा प्रतिष्ठितः | इष्ट्यर्थं रङ्गमध्ये तु क्रियते पुष्पमोक्षणम् || ९५ || पातालवासिनो ये च यक्षगुह्यकपन्नगाः | अधस्ताद्रङ्गपीठस्य रक्षणे ते नियोजिताः || ९६ || नायकं रक्षतीन्द्रस्तु नायिकां च सरस्वती | विदूषकमथौङ्कारः शेषास्तु प्रकृतीर्हरः || ९७ || यान्येतानि नियुक्तानि दैवतानीह रक्षणे | एतान्येवाधिदैवानि भविष्यन्तीत्युवाच सः || ९८ || एतस्मिन्नन्तरे देवैः सर्वैरुक्तः पितामहः | साम्ना तावदिमे विघ्नाः स्थाप्यन्तां वचसा त्वया || ९९ || पूर्वं साम प्रयोक्तव्यं द्वितीयं दानमेव च | तयोरुपरि भेदस्तु ततो दण्डः प्रयुज्यते || १०० || देवानां वचनं श्रुत्वा ब्रह्मा विघ्नानुवाच ह | कस्माद्भवन्तो नाट्यस्य विनाशाय समुत्थिताः || १०१ || ब्रह्मणो वचनं श्रुत्वा विरूपाक्षोऽब्रवीद्वचः | दैत्यैर्विघ्नगणैः सार्धं सामपूर्वमिदं ततः || १०२ || योऽयं भगवता सृष्टो नाट्यवेदः सुरेच्छया | प्रत्यादेशोऽयमस्माकं सुरार्थं भवता कृतः || १०३ || प्. ३४) अथ नाट्यतत्त्वघाते (त्त्वविघाते) स तन्निरूपणार्थमुपक्रमते - एतस्मिन्निति | अशक्तस्य सामाङ्गीकरोति दुर्जन इति पूर्वं रक्षाकरणम् | इत्युक्तद्वय (सर्वैरुक्त) इति | कविरनुविधेयवचनो भवतीति दर्शयति | सामादिप्रयोगे तावच्छब्दसूचितं क्रमं स्फुटयति - पूर्वं सामेत्यादि | तत इति | सर्वोपायप्रतिहताविति यावत् | तत्र ज्ञाताभिप्रायः प्रतिसमाधातुं सुशक इत्यभिप्रायेणाह - देवानामिति | सुरार्थमित्यस्यैव दार्ढ्यायोक्तं सुरेच्छयेति | प्रत्यादेश इति खलीकार इत्यर्थः | भवतेति | यस्यानुचितमेतदित्यर्थः | अनौचित्यमेव लोकपितामहेत्यामन्त्रणेनाह | तदेव पितामहत्वं दर्शयति - यथेति | आ(त्मनो भ)वा देवा दैत्याश्चेत्याह - सर्व इति | (९९-१०४) वचनमिति | सुपरिहरमेतत् | नात्र भूयान्प्रयास इत्येकवचनेन दर्शयति | अत एव सिद्धवदुपक्रमते - अलं व इति | मिथ्याज्ञानगृहीतसर्पत्रासवद्यो भ्रान्तिमात्रकृत इत्यर्थः | दैत्यानामशुभकारिता लोकप्रसिद्धा | कुरु(कृत)रङ्गविभागञ्चैषां चेष्टितमस्तु | देवानां तद्विपर्यय इति नाट्यस्य न तात्पर्यं येन भवतां मन्युः | किं तर्हीत्याह | शुभकारिणः शुभं फलमशुभकारिणोऽशुभं फलमित्येतावदेवास्माकं प्रतिसाक्षात्कारकल्पे नाट्ये प्रदर्शनीयम् | न तत्र देवेषु दैत्येषु वा कश्चिद्भरः | अत एव भवतामपि धर्मादौ यः सदुपायः सोऽपि शुभविपाकत्वेनैव दर्शितः | अत एव शुभग्रहणमेकतरपक्षशैथिल्यदर्शनाय दैत्यसम्बन्धनार्थं प्रथममुपात्तम् | शुभमशुभं च धर्माधर्मरूपं सुखदुःखफलत्वेन विभेदेन कल्पयत्यध्यवसाययति नाट्यवेदः | कीदृक् - कर्मभावान्वयापेक्षीति | तद्यथा - कर्म धर्माधर्मादिरूपं धर्मो दानं स्नानमित्यादिः | अधर्मो हिंसा स्तेयमित्यादिः | भाव आशयः स्त्री (स्व) प्रसङ्गोदिता स्वार्थतापरार्थताद्यभिसन्धिरित्यादिः | अन्वयोऽभिजनः आर्यावर्तादिर्ब्राह्मण्यादि चेति (ण्यञ्चेति) | तानपेक्षते सहकारितया | एतदुक्तं भवति - अस्मिन्देशेऽस्मिन्काले ईदृशेन कर्मणा यः शुभमशुभं चार्जयति स एवंविधफलभागी भवतीति न तावदिहोपदिश्यते | विकल्पक इति द्वौ णिचौ | (१०५-१०६) प्. ३५) तन्नैतदेवं कर्तव्यं त्वया लोकपितामह | यथा देवास्तथा दैत्यास्त्वत्तः सर्वे विनिर्गताः || १०४ || विघ्नानां वचनं श्रुत्वा ब्रह्मा वचनमब्रवीत् | अलं वो मन्युना दैत्या विषादं त्यजतानघाः || १०५ || भवतां देवतानां च शुभाशुभविकल्पकः | कर्मभावान्वयापेक्षी नाट्यवेदो मया कृतः || १०६ || नैकान्ततोऽत्र भवतां देवानां चानुभावनम् | त्रैलोक्यस्यास्य सर्वस्य नाट्यं भावानुकीर्तनम् || १०७ || ननु चैवमप्यस्मत्पृष्ठे किमेतद्योजितमित्याह - नैकान्तत इति | अयं भावः - न युष्मत्पृष्ठे केनचिदेतद्योजितम् | देवासुरस्य बहिर्यथावस्थमवस्थानम् | अत्रेति नाट्यवेदे | न देवासुराणामेकान्तेनानुभावनम् | नैव तेऽनुभाव्यन्ते केनचित्प्रकारेण | तथाहि - तेषु न तत्त्वेन धीः | न सादृश्येन यमलकवत् | न भ्रान्तत्वेन रूप्यस्मृतिपूर्वकशुक्तिरूप्यवत् | नारोपेण सम्यग्ज्ञानबाधानन्तरमिथ्याज्ञानरूप्यवत् | न तदध्यवसायेन गौर्वाहीकवत् | नोत्प्रेक्ष्यमाणत्वेन मुखचन्द्रवत् | न तत्प्रतिकृतित्वेन चित्रपुस्तवत् | न तदनुकारेण गुरुशिष्यव्याख्याहेवाकवत् | न तात्कालिकनिर्माणेनेन्द्रजालवत् | न युक्तिविरचिततदाभासतया हस्तलाघवादिमायावत् | सर्वेष्वेतेषु पक्षेष्वसाधारणतया द्रष्टुरौदासीन्ये रसास्वादायोगात् | कवेश्च नियतवर्णनीयनिश्चितत्वे काव्यस्यैवासम्पत्तेरनौचित्यवर्जनायोगात् | लौकिकमिथुनदृशीव सांसारिकहर्ष(ईर्ष्या)क्रोधान्वयितापत्तेरुभयदर्शनकु*मू)लतया मुख्यदृष्टौ प्रयोक्तृदृष्टौ तत्संविद्विश्रान्त्यभावात् | किं तर्ह्येतत् | आह - त्रैलोक्यस्येति | एतदुक्तं भवति - एतादृशं तैः रामादयो न कदाचन प्रमाणपथमवतार्यन्ते यदाऽगमेन वर्ण्यन्ते | तदा तद्विशेषबुद्धिः यद्यपि रामायणप्रायादेकस्मान्महावाक्यादुल्लसति तथापि वर्तमानतयैव विशेषाणां सम्भाव्यमानार्थक्रियासामर्थ्यात्मकस्वालक्षण्यपर्यवसानात् | न च तेषां वर्तमानतेत्युपगता प्. ३६) तावद्विशेषबुद्धिः | काव्येष्वपि हृदयमेव (हृदय एव) तावत्साधारणीभावो विभावादीनां तत्रापि कथामात्रे साधारणीभावः सम्भवति यद्यपि तथापि एव ये कुर्वन्ति तेषामेतद्भवति इति वाक्यवद्रञ्जनातिशयाभावान्न चित्तवृत्ते(त्ति)र्निर्णगता भवति | काव्ये तु गुणालङ्कारमनोहरशब्दार्थशरीरे लोकोत्तररसप्राणके हृदयसंवादवशात् निमग्नाकारिका तावद्भवति चित्तवृत्तिः | किन्तु सर्वस्य प्रत्यक्षसाक्षात्कारकल्पा तत्र न धीरुदेति | नाट्ये तु पारमार्थिकं किञ्च्दद्य मे कृत्यं भविष्यतीत्येवं भूताभिसन्धिसंस्काराभावात्सर्वपरिषत्साधारणप्रमोदसारापर्यन्तर सना(समा)दरणीयलोकोत्तरदर्शनश्रवणयोगी भविष्यामीत्यभिसन्धिसंस्कारादुचितगीतातोद्यचर्वणाविस्मृतसांसारिक भावतया विमलमुकुरकल्पीभूतनिजहृदयः सूच्याद्यभिनयावलोकनोद्भिन्नप्रमोदशोकादितन्मयीभावः पाठ्याकर्णनपात्रान्तरप्रवेशवशात् समुत्पन्ने देशकालविशेषावेशानालिङ्गिते सम्यङ्मिथ्यासंशयसम्भावनादिज्ञानविज्ञेयत्वपरामर्शानास्पदे रामरावणादिविषयाध्यवसाये तत्संस्कारानुवृत्तिकारणभूततत्सहचरहृद्यवस्तुरूपगीतातोद्यप्रमदानु भवसंस्कारसूचितसमनुगततदुक्तरूपरामाध्यवसायसंस्कार एव भवत्पञ्चषैर्दिवसैः सचमत्कारतदीयचरित मध्यप्रविष्टस्वात्मरूपमतिः स्वात्मद्वारेण विश्वं तथा पश्यन् प्रत्येकं सामाजिकों देशकालविशेषाणामपरामर्शेन एवंकारिणामिदमिति लीढा(लिङा)त्मकविधिसमर्पितं संविज्जातीयमेव संविद्विशेषरञ्जकप्राणवल्लभाप्रतिमरसास्वादसहचररम्यगीतातोद्यादि संस्काररसा(नुप्र)वेशेन हृदयाभ्यन्तरनिखातं तत एवनुत्पुंसनशतैरपि म्लानिमात्रमप्यभजमानं भजंस्तत्तच्छुभाशुभप्रेप्साजिहासासततस्यूतवृत्तित्वादेव शुभमाचरत्यशुभं समुज्झति | इदानीमुपायसंवेदनालाभात् तदिदमनुकीर्तनमनुव्यवसायविशेषो नाट्यापरपर्यायः | नानुकार इति भ्रमितव्यम् | अनेन भगण्डेन राजपुत्रस्यान्यस्य वानुकृतेऽन्या(कृतावन्या)दिबुद्धेरभावात् | तद्धि विका(क)रणमिति प्रसिद्धं हासमात्रफलं मध्यस्थानाम् | यदभिप्रायेण मुनिर्वक्ष्यति - परचेष्टानुकरणाद्धासस्समुपजायते (अ. ७-१०) इति || तत्पक्षीयाणान्तु तदेव द्वेषासूयानि(नु)वृत्त्यादिफलम् | तद्बुद्ध्यैव हि दैत्यानां हृदयक्षोभः एवम्भूता वयमुपहासभाजनम् इति | उपहास्यताभीरवश्च निवर्तन्ते ततः | न तूपदेशेन | प्. ३७) नन्वेनं तावता नियतानुकारो माभूत् | अनुकारेण तु किमपरार्द्धम् | न किञ्चिदसम्भवादृते | अनुकार इति हि सदृशकरण्म् | तत्कस्य | न तावद्रामादेः | तस्याननुकार्यत्वात् | एतेन प्रमदादिविभावानामनुकरणं पराकृतम् | न चित्तवृत्तीनां शोकक्रोधादिरूपाणाम् | न हि नटो रामसदृशं स्वात्मनः शोकं करोति | सर्वथैव तस्य तत्राभावात् | भावे वाननुकारत्वात् | न चान्यद्वस्त्वस्ति यच्छोकेन सदृशं स्यात् | अनुभावांस्तु करोति | किन्तु सजातीयानेव | न तु तत्सदृशान् | साधारणरूपस्य कः केन सादृश्यार्थः | त्रैलोक्यवर्तिनः सदृशत्वन्तु न विशेषात्मना यौगपद्येनोपपद्यते | कदाचित्क्रमेण नियत एवानुकृतः स्यात् | सामान्यात्मकत्वे कोऽनुकारार्थः | तस्मादनियतानुकारो नाट्यमित्यपि न भ्रमितव्यम् | अस्मदुपाध्यायकृते काव्यकौतुकेऽप्ययमेवाभिप्रायो मन्तव्यः | न त्वनियतानुकारोऽपि | तेनानुव्यवसायविशेषविषयीकार्यं नाट्यम् | तथा चाहार्यविशेषादिना निवृत्ते तद्देशकालचैत्रमैत्रादिनटविशेषप्रत्यक्षाभिमाने विशेषलेशोपक्रमेण च विना प्रत्यक्षाप्रवृत्तेरायाते रामादिशब्दस्यात्रोपयोगात् प्रसिद्धतदर्थतयाऽदरणीयचरितवाचकस्यासम्भावनामात्रनिराकरणेना नुव्यवसायस्य प्रत्यक्षकल्पनाट्ये हृद्यगीताद्यनुस्यूततया चमत्कारस्थानत्वाद्धृदयानुप्रवेशयोग्यत्वमभिनयचतुष्टयेन स्वरूपप्रच्छादनं प्रसात्वनादिना नटज्ञानजसंस्कारसाचिव्यं तेन रञ्जकसामग्रीमध्यानुप्रविष्टेन प्रच्छादितस्वस्वभावेन प्राक्प्रवृत्तलौकिकप्रत्यक्षानुमानादिजनितसंस्कारसहायेन सहृदयनटज्ञानसंस्कारसचिवेन हृदयसंवादतन्मयीभवनसहकारिणा प्रयोक्त्रा दृश्यमानेन योऽनुव्यवसायो जन्यते सुखदुःखद्याकारतत्तचित्तवृत्तिरूपरूषितनिजसंविदानन्दप्रकाशमयः अत एव विचित्रो रसनास्वादनचमत्कारचर्वणनिर्वेशभोगाद्यपरपर्यायः तत यदवभासते वस्तु तन्नाट्यम् | तच्च ज्ञानाकारमात्रमारोपितं स्वरूपं सामान्यात्मकं तत्कालनिर्मितरूपं चान्यद्वा किञ्चिदस्तु | नात्राप्रस्तुतलेखनेनात्मनो दर्शनान्तरकथापरिचयप्रकटनफलेन प्रकृतवस्तुनिरूपणविघ्नमाचरन्तः सहृदयान्खेदयामः | तस्मादनुव्यवसायात्मकं कीर्तनं रूषितविकल्पसंवेदनं नाट्यम् | तद्वेदनवेद्यत्वात् | न त्वनुकरणरूपम् | यदि त्वेवं मुख्यलौकिककरणानुसारितयाऽनुकरणमित्युच्यते तन्न कश्चिद्दोषः | स्थिते वस्तुतो भेदे शब्दप्रवृत्तेरविवादास्पदत्वात् | एतच्च यथावसरं वितनिष्यत इत्यास्तां तावत् | प्. ३८) क्वचिद्धर्मः क्वचित्क्रीडा क्वचिदर्थः क्वचिच्छमः | क्वचिद्धास्यं क्वचिद्युद्धं क्वचित्कामः क्वचिद्वधः || १०८ || धर्मो धर्मप्रवृत्तानां कामः कामोपसेविनाम् | निग्रहो दुर्विनीतानां विनीतानां दमक्रिया || १०९ || क्लीबानां धार्ष्ट्यजननमुत्साहः शूरमानिनाम् | अबुधानां विबोधश्च वैदुष्यं विदुषामपि || ११० || यतश्चेदं नानुकरणं ततो यत्कैश्चिच्चोदितं तदनवकाशम् - न च गीतवाद्ययुक्तः सर्वावस्थासु कश्चिदनुकार्यः इति | न त्वनुकार्यत्वेन गीतादय इत्युक्तम् | परिहारोऽपि य उक्तः आसनगमनस्नानस्वापप्रतिबोधभोजनाद्यासु वस्तुतो गीत्ववाद्यं लोके चेष्टास्वतिप्रथितम् इत्यादि तदप्यनुपपन्नम् | न हि गमनादौ तद्ध्रुवातालादिरूपेण गीतादि लोकेऽस्ति मङ्गलमात्रत्वादृते | गायनवादनादिष्वपि चानुकारबुद्ध्यापत्तेरित्यलम् | (१०७) ननु त्रैलोक्यस्य ये भावास्तेषां यद्यनुकीर्तनं नाट्यं तदेकत्रैव रूपके एकत्रैव चाङ्कादौ सर्वमेव दृश्येतेत्याशङ्कानिराकरणपूर्वकं पूर्वप्रयोजनेन सप्रयोजनत्वमुपसंहरति - क्वचिद्धर्म इत्यादिना लोकोपदेशजननं नाट्यमेतद्भविष्यति इत्यन्तेन श्लोकाष्टकेन | एतच्च कैश्चिद्भिन्नवाक्यतया प्रतिश्लोकं व्याख्यातम् | तच्च पौनरुक्त्याध्याहारपरस्परासङ्गत्यादिदोषोपहतं स्यादित्युपेक्ष्यमेव | तस्मादित्थमत्र योजना नानाप्रकारैर्भावैः स्थायिव्यभिचारि(वि)भावादिभिरुपसम्पन्नं सर्वतो व्याप्तम् | तेषां च भावादीनां देशकालप्रकृत्त्यवस्थान्तरभिन्नस्वभावत्वात्तदपि नानावस्थात्मकम् | अत एवाहोत्तमाधमेति | एवम्भूतमेतद्भविष्यति | काले विश्रान्तिजननं हितोपदेशजननं च भविष्यतीति सम्बन्धः | के के नानाप्रकारा भावा इत्याह - क्वचिद्धर्म इत्यादि | यथायोगं धर्मादयः शब्दास्तदचितस्थायिव्यभिचार्यादिसूचकाः | तेन धर्मोऽर्थ इत्युत्साहादिः | क्रीडेति विस्मयादिः | शम इति निर्वेदादिः | हास्यमिति हासादिः | युद्धमिति रौद्रादिः | काम इति रत्यादिः | वध इति क्रोधभयजुगुप्साशोकादिः | अमीभिश्च समुचितव्यभिचारिभावविभावाः स्वीकृताः | क्वचिदिति शब्देन दशरूपकान्यतममुच्यते | त(य)था प्. ३९) नाटकाद्यनेकरूपकगतो विशेषस्तथैकं ना(कना)टकादिविशेषको विभागः | एतदुक्तं भवति - किञ्चिद्धर्मप्रधानं रूपकं यथा नाटकं प्रकरण वा | क्रीडाप्रधान तथा प्रसिद्धाना यथा भाणः | अर्थप्रधानत्वं प्रकरणादावेव | एवं दशरूपकलक्षणानुसारेण सर्वमनुसरणीयम् | तथा क्वचिन्नाटके धर्मः प्रधानम् - यथा छलितरामे रामस्याश्वमेधयागः | क्वचित्क्रीडा - यथा स्वप्नवासवदत्तायाम् | एवमन्यत्राप्यनुसरणीयम् | तथैकत्रापि नाटके क्वचिदंशे धर्मो यथाऽभिज्ञानशाकुन्तले - अपि नाम कुलपतेरियमसवर्णक्षेत्रसम्भवा स्यात् (अङ्क-१) | एवं प्रतिनाटकमेकदेशेषु सुलक्षा एवं क्रीडादय इति ग्रन्थविस्तरभीरुभिरस्माभिर्न परिवर्णिताः | नन्ववस्थादेशकालप्रकृतिविशेषसमुचितभावानुकीर्तनमात्रमेव कर्तव्यम् | किं रामाय(दि)रावणेत्यादिसमाश्रयेणेत्याशङ्क्याह धर्म इति | चो हेतौ | यस्माल्लोकवृत्तानुसारेण करणं प्रयोगरूपं नाट्यं मया कृतमेतदित्येतस्मात्कारणाद्धर्मप्रवृत्तानां रामयुधिष्ठिरादीनां सम्बन्धित्वेन धर्म उक्तः | निग्रह इति वधः | विनीतानां जितेन्द्रियाणां सम्बन्धित्वेन दमस्य शमस्य क्रिया योजना | विनयो हीन्द्रियजयः | एवं क्लीबानामुपहास्यानां धार्ष्ट्यजननमिति विभावेन हासोऽत्रोक्तः | धार्ष्ट्याज्जननं यस्य हास्यवस्तुनः | यद्वक्ष्यति - विकृतपरवेषालङ्कारधार्ष्ट्यादिभिः (अ-६.) इत्यादि | विबोध इति ण्यन्तस्य रूपम् | अबुद्धत्वेन प्रसिद्धानां सम्बन्धित्वेन बोधनमुपायोपदेशेन व्युत्पाद्यत्वम् | विदुषां भीष्मादीनाम् | उपायव्युत्पाद्यत्वेन वैदुष्यम् | अनेन स्मृतिमतिप्रभृतीनां निरूपणम् | विलास इति क्रीडा | स्थैर्यमिति व्यवसायात्मकमुत्साहरूपमेव | चशब्द एवकारार्थे | दुःखार्दितत्वेन यः प्रसिद्धस्तस्यैव सम्बन्धित्वेनेत्यर्थः | धृतिर्धैर्यम् | एतदुक्तं भवति - लोकवृत्तानुसारेण यत इयं नाट्यक्रिया लोके च धरादयोऽनाश्रयाः न संवेदनयोग्याः तेन धर्मादिविषये यो यथा प्रसिद्धो रामादिः स शब्दमात्रोपयोगित्वेन मुख्यपात्रप्रणालिकया गृहीतः | एवंभूतं यन्नाट्यं तत्प्रेक्षकाणां दुःखेन व्याध्यादिकृतेन श्रमेणाध्वक्लेशादिजेन शोकेन बन्धुमरणादिकृतेनार्तानां पीडितानां तथा तपस्विनामनवरतकृच्छ्रचान्द्रायणाद्याचरणकलितदौर्बल्यातिशयपरिखिन् नहृदयानां विश्रान्तिजननं दुःखप्रसरणविघातकम् | प्रतिहतदुःखानां चाह्लादात्मकधृत्यादिकारणं यथायोगम् | तद्यथा - शोकार्तस्य धृतिर्व्याध्यार्तस्य क्रीडा | श्रमार्तस्य सुखम् | आदिग्रहणेन तपस्विनो मतिविबोधादय इति मन्तव्यम् | प्. ४०) ईश्वराणां विलाशश्च स्थैर्यं दुःखार्दितस्य च | अर्थोपजीविनामर्थो धृतिरुद्विग्नचेतसाम् || १११ || नानाभावोपसम्पन्नं नानावस्थान्तरात्मकम् | लोकवृत्तानुकरणं नाट्यमेतन्मया कृतम् || ११२ || उत्तमाधममध्यानां नराणां कर्मसंश्रयम् | हितोपदेशजननं धृतिक्रीडासुखादिकृत् || ११३ || एतद्रसेषु भावेषु सर्वकर्मक्रियास्वथ | सर्वोपदेशजननं नाट्यं लोके भविष्यति || दुःखार्तानां श्रमार्तानां शोकार्तानां तपस्विनाम् | विश्रान्तिजननं काले नाट्यमेतद्भविष्यति || ११४ || नचैतावदेव यावत्कालान्तरेऽपि विपरीपाकं सुखमुपदेशजं जनयतीत्येवं दुःखीतानां तत्प्रशमसुखवितरणकालान्तरसुखलाभाः प्रयोजनम् | ये न दुःखिताः सुखभूयिष्ठवृत्तय एव राजपुत्राद्यास्तेषां लोकवृत्ते धर्माद्युपायवर्गे उपदेशकार्येतन्नाट्यम् | लोकशब्देन लोकवृत्तम् | प्. ४१) धर्म्यं यशस्यमायुष्यं हितं बुद्धिविवर्धनम् | लोकोपदेशजननं नाट्यमेतद्भविष्यति || ११५ || न तज्ज्ञानं न तच्छिल्पं न सा विद्या न सा कला | नासौ योगो न तत्कर्म नाट्येऽस्मिन् यन्न दृश्यते || ११६ || ननु किं गुरुवदुपदेशं करोति | नेत्याह | किन्तु बुद्धिं विवर्धयति | स्वप्रतिभामेव तादृशीं वितरतीत्यर्थः | न च सा दुष्टा प्रतीतिरित्याह - हितम् - हितप्रति - भाजनकत्वात् | अत्र हेतुमाह - यतो धर्मादनपेतम् | यशश्शब्देन लोकप्रसिद्धिहेतुभूतमद् - भुतकारि वस्तूच्यते यथा रामस्य सप्तसालव्यथनादि | तदुपदेशे साधु यशस्यम् | आयुर्वृद्धिहेतव आचारा आयुः | तेषु साधु आयुष्यम् | एवं दुःखितानामदुःखितानां चेदमुपादेयमित्युक्तम् | दुःखं च शारीरं मानसं वा | शारिरमपि दैवकृतं स्वयंकृतमपि दृष्टं फलो(ष्टफलो)द्देशेनान्येन चेत्येतावानेव दुःखितवर्ग इति दुःखार्तानामित्यादिभेदोपादानस्य फलम् | केचित्तु धर्मो धर्मप्रवृत्तानामित्यादि सामाजिकविषयत्वेन व्याचक्षते हृदयसंवादयोग्यतातात्पर्येण | अन्ये त्वकारप्रश्लेषादिव्याख्याप्रकारेणाधर्मप्रवृत्तानामित्यादि विपरीत्वत्वेन व्याचक्षते उपदेश्यत्वाभिप्रायेण | उभयमप्येतदसत् पौनरुक्त्यादि दोषापातात् | चैतद्धर्म्य यशस्यमित्यादेः पुनरुक्तम् | (१०८-११५) न चानेन प्रधानमात्र एवोपदेशः कृतः पुरुषार्थोपायमात्रे वा | यावत्तदुपायोपेयादिष्वपीति दर्शयति - न तदिति | अस्मिन्निति | सप्तद्वीपगतभावानुकीर्तनद्भरूपे नाट्ये दृश्यमाने यन्न दृश्यते न हृदयगोचरमेति तादृग्ज्ञानादिकं नास्तीति शेषः | ज्ञानमित्यु पादेयमात्मज्ञानादि | यथा वेणीसंहारे - आत्मारामा विहितरतयो निर्विकल्पे समाधौ (१-२३) इत्यादि | शिल्पमिति | मालाचित्रपुस्तादियोजनम् | यथा वेष्टितग्रथितगुम्फसंहतैराततैश्च कुसुमैस्सपल्लवैः इत्यादौ | विद्या दण्डनीत्यादि | प्. ४२) तन्नात्र मन्युः कर्तव्यो भवद्भिरमरान्प्रति | सप्तद्वीपानुकरणं नाट्यमेतद्भविष्यति || ११७ || (येनानुकरणं नाट्यमेतत्तद्यन्मया कृतम् ||) देवानामसुराणां च राज्ञामथ कुटुम्बिनाम् | (कृतानुकरणं लोके नाट्यमित्यभिधीयते | ) ब्रह्मर्षीणां च विज्ञेयं नाट्यं वृत्तान्तदर्शकम् || ११८ || योऽयं स्वभावो लोकस्य सुखदुःखसमन्वितः | सोऽङ्गाद्यभिनयोपेतो नाट्यमित्यभिधीयते || ११९ || यथा शमव्यायामाभ्यां प्रतिविहिततन्त्रस्य नृपतेः | (बाल. रा. १-२४) इत्यादौ | कला गीतवाद्यादिका | यथा व्यक्तिर्व्यञ्जनधातुना (नागानन्द १-१४) इत्यादौ | योगो योजनं तेषामेव ज्ञानादीनां कलान्तानां स्वभेदैरन्योन्यस्वभेदैः | यथा- मेघाशङ्किशिखण्डिताण्डवविधावाचार्यकं कल्पय- न्निर्ह्रादो मुरजस्य मूर्च्छतितरां वेणुस्वनापूरितः | वीणायाः कलयन् लयेन गमकानुग्राहिणीं मूर्च्छनां कर्षत्येष च कालकूटितकलारम्यश्रुतिं षाडबे || (भेज्जल- राधाविप्रलम्भ) इत्यादौ | तत्रेहातोद्यनिचयगीतयोजना कृता | अन्योन्यं यथा - आविलपयोधराग्रं लवलीदलपाण्डुकोमलच्छायम् (विक्रमो ५-८) इत्यादौ | अत्र हि शृङ्गाराङ्गस्य वैद्यकविद्यया योजना | कर्मेति युद्धनियुद्धादिर्व्यापारः | यथा - आलीढस्थितटङ्कितस्य निमितां दृष्टित्रयीं तन्वतः पुङ्खाग्रक्रमसर्पणेन विशिखप्रान्तादथोच्चैस्तमाम् | चक्रीभूतशरासनस्य न मनाल्ल (क् ल) क्ष्यादमी विच्युता- श्चित्रं चित्रमुमाधवस्य युगपत्सर्वे सुरेन्द्रद्विषः || इति || प्. ४३) एवं सप्रयोजनत्वमभिधाय प्रकृतमेव पुराकल्पमनुबध्नाति - तन्नात्रेति | तदिति | तस्मात् | अत्र नाट्येऽमरान्प्रति न मन्युः कार्यः | तेऽपि तत्र न केचित् | एतदेवाह - सप्तद्वीपानुकरणमयी हि क्रिया(नटक्रिया)रङ्गे दृश्यते | न च सागरद्वीपादीनां कश्चित्तत्र सम्भव इति भावः (११६-११७) | ननु किमर्थमेषां नामानि गृहीतानीत्याशङ्क्याह - देवानामित्यादि | एतेषामेवाधिकारिपुरुषत्वात् निराधारस्य वृत्तस्य दर्शयितुमशक्यत्वात् | एतच्चोक्तं पूर्वम् | अत एव यत्र निर्व्याजसहजौदार्यधर्मादिविषये बलिप्रह्लादप्रभृते प्रसिद्धिस्तत्र सोऽप्युदीरित आश्रयत्वेन | तदाह - असुराणामिति | न च भवद्वैरिण एवात्र वर्णिताः अपि तु ब्रह्मर्षयोऽपि | अनेन प्रत्यादेशोऽयमस्माकम् | सुरार्थम् || इत्याशङ्काद्वयमपि परिहृतम् | एतत्तात्पर्येणोपसंहरति योऽयमिति | अयमिति - प्रत्यक्षकल्पानुव्यवसायविषयः लोकप्रसिद्धसत्यासत्यादि विलक्षणत्वात् यच्छब्दवाच्यः | लोकस्य सर्वस्य साधारणतया स्वत्वेन भाव्यमानश्चर्व्यमाणोऽर्थो नाट्यम् | स च सुखदुःखरूपेण विचित्रेण समनुगतः | न तु तदेकात्मा | तथा हि - रतिहासोत्साहविस्मयानां सुखस्वभावत्वम् | तत्र तु चिरकालव्यापिसुखानुसन्धिरूपत्वेन विषयौन्मुख्यप्राणतया तद्विषयाशंसाबाहुल्येनापायभीरुत्वाद् दुःखांशानुवेधो रतेः | हासस्य सानुसन्धानस्य विद्युत्सदृशतात्कालिकाल्पदुःखरूपः सुखानुगतौ | उत्साहस्य तात्कालिकदुःखायासरूपनिमज्जनानुसन्धिना भाविबहुजनो - पकारिचिरतरकालभाविसुखसञ्चिकीर्षात्मना सुखरूपता | विस्मयस्य निरनुसन्धानतटित्तुल्यसुखरूपता | क्रोधभयशोकजुगुप्सानां तु दुःखस्वरूपता | तत्र चिरकालदुःखानुसन्धिप्राणो विषयगतात्यन्तिकसुखभावनाकांक्षाप्राणतया सुखदुःखानुवेधवान् क्रोधः | निरनुसन्धितात्कालिकदुःखप्राणतया तदपगमाकांक्षोत्प्रेक्षितसुखानुसम्भिन्नं भयम् | द्वैकालिकस्त्वभीष्टविषयनाशजः प्राक्तनसुखस्मरणानुविद्धः सर्वथैव दुःखरूपः शोकः | उत्पाद्यमानसुखानुसन्धानजीवितविषयात्प(या प)लायनपरायणरूपान्नि(पा नि)षिध्यमानशङ्कितसुखानुविद्धा जुगुप्सा | समस्तम(तत्पूर्वदुःखसञ्चयसंस्मरणप्राणितः(तोऽ)संभावितदुःख बहुलसुख(दुःख)योनिः निर्वेदः | एवं व्यभिचारिप्रभृतिष्वपि वाच्यम् | संवित्स्वभावाः सुखादय इति च दर्शने न तत्स्वभावत्वम् | अन्येत्व(तैस्त्व)त्र तद्वेदनरूपत्वमेव तेषां मन्तव्यम् | एवं लौकिका ये सुखदुःखात्मनो भावाः प्. ४४) (वेदविद्येतिहासानामाख्यानपरिकल्पनम् | विनोदकरणं लोके नाट्यमेतद्भविष्यति || श्रुतिस्मृतिसदाचारपरिशेषार्थकल्पनम् | विनोदजननं लोके नाट्यमेतद्भविष्यति ||) एतस्मिन्नन्तरे देवान् सर्वानाह पितामहः | क्रियतामद्य विधिवद्यजनं नाट्यमण्डपे || १२० || बलिप्रदानैर्होमैश्च मन्त्रौषधिसमन्वितैः | भोज्यैर्भक्ष्यैश्च पानैश्च बलिः समुपकल्प्यताम् || १२१ || मर्त्यलोकगताः सर्वे शुभां पूजामवाप्स्यथ | अपूजयित्वा रङ्ग तु नैव प्रेक्षां प्रवर्तयेत् || १२२ || तत्सदृशस्तत्संस्कारानुविद्धो नाट्यलक्षणोऽर्थः समुदायरूपस्तस्यैव भागानुसरणयः | एवं दयारत्यादिरूपानुसरणभूतो (एवंभूतो) नाट्यलक्षणोऽर्थः कथं प्रतीतिगोचरीभवतीत्याह - अङ्गादीति येऽभिनयाः आङ्गिकादयः न च ते लिङ्गसङ्केतादिरूपाः | अपि तु प्रत्यक्षसाक्षात्कारकल्पलौकिकसम्यङ्मिथ्याज्ञानादिरूपः | तस्यैव भावाः शृङ्गारादयो रत्यादिविलक्षणास्वादपर्यायप्रतीत्युपयोगिनः | अत एवाभिमुख्यनयनहेतुत्वादन्यलोक - शास्त्रा प्रसिद्धेनाभिनयशब्देन व्यपदेश्याः | तथाऽङ्गानि शाखानृत्तगीतानि आदयः प्रधाना येषां तेऽङ्गादयः | तथाऽङ्गानि व्यभिचारिणो भावादयो हेतुरूपा विभावाः | अभिनयाः अनुभवाः | त एते रसाभिमुख्यनयनहेतवः यद्वक्ष्यति विभावानुभाव व्यभिचारिसंयोगाद्रसनिष्पत्तिः इति | (अ-६) तैरुपेतः | उप समीपमितः संविद्दर्पणमभिसङ्क्रान्तः | एवंभूतोऽर्थो नाट्यं नटनीयं नर्तनीयम् | तथा गमनीयं यत्नेन स्वरूपतो हृदयेनानुप्रवेष्टव्यम् | तथा नाटकानां (नटानां) पारम्पर्यात्मकं वृत्तं धर्माम्नायरूपं च | तच्च सुखदुःखाभ्यां फलरूपाभ्यां सम्यगन्वितम् | तेषां पश्चाद्भावित्वात् | प्. ४५) अपूजयित्वा रङ्गं तु यः प्रेक्षां कल्पयिष्यति | निष्फलं तस्य तत् ज्ञानं तिर्यग्योनिं च यास्यति || १२३ || यज्ञेन संमितं ह्येतद्रङ्गदैवतपूजनम् | तस्मात्सर्वप्रयत्नेन कर्तव्यं नाट्ययोक्तृभिः || १२४ || नर्तकोऽर्थपतिर्वापि यः पूजां न करिष्यति | न कारयिष्यत्यन्यैर्वा प्राप्नोत्यपचयं तु सः || १२५ || यथाविधि यथादृष्टं यस्तु पूजां करिष्यति | स लप्स्यते शुभानार्थान् स्वर्गलोकं च यास्यति || १२६ || तेन हेयोपादेयव्युत्पत्तिः फलम् | एतच्च वितत्याग्रे भावस्वरूपं निरूपयिष्यामः | (११८-११९) एवं सान्त्वेनापसारितेष्वपि विघ्नेषु दिव्यनिदेशनानाममोघत्वात् पूर्वविनियुक्तदेवतांशानां तत्र तत्र सन्निधानाद्यजनमवश्यकार्यमिति प्रदर्शयितुमुक्तमेवेतिहासमनुसन्दधन्निरूपयति - एतस्मिन्निति | अन्तर इति समये | विधिवदिति व्याचष्टे - बलिप्रदानै - रित्यादि | बल्यन्ते आप्याययन्ते देवता अनेनेति बलिः | विचित्रवर्णतण्डुलादिरचनाविशेषः | तिलादयश्चाग्नौ हूयन्त इति होमाः | उभयत्र विशेषणं मन्त्रौषधीति | मन्त्रा वक्ष्यमाणाः | ओषधयो वचाबलाजमोदप्रभृतयः | प्रशस्तानि धान्यानि च | खरविशदं शष्कुलीमोदकादि भोज्यं भक्ष्यमुच्यते | भक्षणीयन्तु भक्ष्यं पायसकृसरादि | पानानि क्षीरक्षुद्राक्षारसादीनि | बलिः पूर्वोक्तो रचनाविशेषः | एतैविच्छित्तियोजितैर्विधतया कल्प्यताम् | शोभाप्रधानं हि नाट्ये सर्वम् | ननु देवानां देवपूजाकरणे किं फलमित्याह - मर्त्यलोकगता इत्यादि | यद्यदाचरति श्रेष्ठ इति न्यायादिति भावः | प्रवर्तयेदिति | देवानुष्ठिताचारानुवर्तित्वात् | लोक इति शेषः | (१२०-१२२) | ननु यदि लोकः सदाचारं नानुवर्तेत ततः किमित्याह - अपूजयित्वेति | प्. ४६) एवमुक्त्वा तु भगवान्द्रुहिणः सहदैवतैः | रङ्गपूजां कुरुष्वेति मामेवं समचोदयत् || १२७ || इति भारतीये नाट्यशास्त्रे नाट्योत्पत्तिर्नाम प्रथमोऽध्यायः || निष्फलमिति | तस्येति | नाट्याचार्यस्य | पारलौकिकमपि प्रत्यवायमाह - तिर्यग्योनिं चेति | (१२३) ननु यद्यपूजने प्रत्यवायस्तर्हि पूजने किं तन्निवृत्तिमात्रं फलम् | नेत्याह - यथा विधीति | यथा देवैर्विहिता | कथमेतज्ज्ञायत इत्याह - यथादृष्टमिति शास्त्रदृष्टोऽसौ विधिरित्यर्थः | अर्थान् शुभानिति | ऐहलौकिकधनमानप्रसिद्धिलाभ उक्तः | (१२४-१२६) एवं मर्त्यान्प्रत्यभिधाय प्रकृतमेव पुराकल्पमनुसन्धत्ते - एवमुक्त्वेति | नाट्याचार्यस्यैव देवयजनेऽधिकारः | तस्यैव फललाभः | कवेः प्रेक्षाप्रवर्तयितुश्च तत्प्रयोकृत्वमित्यनेनोक्तम् | रज्यतेऽनेनेति रङ्गो नाट्यम् | तदाधारत्वान्मण्डपः | तदधिष्ठातृत्वाच्च देवता अपीति मण्डपाध्यायस्य द्वितीयस्योपोद्घातं करोतीति शिवम् | (१२७) त्रिणेत्रपादाब्जसदास्तवो(समाश्रयो)ल्लस- त्प्रसादभावस्फुटमिह नाट्यशासने | प्रवर्तितेयं हृदये महाधियां प्रकाशतामभिनवगुप्तभारती || इति श्रीमहामाहेश्वराभिनवगुप्ताचार्यविरचितायामभिनवभारत्यां भारतीयनाट्यशास्त्रविवृतौ नाट्योत्पत्तिर्नामः प्रथमोऽध्यायः || प्. ४७) श्रीः अथ द्वितीयोऽध्यायः भरतस्य वचः श्रुत्वा पप्रच्छुर्मुनयस्ततः | भगवन् श्रोतुमिच्छामो यजनं रङ्गसंश्रयम् || १ || अथ वा याः क्रियास्तत्र लक्षणं यच्च पूजनम् | भविष्यद्भिर्नरैः कार्यं कथं तन्नाट्यवेशमनि || २ || संसारनाट्यजननधातृबीजलताजुषीम् | जलमूर्तिं शिवां पत्युः सरसां पर्युपास्महे || १ || वृत्तेऽध्याये यथातत्त्वमिति (१-५) वचनवशात् भरतमुनिर्यजनादेः पाठ्यादिवदन्तरङ्गतां पश्यन्परमार्थनिर्णयेन कुर्यात् का तु कथा (पश्यति परमार्थनिर्णयेन | द्वितीये तु कथम्) मण्डपलक्षणं स्यात् | अत एव मुनिः गानं रङ्गश्च सङ्ग्रहः (६-१०) इति रङ्गं सर्वं पश्चाद्वक्ष्यति | तस्मात्कदाचिदे(त्कथमे)तदित्याशङ्कमाना (नानां) मुनय पप्रच्छुः इति परमात्मानं परिकलप्य मुनिराह - भरतस्य वच इति ब्रह्मेव कविः शक्र इव प्रयोजयिता भरत इव नाट्याचार्यः कोहलादय इव नटाः अप्सरस इव सुकुमारोपकरणं स्वातिरिवानद्धवित् नारदवद्गीतज्ञः सुरक्षितो मण्डपः इन्द्रोत्सवसदृशः प्रयोगकालः प्रशान्तरागद्वेषादिकाः सामाजिकाः देवतापूजनपूर्वकः प्रयोग इत्येवं सङ्ग्रहेण पूर्वाध्यायनिरूपितमर्थमवधार्येत्यर्थः | (यजनमिति) रङ्गपूजां कुरुष्व इति निवृत्तेऽध्याये निरूपितमिति सङ्गतिः | देवविषये यजनस्य मण्डपस्य क्रियां विना न निष्पत्तिरिति प्रथमं क्रियाप्रश्नस्तेषां विस्मृतोऽपि झटिति स्मृतिं गत इत्यभिप्रायेण दर्शयति - अथ वेति | पूर्वप्रश्नार्थोपमर्दनाय | अत एव पूजन प्. ४८) इहादिर्नाट्ययोगस्य नाट्यमण्डप एव हि | तस्मात्तस्यैव तावत्त्वं लक्षणं वक्तुमर्हसि || ३ || तेषां तु वचनं श्रुत्वा मुनीनां भरतोऽब्रवीत् | लक्षणं पूजनं चैव श्रूयतां नाट्यवेश्मनः || ४ || दिव्यानां मानसी सृष्टिर्गृहेषूपवनेषु च | (यथाभावाभिनिर्वर्त्याः सर्वे भावास्तु मानुषाः) | नराणां यत्नतः कार्या लक्षणाभिहिता क्रिया || ५ || श्रूयतां तद्यथा यत्र कर्तव्यो नाट्यमण्डपः | तस्य वास्तु च पूजा च यथा योज्या प्रयत्नतः || ६ || मिति पुनर्वचनम् | क्रियाः इतिकर्तव्यता | लक्षणं सन्निवेशपरिमाणादि | अतीतेषूपदेशो व्यर्थ इति भविष्यद्भिरित्युक्तम् | देवानां मनसा सम्पत्तेः नरैरिति | ननु लक्षणं किं कार्यम् | लक्ष्यत इति लक्षणं सन्निवेश इत्यदोषः | अथ वा भाविभिर्यत्कार्यं नाट्यवेश्म तत्र यत्क्रियालक्षणं पूजनं तत्कथमिति सम्बन्धः | (१-२) पूर्वकृते प्रश्नपञ्चके निर्णयं कृत्वेदं प्रश्नान्तरं निर्णयेदित्याशङ्कमाना मुनयः पुनराहुरिहादिरिति | नाट्यस्य योग उत्पत्तिः | तावदित्यनेन पूर्वप्रश्नितस्यात्याग उक्तः | एवकारो लक्षणशब्दानन्तरम् | इतिकर्तव्यतायाः तदङ्गत्वात् | यजनस्य च तन्निष्पत्यनन्तरत्वात् | तेषामिति | अन्यथा तु न ब्रूयादेवोक्ताद्धेतोः | अनेन श्लोकेन लक्षणपूजनज्ञानं देवानामप्युपयोगि | सङ्कल्पिस्यापि निर्माणस्य ज्ञानापेक्षित्वादित्युक्तम् | अत एवात्र क्रियेति नोक्तम् | (३-४) ननु किं क्रियै(या नै)वोच्यत इत्याह - दिव्यानामिति | श्रूयतामित्यनुवर्तते | नराणां कार्या क्रिया इतिकर्तव्यता च श्रूयताम् | चकाराल्लक्षणपूजने | शास्त्रेणोक्ता नराणामेव कस्मादित्याह - दिव्यानामिति | सृज्यमानत्वेन कर्मणोऽपि विषयत्ववि(त्वमेव) यत्र जन्मक्रमनियतप्ररोहकुसुमफलानि बहुविचित्रतरुलतास्थलीसरोवराक्रीडमयान्युपवनान्यपि प्. ४९) इह प्रेक्षागृहं दृष्ट्वा धीमता विश्वकर्मणा | त्रिविधः सन्निवेशश्च शास्त्रतः परिकल्पितः || ७ || विकृष्टश्चतुरश्रश्च त्यश्रश्चैव तु मण्डपः | तेषां त्रीणि प्रमाणानि ज्येष्ठं मध्यं तथाऽवरम् || ८ || प्रमाणमेषां निर्दिष्टं हस्तदण्डसमाश्रयम् | शतं चाष्टौ चतुःषष्टिर्हस्ता द्वात्रिंशदेव च || ९ || मानसानि तत्र गृहे का सम्भावनेति | श्रूयतामिति | तदिति | यतो नराणां यत्नतः कार्यताप्रकारः | यत्रेति देशकालौ | वास्त्विति | गृहभूमिगतं परिमाणमिह मन्तव्यम् | (पूजा)लक्षणोक्तेत्युक्तम् | (५-६) तत्र किं तल्लक्षणमित्याह - इह प्रेक्षागृहमिति | इह नाट्यमण्डपे | सन्निवेशः चशब्दात्प्रमाणमेतत् | विश्वकर्मणा परिकल्पितः | किं स्वबुद्ध्या | न | अपि तु शास्त्रतः प्रेक्स्.आगृहे विचार्य | शक्तश्चासौ विचार इत्याह - धीमतेति | ज्ञायत इत्याह | शास्त्रं कृतं तदप्यपरशास्त्रमूलमिति प्रवाहानादित्वमुक्तम् | कोऽसौ त्रिविध इत्याह - विकृष्टश्चेति | विभागेन कृष्टो दीर्घो न तु चतसृषु दिक्षु साम्येन | तिस्रोऽश्रयस्त्र्यश्री (श्रयो यस्य त्र्यश्रि) तदस्मिन्निति मत्वर्थीयोऽच् | एतान्येव त्रीणि ज्येष्ठादीनीति केचित् | अन्ये तु प्रत्येकं त्रित्वमिति नवैतेऽत्र भेदा इत्याहुः | एतदेव युक्तम् | तथा चाह - तेषामिति | प्रमाणं हस्तदण्डाश्रयं ज्येष्ठादित्वम् | न तु सन्निवेशाश्रयमिति यावत् | शतं चाष्टौ चतुःषष्टिर्द्वात्रिंशच्चेति निश्चयात् | इति केचित्पठन्ति | तेषां चास्ति(पि) हस्तदण्डसमाश्रयत्वं वाचकं भवति | एतच्च सर्वं सम्भवमात्रेणोच्यते | अनु(नानु)वादकतया | न त्वियन्तो भेदा उपयोगिनः | एवं चाष्टादश भेदास्तावच्छास्त्रे दृष्टाः | ते चान्यत्वे(द्यत्वे) यद्यप्यनुपयोगिनः तथापि च सम्प्रदायाविच्छेदार्थं निर्दिष्टाः | केषाञ्चित्कदाचिदुपयोगो भविष्यतीति | यथोक्तम् - अप्रयुक्ते दीर्घसत्रवत् इति | (७-९) प्. ५०) अष्टाधिकं शतं ज्येष्ठं चतुःषष्टिस्तु मध्यमम् | कनीयस्तु तथा वेश्म हस्ता द्वात्रिंशदिष्यते || १० || देवानां तु भवेज्ज्येष्ठं नृपानां मध्यमं भवेत् | शेषाणां प्रकृतीनां तु कनीयः संविधीयते || ११ || (प्रेक्षागृहाणां सर्वेषां प्रशस्तं मध्यमं स्मृतम् | तत्र पाठ्यं च गेयं च सुखश्राव्यतरं भवेत् || प्रेक्षागृहाणां सर्वेषां त्रिप्रकारो विधिः स्मृतः | विकृष्टश्चतुरस्रश्च त्र्यस्रश्चैव प्रयोक्तृभिः || कनीयस्तु स्मृतं त्र्यस्रं चतुरस्रं तु मध्यमम् | ज्येष्ठं विकृष्टं विज्ञेयं नाट्यवेदप्रयोक्तृभिः ||) प्रमाणं यच्च निर्दिष्टं लक्षणं विश्वकर्मणा | प्रेक्स्.आगृहाणां सर्वेषां तच्चैव हि निबोधत || १२ || अणू रजश्च वालश्च लिक्षा यूका यवस्तथा | अङ्गुलं च तथा हस्तो दण्डश्चैव प्रकीर्तितः || १३ || इदन्त्विहोपयोगीति दर्शयति - अष्टाधिकं शतमित्यादि | इष्यत इति | अन्यत्वेऽपीत्याशयः | देवानामिति | यत्र देवासुरप्राया एव नायकप्रतिनायकास्तत्र डिमादावारभटीप्रधाने विततरङ्गपीठोपयोगात् भाण्डवाद्यप्रधानत्वाच्च परिक्रमणादेरुच्च - तरदीर्घतरदीर्घतालपरिग्रहादियोगाच्च भक्तभावस्यासम्भवादष्टोत्तरशतहस्तो मण्डप इत्यर्थः | यस्तु व्याचष्टे प्रेक्षका अत्र देवादयो विवक्षिता न तु प्रयोज्याः | तेषां नियतसंख्याकत्वादिति | तस्यास्मदभिप्रायो न स्मृतिपथमागतः सन्नपि दशरूपकादौ | स चानन्तरमेव दर्शयिष्यते | (१०-११) प्रमाणं लक्षणं यन्निर्दिष्टमिति जातावेकवचनम् | प्. ५१) अणवोऽष्टौ रजः प्रोक्तं तान्यष्टौ वाल उच्यते | वालास्त्वष्टौ भवेल्लिक्षा यूका लिक्षाष्टकं भवेत् || १४ || यूकास्त्वष्टौ यवो ज्ञेयो यवास्त्वष्टौ तथाङ्गुलम् | अङ्गुलानि तथा हस्तश्चतुर्विंशतिरुच्यते || १५ || चतुर्हस्तो भवेद्दण्डो निर्दिष्टस्तु प्रमाणतः | अनेनैव प्रमाणेन वक्ष्याम्येषां विनिर्णयम् || १६ || कानि प्रमाणानीत्याह - अणू रजश्चेत्यादिना | तेषां लक्षणान्याह - अणवोऽष्टावित्यादि | यतः प्रभृति दृश्यता प्रवर्तते सोऽणुः | अणुः प्रसिद्धोऽणुपरिणामः | द्व्यणुकद्वयपरमाणुद्वयारब्धा अणव एव वा महत्त्वयुक्ताः | परमाणुद्वयारब्धे तु द्व्यणुकेऽणुपरिमाणमस्तु | कोऽत्र विरोध इत्यलमवान्तरेण | अनेनैवेति | देवानान्तु भवेत् इत्येनन यदुक्तम् | मण्डपाः - तद्यथा ज्येष्ठप्रमाणं ड्मप्राये | यद्वक्ष्यति - निर्घातोल्कापातैरुपरागेणेन्दुसूर्ययोर्युक्तः | युद्धनियुद्धाघर्षणसम्फेटकृतश्च विज्ञेयः || देवभुजगेन्द्रराक्षसयक्षपिशाचावकीर्णश्च | षोडशनायकबहुलः सात्वत्यारभटिकायुतस्तु डिमः || (ना. शा. १८) इति | तथा मध्यमप्रमाणं नृपतिप्रायप्रयोज्ये नाटकादौ यद्वक्ष्यति - निर्घातोल्कापातैरुपरागेणेन्दुसूर्ययोर्युक्तः | युद्धनियुद्धाघर्षणसम्भवकृतश्च विज्ञेयः || नृपतीनां यच्चरितम् | (ना. शा. १८.) इत्यादि | शेषास्तु प्रकृतयो भाणप्रहसनादौ | यच्च वक्ष्यति - विविधाश्रयो हि भाणो विज्ञेयस्त्वेकहार्यस्तु | (ना. शा. १८) तथा भगवत्तापसविप्रैरन्यैरपि च (ना. शा. १८.) इत्यादि | एवंभूतप्रकृतिप्रधाने प्रयोगे कनीयःप्रमाणो मण्डपः इति | एषां मण्डपानां मध्ये यो विनिर्णय एव सर्वसाधारणः मध्यमे मण्डपे नाटकभाणप्रयोगात् कनीयसि च डिमरूपे एव(ष) मण्डपं(पः) तं प्. ५२) चतुःषष्टिकरान्कुर्याद्दीर्घत्वेन तु मण्डपम् | द्वात्रिंशतं च विस्तारान्मर्त्यानां यो भवेदिह || १७ || अत ऊर्ध्वं न कर्तव्यः कर्तृभिर्नाट्यमण्डपः | यस्मादव्यक्तभावं हि तत्र नाट्यं व्रजेदिति || १८ || मण्डपे विप्रकृष्टे तु पाठ्यमुच्चारितस्वरम् | अनिस्सरणधर्मत्वाद्विस्वरत्वं भृशं व्रजेत् || १९ || वक्ष्यामीति | अयमभिप्रायः - ज्येष्ठमाने नाटकादिप्रयोगसौकर्याभावान्मध्यम एव युक्तः | स एव निर्णयः | विविधोऽपि दिव्यनृपप्रकृता(त्या)दिस्वभावो निश्चयाभिमुख्यमभिनयप्रयोगद्वारेण नीयते यत्रेति | (१२-१६) तं दर्शयति - चतुष्षष्टिं करानित्यादि | प्रयोक्तुः पुरस्तात्पृष्ठतश्च मण्डपेऽस्मिन् सति(पोऽस्मिन्नसति) करणार्हो न भवतीत्यर्थः | कर्तृभिरिति | किं तेषां वृथा प्रयासोत्पादनेनेति यावत् | तत्रेति | अतोऽधिकप्रमाणे अत्यन्तं न्यूनप्रमाणे चेत्यर्थः | नाट्यमिति | सकलावान्तरभेदे प्रभेदं दर्शयितुम् | नाट्यतोऽभि(ट्यं यतोऽभि)व्यक्तं भवतीति समुदायाभिप्रायेण मन्तव्यम् | तदेव दर्शयति - मण्डप इति | दीर्घत्वम् | पार्श्वयोर्विस्तारः | मर्त्यानामित्यनेन मण्डपकरणात् किमित्यकारणं प्रयोगेणैव(गो नैव) - वेद्यत इत्याशयः | एतदेवाह - अत ऊर्ध्वं नेति | अत इत्येवंविधो यतो मध्यमोऽस्ति ततो हेतोरित्यर्थः | ऊर्ध्वमिति | प्रमाणस्याधिक्यं न्यूनातिरेकाभ्यामिति मन्तव्यम् | कर्तव्य इति | प्रकर्षः प्रकृष्टं तदतिक्रान्तो विप्रकृष्टः | किन्नियोगमानः तस्मिश्च तत्र ज्येष्ठे | पाठ्यं यन्मुख्ये (ख्यं) नाट्यस्यैषा तनूस्मृता (ना.शा. १४-२) इति दर्शयिष्यते | तद्विस्वरत्व विशेषेणोपतापकत्वं निकटवर्तिनः प्रति व्रजेत् | अत्र हेतुः उच्चं कृत्वा चारितोऽतिक्लेशेन सम्पादितः स्वरः काक्वा (कखा) दिविभागो यत्र | तथा दूरवर्तिनः प्. ५३) यश्चाप्यास्यगतो भावो नानादृष्टिसमन्वितः | स वेश्मनः प्रकृष्टत्वाद्व्रजेदव्यक्तता पराम् || २० || प्रेक्षागृहाणां सर्वेषां तस्मान्मध्यममिष्यते | यावत्पाठ्यं च गेयं च तत्र श्रव्यतरं भवेत् || २१ || सामाजिकान्प्रति विस्वरत्वं विगतशब्दकत्वमनाकर्णनीयत्वं व्रजेत् | अत्र हेतुः अनिस्सरणधर्मत्वात् | निरन्तरे देशे सरणं द्वितीयशब्दारम्भः | स यस्य धर्मो नास्ति शब्दान्तरप्रसराभावादित्यर्थः | तथाऽतिकनीयसि मण्डपे पाठ्यमुच्चरितस्वर सदनिस्सरणधर्मत्वादनुरणनात्मकमधुरशब्दान्तरानारम्भात् विनष्टः स्वरो मधुरो यस्य तादृशत्वं व्रजेत् | अनुरणनं हि स्वरस्य पाठ्यसिद्धिरूपमिति गेयाधिकारे वक्ष्यामः | अनेन समानयोगक्षेमत्वात् अधिकातोद्यविस्वरत्वमपि लक्षितं भवति | तथा चोपसंहरिष्यति गेयं चेति | विस्वरत्वमिति स्वृ शब्दोपतापयोः इत्यस्य रूपम् | (१७-१९) प्रधानस्य पाठ्यस्य प्रधानानुरणनभूतस्य च गीततोद्यादेर्विनाशं प्रतिपाद्याभिनयवर्गस्यापि प्रतिपादयति - यश्चापीति | आस्यगतो मुखगतो भावः योऽनुभावलक्षणो दृष्टिबाष्पस्वेदवैवर्ण्यादिः तथा मकुटप्रतिशीर्षादिः | चकारादाङ्गिकः | स वेश्मनः प्रकृष्टत्वादतिविस्तीर्णत्वादव्यक्ततां व्रजेत् | तथा प्रगतं कृष्टं कर्षणं दैर्घ्यं यस्य तस्य भावः | ततः कनीयस्त्वाद्धेतोः परां द्वितीयामव्यक्ततामतिसामीव्यकृतां व्रजेत् | प्रथमं ह्यतिदूरत्वं कृत्वा सोक्ता | एवमुभयमण्डपाभिप्रायेणेदं व्याख्येयम् | अन्यथा तस्मान्मध्यममिष्यत इत्युपसंहारो न श्लिष्यति | तदाह - प्रेक्षागृहाणामित्यादि | मध्ये भवं मध्यमम् | तदिष्यते यतः सर्वेषां रूपाणां संबंधि यत्पाठ्यं प्रधानं तनूरूपप्राणोपरञ्जकरूपं च गीतं चकारादातोद्यं च श्रव्यतरं भवति | द्वितीयचकारादभिनयान्तरमपि दृश्यतरं भवतीत्यर्थः | (२०-२१) प्. ५४) (प्रेक्षागृहाणां सर्वेषां त्रिप्रकारो विधिः स्मृतः | विकृष्टश्चतुरस्रश्च त्र्यस्रश्चैव प्रयोक्तृभिः || कनीयस्तु स्मृतं त्र्यस्रं चतुरस्रं च मध्यमम् | ज्येष्ठं विकृष्टं विज्ञेयं नाट्यवेश्म प्रयोक्तृभिः ||) देवानां मानसी सृष्टिर्गृहेषूपवनेषु च | यत्नभावाभिनिष्पन्नाः सर्वे भावा हि मानुषाः || २२ || तस्माद्देवकृतैर्भावैर्न विस्पर्धेत मानुषः | मानुषस्य तु गेहस्य सम्प्रवक्ष्यामि लक्षणम् || २३ || भूमेर्विभागं पूर्वं तु परीक्षेत प्रयोजकः | ततो वास्तु प्रमाणेन प्रारभेत शुभेच्छया || २४ || ननु यद्येवं प्रयोगक्रमस्तर्हि हस्तसमाश्रयेणैव विधिर्वक्तव्यः | सोऽपि यत्र परिपूर्णो नोपकारी तत्र दण्डसमाश्रयेणातोद्यमानेन | अथ कदाचिद्दिव्यप्रकृतिप्रेक्षकाभिप्रायेण तदुच्यते तत्रापि कः स्तोकान्तरत्वेनेति न्यायेन का इति(ह) सम्भावनेत्याशङ्कां पराकर्तुं श्लोको भावी | अत एव पूर्वश्लोकेन सह नात्र पौनरुक्त्यं शङ्कितव्यम् | तस्यान्यथोपक्षेपात् | तच्छ्लोकमाह - देवानामित्यादि | मनसस्तदीयस्य सत्त्वबहुलत्वात् तत्कृत इन्द्रियविसर्जनलक्षणे व्यापारोऽतिरूपव्यापी | उपवनेष्वपि विततविततेषु | का कथा मण्डपविषये | अत एव गृहष्विति बहुवचनमुपात्तम् | तेन तदपेक्षया ते मण्डपा उक्ता इत्यर्थः | न त्वेवं मानुषाणां राजसानां मनः | तदाह - देवकृतैरिति | यत एवं तस्मान्मानुषस्यैव गेहस्य लक्षणं सम्यक्प्रवक्ष्यामि | तशब्द एवकारार्थे | (२२-२३) सम्यगिति यदुक्तं तदाह - भूमेरित्यादि | विभागो हेयोपादेयत्वेन | वास्त्विति | ग्रहणं प्रमाणं चेत्युपलक्ष्यमाणरूपेण प्रारभेत | कर्तुमिति शेषः | प्. ५५) समा स्थिरा तु कठिना कृष्णा गौरी च या भवेत् | भूमिस्तत्रैव कर्तव्यः कर्तृभिर्नाट्यमण्डपः || २५ || प्रथमं शोधनं कृत्वा लाङ्गलेन समुत्कृषेत् | अस्थिकीलकपालानि तृणगुल्मांश्च शोधयेत् || २६ || शोधयित्वा वसुमतीं प्रमाणं निर्दिशेत्ततः | (त्री.युत्तराणि सौम्यं च विशाखापि च रेवती || हस्ततिष्यानुराधाश्च प्रशस्ता ना.यकर्मणि |) पुष्यनक्षत्रयोगेन शुक्लं सूत्रं प्रसारयेत् || २७ || कार्पासं बाल्बजं वापि मौञ्जं वाल्कलमेव च | सूत्रं बुधैस्तु कर्तव्यं यस्य च्छेदो न विद्यते || २८ || तं विभागमाह - समेत्यादि | समा स्वभावान्नातिनिम्नोन्नतेत्यर्थः | स्थिरा अचलनस्वभावा | कठिना अनूषरा | कृष्णा गौरीचेति | चो वार्थे | अन्ये तु व्यामिश्रितत्वमाहुः | कर्तव्य इति करणार्हः | कथमित्याह - प्रथममित्यादि | शोधनमुपरिगताशुचिशर्कराद्यपसारणम् | ततो हलेनोद्धृतगुल्मपाषाणादिकां कुर्यात् | एतदेवाह - अस्थीत्यादिना | एवं बाह्याभ्यन्तरतो भूमिशुद्धिं निरूप्यानन्तरकरणीयमाह - शोधयित्वेति | कथं प्रमाणनिर्देश इत्याह - पुष्येति | शुक्लसूत्रत्वं तावत्पिष्टरञ्जनादिना | चर्मकृतं मानसूत्रं न कार्यमिति च तात्पर्यम् | स्वामिनः प्रेक्षापतेः | प्रयोक्तुर्नाट्याचार्यस्य | प्रयत्नेन रज्जुग्रहणमित्यच्छेद्यानुभरणीया | तादृशी च सावधानतयावष्टम्भवियोगाद्युभयथा तथा प्रयत्नतो योज्यम् | नित्यमिति | न केवलमत्र प्रथमपरिग्रहे यावदन्यभाविस्तम्भविनिवेशाय भूभागमानग्रहणादावित्यर्थः | प्रयत्नेन मानमित्यूनाधिकादिदोषवर्जनायायं यत्न प्. ५६) अर्धच्छिन्ने भवेत्सूत्रे स्वामिनो मरणं ध्रुवम् | त्रिभागच्छिन्नया रज्ज्वा राष्ट्रकोपो विधीयते || २९ || छिन्नायां तु चतुर्भागे प्रयोक्तुर्नाश उच्यते | हस्तात्प्रभ्रष्टया वापि कश्चित्त्वपचयो भवेत् || ३० || तस्मान्नित्यं प्रयत्नेन रज्जुग्रहणमिष्यते | कार्यं चैव प्रयत्नेन मानं नाट्यगृहस्य तु || ३१ || मुहूर्तेनानुकूलेन तिथ्या सुकरणेन च | ब्राह्मणांस्तर्पयित्वा तु पुण्याहं वाचयेत्ततः || ३२ || शान्तितोयं ततो दत्त्वा ततः सूत्रं प्रसारयेत् | चतुष्षष्टिकरान्कृत्वा द्विधा कुर्यात्पुनश्च तान् || ३३ || पृष्ठतो यो भवेद्भागो द्विधाभूतस्य तस्य तु | सममर्धविभागेन रङ्गशीर्ष प्रकल्पयेत् || ३४ || इत्यपौनरुक्त्यम् | मुहूर्तो ब्राह्मादिः | तिथिर्हदा(र्नन्दा)दिः | करणं विष्ट्यादिरहितम् (२४-३२) | सूत्रप्रसारणेन यत्कृत्यं तदाह - चतुष्वष्टिरित्यादि | चतुष्षष्टिर्हस्तदैर्घ्याद्विस्ताराच्च द्वात्रिंशत्करं क्षेत्रं गृहीत्वा मध्ये सूत्रं विस्तारेण दद्यात् | पुरस्ताद्भागः प्रेक्षकभागः | अपरस्ताद्भागः प्रयोक्तृभागः | तत्र यत्प्रयोक्तुः पृष्ठगं भविष्यति तदेव पृष्ठम् | तस्य मध्ये विस्तारेण सूत्रं दद्यात् | ततः षोडशहस्तौ द्वौ भागौ भवतः | तयोः पाश्चात्यभागः षोडशहस्तो नेपथ्यगृहम् | पूर्वभागमपि द्विधा कुर्यात् | पृष्ठगतं भागमर्धेन विभज्याष्टहस्तं रङ्गशिरः | प्रविशतां पात्राणां चान्तस्स्थानम् | नाट्यमण्डपस्य ह्युत्तानसुप्तवदवस्थितस्य रङ्गपीठं मुख्यम् | तदष्टहस्तं शिरः | तत्पृष्ठे तु दैर्घ्याद्धि षोडशहस्तं नेपथ्यगृहं भवति | विस्तारात्तु द्वात्रिंशत्करमेव तत् | नैपथ्यादिकं प्. ५७) पश्चिमे च विभागेऽथ नेपथ्यगृहमादिशेत् | विभज्य भागान्विधिवद्यथावदनुपूर्वशः || ३५ || शुभे नक्षत्रयोगे च मण्डपस्य निवेशनम् | शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गपणवादिभिः || ३६ || सर्वातोद्यैः प्रणुदितैः स्थापनं कार्यमेव तु | उत्सार्याणि त्वनिष्टानि पाषण्ड्याश्रमिणस्तथा || ३७ || काषायवसनाश्चैव विकलाश्चैव ये नराः | निशायां च बलिः कार्यो नानाभोजनसंयुतः || ३८ || गन्धपुष्पफलोपेतो दिशो दश समाश्रितः | पूर्वेण शुक्लान्नयुतो नीलान्नो दक्षिणेन च || ३९ || पश्चिमेन बलिः पीतो रक्तश्चैवोत्तरेण तु | यादृशं दिशि यस्यां तु दैवतं परिकल्पितम् || ४० || तादृशस्तत्र दातव्यो बलिर्मन्त्रपुरस्कृतः | स्थापने ब्राह्मणेभ्यश्च दातव्यं घृतपायसम् || ४१ || च तत्र गृह्यते | तदाह - पश्चिमे चेति | तत्र रङ्गपीठं विस्तारतः षोडश दैर्घ्यतस्त्वष्टहस्ता इति केचित् | अन्ये त्वेतदेव विपर्यासयन्ति | सर्वथा तावदङ्गपीठस्यापि विकृष्टत्वं विधेयमिति तात्पर्यम् | यद्वक्ष्यते - रङ्गो विकृष्टो भरतेन कार्यः (ना. शा. १२-२०) इत्यादि | (३३-३५) एवं मानविधिमभिधायेष्टकास्थापनरूपे निवेशने विधिमाह - शुभे नक्षत्रयोग इत्यादिना | दशसु तिर्यगूर्ध्वाधोरूपासु दिक्षु बलिः कार्य इत्युक्त्वा चतसृषु दिक्षु बलिविधिरुक्तो नान्यथेत्यभिप्रायेण व्यापकं विधिमाह - यादृशमित्यादिना | तेनाग्नेये प्. ५८) मधुपर्कस्तथा राज्ञे कर्तृभ्यश्च गुडौदनम् | नक्षत्रेण तु कर्तव्यं मूलेन स्थापनं बुधैः || ४२ || मुहुर्तेनानुकूलेन तिथ्या सुकरणेन च | एवं तु स्थापनं कृत्वा भित्तिकर्म प्रयोजयेत् || ४३ || भितीकर्मणि निर्वृत्ते स्तम्भानां स्थापनं ततः | तिथिनक्षत्रयोगेन शुभेन करणेन च || ४४ || स्तम्भानां स्थापनं कार्यं रोहिण्या श्रवणेन वा | आचार्येण सुयुक्तेन त्रिरात्रोपोषितेन च || ४५ || स्तम्भानां स्थापनं कार्यं प्राप्ते सूर्योदये शुभे | प्रथमे ब्राह्मणस्तम्भे सर्पिस्सर्षपसंस्कृतः || ४६ || सर्वशुक्लो विधिः कार्यो दद्यात्पायसमेव च | ततश्च क्षत्रियस्तम्भे वस्त्रमाल्यानुलेपनम् || ४७ || सर्वं रक्तं प्रदातव्यं द्विजेभ्यश्च गुडौदनम् | वैश्यस्तम्भे विधिः कार्यो दिग्भागे पश्चिमोत्तरे || ४८ || सर्वं पीतं प्रदातव्यं द्विजेभ्यश्च घृतौदनम् | शूद्रस्तम्भे विधिः कार्यः सम्यक्पूर्वोत्तराश्रये || ४९ || रक्तवर्ण इत्याद्यूह्यम् | मन्त्रा वरुणपूजाविधौ वक्ष्यमाणाः | ते च कर्मशंसोपर्मसं) योगिनोहेन युक्ता विधेयाः | मन्त्रेण स्मृतं कर्म करोति इति हि स्मृतिः | अन्ये तु तद्देवताकैः श्रुतिमन्त्रैरेव बलिकर्मेत्याहुः | तल्लिङ्गरित्यन्ये | चकारो भिन्नक्रमः | न केवलं मानोपक्रमे ब्राह्मणतर्पणं यावत्स्थापनेऽपीत्यर्थः | (३६-४३) एवं मानविधिं स्थापनविधिं भित्तिविधिं च कृत्वा स्तम्भविधिः कार्य इति दर्शयति - भित्तिकर्मणीति | स्थापनमुच्छ्रयणम् | प्रथमं त्वाग्नेयः कोणः | तस्य विशेषणैः प्. ५९) नीलप्रायं प्रयत्नेन कृसरं च द्विजाशनम् | पूर्वोक्तब्राह्मणस्तम्भे शुक्लमाल्यानुलेपने || ५० || निक्षिपेत्कनकं मूले कर्णाभरणसंश्रयम् | ताम्रं चाधः प्रदातव्यं स्तम्भे क्षत्रियसंज्ञके || ५१ || वैश्यस्तम्भस्य मूले तु रजतं सम्प्रदापयेत् | शूद्रस्तम्भस्य मूले तु दद्यादायसमेव च || ५२ || सर्वेष्वेव तु निक्षेप्यं स्तम्भमूलेषु काञ्चनम् | स्वस्तिपुण्याहघोषेण जयशब्देन चैव हि || ५३ || स्तम्भानां स्थापनं कार्यं पुष्पमालापुरस्कृतम् | रत्नदानैः सगोदानैर्वस्त्रदानैरनल्पकैः || ५४ || ब्राह्मणांस्तर्पयित्वा तु स्तम्भानुत्थापयेत्ततः | अचलं चाप्यकम्पञ्च तथैवावलितं पुनः || ५५ || स्तम्भस्योत्थापने सम्यग्दोषा ह्येते प्रकीर्तिताः | अवृष्टिरुक्ता चलने वलने मृत्युतो भयम् || ५६ || अनुवादलिङ्गविधिकल्प्यं (लिङ्गविधिः कल्प्यः) | शुभं(क्लं) सर्वत्र पायसमिति - द्विजेभ्य इति प्रकरणात् | सर्वस्य विध्यनुसारेणैव भोजनं शुक्लादिवर्णमिति मन्तव्यम् | ततश्चेति | तैरन्त(तदन्त) इत्यर्थः | (४४-५४) अचलमिति | स्थानान्तरा निवेशलक्षणमनोनोक्तम् | अविद्यमाना चलना यस्येति | अकम्प्यमिति | तत्रैव स्थानशिथिलता येन न भवति | अवलितमिति | वलयाकृत्यादिना परिवर्तनं यस्य करणीयं न भवति | दोषसूचकत्वाद्दोषकरित्वाच्च दोषाः | तान्दोषानाह - अवृष्टिरित्यादि | (५५-५७) प्. ६०) कम्पने परचक्रात्तु भयं भवति दारुणम् | दोषैरेतैर्विहीनं तु स्तम्भमुथ्तापयेच्छिवम् || ५७ || पवित्रे ब्राह्मणस्तम्भे दातव्या दक्षिणा च गौः | शेषाणां भोजनं कार्यं स्थापने कर्तृसंश्रयम् || ५८ || मन्त्रपूतं च तद्देयं नाट्याचार्येण धीमता | पुरोहितं नृपं चैव भोजयेन्मधुपायसैः || ५९ || कर्तॄनपि तथा सर्वान्कृसरां लवणोत्तराम् | सर्वमेवं विधिं कृत्वा सर्वातोद्यैः प्रवादितैः || ६० || अभिमन्त्र्य यथान्यायं स्तम्भानुत्थाप्येच्छुचिः | यथाऽचलो गिरिर्मेरुर्हिमवांश्च महाबलः || ६१ || जयावहो नरेन्द्रस्य तथा त्वमचलो भव | स्तम्भद्वारं च भित्तिं च नेपथ्यगृहमेव च || ६२ || एवमुत्थापयेत्तज्ज्ञो विधिदृष्टेन कर्मणा | रङ्गपीठस्य पार्श्वे तु कर्तव्या मत्तवारणी || ६३ || दातव्येति | द्विजायेति दातव्यबलाल्लभ्यते | अभिमन्त्र्येति सूचितो यः मन्त्रस्तमाह - यथेति | प्रणवनमस्कारमध्यवर्ती चायं पठितव्य इति वास्तुविद्याविदः | अचलो भवेति | पू(अपू)र्वविधिः | न (तेन) तदनुवादेन जयावहो भवेत्यस्य न पौनरुक्त्यम् (?) एवमिति | तेन भित्तौ स्त्रीत्वेन गृहे नपुंसकत्वेनोहः कार्यः | पार्श्व इति | विशेषानुपादानात्तयोस्तुल्यम् (ना. शा. २-६५) इति च द्विवचनाल्लिङ्गाद्भाविनोर्द्वयोः पार्श्वयोरिति लभ्यते | (५८-६३) स्तम्भाश्चत्वारः बहिर्मण्डपान्निष्कासनं कृत्वा ध्रियन्ते मण्डपक्षेत्राद्बहिः | तेन भित्तिच्छ्रेदावधौ स्तम्भद्वयम् | ततोऽपि बहिर्भित्तेरष्टहस्तान्तरस्तम्भापेक्षयाऽप्यष्टहस्तान्तर- प्. ६१) चतुःस्तम्भसमायुक्ता रङ्गपीठप्रमाणतः | अध्यर्धहस्तोत्सेधेन कर्तव्या मत्तवारणी || ६४ || ऊत्सेधेन तयोस्तुल्यं कर्तव्यं रङ्गमण्डपम् | तस्यां माल्यं च धूपं च गन्धं वस्त्रं तथैव च || ६५ || नानावर्णानि देयानि तथा भूतप्रियो बलिः | आयसं तत्र दातव्यं स्तम्भानां कुशलैरधः || ६६ || भोजने कृसराश्वैव दातव्यं ब्राह्मणाशनम् | एवं विधिपुरस्कारैः कर्तव्या मत्तवारणी || ६७ || रङ्गपीठं ततः कार्यं विधिदृष्टेन कर्मणा | रङ्गशीर्षन्तु कर्तव्यं षड्दारुकसमन्वितम् || ६८ || स्तम्भद्वयमित्येतावदित्यष्टहस्तविस्तारा समचतुरश्रा मत्तवारणी भवति | आयामस्तु प्रमाणमिति ये वदन्ति तेषां मते दैर्घ्यादष्टहस्तं विस्तारात् षोडशहस्तमित्येवं विकृष्टता रङ्गपीठस्य भवति | अन्येषां हस्तमानोऽत्र (मानमत्र) यथा रङ्गपीठापेक्षया च सार्धहस्तपरिमाण उच्छ्रायः कार्यो मत्तवारण्याः | तयोरिति द्विवचनं ज्ञाप- कमेतच्चरितार्थमितीह नापेक्षित इति | तस्या एव यावानुत्सेधस्तावान्रङ्गपीठस्य | तेन बुध्नभूभागापेक्षया सार्धहस्तप्रमाणोन्नतं रङ्गपीठमित्युक्तं भवति | तेन मत्तवारण्यालोकेन नात्यर्थं रङ्गपीठस्य दुष्प्रेक्षता | एतच्चोत्सेधेनेत्येकवचनेन सूचितम् | अन्यथोत्सेधाभ्यामित्युच्येत | माल्यधूपाद्यत्र निर्माणकाल एव देयम् | तदधिष्ठातृणां भूतादीनामुग्रत्वेन यत्नोपचरणीयत्वात् | तदाह - विधिपुरस्कारैरिति | पुरस्कारशब्देन विधिर्वास्तुविद्याशास्त्रोक्तः | (६४-६७) | रङ्गपीठे कार्ये रङ्गशिरस्तावदाह - रङ्गशीर्षमिति | नेपथ्यगृहभित्तिलग्नौ द्वौ स्तम्भा वष्टहस्तान्तरावन्योन्यं निवेश्य तयोर्यन्मुखादेरपेक्षया चतुर्हस्तान्तरं स्तम्भद्वयम् | तेषामधस्तनं काष्ठमुपरितनं चेति षड् दारूणि | यत्र षड् दारूणि तत्षड्दारूकम् | प्. ६२) कार्यं द्वारद्वयं चात्र नेपथ्यगृहकस्य तु | पूरणे मृत्तिका चात्र कृष्णा देया प्रयत्नतः || ६९ || लाङ्गलेन समुत्कृष्य निर्लोष्टतृणशर्करम् | लाङ्गले शुद्धवर्णो तु धुर्यौ योज्यौ प्रयत्नतः || ७० || कर्तारः पुरुषाश्चात्र येऽङ्गदोषविवर्जिताः | अहीनाङ्गैश्च वोढव्या मृत्तिका पिटकैर्नवेः || ७१ || एवंविधैः प्रकर्तव्यं रङ्गशीर्षं प्रयत्नतः | कूर्मपृष्ठं न कर्तव्यं मत्स्यपृष्ठं तथैव च || ७२ || शुद्धादर्शतलाकारं रङ्गशीर्षं प्रशस्यते | रत्नानि चात्र देयानि पूर्वे वज्रं विचक्षणैः || ७३ || वैडूर्यं दक्षिणे पार्श्वे स्फटिकं पश्चिमे तथा | प्रवालमुत्तरे चैव मध्ये तु कनकं भवेत् || ७४ || संज्ञायां कन् | तत्तेन विचित्ररचनोपेतत्वं लभ्यते | अत्र नेपथ्यगृहस्य द्वारद्वयं कार्यम् | एकं दक्षिणतः | अपरमुत्तरतः | तच्च द्वारद्वयमापादितं कूर्पराभिन(म)त्या भवति | तत्पात्राणां विश्रान्त्यै आगच्छतां च गुप्त्यै रङ्गस्य शोभायै रङ्गशिरः कार्यम् | अन्ये तु - पार्श्वद्वयोर्ध्वाधरदारुमण्डितं स्तम्भद्वयोपेतमिहाच्छपातकम् | इति षड्दारुकमाहुः | अन्ये (अत्र) तूर्धूस्तम्भशिरसो दूरं निर्गतकाष्ठादप्रत्यूहस्ततो(हतो) विनिर्गता तुलासञ्जवनफलकाः स्मृताः | आकाशे भित्तिव्याख्याः स्तम्भाश्रिताः सिंहादयो व्यालानुबन्धाश्च निर्यूहास्तुलान्तान्न्स्सृताः फलकभित्तिमयाः कुहराणि पर्वतपुरनिकुञ्जगह्वररूपाणीति षड्दारुकम् | सर्वत्र च पक्षे दाक्षिणोत्तरगतं द्वारद्वयं पात्राणां प्रवृतिभेदकृतात्प्रदक्षिणाप्रदक्षिणप्रवेशत्वात् | शुद्धवर्णौ | शुक्लौ | धुर्यौ दान्तौ | (६८-७१) प्. ६३) एवं रङ्गशिरः कृत्वा दारुकर्म प्रयोजयेत् | ऊहप्रत्यूहसंयुक्तं नानाशिल्पप्रयोजितम् || ७५ || नानासञ्जवनोपेतं बहुव्यालोपशोभितम् | ससालभञ्जिकाभिश्च समन्तात्समलङ्कृतम् || ७६ || निर्व्यूहकुहरोपेतं नानाग्रथितवेदिकम् | नानाविन्याससंयुक्तं चित्रजालगवाक्षकम् || ७७ || सुपीठधारिणीयुक्तं कपोतालीसमाकुलम् | नानाकुट्टिमविन्यस्तैः स्तम्भैश्चाप्युपशोभितम् || ७८ || एवं काष्ठविधिं कृत्वा भित्तिकर्म प्रयोजयेत् | स्तम्भं वा नागदन्तं वा वातायनमथापि वा || ७९ || कूर्मपृष्ठमिति | समन्ततो निम्नं मध्ये च वर्तलरूपं मन्दम् | तत्तादृगेव मध्ये दीर्घरूपं मत्स्यपृष्ठम् | तदुभयं नात्र कार्यम् | समं तुल्यं कार्यम् | रत्नानि तदायुधं तद्वर्णानुरूपत्वेन यथायोगम् | कृत्वेति | पूर्वं विभज्य बुद्ध्येति यावत् | दारुकर्मेत्युक्तं विभजति - ऊहप्रत्यूहसंयुक्तमित्यादिना स्तम्भैश्चाप्युपशोभितमित्यन्तेन | कुहराणि पर्वतनिकुञ्जगृहाणि वनरूपाणि | सालभञ्जिकाः काष्ठमययः कान्ता(न्त)प्रकृतयः | नानाकृतिभिर्ग्रथिताः वेदिकाश्चतुरश्रिकाः यत्र | चित्राणि जालानि चतुरश्राष्टाश्रच्छिद्ररूपाणि गवाक्षाणि च वर्तुलच्छिद्रात्मकानि यत्र | पीठानि स्तम्भोपरि | तेषु धारिण्यस्तुलाः | कपोताली विटङ्कपाली | कुट्टिमस्य नानात्वं रङ्गशिरोरङ्गपीठमत्तवारणीद्वयभेदात् | सर्वत्र तथाविधदारुकसूचकम् | रक्तसितनीलपीतादिभेदाद्वा | अत्रोहप्रत्यूहावन्ययव्यतिरेकतर्कोपयोगिनौ केचिदाहुः | (७२-७८) प्रतिद्वारमवान्तरद्वारं द्वारेण विद्धं परस्परसंमुखीभूतमध्यं न कुर्यात् | नागदन्तं स्तम्भोर्ध्वनीचस्थांशकं(नीडस्थाङ्गकं) पुत्रिकाधारणार्थं गजमुखमिति केचित् | द्वे भूमी रङ्गपीठस्याधस्तनोपरितनरूपेणेति केचित् | मत्तवारणी बहिर्निर्गमनप्रमाणेन सर्वतो द्वितीयभित्तिनिवेशेन देवप्रसादाद्धा(दद्वा)रिका (देवप्रासादाट्टालिका?) प्रदक्षिणसदृशी प्. ६४) कोणं वा सप्रतिद्वारं द्वारविद्धं न कारयेत् | कार्य शैलगुहाकारो द्विभूमिर्नाट्यमण्डपः || ८० || मन्दवातायनापेतो निर्वातो धीरशब्दवान् | तस्मान्निवातः कर्तव्यः कर्तृभिर्नाट्यमण्डपः || ८१ || गम्भीरस्वरता येन कुतपस्य भविष्यति | भित्तिकर्मविधिं कृत्वा भित्तिलेपं प्रदापयेत् || ८२ || सुधाकर्म बहिस्तस्य विधातव्यं प्रयत्नतः | भित्तिष्वथ विलिप्तासु परिमृष्टासु सर्वतः || ८३ || समासु जातशोभासु चित्रकर्म प्रयोजयेत् | चित्रकर्मणि चालेख्याः पुरुषाः स्त्रीजनास्तथा || ८४ || लताबन्धाश्च कर्तव्याश्चरितं चात्मभोगजम् | एवं विकृष्टं कर्तव्यं नाट्यवेश्म प्रयोक्तृभिः || ८५ || द्वितीया भूमिरित्यन्ये | उपरि मण्डपान्तरनिवेशनादित्यपरे | अद्विभूमिरित्येके | उपाध्यायास्तु वीप्सागर्भ व्याचक्षते | द्वे द्वे भूमी यत्न निम्नाते (निम्नोन्नते) ततोऽप्युन्नता इति निक्रमेण (निम्नोन्नतक्रमेण) रङ्गपीठनिकटात्प्रभृति द्वारपर्यन्तं यावद्रङ्गपीठोत्सेधतुल्योत्सेधा भवति | एवं हि परस्परानाच्छादनं सामाजिकानाम् | शैलगुहाकारत्वं(त्वात्) स्थिरशब्दादित्वं च भवति | मन्दत्वं वातायनानां जलकपान(जालकपाट)योगात्कार्यम् | कुतपः संफेटकगायनवादकसमूहः | कुर्नाट्यभूमिस्तां तपति उज्ज्वलयतीति कृत्वा | कुतं शब्दं पातीत्यन्ये | गम्भीरत्वं तत्रैव शब्दस्य भ्रमणादन्योन्यप्रतिश्रुतिकारसमारम्भसम्पूर्णाच्च (?) | भित्तिलेपो भङ्ग(शङ्ख)वालुकाशुक्तिकालेपः | लताबन्धा द्रुमलतादिबन्धसन्निवेशा वा मालत्यादिलतागतातोद्यवेष्टनवैचित्र्यप्रकारा वा वक्ष्यमाणपिण्डीबन्धप्रकारविशेषाश्च | एतदुपसंहरति - एवं विकृष्टमिति | (७९-८५) | प्. ६५) पुनरेव हि वक्ष्यामि चतुरश्रस्य लक्षणम् | समन्ततश्च कर्तव्या हस्ता द्वात्रिंशदेव तु || ८६ || शुभभूमिविभागस्थो नाट्यज्ञैर्नाट्यमण्डपः | यो विधिः पूर्वमुक्तस्तु लक्षणं मङ्गलानि च || ८७ || विकृष्टे तान्यशेषाणि चतुरश्रेऽपि कारयेत् | चतुरश्रं समं कृत्वा सूत्रेण प्रविभज्य च || ८८ || बाह्यतः सर्वतः कार्या भित्तिः श्लिष्टेष्टका दृढा | तत्राभ्यन्तरतः कार्या रङ्गपीठोपरि स्थिताः || ८९ || यद्यपि समचतुरश्रोऽत एव शक्य ऊहितुं तथापि विस्पष्टार्थं वक्ष्यामीत्याशयेन पुनः शब्देनोपक्रमते - पुनरेवेति | ननु विकृष्टे स्तम्भविभागरङ्गयोजनादि नोक्तं तत्कथं प्रतिपत्तव्यमित्याशङ्कायामावृत्त्याऽनेनैवोत्तरं - चतुरश्रसम्बन्धि यल्लक्षणं तत्पुनर्यस्माद्वक्ष्यामो घटस्य (यदस्य) विकृष्टस्य सम्बन्धित्वेन तस्मान्नापूर्ण विकृष्टलक्षणम् | तथा यदस्य लक्षणमुक्तं तच्चतुरश्रेऽपि सञ्चारणीयमिति पुनश्शब्देन दर्शयति | तेनातिदेशा(शम)नागतापेक्षणाख्यं तत्र युराति (योजयति) | चतुरश्रमाह - समन्तत इति | सर्वेष्वन्तेषु चतसृष्वपि दिक्ष्वित्यर्थः | प्रविभज्य चेति | पूर्ववदेवेत्यर्थः | यदि बाह्यतो भित्तिरभ्यन्तरे किमित्याह - तत्राभ्यन्तर इति | अष्टभिर्भागैः सर्वतः क्षेत्रं विभजेत् | येन चतुरङ्गफलकवच्चतुष्षष्टिकोष्ठं भवति | तत्र मध्यमकोष्ठकचतुष्के रङ्गपीठं सर्वतोऽष्टहस्तम् | तस्य पश्चिमे भागे प्राक्पश्चिमं द्वादशहस्तं दक्षिणोत्तरतो द्वात्रिंशत्करं तत्क्षेत्रमवशिष्यते | (अत्र यद्रङ्गपीठेन स्वीकृतं तद्धि हस्ताष्टकमेव |) यदवशिष्टं क्षेत्रं तन्मध्याद्रङ्गपीठनिकटगतं प्राक्पश्चिमतश्चतुर्हस्तं विस्तारेण द्वात्रिंशद्धस्तं क्षेत्रांशाद्विभज्य तावत्प्रमाणमेव पश्चिमभागेऽपि ष(ड्दारु)कसंस्थानं रङ्गशिरः कुर्यात् | ततोऽपि पश्चिमे तावदेव नेपथ्यग्रहणम्(गृहम्) | एवं स्थिते रङ्गपीठं लक्षयित्वा दश स्तम्भाः षड्दारुकस्तम्भव्यतिरिक्ता देयाः | तत्र कोणचतुष्टये तावच्चत्वारः | तत्राग्नेयस्तम्भाच्चतुर्हस्तान्तरो दक्षिणदिश्येकः स्तम्भः | तथैव नैर्-ऋतस्तम्भाद् द्वितीयः | प्. ६६) दश प्रयोक्तृभिः स्तम्भाः शक्ता मण्डपधारणे | स्तम्भानां बाह्यतश्चापि सोपानाकृति पीठकम् || ९० || इष्टकादारुभिः कार्य प्रेक्षकाणां निवेशनम् | हस्तप्रमाणैरुत्सेधैर्भूमिभागसमुत्थितैः || ९१ || रङ्गपीठावलोक्यं तु कुर्यादासनजं विधिम् | षडन्यानन्तरे चैव पुनः स्तम्भान्यथादिशम् || ९२ || एवमुदीच्यामपि स्तम्भद्वयम् | पूर्वभागे ऐशानाग्निगतात्स्तम्भद्वयाच्चतुर्हस्तान्तरं स्तम्भद्वयमिति षट् | कोणगाश्चत्वार इति ये दश त एव | बहिः सामाजिकासनानि सर्वेभ्यो वा बहिः | अतिसामीप्ये दृष्टिविघातात् | अत एवाह रङ्गपीठावलोकने साधुभूतमिति | अनेन द्विभूमित्वमेवानुसंहितम् | अन्तरे स्तम्भविधिमाह - षडन्यानिति | रङ्गपीठस्य दक्षिणतो निवेशितस्तम्भद्वयाच्चतुर्हस्तान्तरौ अन्योन्यमष्टहस्तान्तरौ द्वै | तत आग्नेयस्तम्भसम्मुखो योऽन्यस्तु पूर्वः स्त्मभः ततश्चतुर्हस्तान्तरं दक्षिणस्तम्भं कुर्यादिति पूर्वन्यस्तानां दक्षिणस्तम्भानां दक्षिणभित्तेश्चान्तराले स्तम्भत्रयम् | एवमुत्तरस्यामपि | तेषामुपरीति | अधिकानष्टौ दद्यात् | तत्र दक्षिणभित्तेरुदग्भागे चतुर्हस्तान्तरं पूर्वस्थापितस्तम्भाद्भित्तेश्चेकं स्तम्भं दद्यात्पूर्वम् | एवमुत्तरभित्तेर्दक्षिणदिग्भागे | ततः पूर्वभित्तेश्चतुर्हस्तान्तरौ रङ्गभागद्वयानुसारेण द्वौ (द्वौ द्वौ) ततोऽपि चतुर्हस्तान्तरौ द्वावित्यष्टौ | विद्धमास्यं मुखं यस्य तत् पद्मादिविरचितं मुखं स्तम्भेष्वष्टहस्तं पीठं निक्षिपेत् | विद्धास्यस्योपरि हस्तप्रमाणधारिणीनां तुलानां धारकाः स्तम्भा .......श्रयाः इति चतुरश्रे स्तम्भविधिः | तमेव विकृष्टे त्रिकोणेषु स्वबुद्ध्या योजयेदिति श्रीशङ्कुकाद्याः | अन्ये तु - अष्टौ स्तम्भान्पुनश्च इति नेपथ्यगृहविषयानेतानाहुः | प्. ६७) विधिना स्थापयेत्तज्ज्ञो दृढान्मण्डपधारणे | अष्टौ स्तम्भान्पुनश्चैव तेषामुपरि कल्पयेत् || ९३ || स्थाप्यं चैव ततः पीठमष्टहस्तप्रमाणतः | विद्धास्यमष्टहस्तं च पीठं तेषु ततो न्यसेत् || ९४ || वार्तिककृत्तु - अन्तर्नेपथ्यगृहं स्तम्भौ द्वौ पीठकाश्च चत्वारः | .....ंये चत्वारो दशैवमुक्ता भवन्त्येते || भित्तेः स्तमभानां च स्यादन्तरमष्टहस्तमेवान्ते | इति | दत्तोऽद्यवाताथः सोऽथा नानाभवेदुक्तः (?) | चत्वारः पीठगताः पश्चादग्रे च याविह द्वौ द्वौ || षट् सान्तरास्तथान्ये कार्या इति शास्त्र(तात्पर्यम्) | ........... पीठगताः पश्चादग्रे च याविह द्वौ द्वौ || (?) तेषामष्टावन्येऽप्युपरि निवेश्या य उद्दिष्टाः | तैरुत्क्षिप्तैरिह तले स्यादालोकः समस्तरङ्गस्य || सोपानाकृति पीठकमत्र विधेयं समन्ततो रङ्गे | येनालोक..........ष्युपरि काष्ठासु || इति | अन्येऽपि चैवंविधा बहवः प्रवादा ग्रन्थविस्तरभयान्न लिखिताः | अयं चन्द्रसोदर (चात्र सार) इत्युपाध्यायाः | इह प्रेक्षामण्डपस्य त्रिधा कल्पना कृता | अधोभूमिः रङ्गपीठं रङ्ग इति | तेषु चायं स्तम्भविन्यासविधिविच्छेद उक्तः | तथा हि - अधोभूमौ स्तम्भानाह - तत्राभ्यन्तरत इति | विस्तारे द्वादशहस्तायाममेवं च चतु.........(र्हस्तान्तरा) दातव्याः | द्वौ स्तम्भौ भित्तिद्वयापेक्षया द्वादश प्. ६८) तत्र स्तम्भाः प्रदातव्यास्तज्ज्ञैर्मण्डपधारणे | धारणीधारणास्ते च शालस्त्रीभिरलङ्कृताः || ९५ || नेपथ्यगृहकं चैव ततः कार्य प्रयत्नतः | द्वारं चैकं भवेत्तत्र रङ्गपीठप्रवेशनम् || ९६ || जनप्रवेशनं चान्यदाभिमुख्येन कारयेत् | रङ्गस्याभिमुखं कार्य द्वितीयं द्वारमेव तु || ९७ || हस्तान्तरावन्योन्यापेक्षया चाष्टहस्तान्तरौ | अन्योन्यं तयोरन्तरं तथा कार्यं येन द्वारविद्धता न भवति | इत्येवं पञ्चतुलासु दश | एतत्स्तम्भदशकव्यतिरिक्तायां भूमावासनविधिरित्याह - स्तम्भानां बाह्यतश्चापीत्यादि | पूर्ववद्व्याख्येयम् | अथ रङ्गपीठे स्तम्भन्यासमाह - षडन्यानित्यादि | उपरि रङ्गपीठमुखोपलक्षितस्य वा (?) नेपथ्यगृहस्य वारुणकोण इत्युक्तं भवति | रङ्गपीठस्य यत्पृष्ठं रङ्गशिरस्तत्र द्वितीयमिति राश्यपेक्षयैकवचनम् | तेन द्वारद्वयमेव रङ्गशिरसि नेपथ्यगतपात्रप्रवेशाय कर्तव्यम् | चकारादन्य(प्रवेशा)र्थम् | जनप्रवेशनद्वारम् | त्रीणि वा कार्याणि मतान्तरे इति सङ्गृहीतं भवति | सर्वग्रहणादन्यूनाधिकत्वमत्र दर्शयन् विकृष्टे स्तम्भानामाधिक्यमभ्यनुजानीते (?) (८६-९४) त्र्यश्ररङ्गपीठे तु प्रतिरङ्गमध्य इति | रङ्गोऽत्र तच्छिरः | ततः पृष्ठतः रं ....गेयादिवाभितः (?) कर्मप्रवचनीयो वर्जग(न)द्योतकः | रङ्गपीठं वर्जयित्वा तदभ्यन्तरमण्डपस्य | तत्र द्वात्रिंशद्धस्तेषु रङ्गपीठे प्रतिकोणस्तम्भा इत्यष्टहस्तान्तराश्चत्वारः | तदनन्तरं स्तम्भद्वयमिति षडप्येतेऽष्टहस्तान्तरं ततो द्वादशहस्तायामं यदवशिष्यते तत्र चतुर्हस्तायामं द्वात्रिंशद्धस्तविस्तारं यद्रङ्गशिरस्तत्र द्वे तुले दातव्ये | प्रतितुलं चाष्टहस्ता(न्तरं स्तम्भचतुष्टयं) वर्जयित्वेत्यष्टौ भवन्ति | अत एव हि विद्धास्यमष्टहस्तं चतुर्हस्तान्तरालेऽपि तिरश्चीनं देयम् | येन तुलितं चित्रं भवति | एतदाहाष्टौ स्तम्भानित्यादि | ....शादसौभौयादिको वा सिरयमुपरीति(?) | रङ्गपीठस्य यदुपरि शिरोरूपमित्यर्थः | तथा च विकृष्टमण्डपे रङ्गपीठापेक्षया प्. ६९) अष्टहस्तं तु कर्तव्यं रङ्गपीठं प्रमाणतः | चतुरश्रं समतलं वेदिकासमलङ्कृतम् || ९८ || पूर्वप्रमाणनिर्दिष्टा कर्तव्या मत्तवारणी | चतुःस्तम्भसमायुक्ता वेदिकायास्तु पार्श्वतः || ९९ || समुन्नतं समं चैव रङ्गशीर्षं तु कारयेत् | विकृष्टे तून्नतं कार्यं चतुरश्रे समं तथा || १०० || एवमेतेन विधिना चतुरश्रं गृहं भवेत् | अतं परं प्रवक्ष्यामि त्र्यश्रगेहस्य लक्षणम् || १०१ || त्र्यश्रं त्रिकोणं कर्तव्यं नाट्यवेश्म प्रयोक्तृभिः | मध्ये त्रिकोणमेवास्य रङ्गपीठं तु कारयेत् || १०२ || द्वारं तेनैव कोणेन कर्तव्यं तस्य वेश्मनः | द्वितीयं चैव कर्तव्यं रङ्गपीठस्य पृष्ठतः || १०३ || रङ्गशिर उन्नतं वक्ष्यते | तत्र नियमादष्टस्तम्भा न्यस्यन्ते | अपि तु दृढा न्यसनीया इति दर्शयति - तत्र स्तम्भा इति | अथावशिष्टषु हस्तेषु विधिप्राह - नेपथ्यगृहकमिति | रङ्गपीठप्रवेशनमिति वचनेनेदमाह - कक्ष्याविभागेन तावत् द्वे द्वारे तेन द्वारमिति अजतावेकवचनम् | एकशब्दश्च राश्यभिप्रायेण | राशिकरणे च निमित्तं पात्रप्रवेशोपायनम् | तथा च कक्ष्याध्याये वक्ष्यति - ये नेपथ्यगृहद्वारे मया पूर्वं प्रकीर्तिते | तयोर्भाण्डस्य विन्यासः | (ना. शा. १३-२) इति | (जन)प्रवेशनं च तृतीयद्वारनेपथ्यगृहस्य | येन भार्यामादाय नटपरिवारः प्रविशति | अन्यतु द्वारमाभिमुख्येन पूर्वस्यां दिशि कुर्यात् | द्वारवृत्त्या सामाजिकजनप्रवेशार्थम् | ननु किमपेक्षमाभिमु(ख्यम् | कक्ष्यापे)क्षयैव पूर्वादिभिरित्युक्तम् | यद् वक्ष्यति च - यतो मुखं भवेद्भण्डद्वारं नेपथ्यकस्य तु | सा मन्तव्या तु दिक् पूर्वा नाट्ययोगे विपश्चिता || (ना.शा- १३-११) इति एवं चतुर्द्वारं नाट्यगृहम् | प्. ७०) विधिर्यश्चतुरश्रस्य भित्तिस्तम्भसमाश्रयः | स तु सर्वः प्रयोक्तव्यस्त्र्यश्रस्यापि प्रयोक्तृभिः || १०४ || एवमेतेन विधिना कार्या नाट्यगृहा बुधैः | पुनरेषां प्रवक्ष्यामि पूजामेवं यथाविधि || १०५ || इति भारतीये नाट्यशास्त्रे मण्डपविधानोनाम द्वितीयोऽध्यायः || अन्ये त्वाद्यद्वार(द्वयमि)वाद्येन हेतुनाऽन्यद्वारद्वयं पार्श्वस्थितं कुर्यादालोकसिद्ध्यर्थमिति षड्द्वारं नाट्यगृहमाचक्षते | अथ रङ्गपीठरङ्गशिरसोर्वक्तव्यशेषं निरूपयति - अष्टहस्तन्त्विति | वेदिके शोभायुक्ते कार्ये | पूर्वप्रमाणम् | अध्यर्धहस्तोत्सेधत्वम् | समुन्नतमिति | रङ्गपीठापेक्षया | एतच्चेह प्रसङ्गात्सूचयन् विकृष्टे तेनैव प्रकारेण स्तम्भत्रययधिका कर्तव्या | अन्तरमप्यत्रैव दर्शितम् | (९५-१०१) अथ त्र्यश्रस्यातिदेशद्वारेण लक्षणं कर्तुमुपक्रममाह - त्र्यश्रमिति | त्रिकोणमिति लक्षणम् | उभयानुग्रहाच्च विकृष्टचतुरश्रमानद्वयमेव भवति | मध्ये च त्रिकोणमेव रङ्गपीठम् | तथैव रङ्गशिरसः | नेपथ्यगृहं च | तेनैव कोणेनेति | वारुणीगतेन | द्वारं जनप्रवेशनम् | न तस्मिन्नेव कोणे द्वारे कर्तव्ये | सङ्गतिं सूचयति - एवमेतेनेति | एतेन विधिना बहवो नाट्यमण्डपाः न तु पूर्वोक्ताष्टादशभेदकलनयेत्यर्थः | बुधैरित्यूहापोहविद्भिः | पुनरिति | यद्यपि गदिताः सर्वे शुभदाः | पूजामिति | तथापि वक्ष्यामिति पुनश्शब्दार्थः | तत्र हि (विधाने(नं) नोक्तम् | तदाह - यथाविधीति | एषामिति | मण्डपस्था देवताः | अनेनोपचारादुक्ताः | (१०२-१०५) इति श्रीमहामाहेश्वराभिनवगुप्ताचार्यविरचितायामभिनवभारत्यां भारतीयनाट्यशास्त्रविवृतौ मण्डपाध्यायो द्वितीयः || प्. ७१) श्रीः | अथ तृतीयोऽध्यायः | सर्वलक्षणसम्पन्ने कृते नाट्यगृहे शुभे | गावो वसेयुः सप्ताहं सह जप्यपरैर्द्विजैः || १ || ततोऽधिवासयेद्वेश्म रङ्गपीठ तथैव च | मन्त्रपूतेन तोयेन प्रोक्षिताङ्गो निशागमे || २ || यथास्थानान्तरगतो दीक्षितः प्रयतः शुचिः | त्रिरात्रोपोषितो भूत्वा नाट्याचार्योऽहताम्बरः || ३ || नमस्कृत्य महादेवं सर्वलोकोद्भवं भवम् | जगत्पितामहं चैव विष्णुमिन्द्रं गुहं तथा || ४ || सरस्वतीं च लक्ष्मीं च सिद्धिं मेधां धृतिं स्मृतिम् | सोमं सूर्यं च मरुतो लोकपालास्तथाश्विनौ || ५ || मित्रमग्निं सुरान्वर्णान् रुद्रान्कालं कलिं तथा | मृत्युं च नियतिं चैव कालदण्डं तथैव च || ६ || यदाप्यायपरा लो ........................... | ........................ तत्तेजोवपुरैश्वरम् || निष्पन्ने मण्डपे पूजाऽवश्यं कर्तव्येति सङ्गतिः | तत्र प्रयोगक्रमोऽयम् | त(अत)थात्वेऽध्या(गताध्या)यानन्तरं पूर्वरङ्गाभिधानापत्तेः | तस्मान्मण्डपविधानशेष ए(व दर्शयि)ष्यते | अवश्यपूज्यत्वात् | जप्यपरैरिति | ये रक्षोघ्न मन्त्रास्तज्जापकैरित्यर्थः | तत इति | प्. ७२) विष्णुपहरणं चैव नागराजं च वासुकिम् | वज्रं विद्युत्समुद्रांश्च गन्धर्वाप्सरसो मुनीन् || ७ || भूतान् पिशाचान् यक्षाश्च गुह्यकांश्च महेश्वरान् | असुरान्नाट्यविघ्नाश्च तथाऽन्यान्दैत्यराक्षसान् || ८ || तथा नाट्यकुमारीश्च महाग्रामण्यमेव च | यक्षांश्च गुह्यकांश्चैव भूतसङ्घास्तथैव च || ९ || एतांश्चान्यांश्च देवर्षीन्प्रणम्य रचिताञ्जलिः | यथास्थानान्तरगतान्समावाह्य ततो वदेत् || १० || भवद्भिर्नो निशायां तु कर्तव्यः सम्परिग्रहः | साहाययं चैव दातव्यमस्मिन्नाट्ये सहानुगैः || ११ || सम्पूज्य सर्वानकत्र कुतपं सम्प्रयुज्य च | जर्जराय प्रयुञ्जीत पूजां नाट्यप्रसिद्धये || १२ || त्वं महेन्द्रप्रहरणं सर्वदानवसूदनम् | निर्मितस्सर्वदेवैश्च सर्वविघ्ननिबर्हण || १३ || सप्ताहादनन्तरम् | अधिवासयेदिति | देवता मण्डपमधिवसन्त्यगच्छन्ति | नाट्याचार्यो दह्र्म(र्यकृतमुपरि)तनदेवतोपनिमन्त्रणमधिवासनं वेश्मनः | दीक्षितो गृहीतव्रतः | नायको नाट्याचार्यः | नमस्कृत्यावाह्य | वदेदिति सम्बन्धः | परमेश्वरस्मरणं च प्रथममुचितमिति महादेवमिति | महाग्रामणीर्गणपतिः | अन्यांश्चेति | प्रथमाध्यायोक्तान् | (१-१०) एकत्रेति | स्थण्डिलभूभागे | कुतपमिति | चतुर्विधातोद्यभाण्डानि | एकत्र निवेशनं जर्जरस्य पूजार्थमवस्थापनम् | आर्येण निवसनीयमिति उपास्यमिति भावे कृत्यः | प्. ७३) नृपस्य विजयं शंस रिपूणां च पराजयम् | गोब्राह्मणशिवं चैव नाट्यस्य च विवर्धनम् || १४ || एवं कृत्वा यथान्यायमुपास्यं नाट्यमण्डपे | निशायां तु प्रभातायां पूजनं प्रक्रमेदिह || १५ || आर्द्रायां वा मघायां वा याम्ये पूर्वेषु वा त्रिषु | आश्लेषामूलयोर्वापि कर्तव्यं रङ्गपूजनम् || १६ || आचार्येण तु युक्तेन शुचिना दीक्षितेन च | रङ्गस्योद्योतनं कार्यं देवतानां च पूजनम् || १७ || दिनान्ते दारुणे घोरे मुहूर्ते यमदैवते | आचम्य तु यथान्यायं देवता वै निवेशयेत् || १८ || रक्ताः प्रतिसराः सूत्रं रक्तगन्धाश्च पूजिताः | रक्ताः सुमनसश्चैव यच्च रक्तं फलं भवेत् || १९ || यवैस्सिद्धार्थकैर्लाजैरक्षतैः शालितण्डुलैः | नागपुष्पस्य चूर्णेन वितुषाभिः प्रियङ्गुभिः || २० || भरणीनक्षत्रम् | पूर्वेष्विति नक्षत्रापेक्षानिर्देशः | तानि पूर्वफल्गुनी पूर्वाषाढा पूर्वा भाद्रपदा च | (उद्योतनमिति |) ज्वलितदर्भोल्मुकेन स्प(द)र्शनं नीराच (राज)नमिति प्रसिद्धम् | प्रतिसरा इति | सूत्रविनिर्मिता ग्रन्थिमन्तः कङ्कणविशेषाः | मण्डपस्य रङ्गपीठादेश्चोपर्युक्तं सर्वं निवेश्यते | सूत्रमिति समन्ततो...... रित्येतत्सर्वं शेष (षम् |) निवेशनमित्यावाहनकालेऽर्घ्यदानमित्यर्थः | अन्ये तन्नि(तु नि)वेशनमित्यधिकरणे ल्युट् | मण्डलविशेषणं चैतत् | मण्डलं च यवादिभिरित्यादि | नागपुष्पं नागदन्तः | (११-२१) प्. ७४) एतैर्द्रव्यैर्युतं कुर्याद्देवतानां निवेशनम् | आलिखेन्मण्डलं पूर्वं यथास्थानं यथाविधि || २१ || समन्ततश्च कर्तव्यं हस्ताः षोडश मण्डलम् | द्वाराणि चात्र कुर्वीत विधानेन चतुर्दिशम् || २२ || मध्ये चैवात्र कर्तव्ये द्वे रेखे तिर्यगूर्ध्वगे | तयोः कक्ष्याविभागेन दैवतानि निवेशयेत् || २३ || पद्मोपविष्टं ब्रह्माणं तस्य मध्ये निवेशयेत् | आदौ निवेश्यो भगवान्सार्धं भूतगणैः शिवः || २४ || नारायणो महेन्द्रश्च स्कन्दः सूर्योऽश्विनौ शशी | सरस्वती च लक्ष्मीश्च श्रद्धा मेधा च पूर्वतः || २५ || पूर्वदक्षिणतो वह्निर्निवेश्यः स्वाहया सह | विश्वेदेवाः सगन्धर्वा रुद्राः सर्पगणास्तथा || २६ || दक्षिणेन निवेश्यस्तु यमो मित्रश्च सानुगः | पितॄन्पिशाचानुरगान् गुह्यकांश्च निवेशयेत् || २७ || षोडशहस्तं यथा भवति तथा कार्यमिति | अतः चतुर्हस्त्ं रङ्गपीठपृष्ठ एव मण्डलमित्युक्तं भवति | तेन शङ्कुकादिभिः षोडशहस्तावकाशाभावः आसनस्तम्भादिवशात् | तस्मादकृत एव रङ्गपीठे इत्यादि वृथैव बहुतर(मुपन्यस्तम् | द्वे रेखे इति | प्राक्तने |) तिर्यग्गतैका दक्षिणोत्तरगता | पृष्ठे द्वितीया पूर्वपश्चिमगताः | तयो रेखयोः | कक्ष्या स्थानान्तराणि | तेषु विभागेन भावितानि | तस्येति | मण्डलस्य | पद्मोपविष्टमिति | मध्ये पद्मं कार्यमित्यर्थः | आदाविति | तेन आदिदेशे प्. ७५) नैर्-ऋत्यां राक्षसांश्चैव भूतानि च निवेशयेत् | पश्चिमायां समुद्रांश्च वरुणं यादसां पतिम् || २८ || वायव्यायां दिशि तथा सप्त वायून्निवेशयेत् | तत्रैव विनिवेश्यस्तु गरुण्दः पक्षिभिः सह || २९ || उत्तरस्यां दिशि तथा धनदं संनिवेशयेत् | नाट्यस्य मातॄश्च तथा यक्षानथ सगुह्यकान् || ३० || (तथैवोत्तरपूर्वायां नन्द्याद्यांश्च गणेश्वरान् | ब्रह्मर्षिभूतसंघांश्च यथाभागं निवेशयेत् || ३१ ||) स्तम्भे सनत्कुमारं तु दक्षिणे दक्षमेव च | ग्रामण्यमुत्तरे स्तम्भे पूजार्थं संनिवेशयेत् || ३२ || अनेनैव विधानेन यथास्थानं यथाविधि | सुप्रसादानि सर्वाणि दैवतानि निवेशयेत् || ३३ || स्थाने स्थाने यथान्यायं विनिवेश्य तु देवताः | तासां प्रकुर्वीत ततः पूजनं तु यथार्हतः || ३४ || ऐशानकोणे | प्रथमावसरे च तथैवावाहनस्योक्तत्वात् | पद्मोपम(पविष्टमि)मिति प्रतिदिशः सम्बन्धनीयत्वेन (सम्बन्धीनि | तेन) नवपद्ममण्डलमित्युक्तं भवति | प्. ७६) देवताभ्यस्तु दातव्यं सितमाल्यानुलेपनम् | गन्धर्ववह्निसूर्येभ्यो रक्तमाल्यानुलेपनम् || ३५ || गन्धं माल्यं च धूपं च यथावदनुपूर्वशः | दत्त्वा ततः प्रकुर्वीत बलिं पूजां यथाविधि || ३६ || ब्रह्माणं मधुपर्केण पायसेन सरस्वतीम् | शिवविष्णुमहेन्द्राद्याः सम्पूज्या मोदकैरथ || ३७ || घृतौदनेन हुतभुक्सोमार्कौ तु गुडौदनैः | विश्वेदेवाः सगन्धर्वा मुनयो मधुपायसैः || ३८ || यममित्रौ च सम्पूज्यावपुपैर्मोदकैस्तथा | पितॄन्पिशाचानुरगान् सर्पिःक्षीरेण तर्पयेत् || ३९ || पवान्नेन तु मांसेन सुरासीधुफलासवैः | अर्चयेद्भूतसंघांश्च चणकैः पललाप्लुतैः || ४० || अनेनैव विधानेन सम्पूज्या मत्तवारणी | पक्वामेन तु मांसेन सम्पूज्या रक्षसां गणाः || ४१ || सुरामांसप्रदानेन दानवान्प्रतिपूजयेत् | शेषान्देवगणांस्तज्ज्ञः सापूपोत्कारिकौदनैः || ४२ || दक्षिणपूर्वे आग्नेयस्तम्भ इति | उत्तरपूर्वे ऐशानस्तम्भ इत्यर्थः | सुप्रसादानीति | तथा ध्यानेन निवेशितानीत्यर्थः | यथार्हतः तत्तदागमेषु यो यस्यां विधिर्दृश्यते देवतायां तेन क्रमेण | (२२-३४ |) प्. ७७) मत्स्यैश्च पिष्टभक्ष्यैश्च् सागरान्सरितस्तथा | सम्पूज्य वरुणं चापि दातव्यं घृतपायसम् || ४३ || नानामूलफलिश्चापि मुनीन्सम्प्रतिपूजयेत् | वायूंश्च पक्षिणश्चैव विचित्रैर्भक्ष्यभोजनेः || ४४ || मातॄर्नाट्यस्य सर्वास्ता धनदं च सहानुगैः | अपूपैर्लाजिकामिश्रैर्भक्ष्यभोज्यैश्च पूजयेत् || ४५ || एवमेषां बलिः कार्यो नानाभोजनसंश्रयः | पुनर्मन्त्रविधानेन बलिकर्म च वक्ष्यते || ४६ || देवदेव महाभाग सर्वलोकपितामह | मन्त्रपूतमिमं सर्वं प्रतिगृह्णीष्व मे बलिम् || ४७ || देवदेव महादेव गणेश त्रिपुरान्तक | प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः || ४८ || नारायणामितगते पद्मनाभ सुरोत्तम | प्रगृह्यतां बलिर्देव मन्त्रपूतो मयार्पितः || ४९ || पुरन्दरामरपते वज्रपाणे शतक्रतो | प्रगृह्यतां बलिर्देव विधिमन्त्रपुरस्कृतः || ५० || देवसेनापते स्कन्द भगवन् शङ्करप्रिय | बलिः प्रीतेन मनसा षण्मुख प्रतिगृह्यताम् || ५१ || प्. ७८) (महादेव महायोगिन्देवदेव सुरोत्तम | संप्रगृह्य बलिं देव रक्ष विघ्नात्सदोत्थितात् ||) देवि देवमहाभागे सरस्वति हरिप्रिये | प्रगृह्यतां बलिर्मातर्मया भक्त्या समर्पितः || ५२ || नानानिमित्तसम्भूताः पौलस्त्याः सर्व एव तु | राक्षसेन्द्रा महासत्त्वाः प्रतिगृह्णीत मे बलिम् || ५३ || लक्ष्मीः सिद्धिर्मतिर्मेधा सर्वलोकनमस्कृताः | मन्त्रपूतमिमं देव्यः प्रतिगृह्णन्तु मे बलिम् || ५४ || सर्वभूतानुभावज्ञ लोकजीवन मारुत | प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः || ५५ || देववक्त्र सुरश्रेष्ठ धूमकेतो हुताशन | भक्त्या समुद्यतो देव बलिः सम्प्रति गृह्यताम् || ५६ || सर्वग्रहाणां प्रवर तेजोराशे दिवाकर | भक्त्या मयोद्यतो देव बलिः सम्प्रति गृह्यताम् || ५७ || सर्वग्रहपते सोम द्विजराज जगत्प्रिय | प्रगृह्यतामेष बलिर्मन्त्रपूतो मयोद्यतः || ५८ || महागणेश्वराः सर्वे नन्दीश्वरपुरोगमाः | प्रगृह्यतां बलिर्भक्त्या मया सम्प्रति चोदितः || ५९ || प्. ७९) नमः पितृभ्यः सर्वेभ्यः प्रतिगृह्णन्त्विमं बलिम् | (भूतेभ्यश्च नमो नित्यं येषामेष बलिः प्रियः |) कामपाल नमो नित्यं यस्यायं ते विधिः कृतः || ६० || नारदस्तुम्बुरुश्चैव विश्वावसुपुरोगमाः | परिगृह्णन्तु मे सर्वे गन्धर्वा बलिमुद्यतम् || ६१ || यमो मित्रश्च भगवानीश्वरौ लोकपूजितौ | इमं मे प्रतिगृह्णीतां बलिं मन्त्रपुरस्कृतम् || ६२ || रसातलगतेभ्यश्च पन्नगेभ्यो नमोनमः | दिशन्तु सिद्धिं नाट्यस्य पूजिताः पापनाशनाः || ६३ || सर्वाम्भसां पतिर्देवो वरुणो हंसवाहनः | पूजितः प्रीतिमानस्तु ससमुद्रनदीनदः || ६४ || वैनतेय महासत्त्व सर्वपक्षिपते विभो | प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः || ६५ || धनाध्यक्षो यक्षपतिर्लोकपालो धनेश्वरः | सगुह्यकस्सयक्षश्च प्रतिगृह्णातु मे बलिम् || ६६ || नमोऽस्तु नाट्यमातृभ्यो ब्राह्म्याद्याभ्यो नमोनमः | सुमुखीभिः प्रसन्नाभिर्बलिरद्य प्रगृह्यताम् || ६७ || रुद्रप्रहरणं सर्वं प्रतिगृह्णातु मे बलिम् | विष्णुप्रहरणं चैव विष्णुभक्त्या मयोद्यताम् || ६८ || तथा कृतान्तः कालश्च सर्वप्राणिवधेश्वरौ | मृत्युश्च नियतिश्चैव प्रतिगृह्णातु मे बलिम् || ६९ || प्. ८०) याश्चास्यां मत्तवारण्यां संश्रिता वास्तुदेवताः | मन्त्रपूतमिमं सम्यक्प्रतिगृह्णन्तु मे बलिम् || ७० || अन्ये य देवगन्धर्वा दिशो दश समाश्रिताः | दिव्यान्तरिक्षभौमाश्च तेभ्यश्चायं बलिः कृतः || ७१ || कुम्भं सलिलसम्पूर्णं पुष्पमालापुरस्कृतम् | स्थापयेद्रङ्गमध्ये तु सुवर्णं चात्र दापयेत् || ७२ || आतोद्यानि तु सर्वाणि कृत्वा वस्त्रोत्तराणि तु | गन्धैर्माल्यैश्च धूपैश्च भक्ष्यैर्भोज्यैश्च पूजयेत् ||) पूजयित्वा तु सर्वाणि दैवतानि यथाक्रमम् | जर्जरस्त्वभिसंपूज्यः स्यात्ततो विघ्नजर्जरः || ७३ || श्वेतं शिरसि वस्त्रं स्यान्नीलं रौद्रे च पर्वणि | विष्णुपर्वणि वै पीतं रक्तं स्कन्दस्य पर्वणि || ७४ || मृडपर्वणि चित्रं तु देयं वस्त्रं हितार्थिना | सदृशं च प्रदातव्यं धूपमाल्यानुलेपनम् || ७५ || आतोद्यानि च सर्वाणि वासोभिरवगुण्ठयेत् | गन्धैर्माल्यैश्च धूपैश्च भक्ष्यभोज्यैश्च पूजयेत् || ७६ || सर्वमेवं विधिं कृत्वा गन्धमाल्यानुलेपनैः | विघ्नजर्जरणार्थं तु जर्जरं त्वभिमन्त्रयेत् || ७७ || माल्यानुलेपनम् | (उभय)त्रापि सुरादिप्रधानो बलिरित्यर्थः | अत्र पूजितस्थापितस्य कुम्भस्य विनियोगो भविष्यति | प्. ८१) अत्र विघ्नविनाशार्थ पितामहमुखैस्सुरैः | निर्मितस्त्वं महावीर्यो वज्रसारो महातनुः || ७८ || शिरस्ते रक्षतु ब्रह्मा सर्वैर्देवगणैः सह | द्वितीयं च हरः पर्व तृतीयं च जनार्दनः || ७९ || चतुर्थं च कुमारस्ते पञ्चमं पन्नगोत्तमः | नित्यं सर्वेऽपि पान्तु त्वां सुरार्थे च शिवो भव || ८० || नक्षत्रेऽभिजिति त्वं हि प्रसूतोऽहितसूदन | जयं चाभ्युदयं चैव पार्थिवस्य समावह || ८१ || जर्जरं पूजयित्वैवं बलिं सर्वं निवेद्य च | अग्नौ होमं ततः कुर्यान्मन्त्राहुतिपुरस्कृतम् || ८२ || हुताश एव दीपाभिरुल्काभिः परिमार्जनम् | नृपतेर्नर्तकीनां च कुर्याद्दीप्त्याभिवर्धनम् || ८३ || अभिद्योत्य सहातोद्यैर्नृपतिं नर्तकीस्तथा | मन्त्रपूतेन तोयेन पुनरभ्युक्ष्य तान्वदेत् || ८४ || महाकुले प्रसूताः स्थ गुणौघैश्चाप्यलङ्कृताः | यद्वो जन्मगुणोपेतं तद्वो भवतु नित्यशः || ८५ || एवमुक्त्वा ततो वाक्यं नृपतेर्भूतये बुधः | नाट्ययोगप्रसिद्ध्यर्थमाशिषस्सम्प्रयोजयेत् || ८६ || सरस्वती धृतिर्मेधा ह्रीः श्रीर्लक्ष्मीस्स्मृतिर्मतिः | पान्तु वो मातरः सौम्यास्सिद्धिदाश्च भवन्तु वः || ८७ || प्. ८२) होमं कृत्वा यथान्यायं हविर्मन्त्रपुरस्कृतम् | भिन्द्यात्कुम्भं ततश्चैव नाट्याचार्यः प्रयत्नतः || ८८ || अभिन्ने तु भवेत्कुम्भे स्वामिनः शत्रुतो भयम् | भिन्ने चैव तु विज्ञेयः स्वामिनः शत्रुसंक्षयः || ८९ || भिन्ने कुम्भे ततश्चैव नाट्याचार्यः प्रयत्नतः | प्रगृह्य दीपिकां दीप्तां सर्व रङ्गं प्रदीपयेत् || ९० || क्ष्वेडितैः स्फोटितैश्चैव वल्गितैश्च प्रधावितैः | रङ्गमध्ये तु तां दीप्तां सशब्दां सम्प्रयोजयेत् || ९१ || शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गपणवैस्तथा | सर्वातोद्यैः प्रणदितै रङ्गे युद्धानि कारयेत् || ९२ || तत्र च्छिन्नं च भिन्नं च दारितं च सशोणितम् | क्षतं प्रदीप्तमायस्तं निमित्तं सिद्धिलक्षणम् || ९३ || सम्यगिष्टस्तु रङ्गो वै स्वामिनः शुभमावहेत् | पुरस्याबालवृद्धस्य तथा जनपदस्य च || ९४ || दुरिष्टस्तु तथा रङ्गो दैवतैर्दुरधिष्ठितः | नाट्यविध्वंसनं कुर्यान्नृपस्य च तथाऽशुभम् || ९५ || आहुतिराहवनम् | हुत्वा हवनं तथा सत्याहुतिः स्यात् | दीप्ताभिः....... | कुम्भस्य विनियोगमाह - भिन्द्यादिति | प्. ८३) य एवं विधिमुत्सृज्य यथेष्टं सम्प्रयोजयेत् | प्राप्नोत्यपचयं शीघ्रं तिर्यग्योनिं च गच्छति || ९६ || यज्ञेन सम्मितं ह्येतद्रङ्गदैवतपूजनम् | अपूजयित्वा रङ्गं तु नैव प्रेक्षां प्रयोजयेत् || ९७ || पूजिताः पूजयन्त्येते मानिता मानयन्ति च | तस्मात्सर्वप्रयत्नेन कर्तव्यं रङ्गपूजनम् || ९८ || न तथा प्रदहत्यग्निः प्रभञ्जनसमीरितः | यथा ह्यपप्रयोगस्तु प्रयुक्तो दहति क्षणात् || ९९ || शास्त्रज्ञेन विनीतेन शुचिना दीक्षितेन च | नाट्याचार्येण शान्तेन कर्तव्यं रङ्गपूजनम् || १०० || स्थानभ्रष्टं तु यो दद्याद्बलिमुद्विग्नमानसः | मन्त्रहीनो यथा होता प्रायश्चित्ती भवेत्तु सः || १०१ || इत्ययं यो विधिर्दृष्टो रङ्गदैवतपूजने | नवे नाट्यगृहे कार्यः प्रेक्षायां च प्रयोक्तृभिः || १०२ || इति भारतीये नाट्यशास्त्रे रङ्गदैवतपूजन नाम तृतीयोऽध्यायः समाप्तः || उद्विग्नमानस इत्यनवधानरूपं लक्ष्यते | नवे नाट्यगृह इति मण्डपशेषत्वमेवोक्तम् | प्रेक्षायां चेति | नवायामिति केचित्संबन्धयन्ति | तेन .... पूजा कार्येति | अन्ये तु प्रेक्षारम्भे सर्वथा(दा) पूजा कार्येत्याहुरिति शिवम् || (३५-१०२) || इत्थं तृतीयमध्यायं ग्रन्थिस्थानेषु योजये(यन्) | बुद्ध्याऽभिनवगुप्तोऽहं शिवतातत्त्वबृंहितः || इति श्रीमहामाहेश्वराभिनवगुप्तविरचितायां भारतीयनाट्यशास्त्रविवृतावभिनवभारत्यां रङ्गदैवतपूजनं नाम तृतीयोऽध्यायः समाप्तः || प्. ८४) श्रीः | अथ चतुर्थोऽध्यायः | एवं तु पूजनं कृत्वा मया प्रोक्तः पितामहः | आज्ञापय विभो विप्रं कः प्रयोगः प्रयुज्यताम् || १ || स्वविलासैरिदं विश्वं यो दर्शयति सन्ततम् | (समीरमूर्ती सः शम्भुः गिरिराजसुतापिर्य ||) एवन्त्विति | प्रथमाध्यायोक्ताभिप्रायेणेदमुच्यते | तथा हि - मर्त्यलोकगताः सर्वे शुभां पूजामवाप्स्यथ | (१-१२२) इत्येवमवश्यकार्या पूजा | तत्र च - रङ्गपूजा | तत्र च - रङ्गपूजां कुरुष्वेति मामेवं समचोदयत् | (१-१२७) इति वचनानुसारेण वा इदं प्रोक्तमित्येवमिति | (मयेति) दुहिणाज्ञप्तेन सतेत्यर्थः | मध्ये तु अथवा याः क्रियास्तत्र लक्षणं यच्च पूजनम् | भविष्यद्भिर्नरः कार्यं कथं तन्नाट्यवेश्मनि || (२-२) इति मुनिप्रश्नितपूजा कथं कृतेति प्रसङ्गादेवमङ्गस्य यथासंभवं पूरकम् | सर्वात्मना दिव्ये नाट्यगृहे भोजनदानलाङ्गलोत्कर्षणादिविधेः समस्तस्यासम्भवादिति | प्रथमाध्यायान्तर्यमेवास्य तु कर्तव्यम् | क्षिप्रमिति | अनेन पूजानन्तरं प्रयोगेण न चिरायितव्यमित्युक्तं भवति | प्रयुज्यत इति प्रयोगो दशरूपकान्यतमम् | यद्यपि च सम्फेटविद्रवकृता प्रस्तावना बद्धेत्युक्तं (१-५८) तथापि प्रयोगो विघ्नैः स्तम्भित इति नाट्यमण्डपे विघ्नसान्त्वनदैवतपूजने च कृतेऽन्त्य एवायमुपक्रम इति युक्त एव प्रश्नः प्. ८५) ततोऽस्म्युक्तो भगवता योजयामृतमन्थनम् | एतदुत्साहजननं सुरप्रीतिकरं तथा || २ || योऽयं समवकारस्तु धर्मकामार्थसाधकः | मया प्राग्ग्रथितो विद्वन्स प्रयोगः प्रयुज्यताम् || ३ || तस्मिन्समवकारे तु प्रयुक्ते देवदानवः | हृष्टाः समभवन्सर्वे कर्मभावानुदर्शनात् || ४ || कः प्रयोगः प्रयुज्यतामिति | अत्रोत्तरं श्लोकद्वयेनाह - ततोऽस्मीति | योजयेति | स्वपुत्रानटा (त्रान्नटां)स्तं प्रयोगं पुनरनुसन्धानशिक्षयेत्यर्थः | यो धर्मकामार्थोपायोपदेशको मया प्राङ्नाट्यवेदनिर्माणनान्तरीयकदशरूपकनिर्माणविधौ ग्रथितः | योऽयमिति च गुणनिकया त्वया सम्यक्साक्षात्कारकल्पत्वं नयनयोग्यत्वं कृतोऽमृतमथनं नाम समवकाराख्यः प्रयोगः रूपकम् | सः विद्वन्ननुप्रयोज्यतामिति श्लोकद्वये सङ्गतिः | तुर्हेतौ | यस्मादेतदुत्साहजननं चतुर्विधनायकस्थायिभावोत्साहप्रभववीररसात्मकम् | तथेति | तेन प्रकारेण सुराणां सर्वेषां प्रीतिं रसनारूपां चर्वणालक्षणां करोति | उत्साहो जननो यस्येति समासः | तेन च प्रीतिप्रकारेणोत्साहस्य त्रिवर्गोपायविषयस्य जननम् | एतेन दृश्यं श्रव्यमित्यनुसंहितम् | सङ्गतंमहावाक्यर्थाभिप्रायेणापि किञ्चिच्छब्दोन्मीलनाभिप्रायेणात्र कार्यं तेन सम(समम)वकीर्यतेऽर्थो यत्र स समवकारः | सङ्गतिश्च - देवासुरबीजकृतः प्रख्यातोदात्तनायकश्चैव || (१८-६३) इत्यनेन दर्शितः(ता) | अङ्कोऽङ्कस्त्वन्यार्थः कर्तव्यः (१८-६९) इत्यनेन चावकीर्णता | एष च प्रयोगः समये (?) सुखभूयिष्ठतया एकरसे वस्तुन्युद्वेगशीलाः एकानुसंधानप्रयासभीरवश्च देवतुल्याः | अमृतमथनं समवकार इति भिन्नलिङ्गसामानाधिकरण्यसूचनद्वारेण तदेव तदिति साक्षात्कारकल्पनाद्द्वयवधान(नमध्यवसान)विषय......ष्याह | तत एव विक्रमोर्वशीयस्वप्नवासवदत्ता(त्ते)नाटकमिति कवयो व्यवहरन्ति | (१-४) प्. ८६) कस्यचित्त्वथ कालस्य मामाहाम्बुजसम्भवः | नाट्यं सन्दर्शयामोऽद्य त्रिनेत्राय महात्मने || ५ || ततः सार्धं सुरैर्गत्वा वृषभाङ्कनिवेशनम् | समभ्यर्च्य शिवं पश्चादुवाचेदं पितामहः || ६ || मया समवकारस्तु योऽयं सृष्टः सुरोत्तमः | श्रवणे दर्शने चास्य प्रसादं कर्तुमर्हसि || ७ || पश्याम इति देवेशो द्रुहिणं वाक्यमब्रवीत् | ततो मामाह भगवान् सज्जो भव महामते || ८ || ततो हिमवतः पृष्ठे नानानगसमाकुले | बहुभूतगणाकीर्णे रम्यकन्दरनिर्झरे || ९ || पूर्वरङ्गः कृतः पूर्वं तत्रायं द्विजसत्तमाः | तथा त्रिपुरदाहश्च डिमसंज्ञः प्रयोजितः || १० || एवमितिहासस्य परिसमाप्तिं पश्यन्सकलप्रयोगप्राणभूतकैशिकीसर्वस्वभूतनृत्तप्रयोगप्रस्तावनायेत् इहासमनुसन्धत्ते - कस्यचित्त्विति | यावता कालेन गतेन शिक्षणं सम्पद्यते तावता कालेन गतेन हेतुनेत्यर्थः | एतेन नाट्यप्रयोगस्तद्विदे प्रथमं दर्शनीय इति दर्शयति | तेन यद्बलात्प्रयोगो ब्रह्मणे दर्शित इति व्याख्यातं तदसदेव | न चोपयुक्तं वस्तु भगवते प्रदर्शयितुमु(द्यो)योजयेदिति चासङ्गतं स्यात् | सन्दर्शयाम इति चानेन कवेस्तन्मध्ये प्रवेशसूचनेनोत्प्रेक्षकत्वसूचनं स्यादित्यलमनेन | महात्मशब्देन तस्यैवात्र प्रेक्षणे सम्यगौचित्यमित्याह | श्रवणे दर्शने चेत्यनुसन्धते | तथा पूर्वं परीक्षकः कविना श्रावयितव्य इति श्रवण इत्यनेनोक्तम् | सामाजिकास्तु श्रावयितव्या इति नातीव समञ्जसम् | तावत्तेषा प्रवृत्त्ययोगात् | श्रवणादेव चोपायसिद्धौ प्रयोगवैफल्यात् | परमेश्वरस्य परीक्षकत्वात् परितोष्यत्वाच्च ज्ञानातिशयेन रसचर्वणात्मकमहाभोगसमर्पणेन च | (५-९) प्. ८७) ततो भूतगणा हृष्टाः कर्मभावानुकीर्तनात् | महादेवश्च सुप्रीतः पितामहमथाब्रवीत् || ११ || अहो नाट्यमिद सम्यक् त्वया सृष्ट महामते | यशस्यं च शुभार्थं च पुण्यं बुद्धिविवर्धनम् || १२ || मयाऽपीदं स्मृतं नृत्यं सन्ध्याकालेषु नृत्यता | नानाकरणसंयुक्तैरङ्गहारैर्विभूषितम् || १३ || तत्र पूर्वरङ्गपूर्वकत्वं प्रयोगक्रमस्य दर्शयति - पूर्वरङ्ग इत्यादिना | अयमिति समवकारः | परमेश्वरचरितप्रधानश्च त्रिपुरदाहसंबन्धो (ज्ञको) डिमश्च | प्रयुक्त इत्यनेन परीक्षकपरितोषनिमित्तं प्रयोक्तृभिः किञ्चित्प्रयोज्यमित्याह | परितोषं फलतः प्रकटयति - मयापीदमिति | अनेनेदमाह - भरतमुनिना तावद्भगवन्नृत्तकैशिकीदर्शनात्तत्प्रयोगार्थमनुसृत्य किञ्चिन्नियोजितम् | तत्तौ सम्यगुपदेशाभावान्नातीव सुश्लिष्टमिति | अत एव वक्ष्यति - सम्यगिति | स्मृतमित्यनादित्वमस्य दर्शयति | बहुवचनेनादरविषयतामिति | अङ्गहार एव नृत्तं प्रयोगफलं प्रसूते | तदङ्गानि तु करणादीनि | द्वात्रिंशन्नृत्तकर्मणि प्रधानानीत्याशयेन विशेषणयोगमाह - नानेति | विनियोगमस्य निरूपयति - पूर्वरङ्गविधाविति | क(र)तिस्थाने रङ्गे नाट्यप्रयोगे यः पूर्वो रङ्गस्त्वया शुद्धो वैचित्र्यरहितः प्रयुक्तः स एतेन नृत्तेन मिश्रितश्चित्रो नाम | भरमुनिना प्रत्याहाराद्यन्तर्यवंनिकागतमङ्गनवकं गीतविरच(विधानादिप्ररोच)नान्तकमङ्गदशकं यत्प्रयोगे नृत्तविरहितमेव प्रयुक्तं कर्तव्यमात्रेण न तु कृतमङ्गदशकं यत्प्रयुक्तं तद्दृष्टादृष्टोभयप्रयोजनमपि यथा तत्र रञ्जकत्वं किञ्चित् | अनेन तु विमिश्रं विचित्रं दृष्टादृष्टात्मकफलं सम्यग्वितरतीत्यभिप्रायो महावाक्यस्य | अस्मिन्निति | त्वं प्र(त्वत्प्र ?)युयुक्षितप्रयोगोचितोद्धतपूर्वरङ्गप्रयोगविधौ | तत्प्रयुक्ता इमे करणाङ्गहाराः | सुकुमारपूर्वरङ्गे तु दैवी (देव्या) कृता अनुद्धता अङ्गहारा प्. ८८) पूर्वरङ्गविधावस्मिंस्त्वया सम्यक्प्रयोज्यताम् | वर्धमानकयोगेषु गीतेष्वासारितेषु च || १४ || महागीतेषु चैवार्थान्सम्यगेवाभिनेष्यसि | यश्चायं पूर्वरङ्गस्तु त्वया शुद्धः प्रयोजितः || १५ || एभिर्विमिश्रितश्चायं चित्रो नाम भविष्यति | श्रुत्वा महेश्वरवचः प्रत्युक्तस्तु स्वयम्भुवा || १६ || प्रयोगमङ्गहाराणामाचक्ष्व सुरसत्तम | ततस्तण्डुं समाहूय प्रोक्तवान् भुवनेश्वरः || १७ || प्रयोगमङ्गहाराणामाचक्ष्व भरताय वै | ततो ये तण्डुना प्रोक्तास्त्वङ्गहारा महात्मना || १८ || तान्वः करणसंयुक्तान्व्याख्यास्यामि सरेचकान् | स्थिरहस्तोऽङ्गहारस्तु तथा पर्यस्तकः स्मृतः || १९ || इत्यभिप्रायात् | महागीतं च यद्भीतकवर्धमानमनादिरूपं तत्र सम्यग्वर्धमानादिक्रमेण तथा वाक्यार्थाभिनये यथायोगं योज्यमानाङ्गहारपिण्डीबन्धक्रमेण येनाभिनेतुं शक्ष्यसि | आचक्ष्व भरतायेति - अनेन मुनिः परमेश्वरप्रसादपात्रमात्मानं बहुमन्यमानो - मामेव प्रति देवेनैवेदं निरूपितं प्रयोजितस्त्वयाभिनेतुं शक्ष्यसीति (कथ)यता | प्रधानसन्निधौ तु नैव प्रतिवक्तव्यमित्याशयेन श्रुत्वा महेश्वरवचः प्रत्युक्तं तु स्वयम्भुवा इत्युक्तमिति दर्शयति | तण्डुं समाहूयेति | सर्वत्र पाठे तण्डुशब्द एव युक्तः ताण्डवशब्दव्युत्पत्ति - दर्शनात् | तण्डुमुनिशब्दौ तयोरपरनामनि | य इति | आत्रेयप्रभृतीन्प्रति मुनिरेतदाह - सकरणान्सरेचकानिति | विशेषणत्वादङ्गहाराणामेव प्राधान्यम् | तत एव तेषामेव पूर्वमुद्देशः | उपायत्वात् | तत्र करणानां पूर्वं लक्षणं तत्सञ्चयात्मकत्वात् तेषाम् | (१०-१९) प्. ८९) सूचीविद्धस्तथा चैव ह्यपविद्धस्तथैव च | आक्षिप्तकोऽथ विज्ञेयस्तथा चोद्घट्टितः स्मृतः || २० || विष्कम्भश्चैव सम्प्रोक्तस्तथा चैवापराजितः | विष्कम्भापसृतश्चैव मत्ताक्रीडस्तथैव च || २१ || स्वस्तिको रेचितश्चैव पार्श्वस्वस्तिक एव च | वृश्चिकापसृतः प्रोक्तो भ्रमरश्च तथापरः || २२ || मत्तस्खलितकश्चैव मदाद्विलसितस्तथा | गतिमण्डलको ज्ञेयः परिच्छिन्नस्तथैव च || २३ || परिवृत्तचितोऽथ स्यात्तथा वैशाखरेचितः | परावृत्तोऽथ विज्ञेयस्तथा चैवाप्यलातकः || २४ || पार्श्वच्छेदोऽथ सम्प्रोक्तो विद्युद्भ्रान्तस्तथैव च | ऊरूद्वृत्तस्तथा चैव स्यादालीढस्तथैव च || २५ || रेचितश्चापि विज्ञेयस्तथैवाच्छुरितः स्मृतः | आक्षिप्तरेचितश्चैव सम्भ्रान्तश्च तथापरः || २६ || तत्राङ्गहारोद्देशमाह - स्थिरहस्त इत्यादिना द्वात्रिंशदेत इति (त्यन्तेन) | अयं भावः - अष्टोत्तरे करणशते ज्ञाते चतुष्षष्टिकरणयोजनयाऽत्रुटिताङ्गगत्या (ङ्गगतरीत्या) यद्यप्यानन्त्यमङ्गहाराणां तथापि प्राधान्याद्दृष्टफलं प्रत्यधिकोपरक्ततया द्वात्रिंशन्नामतो निर्दिष्टाः | न तु परिगणनमेतत् | अङ्गानां देशान्तरे समुचिते प्रापणप्रकारोऽङ्गहारः | हरस्य चायं हारः प्रयोगः | अङ्गनिर्वर्त्यो हारोऽङ्गहारः | यद्वक्ष्यति - महेश्वरस्य चरितं य इदम् इति | (ना. शा. ४-३३०) (१९-२७) प्. ९०) अपसर्पस्तु विज्ञेयस्तथा चार्धनिकुट्टकः | द्वात्रिंशदेते सम्प्रोक्ता अङ्गहारास्तु नामतः || २७ || एतेषां तु प्रवक्ष्यामि प्रयोगं करणाश्रयम् | हस्तपादप्रचारश्च यथा योज्यः प्रयोक्तृभिः || २८ || अङ्गहारेषु वक्ष्यामि करणेषु च वै द्विजाः | सर्वेषामङ्गहाराणां निष्पत्तिः करणैर्यतः || २९ || तान्यतः सम्प्रवक्ष्यामि नामतः कर्मतस्तथा | हस्तपादसमायोगो नृत्यस्य करणं भवेत् || ३० || तत्र निर्दिष्टानामेषां लक्षणं वाच्यमित्याशङ्क्याह - एतेषान्त्वित्यादि | करणेषूक्तेष्वेव ते लक्षयितुं शक्यन्ते | ननु किं करणक्रमपाठ एव तेषां लक्षणं भविष्यति | नेत्याह - हस्तपादप्रचारश्चेति | अङ्गहारप्रयोगेषु कर्तव्येषु यानि करणानि तद्विषये करणात्करणान्तरसञ्चारे हस्तपादादेरङ्गस्य यः संहिताकार्य - कल्पप्रयोगः तमपि वक्ष्यामि चशब्दात्क्वचिन्न वक्ष्यामि | ऊहप्रदर्शनार्थम् | वैशब्दः आगमप्रयोगद्योतकस्तु(कः) | अङ्गहारविषये वक्तव्ये पूर्व किं निरूपणार्हमित्याह - सर्वेषामिति | नामत उद्देशतया न तु लक्षणतः | तत्र करणानामङ्गहाराणां च सामान्यलक्षणं कर्तुमाह - हस्तपादेत्यादिना | क्रिया करणम् | कस्य क्रिया | नृत्तस्य | गात्राणां हस्तोपलक्षितस्य विलासक्षेपस्य | हेयोपादेयविषयक्रियादिभ्यो व्यतिरिक्ता या तत्क्रिया करणमित्यर्थः | नृत्यस्येति | व्यपदेशिवत्त्वेन षष्ठी | तस्याः क्रियायाः स्वरूपमाह - हस्तपादसमायोगः | हस्तोपलक्षितस्य पूर्वकायवर्तिशाखाङ्गोपाङ्गादेः पादोपलक्षितस्य चापरकायगतपार्श्वकट्यूरुजङ्घाचरणादेः सङ्गततयाऽत्रुटितत्वेवृत्तियोजने | पूर्वक्षेत्रसंयोगत्यागेन समुचितक्षेत्रान्तरप्राप्तिपर्यन्ततया एका क्रिया तत्करणमित्यर्थः | उत्तरसंयोगान्तं हि सर्वत्र कर्म | स चाप्यभिलषितोत्तरसंयोग प्. ९१) द्वे नृत्तकरणे चैव भवतो नृत्तमातृका | द्वाभ्यां त्रिचतुराभिर्वाप्यङ्गहारस्तु मातृभिः || ३१ || त्रिभिः कलापकं चैव चतुर्भिः षण्डकं भवेत् | पञ्चैव करणानि स्युः सङ्घातक इति स्मृतः || ३२ || षड्भिर्वा सप्तभिर्वापि अष्टभिर्नवभिस्तथा | करणैरिह संयुक्ता अङ्गहाराः प्रकीर्तिताः || ३३ || एव क्रियावधित्वेन लोके प्रसिद्ध इति नापूर्वमेतत् | एतावदेवेहाधिकं (यत्) सौन्दर्यानुप्रवेशेन सविलासत्वं नाम | अत एव नृत्तशब्देन विशेषणं नृत्तकरणमिति | एकदेशाभिप्रायेण तु करणशब्दस्य प्रयोगो भीमसेने भीम इतिवत् | एवं तावत्करणस्य सामान्यलक्षणम् | तत्राङ्गहारस्य विशेषलक्षणं विरचयितुं पीठबन्धमाह - द्वे नृत्तकरणे इति | नृत्तमातृकेति | नृत्तस्याङ्गहारात्मनो मातृका उत्पत्तिकारणम् | नृत्तशब्देन विशेषणात् यानि स्थानानि इत्यादिना (ना. शा. ४-५९) याः करणमातृका वक्ष्यन्ते ताभ्यो विशेषं दर्शयति करणद्वयप्रयोगेण च विना - द्वाभ्यां त्रिचतुराभिर्वेति | नृत्तभिमानो नास्ति | ततः परं तु नृत्यतीत्यभिमानात्करणद्वयं नृत्तमातृकेत्युक्तम् | एवाग्रहणान्न्यूनाधिकसङ्ग्रहः | नृत्तमातृकालक्षणेङ्गहारसामान्यलक्षणेन च करणद्वयमूहिताङ्गहारान्तरं च पिण्डीबन्धोपयोगि प्रयोज्यानुजानीते - एतेषामिति | अङ्गहाराणामेव संबन्धित्वेन हस्तपादविकल्पनं करणं वक्ष्यामि | जातावेकवचनम् | ननु स्थानकचार्यादीनां प्राक् लक्षणं वाच्यम् | नैवम् | तेषां नाट्यज्ञानादेव मुनिं प्रति विदितत्वात् | नृत्तहस्ता अपि वर्तनात्मानोऽस्यं विदिता एव | यत उक्तम् इदं नृत्तम् इति | तत एवाङ्गिके (ना.शा. १०) तेषामभिधास्यमानता | करणान्येव त्विव......वाच्यम् | (त्विह वाच्यानि) (२८- ३३) प्. ९२) एतेषामेव वक्ष्यामि हस्तपादविकल्पनम् | तलपुष्पपुटं पूर्वं वर्तितं वलितोरु च || ३४ || अपविद्धं समनखं लीनं स्वस्तिकरेचितम् | मण्डलस्वस्तिकं चैव निकुट्टकमथापि च || ३५ || तथैवार्धनिकुट्टं च कटिच्छिन्नं तथैव च | अर्धरेचितकं चैव वक्षःस्वस्तिकमेव च || ३६ || उन्मत्तं स्वस्तिकं चैव पृष्ठस्वस्तिकमेव च | दिक्स्वस्तिकमलातं च तथैव च कटीसमम् || ३७ || आक्षिप्तरेचितं चैव विक्षिप्ताक्षिप्तकं तथा | अर्धस्वस्तिकमुद्दिष्टमञ्चितं च तथापरम् || ३८ || भुजङ्गत्रासितं प्रोक्तमूर्ध्वजानु तथैव च | निकुञ्चितं च मत्तल्लि त्वर्धमत्तल्लि चैव हि || ३९ || स्याद्रेचकनिकुट्टं च तथा पादापविद्धकम् | वलितं घूर्णितं चैव ललितं च तथापरम् || ४० || दण्डपक्षं तथा चैव भुजङ्गत्रस्तरेचितम् | नूपुरं चैव सम्प्रोक्तं तथा वैशाखरेचितम् || ४१ || भ्रमरं चतुरं चैव भुजङ्गाञ्चितमेव च | दण्डरेचितकं चैव तथा वृश्चिककुट्टितम् || ४२ || कटिभ्रान्तं तथा चैव लतावृश्चिकमेव च | छिन्नं च करणं प्रोक्तं तथा वृश्चिकरेचितम् || ४३ || तत्र तान्यतः संप्रवक्ष्यामि नामतः कर्मतश्चेत्युक्तम् | नामतस्तावदाह - तलपुष्पपुटमित्यादि | प्. ९३) वृश्चिकं व्यसितं चैव तथा पार्श्वनिकुट्टकम् | ललाटतिलकं क्रान्तं कुञ्चितं चक्रमण्डलम् || ४४ || उरोमण्डलमाक्षिप्तं तथा तलविलासितम् | अर्गलं चाथ विक्षिप्तमावृत्तं दोलपादकम् || ४५ || विवृत्तं विनिवृत्तं च पार्श्वक्रान्तं निशुम्भितम् | विद्युद्भ्रान्तमतिक्रान्तं विवर्तितकमेव च || ४६ || गजक्रीडितकं चैव तलसंस्फोटितं तथा | गरुडप्लुतकं चैव गण्डसूचि तथापरम् || ४७ || परिवृत्तं समुद्दिष्टं पार्श्वजानु तथैव च | गृध्रावलीनकं चैव सन्नतं सूच्यथापि च || ४८ || अर्धसूचीति करणं सूचीविद्धं तथैव च | अपक्रान्तं च सम्प्रोक्तं मयूरललितं तथा || ४९ || सर्पितं दण्डपादं च हरिणप्लुतमेव च | प्रेङ्खोलितं नितम्बं च स्खलितं करिहस्तकम् || ५० || प्रसर्पितकमुद्दिष्टं सिंहविक्रीडितं तथा | सिंहाकर्षितमुद्वृत्तं तथोपसृतमेव च || ५१ || तलसङ्घट्टितं चैव जनितं चावहित्थकम् | निवेशमेलकाक्रीडमुरूद्वृत्तं तथैव च || ५२ || मदस्खलितकं चैव विष्णुक्रान्तमथापि च | सम्भ्रान्तमथ विष्कम्भमुद्घट्टितमथापि च || ५३ || प्. ९४) वृषभक्रीडितं चैव लोलितं च तथापरम् | नागापसर्पितं चैव शकटास्यं तथैव च || ५४ || गङ्गावतरणं चैवेत्युक्तमष्टाधिकं शतम् | अष्टोत्तरशतं ह्येतत्करणानां मयोदितम् || ५५ || नृत्ते युद्धे नियुद्धे च तथा गतिपरिक्रमे | गतिप्रचारे वक्ष्यामि युद्धचारीविकल्पनम् || ५६ || यत्र तत्रापि संयोज्यमाचार्यैर्नाट्यशक्तितः | प्रायेण करणे कार्यो वामो वक्षःस्थितः करः || ५७ || चरणस्यानुगश्चापि दक्षिणस्तु भवेत्करः | हस्तपादप्रचारन्तु कटिपार्श्वोरुसंयुतम् || ५८ || उरःपृष्ठोदरोपेतं वक्ष्यामाणं निबोधत | यानि स्थानानि याश्चार्यो नृत्तहस्तास्तथैव च || ५९ || अष्टाधिकं शतमिति पर्यन्तमुक्तं यदङ्गहारोपयोगित्वे नियतसमप्रत्यस्तमयमिति किमनेन संख्यानिरूपणेनेत्याशङ्क्याह - अष्टोत्तरशतमित्यादिना | अभिनये वस्तुत्वेन यन्नृत्तं वक्ष्यतेऽभिनयान्तरालवर्तिच्छिद्रप्रच्छदनादावेतप्रयुज्यते | नृत्तयुद्धे नियुद्धे च तथा गतिपरिक्रमे इति | शस्त्रादियुद्धे बाहुयुद्धे चाङ्गप्रयोगसौष्ठवार्थमपि प्रयुज्यते | पृथक्तया गत्यध्याय - (ना. शाः १३)वक्ष्यमाणासु च गतिषु ये परिक्रमाः परिक्रमणानि तत्र पृथक् तेन पृथक्त्वेन प्रयोगदर्शनादष्टोत्तरशतत्वं न नोपयोगि | एष च यथा विनियोगो भविष्यति तथा समनन्तरमेव वक्ष्यामः | अत्र अष्टोत्तरशतम् इत्यादि श्लोकं केचिन्न पठन्ति | अन्ये(न्ते) ततोऽप्यधिकं - हस्तपादप्रचारन्तु कटिपार्श्वोरुसंयुतम् || इति श्लोकं पठन्ति (३४-५८) | प्. ९५) सा मातृकेति विज्ञेया तद्योगात्करणं भवेत् | कटी कर्णसमा यत्र कोर्परांसशिरस्तथा || ६० || समुन्नतमुरश्चैव सौष्ठवं नाम तद्भवेत् | वामे पुष्पपुटः पार्श्वे पादोऽग्रतलसञ्चरः || ६१ || तत्र महासामान्यरूपं करणमाह - यानि स्थानानीति | इहावस्थानं गतिश्चेति द्वयनिर्वर्त्यं करणम् | तत्रावस्थाने करकायोपयोगि स्थानकम् | गतौ तु चार्यः | पूर्वकाये तु गतौ नृत्तहस्ता दृष्तयश्च | स्थितौ पताकाद्याः | एतच्चकारेण सङ्गृहीतम् | तेन गतिस्थितिसंमिलिते(तं)करणमित्यानन्त्यं यद्यपि करणं(णानां) तथाप्यङ्गहारोपयोगित्वादेतावदुक्तमिति श्लोकस्य तात्पर्यम् | (१) तलपुष्पपुटम् | तत्रोद्देशक्रमेण लक्षणान्याह - वाम इत्यादिना | यस्तु सर्पशिराः प्रोक्तस्तस्याङ्गुलिनिरन्तरः | द्वितीयः पार्श्वसंश्लिष्टः स तु पुष्पपुटः करः || (ना. शा. ९-१५०) उत्क्षिप्ता तु भवेत्पार्ष्णिः प्रसृतोऽङ्गुष्ठकस्तथा | अङ्गुल्यश्चाञ्चिताः सर्वाः पादेऽग्रतलसञ्चरे || (ना. शा. ९-२७३) कटी भवेच्च व्याभुग्ना पार्श्वमाभुग्नमेव च | तथैवापसृतांसं च किञ्चित्पार्श्वं नतं स्मृतम् || (ना.शा. ९-२३५) एषां योजनोच्यते | तत्र नृत्ते समपादतला हस्तद्वयपूर्वकं तत्ता(लता)वत्प्राचुर्येण सर्वत्र | ततश्चाध्यर्धिकया चार्या (ना. शा. १०-१७) दक्षिणपादनिष्क्रमणेन समकालं व्यावर्तितेन करयुगलेन दक्षिणपार्श्वे समं नीतेन परिवर्तितकरणवशादानीतेन वामपार्श्वे सौष्ठवेन वामस्तनक्षेत्रे पुष्पपुटहस्तबन्ध इति | अग्रतलपादपुष्पपुटयोगादेकदेशसूचनं नामेदं तलपुष्पपुटमिति | एवमन्यत्रापि नामवासना ऊह्याः | प्. ९६) तथा च सन्नतं पार्श्वं तलपुष्पपुटं भवेत् | कुञ्चितौ मणिबन्धे तु व्यावृत्तपरिवर्तितौ || ६२ || तत्र(यत्र)क्वचिद्वाक्यार्थाभिनय एव प्राधान्येन दर्शिते(दृश्यते)तत्र करणानामेव प्राधान्यम् | यत्रापि पदार्थाभिनयाः क्रियन्ते तत्राप्येकवाक्यानुप्रवेशप्राधान्यप्रख्यापनायाम् - वश्यमादौ मध्येऽन्ते वा यथावसरं करणमित्युपनिषत् | अत एव वक्ष्यति - अस्य शाखा च नृत्तं च तथैवाङ्कुर एव च | वस्तून्यभिनयस्येह | इति | (ना.शाः ८-१५) वर्तनानुप्रवेशो हि शाखयैव गतार्थः स्यात् तत्रैव च शाखान्ते भेदं वक्ष्यति | आङ्गिकश्च भवेच्छाखा (ना.शा- ८-१६) इत्युक्तम् | अङ्गहारविनिष्पन्नं नृत्तं तु करणाश्रयम् (ना. शा. ८-१६) एतत्स्फुटं तत्रैव व्याख्यास्यत इत्यास्तां तावत् | अत्रोदाहरणं दिक्प्रदर्शनाय अभिज- अ-इ मलविमुक्ककमलासण-उदितस्स इत्यादावनेन वाक्यार्थाभिनये नाट्येऽपि पादाग्रस्थितया(रत्ना. १-१) इत्यादावुपसंहारवाक्यर्थाभिनये इय(द)मेव युक्तं करणम् | न नृ (यन्नृ)त्यस्य पादाग्रस्थितत्वस्य कुसुमाञ्जलिक्षेपः | स चानेनैव सम्पन्नेन चतुरश्रीभूतत्वादङ्गादनन्तरं यदा प्रयुज्यते तदा हस्तयोः स्वे स्वे पार्श्वे आवेष्टितकरणं (ना.शा. ९-२१५) कृत्वा ततः उद्वेष्टितकरणेन (ना. शा. ९-२१६) पुष्पपुटप्रयोगः | यदा तु कर(णा)न्तरसन्निवेशानन्तरमिदं करणं प्रयुज्यते तदा त्यक्तव्यतदीयहस्तपादापेक्षया आदातव्यकरणगतहस्तपादाद्यपेक्षया च यथा वर्तनाक्रमेण स्वयमेव त्यागोपादाने अत्रुटिततया वा सम्पद्यते तथा कर्तव्यमित्यलं नृत्ताचार्यगोपिता (र्योपयोगि)नाऽनेन | एतच्च यथावसरं दर्शयित्वा सर्वं निरूपयिष्यामः | सव्यस्य पृष्ठतो वामश्चरणस्तु यदा भवेत् | तस्यापसर्पणं चैव सा ज्ञेयाऽध्यर्धिका बुधैः || (ना. शा. १०-१७) आवर्तन्ते कनिष्ठाद्या अङ्गुल्योऽभ्यन्तरेण तु || (ना. शा. ९-२१७) उद्वर्तन्ते कनिष्ठाद्या बाह्यतः क्रमशो यदा || (ना. शा. ९-२१८) इति व्यावृत्तपरिवर्तिते | एवं तर्जन्यादितः आवेष्टितपरिवेष्टिते | (५९-६१) प्. ९७) हस्तौ निपतितौ चोर्वोर्वर्तितं करणं तु तत् | शुकतुण्डौ यदा हस्तौ व्यावृत्तपरिवर्तितौ || ६३ || ऊरू च वलितौ यस्मिन्वलितोरुकमुच्यते | आवर्त्य शुकतुण्डाख्यमूरुपृष्ठे निपातयेत् || ६४ || (२) वर्तितम् | कुञ्चितावित्यादि | वक्षःक्षेत्रे उन्मुखं स्वस्तिकवदश्लिष्टमेव मणिबन्धगतं करयुगलं कृत्वा तत्रैव विहस्तौ समकालं व्यावृत्तपरिवर्तौ (वृत्तौ) विधायोत्तानावेव यथास्वमूर्वोः पातनीयौ | असूयावाक्यार्थाभिनये चोत्तानौ पातकौ | यथा तुब्झ क-ए सरिवं ररामर उण मरापरागुण अ आविद्धवर्तनावेव पताकौ | अधोमुखघृष्टमुखपातैरेतैर्यदा तदा रोषवाक्यार्थाभिनये यथा - सव ..... ड-ओ गु महिलो नु इत्यादो | एवं कटकामुखशुकतुण्डादयोऽपि यथायथमत्र योजयितव्याः | तत एवात्र मुनिना हस्तावशेषो न निरूपितः | अग्रतलसञ्चर एवात्र पाद इति केचित् | तद्धस्तौचित्यानुसारी पादयोग इति नृत्ताचार्याः | (६२) (३) वलितोरुकम् | शुकतुण्डावित्यादि | आद्या धनुर्नता कार्या कुञ्चितोऽङ्गुष्ठकस्तथा | शेषा भिन्नोर्ध्ववलिता ह्यरालेऽङ्गुलयः करे || (ना. शा. ९-४६) अरालस्य यदा वक्रानामिका त्वङ्गुलिर्भवेत् | शुकतुण्डः स तु करः (ना. शा. ९-५३) भवेदभ्यन्तरं जानु यत्राहुर्वलितं तु तत् | (ना. शा. ९-२५२) योजना तु - वक्षःक्षेत्रात्समकालं हस्तौ व्यावर्तितौ कृत्वा आक्षिप्तया पादचार्या सह पततः | परिवर्तेनानुनीय वक्षःप्रदेशे शुकतुण्डावधोमुखौ स्थापयेत् | बद्धया च चार्या स्थितिः | एतन्मुग्धाविषयं च | यथा - दुल्लणुल्लीति गुहिगुह्णविलुलि-अ अह्व हुदौ सुणाहि दिडात्तसहि | त्रिपताका तर्जनी वक्रतया शुकतुण्डः इत्यतान्त्रिकैर्लिखितमुपेक्ष्यमेव | प्. ९८) वामहस्तश्च वक्षःस्थोऽप्यपविद्धं तु तद्भवेत् | श्लिष्टौ समनखौ पादौ करौ चापि प्रलम्बितौ || ६५ || देहः स्वाभाविको यत्र भवेत्समनखं तु तत् | पताकाञ्जलि वक्षःस्थं प्रसारितशिरोधरम् || ६६ || अन्योन्यजङ्घासंवेधात् कृत्वा तु स्वस्तिकं ततः | ऊरुभ्यां वलनं यत्स्यात् सा बद्धा चार्युदाहृता || (ना. शा. १०-२१) (६३) (४) अपविद्धम् | वक्षसोऽष्टाङ्गुलस्थौ तु प्राङ्मुखौ कटकामुखौ | (ना. शा. ९-१८४) इति चातुरश्र्येण स्थित्वा ततो हस्तमावर्तितेन निष्क्रमयय ततः समकालमाक्षिप्तिकां चारी कृत्वा तमेव हस्तं शुकतुण्डीकृतं तस्योर्वोः(रोः) पृष्ठे निपातयेत् | वामहस्तश्च कटकामुखः | स तु वक्षस्येवेति दक्षिणस्य करपादस्यापर्यवसानात्तदुपलक्षितवेगैस्सरणादपविद्धमिति नाम्नैव वर्तनायाश्चातुर्यं सूचितम् | असूयाकोपवाक्यार्थाभिनये चेदम् | यथा - विमालकालतुज्झ इत्यादौ | मुनिविषयस्त्वस्यैव कैश्चित्प्रयोगो लिखितः तत्पात्रान्तरपरिवर्तनदोषात्स्वयमलक्ष्यत्वाच्चेत्युपेक्ष्यम् | कुञ्चितं पादमुत्क्षिप्य व्याक्षिप्तं त्वञ्चितं न्यसेत् | जङ्घा स्वस्तिकसंयुक्ता चाक्षिप्ता नाम सा स्मृता || (ना. शा. १०-३७) (६४) (५) समनखम् | प्रलम्बितौ कराविति लताहस्तौ मन्तव्यौ | न तु दोलाहस्तौ | तयोः शोकविषययोरत्र वर्तनायाश्चातुरश्र्यभङ्गहेतुत्वात् | तिर्यक्प्रसारितौ चैव पार्श्वसंस्थौ लताकरौ | (ना. शा. ९-१९८) एतच्च प्रथमप्रवेशे नृत्ते दृश्यते | जप्य(य)मङ्गलादिविषये नास्य प्रयोगो युक्तः यथा कैश्चिदिष्टः | (६५) प्. ९९) निहञ्चितांसकूटं च तल्लीनं करणं स्मृतम् | स्वस्तिकौ रेचितांविद्धौ विश्लिष्टौ कटिसंश्रितौ || ६७ || यत्र तत्करणं ज्ञेयं बुधैः स्वस्तिकरेचितम् | स्वस्तिकौ तु करौ कृत्वा प्राङ्मुखोर्ध्वतलौ समौ || ६८ || (६) लीनम् | पताकाभ्यां तु हस्ताभ्यां संश्लेषादञ्जलिः स्मृतः | (ना. शा. ९-१२८) प्रसारितसमाः सर्वा यस्याङ्गुल्यो भवन्ति हि | कुञ्चितश्च तथाङ्गुष्ठः स पताक इति स्मृतः || (ना. शा. ९-१८) रेचितग्रीवा | रेचिता विस्तृतभ्रान्ता भावे मथननृत्तयोः || (ना. शा. ८-१७३) इति केचित् | तदसत् | औचित्यायोगात् | तेन प्रणामापसारिता गमिता नत(नता) स्याद्ग्रीवा | उत्क्षिप्तबाहुशिखरं निकुञ्चितशिरोधरम् | निकुञ्चितं शिरः (ना. शाः ८-३२) तद्योगादंसकूटयोर्निहञ्चितत्वम् | योजना तूर्ध्वमण्डलिनौ (ना. शा. ९-२०३) नृत्तहस्तौ प्राक्प्रयुज्य तद्वर्तनाक्रमेण वक्षोदेशेऽञ्जलिं रचयेत् | एतदेव पताकाग्रहणस्य प्रयोजनम् | अञ्जलेर्नलिनीपद्मकोशवर्तनया सम्पादनं माभूत् | अपि तूर्ध्वमण्डलवर्तनया | तथा पताकयोः स्फुटप्रयोगोत्पत्तिः | तथाऽप्यव्यभिचारात् पताकाग्रहणफलमेव | लौकिकाञ्जलिशङ्काशमनं तु सति तान्त्रिके तुच्छफलम् | एतच्च प्रियप्रार्थनावाक्यार्थाभिनये | यथा- पुरिपडालपलदु०लडामं लिंबिल्ल इ दुंदुं | न तु देवताप्रणामे वक्षःस्थोऽप्यज्जलिरत्र | देवताप्रणामे तु शिरःस्थ इति वक्ष्यामः | (६६) (७) स्वस्तिकरेचितम् | पूर्वं रेचितौ तत आविद्धौ वक्रौ ततो देहक्षेत्रमागतौ स्वस्तिकौ | ततोऽपि विश्लिष्टौ विप्रकीर्णौ | ततः कटिसंस्थौ पक्षप्रद्योतपक्षवञ्चितकाख्यौ | एवं नृत्तहस्तषट्कात्मकमेतत्करणम् | तत्र - प्. १००) तथा च मण्डलं स्थानं मण्डलस्वस्तिकं तु तत् | निकुट्टितौ यदा हस्तौ स्वबाहुशिरसोऽन्तरे || ६९ || रेचितावपि विज्ञेयौ हंसपक्षौ द्रुतभ्रमौ | (ना. शा. ९-१९३) समाः प्रसारितास्तिस्रः तथा चोर्ध्वा कनीयसी | अङ्गुष्ठः कुञ्चितश्चैव हंसपक्ष इति स्मृतः || (ना. शा. ९-१०६) भुजांसकूर्पराग्रैस्तु कुटिलावर्तितौ करौ | पराङ्मुखतलाविद्धौ ज्ञेयावाविद्धवक्रकौ || (ना. शा. ९-१९०) तावेव मणिबन्धान्ते स्वस्तिकाकृतिसंस्थितौ | स्वस्तिकाविति विज्ञेयौ विच्युतौ विप्रकीर्णकौ || (ना. शा. ९-१८७) कटिशीर्षनिविष्टाग्रौ त्रिपताकौ यदा करौ | पक्षवञ्चितकौ | (ना. शा. ९-२००) तावेव तु परावृत्तौ पक्षप्रद्योतकौ स्मृतौ | (ना. शा. ९-२०१) योजना तु - चातुरश्र्यान्तरे रेचितवर्तनया पक्षौ विधाय व्यावर्तितकरणेन शिरःक्षेत्रादधरगमनोपरिगमने च या आविद्धवक्रवर्तना तया वक्षःक्षेत्रस्वस्तिकौ विधाय तावेव विप्रकीर्णौ कृत्वा पुनःपक्षवञ्चितौ पुनः पक्षप्रद्योताविति तद्योगात्स्वस्तिकरेचितम् | अत्र च तत्र तत्र नृत्तहस्ते प्रयोगवशादा(ला)(त)चार्या शतचार्यावदन्ते ..........बहिर्मण्डलसंस्थानकृतेन समनखौ पादावनुवर्तत इत्यसत् | एतच्च यत्र नृत्तमेव प्राधान्येनाभिनेयं तावत्कालं प्रहर्षादियोगे तत्र तत्र प्रयुज्यते | यथा धण्णि इ धण्णि इ धणहि-ए अणुराहिणव्वहरासु | महुरकण्णे जितिस-अ- उदाणवकुलिणिणोसु | (६७) (८) मण्डलस्वस्तिकम् | स्वस्तिकावृत्त(वुक्त)लक्षणौ | करौ | प्राङ्मुखौ चतुरश्रौ ऊर्ध्वतलौ | ऊर्ध्वमण्डलिनौ | वक्षसोऽष्टाङ्गुलस्थौ तु प्राङ्मुखौ कटकामुखौ | समानकूर्परांसौ च चतुरश्रौ प्रकीर्तितौ || (ना. शा. ९-१८४) ऐन्द्रे तु मण्डले पादौ चतुस्तालान्तरस्थितौ | प्. १०१) पादौ निकुट्टितौ चैव ज्ञेयं तत्तु निकुट्टकम् | अञ्चितौ बाहुशिरसि हस्तस्त्वभिमुखाङ्गुलिः || ७० || त्र्यश्रौ वक्षःस्थितौ चैव कटी जानुसमा तथा || (ना. शा. १०-६५) योजना तु - चतुरश्रहस्ताभ्यां स्थित्वा ततो विच्यवाप्रयोगसमकालमुद्वेष्टितवर्तनया गत्वा तत ऊर्ध्वमण्डलिवर्तनिकया स्वस्तिकौ कुर्यात् | मण्डलस्थानकं च बध्नीयादिति | इति मण्डलस्वस्तिकम् | विच्यवात्समपादाया विच्यवां सम्प्रयोजयेत् | निकुट्टयंस्तलाग्रेण पादस्य धरणीतलम् || (ना. शा. १०-१९) तलाग्रोऽग्रतलसञ्चरः | निकारवाक्यार्ह्ताभिनये | यथा - उव्वेला वि अगत्थि अवल-आ वाह्नि-अ-एहिशिं | जलचरि-उ ससक्वसुण्णिमंमद-उ इत्यादौ | (६८) (९) निकुट्टकम् | उन्नमनं विनमनं स्यादङ्गस्य निकुट्टनम् | इति कोहलः | तेन हस्तस्यालपल्लवस्य कनिष्ठाङ्गुलिपतनोत्पतनप्रकारो निकुट्टनम् | इहापि वक्ष्यते | अञ्चित इति पादस्याप्युद्घटितरूपता | स्थित्वा पादतलाग्रेण पार्ष्णिं भूमौ निपातयेत् | यस्य पादस्य करणे भवेदुद्घट्टितस्तु सः || (ना. शा. ९-२६६) चकारेण मण्डलस्थानकमुच्यते | स्वबाहुशिरस इत्येकवचनाद्धस्ताविति द्विवचनाच्च पर्यायेणाङ्गद्वयेन प्रयोगः | एवकाराद्दक्षिणेन प्रयोगे दक्षिण एव पादः वामेन वामः | तेन मण्डलस्थानके स्थित्वा चातुरश्र्यादनन्तरमुद्वेष्टितकरणेन हस्तं नीत्वा स्कन्धशिरसि निकुट्टयेत् | तमेव पादमुद्घट्टितं कुर्यात् | वामं तु हस्तं यथावस्थितं पुनराविद्धवक्रवर्तनतया तं हस्तं चतुरश्रीकुर्यात् | तत्समकालं चोक्तविधिना द्वितीयमङ्गं निकुट्टयेदिति योजना | अस्य च पुनः पुनरात्मसम्भावनाप्रधाने वाक्यार्थेऽभिनेतव्ये प्रयोगः | यथा - प्. १०२) निकुञ्चितार्धयोगेन भवेदर्धनिकुट्टकम् | पर्यायशः कटिश्छिन्ना बाह्वोः शिरसि पल्लवौ || ७१ || भी-उणजाणमिह-उसू भव-उकज्जी || (६९) (१०) अर्धनिकुट्टकम् | चरममेवार्ध लक्षणम् | आद्येन तु निकुट्टितस्य हस्तस्य युक्त्या लक्षणं कृतम् | अलपल्लव इति वक्तव्ये कुञ्चितग्रहणं क्रियाविशिष्टत्वप्रदर्शकम् | आवर्तिन्यः करतले यस्याङ्गुल्यो भवन्ति हि | पार्श्वगास्ता विकीर्णाश्च स हस्तस्त्वलपल्लवः || (ना. शाः ९-९१) शङ्कुकादिभिस्त्वञ्चनं देहाभिमुख्येन पृष्ठभागेन मनागाकर्षणमिति व्याख्यायितन्नाम्ना न सङ्गतमित्यास्ताम् | अस्य च प्रयोगः स्वात्मसम्भावनाविषय एवाप्ररूढे वाक्यार्थे | यथा- ह- उपरपरिवध उद्घट-इध (७०) | (११) कटिच्छिन्नम् | कटिमध्यस्य वलनाच्छिन्ना | (ना. शा. ९-२४५) पर्यायश इत्युभयशेषः | मणिबन्धनमुक्तौ तु पताकौ पल्लवौ स्मृतौ | (ना. शा. ९-१९६) योजना तु - भ्रमरिकया (ना. शा. १०-४५) चार्या पर्यायेण पार्श्वद्वयभ्रमणं कृत्वा मण्डलस्थानके (ना. शा. १०-६५) स्थित्वा बाहुशिरसि च पल्लवं पताकालपल्लवच्छायाद्वितीयं पर्यायेण बिभ्रद्विधेयः | पुनरपरेणाङ्गेनैवमिति | त्रिश्चतुर्वैषैव क्रिया | अतिक्रान्तक्रमं कृत्वा त्रिकं तु परिवर्तयेत् | द्वितीयपादभ्रमणात्तलेन भ्रमरी स्मृता || (ना. शा. १०-४५) कुञ्चितं पादमुत्क्षिप्य पुरतः सम्प्रसारयेत् | उत्क्षिप्य पातयेच्चैनमतिक्रान्ता तु सा स्मृता (ना.शा. १०-३०) विस्मयप्रधानवाक्यार्थाभिनये चास्य प्रयोगः | यथा- एभि उ० वि० खु गिडत्थ गि- लित्थ उ० वोरु० वदाणहुणं भूकुलावण-इ | विस्मयप्राधान्यख्यापनायैवात्रपल्लवस्यादौ प्. १०३) पुनःपुनश्च करणं कटिच्छिन्नं तु तद्भवेत् | अपविद्धकरः सूच्या पादश्चैव निकुट्टितः || ७२ || सन्नतं यत्र पार्श्व च तद्भवेदर्धरेचितम् | स्वस्तिकौ चरणौ यत्र करौ वक्षसि रेचितौ || ७३ || निकुञ्चितं तथा वक्षो वक्षस्वस्तिकमेव तत् | अञ्चितेन तु पादेन रेचितौ तु करौ यदा || ७४ || प्रयोगः अद्धक् खि आ इत्यादौ || (७१) (१२) अर्धरेचितकम् | हस्तौ तु सर्पशिरसौ मध्यमाङ्गुष्ठकौ यदा | तिर्यक्प्रसारितास्यौ च तदा सूचीमुखौ स्मृतौ || (ना. शा. ९-१९१) मन्डल एव स्थानके स्थित्वा करो वक्षसि कटकामुखः सूचीमुखेन हस्तेनापगमपूर्वकं विद्धो निकटयोजितः चपटचावसरे (तदपसारणे) च पार्श्व सम्यक्सौष्ठवेन नतं पादश्च निकुट्टितस्तदा कायार्धस्य पर्यायेण रेचनाद्बहिर्गमनादर्धरेचितम् | एतच्चासमञ्जसचेष्टाप्रधानवाक्यार्थाभिनये | यथा- गिरिगि-इ-इल०वमुं चोल-उकज्जनुकारण इत्यादौ | (७२) | (१३) वक्षःस्वस्तिकम् | वक्षसि तौ हस्तौ स्थितौ तौ रेचितौ कृत्वा व्यावृत्तकरणेनानीय निकुञ्चिते आभुग्ने वक्षसि स्वस्तिकौ कार्यौ | हस्तस्वस्तिकानुसारेण च पादावन्योन्यं जङ्घानुगुल्फवलनेन स्वस्तिकौ कार्यौ | निम्नमुन्नतपृष्ठं च व्याभुग्नांसं श्लथं क्वचित् | आभुग्नं तदुरः | (ना. शा. ९-२२४) अत्र च नृत्तयोगात्सौष्ठवप्राधान्यमिति | भुग्नांसमिति | अंसौ हस्तापेक्षया | लज्जितजातानुतापप्रधाने वाक्यार्थे एवास्य प्रयोजनम् | यथा - भुंज-इ सदेसदेसं प्. १०४) उन्मत्तं करणं तत्तु विज्ञेयं नृत्तकोविदैः | हस्ताभ्यामथ पादाभ्यां भवतः स्वस्तिकौ यदा || ७५ || तत्स्वस्तिकमिति प्रोक्तं करणं करणार्थिभिः | विक्षिप्ताक्षिप्तबाहुभ्यां स्वस्तिकौ चरणौ यदा || ७६ || धादंति बहिः णिं अमित एव वंसतिण्णववसिः अनु अन्न-अविरंहीम | (७३) (१४) उन्मत्तकम् | पार्ष्णिर्यत्र स्थिता भूमावूर्ध्वमग्रतलं तथा | अङ्गुल्यश्चाञ्चिताः सर्वाः स पादोऽञ्चित उच्यते || (ना. शा. ९-२७५) आविद्धचार्या चास्य प्रयोगः | स्वस्तिकस्याग्रतः पादः कुञ्चितस्तु प्रसारितः | निपतेदञ्चिताविद्धमाविद्धा नाम सा स्मृता || (ना. शा. १०-३८) एकवचनद्विवचनाभ्यामङ्गपर्यायः सूच्यते | एतस्यातिसौभाग्यादिजनितगर्वविषयः प्रयोगः | यथा- इंति-इ-एण इहहि कह विमाखरिततवसि-इ | (७४) (१५) स्वस्तिकम् | उद्वेष्टिवर्तनवामहस्तो निष्क्रमस्य(निष्कास्य) व्यावर्तितस्य करणसमकालमुत्प्लुत्य युगपदेव हस्तपादस्य स्वस्तिकं रचयेत् | करणार्थिभिरिति वाक्यार्थाभिनयलक्षणा | नृत्ताङ्गहाररूपा गतिपरिक्रमादिस्वभावाश्च क्रिया येऽर्थवन्त इति मध्ये तेन भङ्गिवचनेन सर्वेषां करणानां प्रयोजनं सूचितम् | तत्र युक्त्या द्वे(न्वे(षणनिषेधरहस्ये (राभस्ये?) च वाक्यार्थेऽभिनेतव्येऽस्य प्रयोगः | यथा मणिचारिं ते मत्थि-अरू-अ-अं गढजांवणयेण वंति हि-अंभुलण-ए किं त कंमण-एण || (७५) (१६) पृष्ठस्वतिकम् | ऊरुभ्यां वलनं कृत्व कुञ्चितं पादमुद्धरेत् | पार्श्वे विनिक्षिपेच्चैनमपक्रान्ता तु सा स्मृता || (ना. शा. १०-३१) प्. १०५) अपक्रान्तार्धसूचिभ्यां तत्पृष्ठस्वस्तिकं भवेत् | पार्श्वयोरग्रतश्चैव यत्र श्लिष्टः करो भवेत् || ७७ || स्वस्तिकौ हस्तपादाभ्यां तद्दिक्स्वस्तिकमुच्यते | अलातं चरणं कृत्वा व्यंसयेद्दक्षिणं करम् || ७८ || ऊर्ध्वजानुक्रमं कुर्यादलातकमिति स्मृतम् | स्वस्तिकापसृतः पादः करौ नाभिकटिस्थितौ || ७९ || कुञ्चितं पादमुत्क्षिप्य जानूर्ध्वं सम्प्रसारयेत् | पातयेच्चाग्रयोगेन सा सूची परिकीर्तिता || (ना. शा. १०-३४) ऊर्ध्व(अर्ध)शब्देन द्वितीयस्मिन्पादे सूची कार्या | न तु तस्मिन्नेव पर्यायेणेत्याह | तेनेत्थं योजना - उद्वेष्टितक्रियया बाहुद्वयविक्षेपसमकालमपक्रान्ता चारी | तया अपवेष्टितकरणसमकालं द्वितीयेन पादेन सूचीं विधाय स्वस्तिकं पादाभ्यां तथा हस्ताभ्यां कुर्यादिति | पृष्ठे पाश्चात्ये समे यत्स्वस्तिकं तथा दक्षिणपृष्ठे वामपादेन स्वस्तिकं त्रिकवलनया च पराङ्मुखीभूय स्वस्तिकमिति पृष्ठस्वस्तिकम् | प्रयोगोऽस्योक्तविषय एव | अन्ये तु पृष्ठविषये हस्ताभ्यां स्वस्तिकमिच्छन्तो युद्धविषये परिक्रमेऽस्य प्रयोगमाहुः | (७६) (१७) दिक्स्वस्तिकम् | हस्ताभ्यामथेत्यादिना यत्पश्चात्स्वस्तिकाख्यं करणमुक्तं तदेव यदा पार्श्वयोरग्रे चकारात्पृष्ठे चतुर्दिङ्मुखेष्वत्रुटितेनाङ्गेन क्रियतेऽत एवाङ्गश्लिष्ट इति | तदा दिक्स्वस्तिकमिति | अनेन मध्ये निरूपितेन सर्वेषां करणानामित्थं प्रयोगमनुजानीते | प्रयोगश्चास्यगीतपरिवर्तेषु | यद्वक्ष्यति यदा गीत(ति)वशादङ्गं भूयो भूयो निवर्तते (ना. शा. ४-३०६) | इत्यादि | (७७) (१८) अलातकम् | पृष्ठे प्रसारितः पादो वलितेनान्तरीकृतः | पार्ष्णिप्रपतिता चैवमलाता सा प्रकीर्तिता || (ना. शा. १०-४१) प्. १०६) पार्श्वमुद्वाहितं चैव करणं तत्कटीसमम् | हस्तो हृदि भवेद्वामः सव्यश्चाक्षिप्तरेचितः || ८० || अंसाद्विनिष्क्रमणं व्यसयेदिति | तं च नृत्तहस्तं (नितम्बहस्तं) दक्षिणेन रचयति | यत्- कुञ्चितं पादमुत्क्षिप्य जानुस्तनसमं न्यसेत् | द्वितीयं च क्रमं तूर्ध्वमूर्ध्वजानुः प्रकीर्तिता || (ना. शा. १०-३३) ततश्चारीनिवेशाच्च पादस्याप्यलातादिसंज्ञा | एवं सर्वत्र | बाहुशीर्षाद्विनिष्क्रान्तौ नितम्बाविति कीर्तितौ | (ना. शा. ८-१९६) योजना तु- दक्षिणपादेनालातां चारी प्रयुञ्जानो दक्षिणहस्तेन नितम्बं कृत्वा चतुरश्रमेव कुर्यात् | वामेन पादेनोर्ध्वजानुं ततो वामेनाप्यङ्गेन | एवमेतेऽप्यलातचार्या द्वि(द्विः) - प्रयोगात्तननामधेयमेवेदं करणम् | प्रयोगश्चास्य ललितनृत्तविषये | यथा - देवं हं उणवशमिं इत्यादौ | (७८) (१९) कटीसमम् | स्वस्तिकादनन्तरमपसृत इत्यनेन आक्षिप्तायाश्चार्या अनन्तरमपक्रान्तायाश्चार्याः प्रयोगमह | चकारेण करौ च स्वस्तिकाववधृतौ | तत एको नाभिस्थः खटकः | एवमपरः कट्यामर्धचन्द्रः | तदेव पार्श्व नतमपरमुद्वाहितं द्वितीयेनाङ्गेन | कुञ्चितं पादमुत्क्षिप्य आक्षिप्य त्वञ्चितं न्यसेत् | जङ्घास्वस्तिकसंयुक्तमाक्षिप्ता नाम सा स्मृता || (ना. शा. १०-३७) उत्क्षिप्तचक्रा तु यदाऽनामिका सकनीयसी | अस्यैव तु कपित्थस्य तदासौ खटकामुखः || (ना. शा. ९-६१) यस्याङ्गुल्यस्तु विनताः सहाङ्गुष्ठेन चापवत् | सोऽर्धचन्द्रः (ना. शा. ९-४३) उद्वाहितं तूर्ध्वगतमुरो ज्ञेयम् इति | (ना. शा. ९-२३१) तत्पार्श्वमप्युद्वाहितम् | वैष्णवं चात्र स्थानकं कटिसमं तत्त्वबन्धाल्लभ्यते | प्. १०७) रेचितश्चापविद्धश्च तत्स्यादाक्षिप्तरेचितम् | विक्षिप्तं हस्तपादं च तस्यैवाक्षेपणं पुनः || ८१ || यत्र तत्करणं ज्ञेयं विक्षिप्ताक्षिप्तकं द्विजाः | स्वस्तिकौ चरणौ कृत्वा करिहस्तं च दक्षिणम् || ८२ || द्वौ तालावर्धतालश्च पादयोरन्तरं भवेत् | तयोः समस्थितस्त्वेकः त्र्यश्रः पक्षस्थितोऽपरः || किञ्चिदञ्चितजङ्घं च सौष्ठकङ्गपुरस्कृतम् | वैष्णवं स्थानमेतद्धि विष्णुरत्राधिदैवतम् || (ना. शा. १०-५२-५३) जर्जराभिमन्त्रणावसरे सूत्रधारेणायं प्रयोक्तव्यः | (७९) (२०) आक्षिप्तरेचितम् | हृदयक्षेत्रे वामः सव्यश्च यो हस्तः स आसमन्तादित्यूर्ध्वे पार्श्वद्वये च व्यावर्तितकरणेन क्षिप्तः स रेचितो हंसपक्षद्रुतभ्रमात्मा | (ना. शा. ९- १९३) | तत एक आक्षिप्तः स्ववक्षोदेशमधोमुख आनीतोऽञ्चितश्च रेचितः सन्नपविद्धश्च | गात्रक्षेत्रान्निष्क्रामित इत्याक्षिप्तरेचितं करणम् | पादावत्र प्रयोगानुसारेण अञ्चित - सूचीरूपेण | त्यागोपादानपरस्प(म्प)रात्मनि च वाक्यार्थेऽभिनेतव्येऽस्य प्रयोगः | यथा हण्डे चिसुण-इ ए-इं व-इ-उं वण इत्यादौ || (८०) (२१) विक्षिप्ताक्षिप्तकम् | एकस्य हस्तस्य व्यावर्तनकरणकाले पादस्य बहिर्निष्क्रमणलक्षणो विक्षेपः | द्वितीयहस्तस्तु चतुरश्र एव | पुनः परिवर्तितकरणेन तस्य हस्तपादस्याक्षेपो द्वितीयस्य विक्षेपः | गमनागमनप्रधाने वाक्यार्थे चास्य प्रयोगः | यथा- आवर्त-उजंत-उ पुणं रग-इदम् इत्यादाविति केचित् | उपाध्यायास्त्वाहुः - अभिनयहस्ता ये वक्ष्यन्ते तत्प्रधानस्य करणस्य वाक्यार्था भिनये प्रयोगः | न तु केवलवर्तनाप्रधानस्य केवलनृत्तहस्तप्रधानस्य वा | तस्य प्. १०८) वक्षःस्थाने तथा वाममर्धस्वस्तिकमादिशेत् | व्यावृत्तपरिवृत्तस्तु स एव तु करो यदा || ८३ || अञ्चितो नासिकाग्रे तु तदञ्चितमुदाहृतम् | कुञ्चितं पादमुत्क्षिप्य त्र्यश्रमूरुं विवर्तयेत् || ८४ || कटिजानुविवर्ताच्च भुजङ्गत्रासितं भवेत् | कुञ्चितं पादमुत्क्षिप्य जानुस्तनसमं न्यसेत् || ८५ || तु नृत्ते प्रयोगः प्राधान्येन | अन्ये तु कदाचिदङ्गविच्छेदरक्षणे | यथायोगमभिनयान्तराले गतिपरिक्रम(मे ?)तालान्तरसन्धाने युद्धनियुद्धचारीस्थानके सञ्चारे वा प्रयोग इति | एतच्च सर्वत्रानुसरणीयम् | (८१) (२२) अर्धस्वस्तिकम् | समुन्नतो लताहस्तः पार्श्वात्पार्श्व तु दोलितः | त्रिपताकोऽपरः कर्णे करिहस्तः प्रकीर्तितः || तिर्यक्प्रसारितौ चैव पार्श्वसंस्थौ लताभिधौ | (ना. शा. ९-१९८-१९९) कटिहस्तम् इति केचित्पठन्ति | तत्र व्याख्या कट्यां यो हस्तोऽर्धचन्द्रः पक्षप्रद्योतकवञ्चितकौ | वाममिति खटकास्यम् (ना. शा. ९-६१) पादाभ्यामेव स्वस्तिकयोगादर्धस्वस्तिकम् | एतत्करणमभिनयहस्तरहितमेव | (८२) (२३) अञ्चितम् | स एवेति योऽर्धस्वस्तिककरणे करिहस्त उक्तः स एव व्यावर्तितकरणेन यदा नासाक्षेत्रे अलपल्लवाकृतित्वादञ्चितोदञ्चितसारणानुकारि तदञ्चितम् | एतस्य संमुखीनात्मविषये स्वातिशयकौतुके(क)प्रधाने वाक्यार्थे प्रयोगः | यथा- एव-उवेम्मकुहे-उको इति | (८३) प्. १०९) प्रयोगवशगौ हस्तावूर्ध्वजानु प्रकीर्तितम् | वृश्चिकं चरणं कृत्वा करं पार्श्वे निकुञ्चयेत् || ८६ || नासाग्रे दक्षिणं चैव ज्ञेयं तत्तु निकुञ्चितम् | वामदक्षिणपादाभ्यां घूर्णमानोपसर्पणैः || ८७ || उद्वेष्टितापविद्धैश्च हस्तैर्मत्तल्ल्युदाहुतम् | स्खलितापसृतौ पादौ वामहस्तश्च रेचितः || ८८ || (२४) भुजङ्गत्रासितम् | नृत्तस्यानादिसिद्धत्वात्करणमिदमुक्तरूपमाशङ्कितदृष्टनिकटतः सर्पत्रासाविष्टस्येव गतिसंवर्ते भुजङ्गत्रासितं करणम् | हस्तौ तु पादवशाद्व्यावर्तितपरिवर्तितौ भवतः | क्रमेणैको दोलाहस्तः (ना. शा. ९- १४८) परः खटकास्य इति करणम् | एतत्सादृश्यात्तु भुजङ्गत्रासितचारी (ना. शा. १०-४२) वक्ष्यते | एवं करणतुल्यं नाम सर्वचारीषु वाच्यम् | (८४) (२५) ऊर्ध्वजानु | उत्क्षिप्ता यस्य पार्ष्णिः स्यादङ्गुल्यः कुञ्चितास्तथा | तथा कुञ्चितमध्यश्च स पादः परिकुञ्चितः || (ना. शा. ९-२७७) ऊर्ध्वजानु एवं भविष्यति - कुञ्चितसमकालं स एव हस्त एव कुञ्चितस्तनसमजानूपरि वोर्ध्वमुखोऽलपल्लवोऽरालो वा | तत्रापरस्तु वक्षःस्थखटकामुखः | (८५) (२६) निकुञ्चितम् | वृश्चिकाख्ये करणे यः पादो वक्ष्यते पादः पृष्ठाञ्चितस्तथा इति (ना. शा. ४-१०८) (स) वृश्चिकशब्देनेहोच्यते | तेन पश्चात्प्रसारितं चरणं कृत्वा तदेकं च हस्तं शिरःपार्श्वक्षेत्रेऽरालं द्वितीयं च नासाग्रक्षेत्रानुसारि वक्षस्यरालमेव कुर्यात् | अन्ये त्वाहुः - नासाग्रे एकः पताकः अन्यश्च सूच्यास्य इति | एतच्चाकाशगमनोन्मुखवितर्कप्रणिधानादिप्रधानवाक्यार्थाभिनये | यथा हनूमतः एषोऽस्मि व्योममार्गे प्रसभमभिरन्किं विलम्बैः | इत्यादौ || (८६) प्. ११०) सव्यहस्तः कटिस्थः स्यादर्धमत्तल्लि तत्स्मृतम् | रेचितो दक्षिणो हस्तः पादः सव्यो निकुट्टितः || ८९ || दोला चैव भवेद्वामस्तद्रेचितनिकुट्टितम् | कार्यौ नाभितटे हस्तौ प्राङ्मुखौ खटकामुखौ || ९० || (२७) मत्तल्लि | चार्यप्येवंरूपैव (ना. शा. १०-२८) भविष्यति | घूर्णमानस्य ततो यान्युपसर्पणानि पादस्य तैरुपलक्षिताभ्यां पादाभ्याम् | घूर्णनं च पादस्य द्वितीयपादगुल्पस्वस्तिकोपसर्पणम् | तत्समकालं च हस्तौ नितम्बाख्यावुद्वेष्टितौ तदोपसर्पणकालेऽपविद्धोपवेष्टने (द्धावपवेष्टितौ) | एवं द्वितीयेनाङ्गेन | बहुवचनं पुनः पुनरित्थं क्रियेति सूचयति | मदनं मत्तं तनोतीति मत्तल्लि मदोत्कलस्य वीप्सायोगेन करणेन | तन्मत्तल्लित्रये विक्षेपः | मत्तशेखरकादिविषयोऽस्याः प्रयोगः | (८७) (२८) अर्धमत्तल्लि | (वामः) रेचितो हंसपक्षो द्रुतभ्रमः | स्खलित इति षट् (कट्यां?) द्वितीयः पादनिकटं प्राप्तः | तरुणमदविषयः (प्रयोगः) | (८८) (२९) रेचितनिकुट्टितम् | सव्य इति दक्षिण एव | निकुट्टित इत्युद्घट्टितक्रियया | स्थित्वा पादतलाग्रेण पाष्णिर्भूमौ निपात्यते | (ना. शा. ९-२४८) स उद्घट्टितः | असौ प्रशिथिलौ मुक्तौ पताकौ तु प्रलम्बितौ | यदा भवेतां करणे स दोल इति संज्ञितः || (ना. शा. ९-१३५) स्त्रीलिङ्गयोगेन दोला हस्तस्य प्रेङ्खोलितं यद्वर्तनया गमनामगने सूचयति | (८९) प्. १११) सूचीविद्धावपक्रान्तौ पादौ पादापविद्धके | अपविद्धो भवेद्धस्तः सूचीपादस्तथैव च || ९१ || तथा त्रिकं विवृत्तं च वलितं नाम तद्भवेत् | वर्तिताघूर्णितः सव्यो हस्तो वामश्च दोलितः || ९२ || स्वस्तिकापसृतः पादः करणं घूर्णितं तु तत् | करिहस्तो भवेद्वामो दक्षिणश्च विवर्तितः || ९३ || (३०) पादापविद्धकम् | नाभिक्षेत्रे पराङ्मुखौ | सूच्याख्येन पादेन द्वितीयं पादं विद्धं विधाय स एव सूचीपादोऽपक्रान्तचारीयुक्तः कार्यः | एवं द्वितीयोऽपि | उत्क्षिप्ता तु भवेत्पार्ष्णिरङ्गुष्ठाग्रेण संस्थितः | सूचीपादः | (ना. शा. ९-२७९) ऊरुभ्यां वलनं कृत्वा इत्यपक्रान्ता (ना. शा. १०-३१) पादात् पादान्तरमपविद्धमपसारितं यत्र तदिदं करणम् | (९०) (३१) वलितम् | हस्तौ तु सर्पशिरसौ (ना. शा. ९-१९१) इति सूचिमुखो हस्तः | स देहक्षेत्रादपसृतः कार्यः | तत्समकालं सूचीपादोऽप्यपसृतः | ततो भ्रमरिकां चारी कृत्वा - अतिक्रान्तक्रमं कृत्वा त्रिकं तु परिवर्तयेत् | द्वितीयपादभ्रमणात्तलेन भ्रमरी स्मृता || (ना. शा. १०-४५) तदिदं त्रिकवलनाद्वलितम् | (९१) (३२) घूर्णितम् | पार्श्वक्षेत्रादूर्ध्वव्यावर्तितेनाधोमुखपरिवर्तितेन यदा दोलाहस्तत्वाद् घूर्णितम् | (९२) प्. ११२) बहुशः कुट्टितः पादो ज्ञेयं तल्ललितं बुधैः | ऊर्ध्वजानुं विधायाथ तस्योपरि लतां न्यसेत् || ९४ || दण्डपक्षं तु तत्प्रोक्तं करणं नृत्तवेदिभिः | भुजङ्गत्रासितं कृत्वा यत्रोभावपि रेचितौ || ९५ || वामपार्श्वस्थितौ हस्तौ भुजङ्गत्रस्तरेचितम् | त्रिकं सुवलितं कृत्वा लतारेचितकौ करौ || ९६ || (३३) ललितम् | समुन्नतो लताहस्तः पार्श्वात्पार्श्वविलोलितः | इत्ययं वामः | (ना. शा. ९-१९९) दक्षिणं विविधं कृत्वा बहुशो वर्तितः | बाहुशीर्षाद्विनिष्क्रान्तौ नितम्बौ | (ना. शा. ९-१९६) केशदेशाद्विनिष्क्रान्तौ परिपार्श्वोत्थितौ तथा | विज्ञेयौ केशबन्धौ || (ना. शा. ९-१९७) इत्येवंप्रकारनृत्तहस्तयोजनया वर्तितः | चकाराद्वर्तनान्ते त्रिपताकोऽपरः कर्णे (ना. शा. ९-१९९) इति करिहस्तः | पादश्च हस्तानुसारेण निकुट्टितः पुनः पुनरन्येनाङ्गेन | तदिति सविलासनृत्तविषयमेतत् | अत एव ललितं नाम करणम् | (९३) (३४) दण्डपक्षम् | कुञ्चितं पादमुत्क्षिप्य जानुस्तनसमम् इति (ना. शा. १०-३३) ऊर्ध्वजानुचारी कुर्वन् तिर्यक्प्रसारितौ (ना. शा. ९-१९८) इति लताहस्तौ विधायैकं लताहस्तं तस्य जानुन उपरि क्षिपेत् | पुनर्द्वितीयेनाङ्गेनैवमित्येकत्र पार्श्वे दण्डवद्बाहुसमवस्थानाद्दण्डपक्षं करणम् | (९४) (३५) भुजङ्गत्रस्तरेचितम् | तदित्यध्याहारः | कुञ्चितं पादमुत्क्षिप्य त्र्यश्रमूरुं विवर्तयेत् | (ना. शा. १०-४२) इति विधाय द्वावपि हंसपक्षौ द्रुतभ्रमौ (ना. शा. ९-१९३) वामक्षेत्रगौ हस्तौ नेयौ | (९५) प्. ११३) नूपुरश्च तथा पादः करणे नूपुरे न्यसेत् | रेचितौ हस्तपादौ च कटी ग्रीवा च रेचिता || ९७ || वैशाखस्थानकेनैतद्भवेद्वैशाखरेचितम् | आक्षिप्तः स्वस्तिकः पादः करौ चोद्वेष्टितौ तथा || ९८ || त्रिकस्य वलनाच्चैव ज्ञेयं भ्रमरकं तु तत् | अञ्चितः स्यात्करो वामः सव्यश्चतुर एव तु || ९९ || (३६) नूपुरम् | पृष्ठतोऽभ्यञ्चितं कृत्वा पादमग्रतलेन तु | द्रुतं निपातयेद् भूमौ चारी नूपुरपादिका || (ना. शा. १०-३५) तेन भ्रमरिकया चार्या (ना. शा. १०-४५) त्रिकवलनं कृत्वा ततो नूपुरपादिकां चारीं येन पादेन करोति तद्दिक्केनैव हस्तेन (रेचितम् | | द्वितीयो लताहस्तः) | (९६) (३७) वैशाखरेचितम् | रेचितौ नृत्तहस्तौ हंसपक्षौ द्रुतभ्रमाविति | तदनुकारेण पादग्रीवाकटिगतं रेचितं ज्ञेयम् | यथोक्तं राहुलकेन - ग्रीवायां करयोः कट्यां पादयोश्च पृथक्पृथक् | भ्रमणं रेचितं विद्यात् | इति | तालास्त्रयोऽर्धतालश्च पादयोरन्तरं भवेत् | तालांस्त्रीनर्धतालं च निषण्णोरुं प्रकल्पयेत् || त्र्यश्रौ पक्षस्थितौ पादौ || (ना. शा. १०-६१-६२) वैशाखं स्थानम् | एतत्करणमभिवाहने | (९७) (३८) भ्रमरकम् | अनेन पादेनाक्षिप्ता चारी सूचिता | कुञ्चितं पादमुत्क्षिप्य व्याक्षिप्य त्वञ्चितं न्यसेत् | जङ्घास्वस्तिकसंयुक्तमाक्षिप्ता नाम सा स्मृता || (ना. शा. १०-३७) प्. ११४) दक्षिणः कुट्टितः पादश्चतुरं तत्प्रकीर्तितम् | भुजङ्गत्रासितः पादो दक्षिणो रेचितः करः || १०० || लताख्यश्च करो वामो भुजङ्गाञ्चितकं भवेत् | विक्षिप्तं हस्तपादं तु समन्ताद्यत्र दण्डवत् || १०१ || तेनैवं योजना - स्वस्तिकानन्तर पादमाक्षिप्य तत्समकालमुद्वेष्त्य तर्जन्याद्या बहिर्मुखम् (ना. शा. ९-२१६) इत्युद्वेष्टितमेकं हस्तं कृत्वा त्रिकवलनं कृत्वा पुनर्द्वितीयेनाङ्गेन तथैव | चकारात्तद्वलनानन्तरं स्वस्तिक एव पादः | एकवचनद्विवचनाभ्यां पर्यायेण प्रयोगोऽत्र सूचितः | यदि वोद्वेष्टितशब्देनोल्बणौ नृत्तहस्तावुपलक्षितौ | करावुद्वेष्टिताग्रौ तु प्रविधायालपल्लवौ | ऊर्ध्वं प्रसारिताविद्धौ कर्तव्यावुल्बणौ || इति (ना. शा. ९-२०८) तदा युगपदेव प्रयोगं कृत्वा पादस्वस्तिकभ्रमणाद्देहस्य साक्षात्कृतः | संज्ञायां कन् | एतदुद्धतपरिभ्रमणविषये प्रयोक्तव्यम् | (९८) (३९) चतुरम् | अञ्चित इत्यलपल्लवः (ना. शा. ९-९१) तिस्रः प्रसारिता यत्र तथा चोर्ध्वा कनीयसी | तासां मध्ये तथाङ्गुष्ठः स करश्चतुरः स्मृतः || (ना. शा. ९-९३) एवकारेण वक्षःक्षेत्राद् द्वयोरप्यलम् | तु शब्देन सन्निवेशाधिक्यं केवलमिति सूच्यते | कुट्टित इति | स्थित्वा पादतलाग्रेण पार्ष्णिर्भूमौ निपात्यते | (ना. शा. ९-२६६) इत्युद्घटिताङ्गरूपः | एतद्विदूषकस्य सविस्मयसूच्याभिवयादौ | यथा सानुरे खण्डदासवर्यमिसासा | (९९) (४०) भुजङ्गाञ्चितकम् | (कुञ्चितं पादम् | (ना. शा. १०-४२) इत्यादि भुजङ्गत्रासितचार्या पादः | हंसपक्षौ द्रुतभ्रमौ | (९-१९३) इति दक्षिणो रेचितः | तिर्यक्प्रसारितौ इति (ना. शा. ९-१९८) वामो लताख्यो नृत्तहस्तः |) (१००) प्. ११५) रेच्यते तद्धि करणं ज्ञेयं दण्डकरेचितम् | वृश्चिकं चरणं कृत्वा द्वावप्यथ निकुट्टितौ || १०२ || विधातव्यौ करौ तत्तु ज्ञेयं वृश्चिककुट्टितम् | सूचीं कृत्वापविद्धं च दक्षिणं चरणं न्यसेत् || १०३ || रेचिता च कटिर्यत्र कटिभ्रान्तं तदुच्यते | अञ्चितः पृष्ठतः पादः कुञ्चितोर्ध्वतलाङ्गुलिः || १०४ || (४१) दण्डकरेचितम् | दण्डवद्धस्तविक्षेपेण रेचनेन च दण्डपक्षौ सूच्येते | पादविक्षेपेण तु दण्डपादा चारी | हंसपक्षकृतौ हस्तौ व्यावृत्तपरिवर्तितौ | तथा प्रसारितभुजौ दण्डपक्षाविति स्मृतौ || (ना. शा. ९-२०२) नूपुरं चरणं कृत्वा पुरतः सम्प्रसारयेत् | क्षिप्रमाविद्धकरणं दण्डपादा तु सा स्मृता || (ना. शा. १०-४४) तत्प्रमोदविषयं करणम् | उद्धतविषये चास्य प्रयोगः (इत्यन्ये) | (१०१) (४२) वृश्चिककुट्टितम् | पृष्ठभागे रेचितजङ्घमुत्तानतलं वृश्चिकोपलक्षितं चरणं कृत्वा द्वावपि हस्तौ स्वबाहुशिरस्यलपल्लवौ निकुट्टितौ पर्यायेण विदध्यादिति | एतच्च विस्मयाकाशगमनेच्छादिप्रधाने वाक्यार्थविषये प्रयुज्यते | यथा पडिविधारि-अं उवक्खंहि-आ इत्यादौ | (१०२) (४३) कटिभ्रान्तम् | कुञ्चितं पादमुत्क्षिप्य जानूर्ध्व सम्प्रसारयेत् | पातयेदग्रयोगेन सा सूची परिकीर्तिता || (ना. शा. १०-३४) प्. ११६) लताख्यश्च करो वामस्तल्लातावृश्चिकं भवेत् | अलपद्मः कटीदेशे छिन्ना पर्यायशः कटी || १०५ || वैशाखस्थानकेनेह तच्छिन्नं करणं भवेत् | वृश्चिकं चरणं कृत्वा स्वस्तिकौ च करावुभौ || १०६ || रेचितौ विप्रकीर्णौ च करौ वृश्चिकरेचितम् | बाहुशीर्षाञ्चितौ हस्तौ पादः पृष्ठाञ्चितस्तथा || १०७ || वामं द्रुतमपसारितं कृत्वा पार्श्वे दक्षिणं पादं न्यसेत् | समकालं पृष्ठपरावर्तनक्रमेण कटिं रेचयेत् | भ्रमरिकया वा चार्या (ना. शा. १०- ४५) करयोश्च प्रयोगवशगत्वेन (कटि)भ्रमणकाले तयोरपि व्यावर्तनपरिवर्तनकरणं योजनान्ते चतुरश्रावस्थानम् | गतिपरिक्रमेऽस्य तालाकारादि(लान्तरालादि) यतिपरिपूरणविषये प्रयोगः | (१०३) (४४) लतावृश्चिकम् | प्रथमार्धेन वृश्चिकं | वामं चरणं भूमौ | आकाशादवपतनेऽस्य प्रयोगः | (१०४) (४५) च्छिन्नम् | क्रमेण पार्ष्ण्योर्नमनोन्नमनाभ्यां (ना. शा. (९-२५१ २३५) यदा कटिच्छेदः | पार्ष्ण्योर्नमनोन्नमने पर्यायेण | तथैव च कटिपार्श्वक्षेत्र एव | आवर्तिन्यः करतले यस्याङ्गुल्यः | (ना. शा. ९-९१) इत्येवंभूतोऽलपल्लवः | ईषद्गतागतपर्यायेण द्वाभ्यां हस्ताभ्यां प्रयुज्यते | वैशाखस्थानकेन तालास्त्रयोऽर्धतालश्च (ना. शा. १०-६१) इति निष्क्रान्तौ इति च लक्षणेन तदा कटिच्छेदयोगि छिन्नं नाम अङ्गप्रतिसारणतालभञ्जनादिविषये चास्य प्रयोगः | (१०५) (४६) वृश्चिकरेचितम् | तावेव मणिबन्धान्ते | इति (ना. शा. ९-१८७) स्वस्तिकौ | विप्रकीर्णकौ रेचितौ हंसपक्षौ द्रुतभ्रमौ | एतदाकाशयानके प्रयोज्यम् | (१०६) प्. ११७) दूरसन्नतपृष्ठं च वृश्चिकं तत्प्रकीर्तितम् | आलीढं स्थानकं यत्र करौ वक्षसि रेचितौ || १०८ || ऊर्ध्वाधोविप्रकीर्णौ च व्यंसितं करणं तु तत् | हस्तौ तु स्वस्तिकौ पार्श्वे तथा पादो निकुट्टितः || १०९ || (४७) वृश्चिकम् | द्विवचनैकवचने अङ्गस्यापरिहारं सूचयतः | हस्तस्य बाहुशिरस्यञ्चनेन करिहस्तप्रयोगः सूच्यते | समुन्नतो लताहस्तः पार्श्वात्पार्श्वं विलोलितः | त्रिपताकोऽपरः कर्णे करिहस्तः || (ना. शा. ९-१९९) दूरसन्नतपृष्ठत्वं वृश्चिकप्रयोगनान्तरीयं(कं) सर्वत्र वृश्चिकप्रयोगेषु मन्तव्यम् | वृश्चिकपुच्छस्थानीयचरणं वृश्चिकमेतत्करणम् | तदुपलक्षितपादो वृश्चिकः | अस्याकाशगतौ च ऐरावणादिविषये प्रयोगः | यथा - श्वेताभ्रभ्रान्तिकारी समवतरति रवादभ्रमूवल्लभोऽयम् इति | (१०७) (४८) व्यंसितम् | मण्डले दक्षिणं पादं पञ्चतालान्प्रसार्य तु | आलीढं स्थानकं कुर्यात् || (ना. शा. १०-६७) एकस्य तर्जन्याद्युद्वेष्टितेन (ना. शा. ९-२१६) करणेनाधो विप्रकीर्णता | द्वितीयस्तर्जन्यादिपरावर्तितकरणेनोर्ध्वगतः क्षेत्रपर्यायेणैक उत्तानो हंसपक्षो द्रुतभ्रमलक्षणो रेचकम् | अव(प)रोऽधोमुख ऊर्ध्वाध इत्येकीकरणम् | तच्च करणमुभयत्र सम्बध्यते | एतच्च विभ्रमादि (हनुमदादि ?) परिक्रमविषयम् | (१०८) (४९) पार्श्वनिकुट्टकम् | तावेव मणिबन्धान्ते इति (ना. शा. ९-१८७) स्वस्तिकौ | तथाशब्देन पार्श्वे प्. ११८) यत्र तत्करणं ज्ञेयं बुधैः पार्श्वनिकुट्टितम् | वृश्चिकं चरणं कृत्वा पादस्याङ्गुष्ठकेन तु || ११० || ललाटे तिलकं कुर्याल्ललाटतिलकं तु तत् | पृष्ठतः कुञ्चितं कृत्वा व्यतिक्रान्तक्रमं ततः || १११ || आक्षिप्तौ च करौ कार्यौ क्रान्तके करणे द्विजाः | आद्यः पादो नतः कार्यः सव्यहस्तश्च कुञ्चितः || ११२ || तयोर्निकुट्टितत्वं पर्यायेणोच्यते | तस्य तलमेव च पादस्य निकुट्टितत्वम् | पुनर्द्वितीयेनाङ्गेनेति पार्श्वगतहस्तनिकुट्टितयोगात् पार्श्वनिकुट्टितम् | प्रकाशनसंवरणाहार(भ्यास?)प्रधाने वाक्यार्थे चास्य प्रयोगः | यथा पुण्णाव उडेहराभु-इं कुहु-एहमं.......पेताहं (सहंसिपित) इत्यादौ | (१०९) (५०) ललाटतिलकम् | पादस्य तस्यैव पश्चाद्भागादितरस्याङ्गुष्ठेन तिलकं तिलकक्रियाहेतुभूतत्वेन लक्षितं संश्लेषं कुर्यादित्यासि(दि)कमेतत्करणं विद्याधरगतिविषये प्रयुज्यते | (११०) (५१) क्रान्तकम् | कुञ्चितं पादमुत्क्षिप्य पुरतः सम्प्रसारयेत् | उत्क्षिप्य पातयेच्चैनमतिक्रान्ता || इति (ना. शा. १०-३०) चाअरीं तां कृत्वा पात्यमानं चरणं कुञ्चितं स्थापयेत् | पृष्ठतः कुञ्चितं च समादाय क्रियान्तपरिक्रमेण प्रसारयेत् | हस्तौ विचार्य(ल्य?) व्यावर्तितकरणेन देहक्षेत्रान्निष्क्रान्तः पुनः परिवर्तितकरणेनाक्षिप्तः स (व)क्षसि खटकामुखः | पुनरपरेणाङ्गेन प्रयोगः | उद्धतपरिक्रमेऽस्य प्रयोगः | (१११) प्. ११९) उत्तानो वामपार्श्वस्थस्तत्कुञ्चितमुदाहृतम् | प्रलम्बिताभ्यां बाहुभ्यां यद्गात्रेणानतेन च || ११३ || अभ्यन्तरापविद्धः स्यात्तज्ज्ञेयं चक्रमण्डलम् | स्वस्तिकापसृतौ पादावपविद्धक्रमौ यदा || ११४ || उरोमण्डलकौ हस्तावुरोमण्डलिकन्तु तत् | आक्षिप्तं हस्तपादं च क्रियते यत्र वेगतः || ११५ || (५२) कुञ्चितम् | आद्यो नत इति जानुगमनेन भूतलसञ्चरो लक्ष्यते | दक्षिणहस्तश्च कुञ्चितः उत्तानालपल्लवरूपो वामपार्श्वे विधेयः | तदेतन्निर्भरानन्दपूर्णदेवस्याभिनयविषये प्रयोक्तव्यम् | यथा देहसुभा-इ-उं मकरकलि-अणुकापालविद्वे-इचलणं धि-आ-इं इत्यादौ | (११२) (५३) चक्रमण्डलम् | अड्डिता चात्रादौ चारी | अग्रतः पृष्ठतो वाऽपि पादोऽग्रतलसञ्चरः | द्वितीयपादविर्घृष्टो यस्यां स्यादङ्किता तु सा || (ना. शा. १०-२३) उद्धतपरिक्रमपरिष्करणा(रिक्रम)दिविषये चैतत् | (११३) (५४) उरोमण्डलम् | भूमिघृष्टेन पादेन कृत्वाभ्यन्तरमण्डलम् | पुनरुत्सारयेदन्यं स्थितावर्ता तु सा स्मृता || (ना. शा. १०-१५) इत्यनया चार्याऽपसारणं स्वस्तिकस्य कार्यम् | बद्धाचार्यात्वादाववस्थानमित्युक्तं भवति | अन्योन्यजङ्घासंवेधात्कृत्वा तु स्वस्तिकं ततः | ऊरुभ्यां वलनम् इति (ना. शा. १०-२१) प्. १२०) आक्षिप्तं नाम करणं विज्ञेयं तद्द्विजोत्तमाः | ऊर्ध्वाङ्गुलितलः पादः पार्श्वेनोर्ध्व प्रसारितः || ११६ || प्रकुर्यादञ्चिततलौ हस्तौ तलविलासिते | पृष्ठतः प्रसृतः पादो द्वौ तालावर्धमेव च || ११७ || तस्या रूपं स्वस्तिकसंस्थानाक्षिप्तम् | उद्वेष्टितो भवेदेको द्वितीयश्चापवेष्टितः | भ्रमितावुरसः स्थाने ह्युरोमण्डलिनौ स्मृतौ || (ना. शा. ९-२०४) (११४) (५५) आक्षिप्तम् | कुञ्चितं पादमुत्क्षिप्याञ्चितम् | इति (ना. शा. १०-३७) आक्षिप्तया पादचार्या पार्श्वस्य किञ्चिन्नमनेन हस्तस्य चतुरश्रस्य खटकामुख्या क्षेपः इति विदूषकगतिविषयमाक्षिप्तकरणम् | (११५) (५६) तलविलसितम् | तेनैवोर्ध्वगतेन पादेन सहाञ्चिततलो वा श्लिष्टतलत्वात्कर्तव्यः | द्विवचनात्पर्यायेण द्वितीयेनाङ्गेन प्रयोगोऽभ्यासेन वा | पताकौ हस्तौ परस्परोपसंश्लिष्टाविति पादतलस्य हस्ततलस्य च विकृष्टे देशे आकाशे लसितं श्लेषणं यत्र तलविलसितम् | पादोद्धारसंज्ञया सूत्रधारादिविषये नाट्याचार्या योजयन्ति | (११६) (५७) अर्गलम् | द्वितीयचरणकनिष्ठाभङ्गे सार्धान्तालाह्वजङ्घः सन् पादः प्रसृतो भवति | एतत्समकालं च हस्तबाहुद्वितीयं पार्श्वक्षेत्रं किञ्चिदग्रप्रसृतोऽलपल्लवाकारः तदन्तर्ज(र्ग)लमर्गलयेत् | देहस्य नयम्यन्त्रणात् (नियन्त्रणात्?) (अर्गलम्) | परिक्रमे चैतदङ्गाप्रभृतीनां भवति | प्. १२१) तस्यैव चानुगो हस्तः पुरतस्त्वर्गलं तु तत् | विक्षिप्तं हस्तपादं च पृष्ठतः पार्श्वतोऽपि वा || ११८ || एकमार्गगतं यत्र तद्विक्षिप्तमुदाहृतम् | प्रसार्य कुञ्चितं पादं पुनरावर्तयेत् द्रुतम् || ११९ || प्रयोगवशगौ हस्तौ तदावर्तमुदाहृतम् | कुञ्चितं पादमुत्क्षिप्य पार्श्वात्पार्श्वं तु डोलयेत् || १२० || (५८) विक्षिप्तम् | वाग्रहणं चार्थे | तेन विद्युद्भ्रान्तादण्डपादाभ्यां (ना. शा. १०-४०-४४) चारीभ्यामुद्वेष्टितापवेष्टितरेचकवर्तनया पार्श्वयोः पृष्ठेऽग्रे च हस्तपादविक्षेपः | (इद) मुद्धतगतिपरिक्रमसूचनादिविषयम् | (११८) (५९) आवर्तम् | पादः प्रसारितः सव्यः पुनश्चैवापसर्पितः | वामः सव्योपसर्पी च चाषगत्याम् | इति || (ना. शा. १०-१८) चाषगत्या चार्या प्रयोगः | हस्तौ च किञ्चिदुद्वेष्टितापवेष्टितरूपौ दोलावेवेति | आ ईषत् वर्तनं हस्तपादस्य यत्र तदिदमावर्तकरणम् | एतन्नायकोपसर्पणे सागरिकापाशबन्धाद्यवसरे प्रयोज्य | (११९) (६०) डोलापादम् | पूर्वमूर्ध्वजानुचारी | (ना. शा. १०-३३) ततो दोलापादा | प्. १२२) प्रयोगवशगौ हस्तौ डोलापादं तदुच्यते | आक्षिप्तं हस्तपादं च त्रिकं चैव विवर्तयेत् || १२१ || रेचितौ च तथा हस्तौ विवृत्ते करणे द्विजाः | सूचीविद्धं विधायाथ त्रिकं तु विनिवर्तयेत् || १२२ || (कुञ्चितं पादमुत्क्षिप्य पार्श्वात्पार्श्वं विलोलयेत् | पातयेदञ्चितं चैव दोलापादा ||) (ना. शा. १०-३६) डोलाहस्तावेव (ना. शा. ९-१४८) प्रयोगवशगौ इति डोलापादं करणम् | (१२०) (६१) विवृत्तम् | आक्षिप्य वाम(पाद)माक्षिप्य स्वदेहक्षेत्रादपसारितवृत्त्याऽवर्त्य हस्तं च व्यावर्तितपरिवर्तिताभ्यां तथैवाक्षिप्य त्रिकं भ्रमरिकया (ना. शा. १०-४५) वलयेत् | तद्रेचितौ च हंसपक्षौ द्रुतभ्रमौ हस्ताविति त्रिकविवर्तनयोगात् विवृत्तम् | अस्योद्धतगतिपरिक्रमे प्रयोगः | (१२१) (६२) विनिवृत्तम् | कुञ्चितं पादमुत्क्षिप्य जानूर्ध्वं सम्प्रसारयेत् | पातयेच्चाग्रयोगेन सा सूची || इति (ना. शा. १०-३४) चार्या द्वितीयं पार्ष्णिभागे स्वस्तिकयोजनया विद्धा(ध्वा) त्रिकस्यैकपार्श्वे विवर्तनस्य प्रत्यावर्तनक्रमेण निवृत्तिं कुर्यात् | अन्योन्यजङ्घावेधेन बद्धया (ना. शा. १०-२१) वा चार्योरुवलनं कुर्यात् | हस्तौ च रेचितौ हंसपक्षौ द्रुतभ्रमौ | उक्त एवास्य प्रयोगः (विवृत्तवत्) | (१२२) प्. १२३) करौ च रेचितौ कार्यौ विनिवृत्ते द्विजोत्तमाः | पार्श्वक्रान्तक्रमं कृत्वा पुरस्तादथ पातयेत् || १२३ || प्रयोगवशगौ हस्तौ पार्श्वक्रान्तं तदुच्यते | पृष्ठतः कुञ्चितः पादो वक्षश्चैव समुन्नतम् || १२४ || तिलके च करः स्थाप्यस्तन्निस्तम्भितमुच्यते | पृष्ठतो वलितं पादं शिरोघृष्टं प्रसारयेत् || १२५ || (६३) पार्श्वक्रान्तम् | कुञ्चितं पादमुत्क्षिप्य पार्श्वस्थाने स्थितं न्यसेत् | (ना. शा. १०-३२) इति पार्श्वक्रान्ता चारी | तयाऽग्रे चरणं पातयेत् | हस्तयोश्च पादप्रयोगानुसारेण पर्यायेण पुरः प्रसारणम् | यदि वा प्रयुज्यत इति प्रयोगः गतिप्रचारयुद्धादिः | तत्र पादावुचितौ हस्तावित्येवं सर्वत्र | एतच्च रौद्रप्रधाने भीमसेनादेः परिक्रमे (१२३) | (६४) निस्तम्भितम् | द्वितीयपादस्य पृष्ठे पार्ष्णिभागे कुञ्चितः | समुन्नतमिति | निर्भुग्नं स्तब्धं च निम्नपृष्ठं चेति | खटकामुखः कर इति तदेतद्देशो मध्यमाङ्गुलिरूपो ललाटे तिलकवदिति | पादेन भुव आघातान्निस्तम्भितं महेश्वराभिनयविषयम् | वृश्चिकोऽत्र पाद इत्येके | (१२४) (६५) विद्युद्भ्रान्तम् | पृष्ठत ऊरुमूलदेशात्प्रभृति वलितं चक्रवद्भ्रामितं तत एव प्रयोक्तुः शिरः क्षेत्रेण श्लिष्टं सर्वतो मण्डलगत्या भ्रान्त्या आविद्धं चतुरं कृत्वा प्रसारयेत् | प्रकर्षेण स सर्वासु दिक्षु पर्यायेण सारयेत् | तत्पदस्य विद्युत इव उद्भ्रमणाद्विद्युद्भ्रान्तमुद्धतगति परिक्रमादिविषयम् | (१२५) प्. १२४) सर्वतो मण्डलाविद्धं विद्युद्भ्रान्तं तदुच्यते | अतिक्रान्तक्रमं कृत्वा पुरस्तात्संप्रसारयेत् || १२६ || प्रयोगवशगौ हस्तावतिक्रान्ते प्रकीर्तितौ | आक्षिप्तं हस्तपादं च त्रिकं चैव विवर्तितम् || १२७ || द्वितीयो रेचितो हस्तो विवर्तितकमेव तत् | कर्णेऽञ्चितः करो वामो लताहस्तश्च दक्षिणः || १२८ || दोलापादस्तथा चैव गजक्रीडितकं भवेत् | द्रुतमुत्क्षिप्य चरणं पुरस्तादथ पातयेत् || १२९ || (६६) अतिक्रान्तम् | अतिक्रान्ता चारी (ना. शा. १०-३०) व्याख्याता | पुरस्तादिति स्वदेहस्याग्रेण | एतदपि गतिपरिक्रमादिविषयमेव | एवमन्यस्यापि यस्याभिनयविषये नोपयोगस्तस्य विषयो मन्तव्यः | (१२६) (६७) विवर्तितकम् | आक्षिप्तहस्तापेक्षया द्वितीयो हस्तः | तं हंसपक्षद्रुतभ्रमक्रमं कुर्यात् | (१२७) (६८) गजक्रीडितकम् | समुन्नतो लताहस्तः पार्श्वात्पार्श्व विलोलितः | (ना. शा. ९-१९९) इति यः करिहस्तो लक्ष्यते वृत्तमध्ये तस्यैव यदा त्रिपताकोऽसावञ्चितक्रियाविष्टो डोलापादचारी तदा गजक्रीडितकम् | क्रियाविष्टत्वाच्चाङ्गपर्यायोऽत्र लभ्यते | प्रयोगश्चास्य नामोचित एव विषये | यथा अरुवद्रणा इत्यादौ | (१२८) प्. १२५) तलसंस्फोटितौ हस्तौ तलसंस्फोटिते मतौ | पृष्ठप्रसारितः पादः लतारेचितकौ करौ || १३० || समुन्नतं शिरश्चैव गरुडप्लुतकं भवेत् | सूचीपादो नतं पार्श्वमेको वक्षःस्थितः करः || १३१ || द्वितीयश्चाञ्चितो गण्डे गण्डसूची तदुच्यते | ऊर्ध्वापवेष्टितौ हस्तौ सूचीपादो विवर्तितः || १३२ || (६९) तलसंस्फोटितम् | अतिक्रान्तया (ना. शा. १०-३०) चार्या दण्डपादया (ना. शा. १०-४४) वा चरणमुत्क्षिप्याक्षिप्तं कृत्वा तथैवाग्रे निपातयेत् | तत्समकालं च पताकौ हस्तौ संश्लेषितशब्दादभिहितौ इति तलसंस्फोटितम् | तस्यैतद्विषय एव प्रयोगो यथा तालाद्देवी सुसुखसुभस-इ जणु इत्यादौ | (१२९) (७०) गरुडप्लुतकम् | वृश्चिकवच्चरणम् | एकोऽलातहस्तः (लताहस्तः) | द्वितीयो रेचितः | प्रयोगोऽस्य नामोचित एव विषये (१३०) (७१) गण्डसूची | उत्क्षिप्ता तु भवेत्पार्ष्णिरङ्गुष्ठाग्रेण संस्थितः | वामश्चैव स्वभावस्थः || (ना. शाः ९-२८०) इति सूचीपादः | अञ्चितोऽलपल्लवो गण्डक्षेत्रे | अन्ये तु सूचीपादं गण्डक्षेत्रप्राप्तमिच्छन्ति | अन्ये तु सूचीमुखं नृत्तहस्तं गण्डाञ्चितं पुनः क्रियाविष्टमाहुः | हस्तौ तु सर्पशिरसौ मध्यमाङ्गुष्ठकौ यदा | तिर्यक्प्रसारितास्यौ (ना. शा. ९-१९१) इति | अन्ये तु सूच्यास्यमभिनयहस्तमाहुः | प्. १२६) परिवृत्तत्रिकं चैव परिवृत्तं तदुच्यते | एकः समस्थितः पाद ऊरुपृष्ठे स्थितोऽपरः || १३३ || मुष्टिहस्तश्च वक्षःस्थः पार्श्वजानु तदुच्यते | पृष्ठप्रसारितः पादः किञ्चिदञ्चितजानुकः || १३४ || खटकाख्ये यदा हस्ते तर्जनी सम्प्रसारिता | हस्तः सूचीमुखो नाम | इति (ना. शा. ९-६५) अत्र पक्षे गण्डसंश्रयप्रधानभूषणाभिनयविषयोऽस्य प्रयोगः | यथागंडप्पलीलावण्णज्जल एसो फलके अ-इदाम इत्यादौ (१३१) (७२) परिवृत्तम् | ऊर्ध्वमण्डलिनौ हस्तावूर्ध्वदेशविवर्तनात् | (ना. शा. ९-२०३) सूचीलक्षणश्च (ना. शा. १०-३४) पादो बद्धाचारी (ना. शा. १०-२१) माश्रित्य विचित्ररूपतया द्वितीयपादे (ना. शा. १०-४५) वर्तितः अन्योन्यजङ्घासंवेधादिति | ततोऽपि भ्रमरिकया त्रिकं परिवर्तितमाहुः | (१३२) (७३) पार्श्वजानु | ऊरुपृष्ठजनि(स्थितः) तस्यैव समस्थितपादस्योरोः द्वितीयोऽस्या(पि) हस्तः कट्यामर्धचन्द्र इति पार्श्वजानु | पार्श्व ऊरुपृष्ठः तस्य पादस्य संबन्धि जानु यत्रेति | युद्धनियुद्धविषयमेतत् | (१३३) (७४) गृध्रावलीनकम् | पार्श्वात्प्रसारिपादोऽङ्गुष्ठभूमिसंश्लेषादञ्चितजानुकः | लताहस्तौ च पार्श्वगौ | तत्पक्षिनिरूपणादौ गृध्रावलीनकम् | (१३४) प्. १२७) यत्र प्रसारितौ बाहु तत्स्यात् गृध्रावलीनकम् | उत्प्लुत्य चरणौ कार्यावग्रतः स्वस्तिकस्थितौ || १३५ || सन्नतौ च तथा हस्तौ सन्नतं तदुदाहृतम् | कुञ्चितं पादमुत्क्षिप्य कुर्यादग्रस्थितं भुवि || १३६ || प्रयोगवशगौ हस्तौ सा सूची परिकीर्तिता | अलपद्मः शिरोहस्तः सूचीपादश्च दक्षिणः || १३७ || यत्र तत्करणं ज्ञेयमर्धसूचीति नामतः | पादसूच्या यदा पादो द्वितीयस्तु प्रविध्यते || १३८ || (७५) सन्नतम् | कुञ्चितं पादमुत्क्षिप्य समुत्प्लुत्य निपातयेत् | जङ्घाञ्चितोपरि क्षिप्ता सा ज्ञेया हरिणप्लुता || (ना. शा. १०-४३) इत्यनया चार्योत्प्लुत्याग्रदेशे पादं स्वस्तिकं कुर्यात् | सन्नतौ च दोलाहस्तौ | अंसौ प्रशिथिलौ हस्तौ पताकौ तु प्रलम्बितौ (ना. शा. ९-१४८) एतदधमप्रकीर्तनादुपसर्पणादिविषये | (१३५) (७६) सूची | अग्रतः स्थितमिति | (१३६) (७७) अर्धसूची | शिरःक्षेत्रे हस्तः शिरोहस्तः | तचार्यामेव करणमेकेनाङ्गेनेत्यर्धसूची | (१३७) प्. १२८) कटिवक्षःस्थितौ हस्तौ सूचीविद्धं तदुच्यते | कृत्वोरुवलितं पादमपक्रान्तक्रमं न्यसेत् || १३९ || प्रयोगवशगौ हस्तावपक्रान्तं तदुच्यते | वृश्चिकं चरणं कृत्वा रेचितौ च तथा करौ || १४० || तथा त्रिकं विवृत्तं च मयूरललितं भवेत् | अञ्चितापसृतौ पादौ शिरश्च परिवाहितम् || १४१ || (७८) सूचीविद्धम् | प्रविध्यत इति सूचीपादौ | द्वितीय इति पादः पार्ष्णिस्थः क्रियत इत्यर्थः | कटिस्थितः पक्षवञ्चितकोऽर्धचन्द्रो वा द्वितीयः खटकामुख एव वक्षसि | चिन्ताविषयेऽस्य प्रयोगः | यथा - कालीकरमिकस्सकहम् इत्यादौ | (१३८) (७९) अपक्रान्तम् | ऊरुभ्यां वलनं कृत्वा कुञ्चितं पादमुद्धरेत् | पार्श्वे विनिक्षिपेच्चैतदपक्रान्ता || (ना. शा. १०-३१) इत्यपक्रान्तक्रमं कृत्वोरुवलितबद्धां चारीमन्योन्यजङ्घासंयोगात्कृत्वा तु स्वस्तिकमूरुभ्यां वलनमित्येवंभूतां कुर्यात् | (१३९) (८०) मयूरललितम् | वृश्चिकं पादं विधाय रेचितौ हंसपक्षौ द्रुतभ्रमौ करौ कृत्वा पादं तमेवोरुदेशे निकुञ्च्य भ्रमरिकां चारीं कुर्यादिति मयूरनृत्तानुकारि मयूरललितम् | अतिक्रान्तक्रमं कृत्वा त्रिकं तु परिवर्तयेत् | द्वितीयपादभ्रमणात्तलेन भ्रमरी भवेत् || (ना. शा. १०-४५) (१४०) प्. १२९) रेचितौ च तथा हस्तौ तत्सर्पितमुदाहृतम् | नूपुरं चरणं कृत्वा दण्डपादं प्रसारयेत् || १४२ || क्षिप्राविद्धकरं चैव दण्डपादं तदुच्यते | अतिक्रान्तक्रमं कृत्वा समुत्प्लुत्य निपातयेत् || १४३ || जङ्घाञ्चितोपरि क्षिप्ता तद्विद्याद्धरिणप्लुतम् | डोलापादक्रमं कृत्वा समुत्प्लुत्य निपातयेत् || १४४ || (८१) सर्पितम् | पार्ष्णी(ष्णिः) यस्य स्थितौ(ता) भूमावूर्ध्वमग्रतलं भवेत् | अङ्गुल्यश्चाञ्चिताः सर्वाः स पादोऽञ्चित उच्यते || (ना. शा. ९-२७५) अञ्चितपादः सन्नपसृतो द्वितीयपादनिकटात्पलायितकोऽर्यः (तो यः तत्) समकालमेव तत्पार्श्वगं शिरः | तथेति तत्पार्श्वग एव हस्तो रेचितः | पुनरयं द्वितीयकरपादस्य विधिः | तत्पार्श्वगतमेव च शिरः | अत एव च परिवाहितम् | यद्वक्ष्यति - पर्यायशः पार्श्वगतं शिरः स्यात्परिवाहितम् | (ना. शा. ८-२७) एतच्च पादकृतमदोपसर्पणविषयमिति मान(नाम्)बलाद्गम्यते | (१४१) (८२) दण्डपादम् | पृष्ठतोऽभ्यञ्चितं कृत्वा पादमग्रतलेन तु | द्रुतं निपातयेद्भूमौ चारी नूपुरपादिका || (ना. शा. १०-३५) इत्येतदनन्तरमेव दण्डपादादिपुरश्चरणं कृत्वा दण्डपादं प्रसारयेत् | क्षिप्रापविद्धकरणं दण्डपादा तु सा स्मृता | (ना. शा. १०-४४) इत्येतत्सहितमेव पादसहितदण्डत्वरितहस्तं न्यसेदिति साटोपपरिक्रमादिविषयमेतत् | (१४२) (८३) हरिणप्लुतम् | ईदृशस्यैव हरिणप्लुता चारी (ना. शा. १०-४३) भविष्यति | तस्यास्तु करणप्रवेशः प्रागेवोक्तः (भुजङ्गत्रासितकरणव्याख्यावसरे) | (१४३) प्. १३०) परिवृत्तत्रिकं चैव तत्प्रेङ्खोलितमुच्यते | भुजावूर्ध्वविनिष्क्रान्तौ हस्तौ चाभिमुखाङ्गुली || १४५ || बद्धा चारी तथा चैव नितम्बे करणे भवेत् | दोलापादक्रमं कृत्वा हस्तौ तदनुगावुभौ || १४६ || रेचितौ भूर्णितौ वापि स्खलितं करणं भवेत् | एको वक्षःस्थितो हस्तः प्रोद्वेष्टिततलोऽपरः || १४७ || (८४) प्रेङ्खोलितकम् | कुञ्चितं पादं पार्श्वात्पार्श्वं दोला (ना. शा. १०-३६) | तमेवं कृत्वा द्वितीयेनोत्प्लुत्य भ्रमरिकां (ना. शा. १०-४५) कुर्यात् | (१४४) (८५) नितम्बम् | अभिमुखाङ्गुली | अथोर्ध्वाङ्गुलौ पताकौ व्यावर्तितकरणेन शिरोदेशं नीत्वा ततः परिवर्तितकरणेनोर्ध्वक्षेत्रेण निष्कान्तौ बाहू कृत्वा यथासम देशेऽन्योन्यं वीक्ष्यमाणौ पताकौ स्थापयेत् | ततो देहाभिमुखाङ्गुलिहस्तौ तदनुगावुभौ रेचिताघूर्णितौ चापि नितम्बनृत्तहस्तलक्षणौ कुर्यात् | एतत्त्रिभिर्मुखा(एतदभिमुखा)ङ्गुलित्वं निपातत्रयेण द्योतितम् | बाहुशीर्षाद्विनिष्क्रान्तौ (ना. शा. ९-१९६) निमेषा(वेशा)त्तद्योगात्करणान्वितम् | (१४५) (८६) स्खलितम् | दोलापादगमनागमनसमकालं हंसपक्षोपलक्षितौ बाहू गमनागमनयुक्तं पुनरपरेणाङ्गेनेति | (१४६) प्. १३१) अञ्चितश्चरणश्चैव प्रयोज्यः करिहस्तके | एकस्तु रेचितो हस्तो लताख्यस्तु तथा परः || १४८ || प्रसर्पिततलौ पादौ प्रसर्पितकमेव तत् | अलातं च पुरःकृत्वा द्वितीयं च द्रुतक्रमम् || १४९ || हस्तौ पादानुगौ चापि सिंहविक्रीडिते स्मृतौ | पृष्ठप्रसर्पितः पादस्तथा हस्तौ निकुञ्चितौ || १५० || (८७) करिहस्तकम् | प्रोद्वेष्टनक्रियया परः कर्णस्थः त्रिपताकस्तद्दिक्क एव च पादस्तत्प्रोद्वेष्टनसमकालमञ्चितः सम्प्रयोज्य निष्क्रमणीयः | करिहस्तेन नृत्तहस्तेन सदृशमेतदंश इत्येतत्तन्नामा | (समुन्नतो लताहस्तः पार्श्वात्पार्श्वं विलोलितः | त्रिपताकोऽपरः कर्णे करिहस्तः) ना. शा. ९-१९९) (१४७) (८८) प्रसर्पितकम् | हंसपक्षो द्रुतभ्रम इति रेचित्ः | अपरो लताख्यो (ना. शा. ९-१९८) नृत्तहस्तः | रेचितकरस्य दिक्पादः पादान्तरान्मन्दं मन्दं भूमिघर्षणाच्चलेत् | एतस्य खेचरसंचारविषये प्रयोगः | (१४८) (८९) सिंहविक्रीडितम् | अलातां चारीमग्रगतां द्रुतं निक्षिप्य तदनुसारेणैव च हस्तं(ना. शा. १०-४१) द्वितीयमपि चक्रमेवंभूतं कुर्यादिति सिंहकरघातसाम्यात्सिंहविक्रीडितं रौद्रगतिविषयम् | (१४९) प्. १३२) पुनस्तथैव कर्तव्यौ सिंहाकर्षितके द्विजाः | आक्षिप्तहस्तमाक्षिप्तदेहमाक्षिप्तपादकम् || १५१ || उद्वृत्तगात्रमित्येतदुद्वत्तं करणं स्मृतम् | आक्षिप्तश्चरणश्चैको हस्तौ तस्यैव चानुगौ || १५२ || आनतं च तथा गात्रं तथोपसृतकं भवेत् | दोलापादक्रमं कृत्वा तलङ्घट्टितौ करौ || १५३ || (९०) सिंहाकर्षितम् | वृश्चिक एकः पादः | निकुञ्चितौ स्वस्तिकेन पद्मकोशोर्णनाभौ (ना. शा. ९- ८२-१२०) (दक्षिण)वामहस्तौ | पुनर्द्वितीयेन पादेन यदा वृश्चिकस्तदा तौ क्रियावर्तनावशादपसार्य पुनरपि तादृशावेव हस्ताविति सिंहाद्यभिनयविषयं सिंहाकर्षितकम् | (१५०) (९१) उद्वृत्तम् | आक्षिप्तामसारितानीतं हस्तपादं यत्र | कथं सर्वदेहाक्षेपः | आह - उद्वृत्ताचारीयुक्तं कृत्वा - पादमाविद्धमावेष्ट्य समुत्प्लुत्य निपातयेत् | परिवृत्य द्वितीयं तु सोद्वृत्ता | (ना. शा. १०-३९) इति | अत एवोद्वृतं करणम् | (१५१) (९२) उपसृतकम् | यथा महादेवी विण्णवेदि इति | (१५२) प्. १३३) रेचयेच्च करं वामं तलसङ्घट्टिते सदा | एको वक्षःस्थितो हस्तो द्वितीयश्च प्रलम्बितः || १५४ || तलाग्रसंस्थितः पादो जनिते करणे भवेत् | जनितं करणं कृत्वा हस्तौ चाभिमुखाङ्गुली || १५५ || शनैर्निपतितौ चैव ज्ञेयं तदवहित्थकम् | करौ वक्षःस्थितौ कार्यावुरो निर्भुग्नमेव च || १५६ || (९३) तलसंङ्घट्टितम् | कुञ्चितं पार्श्वात्पार्श्वमिति (ना. शा. १०-३६) दोलापादां चारी कुर्वंस्तत्समकालं पताकौ सम्यग्घट्टितमन्योन्यतलं ययोस्तादृशौ करौ कृत्वा वैष्णवे स्थानके द्वौ तालौ (ना. शा. १०-५२) इत्यत्र स्थित्वा दक्षिणं हस्तं कट्यां च द्वितीयं हंसपक्षद्रुतभ्रमात्मकं रेचकं कुर्यात् | अनुकम्पाप्रधाने वाक्यार्थेऽस्य प्रयोगः | धाणवगलछिफ.... अ० धि-अचणारि इत्यादि | (१५३) (९४) जनितम् | वक्षसि मुष्टिहस्तः | प्रलम्बितो लताख्यः | अन्यासां क्रियाणामारम्भकाल एव तत्सन्निवेशजननयोगाद्यथोचितचारीवशानीतम् | (जनिताचारी ना. शा. १०- २५) (१५४) (९५) अवहित्थकम् | मुष्टिहस्तश्च वक्षःस्थः करोऽन्यश्च प्रवर्तते | तलसञ्चरपादश्च जनिता || (ना. शा. १०-२५) इति | चारीपादं कृत्वा | तथाप्यभिमुखाङ्गुली इत्यरालालपल्लवतया ललाटवक्षःक्षेत्रगौ हस्तौ विधाय शनैरिति यथाक्रममुद्वेष्टितकरणावधरोर्ध्वक्रमेण पार्श्वगौ कृत्वा पुनरपवेष्टितपरिवर्तितक्रिययारालालापल्लवावन्योन्यं सम्मुखं वक्षोदेशे कुर्यात् | गोपनप्रधाने वाक्यार्थेऽस्य प्रयोगः | इत्यवहित्थक्रमे तद्यथा - ऐथग-अं ग-इकरि थविफासहसश्व० खे इ-अं ब-इसं परिहि || प्. १३४) मण्डलस्थानकं चैव निवेशं करणं तु तत् | तलसञ्चरपादाभ्यामुत्प्लुत्य पतनं भवेत् || १५७ || संनतं वलितं गात्रमेलकाक्रीडितं तु तत् | करमावृत्तकरणमूरुपृष्ठेऽञ्चितं न्यसेत् || १५८ || जङ्घाञ्चित तथोद्वृत्ता ह्यूरूद्वृत्तं तु तद्भवेत् | करौ प्रलम्बितौ कार्यौ शिरश्च परिवाहितम् || १५९ || अन्ये तु (अवहित्थहस्तेन) शुकतुण्डौ करौ कृत्वा वक्षस्यभिमुखाञ्चितौ | शनैरधोमुखाविद्धोऽसाववहित्थः || (ना. शा. ९-१५६) || इत्येतच्चिन्तादौर्बल्यविषयमाहुः | (१५५) (९६) निवेशम् | स्तब्धं च निम्नपृष्ठं च निर्भुग्नांसं समुन्नतम् | उरो निर्भुग्नम् | (ना. शा. ९-२२६) ऐन्द्रे मण्डले पादौ चतुस्तालान्तरस्थितौ | (गजवा)हनादिविषयेऽनेन निवेशयेत् | यात्रस्याविश्रमणान्निवेशाख्यम् | (१५६) (९७) एलकाक्रीडितम् | पतनकाले गात्रस्य नमनं ततो वलनम् | एवं नामैकरूपा चारी (ना. शा. १०-२०) भविष्यति | अधमप्रकृतिगतिविषयमेतत् | (१५७) (९८) ऊरूद्वृत्तम् | तलसञ्चरपादस्य पार्ष्णिर्बाह्योन्मुखी यदा | जङ्घञ्चिता तथोद्वृत्ता ऊरूद्वृत्ता | इति (ना. शा. १०-२२) अनया चार्या सह व्यावर्तितकरणेनारालं खटकं चोरुदेशे पृष्ठे च क्षिपेत् | प्रणयकोपेर्ष्याप्रार्थनादिविषयमेतत्करणम् | (१५८) प्. १३५) पादौ च वलिताविद्धौ मदस्खलितके द्विजाः | पुरः प्रसारितः पादः कुञ्चितो गगनोन्मुखः || १६० || करौ च रेचितौ यत्र विष्णुक्रान्तं तदुच्यते | करमावर्तितं कृत्वा ह्यूरुपृष्ठे निकुञ्चयेत् || १६१ || ऊरुश्चैव तथाविद्धः सम्भ्रान्तं करणं तु तत् | अपविद्धः करः सूच्या पादश्चैव निकुट्टितः || १६२ || वक्षःस्थश्च करो वामो विष्कम्भे करणे भवेत् | पादावुद्घट्टितौ कार्यौ तलसङ्घट्टितौ करौ || १६३ || (९९) मदस्खलितकम् | करौ दोलौ | पर्यायशः पार्श्वगतं शिरः | वलिताविद्धौ अवनतावनन्तरं स्वस्तिकापसृतौ (पादौ) पर्यायेणेति | मद्यमदविषयमेतत् | (१५९) (१००) विष्णुक्रान्तम् | विष्णोरित्थं क्रमणमत्र | तत्तद्विषय एवास्य प्रयोगः | (१६०) (१०१) सम्भ्रान्तम् | आविद्धायां चार्यां सत्यामूरुस्तथा | स्वस्तिकस्याग्रतः पादः कुञ्चितश्च प्रसारितः | निपतेदञ्चिताविद्ध आविद्धा नाम सा स्मृता || (ना. शा. १०-३८) तच्चारीप्रयोगकाले च व्यावर्तितपरिवर्तितकरणेनालपल्लवमूरुपृष्ठे न्यसेत् | सम्भ्रमपरिक्रमविषयमेतत् | (१६१) (१०२) विष्कम्भम् | वामः करो दक्षिणेन हस्तेन सूचीमुखं (ना. शा. ९-१९१) नृत्तहस्तात्मनापगमपूर्वकं विद्धः | स एव पादो निकुट्टितः | चकारात् द्वितीयेयैनैवाङ्गेन | एवकारेणेदमाह पुनः प्. १३६) नतञ्च पार्श्वं कर्तव्यं बुधैरुद्घट्टिते सदा | प्रयुज्यालातकं पूर्व हस्तौ चापि हि रेचयेत् || १६४ || कुञ्चितावञ्चितौ चैव वृषभक्रीडिते सदा | रेचितावञ्चितौ हस्तौ लोलितं वर्तित शिरः || १६५ || सूव्या (ना. शा. १०-३४) चार्योपलक्षितः पादः | परश्च निकुट्टितोऽलपल्लवोऽन्यस्तु वामः | एवं पुनःकरणे सति क्रियाविष्कम्भनाद्विस्तारणाद्विष्कम्भाख्यं करणम् | (१६२) (१०३) उद्घट्टितम् | स्थित्वा पादतलाग्रेण पार्ष्णी भूमौ || इति (ना. शा. ९-२६६) पादः | अन्योन्यमनेन तालिकादानोद्यतौ करौ पुनर्द्वितीयपाद उद्घट्टितः पर्यायेण च तथैव पार्श्वयोर्नमनमिति | प्रमोदविषयमेतत् | (१६३) (१०४) वृषभक्रीडितम् | अलातचारी (ना. शा. १०-४१) कुर्वन्हस्तौ रेचितौ कुर्यात् | ततः कुञ्चितौ व्यावर्तितकरणेन कृत्वा ततो बाहुशिरस्यलपल्लवाकृती अञ्चितौ विधेयाविति वृषभमङ्गद्वारद्वयप्रयोगात् वृषभक्रीडितम् | (१६४) (१०५) लोलितम् | वैष्णवे स्थाने आदौ रेचितं हंसपक्षद्रुतभ्रमरूपं हस्तद्विती(त)यं चाञ्चितं वक्षस्यलपल्लवाकारं कुर्यात् | शिरश्च लोलितम् | सर्वतो लोलितमपि चोभयोः पार्श्वयोर्वर्तितं विश्रवमितम् | (१६५) प्. १३७) उभयोः पार्श्वयोर्यत्र तल्लोलितमुदाहृतम् | स्वस्तिकापसृतौ पादौ शिरश्च परिवाहितम् || १६६ || रेचितौ च तथा हस्तौ स्यातां नागापसर्पिते | निषण्णाङ्गस्तु चरणं प्रसार्य तलसञ्चरम् || १६७ || उद्वाहितमुरः कृत्वा शकटास्यं प्रयोजयेत् | ऊर्ध्वाङ्गुलितलौ पादौ त्रिपताकावधोमुखौ || १६८ || (१०६) नागापसर्पितम् | परिवाहितं पर्यायशः पार्श्वगतं कुटिलगतियोगन्नागापसर्पितम् | इदं तरुणमदविषयम् | (१६६) (१०७) शकटास्यम् | निषण्णं निस्समीकृतमङ्गं येन तेन तज्जानुसमस्थिते पदे पुरो गुल्फदेशे कुञ्चितो न तु जानुरेव पादः स एवाध्यर्धतालान्तरसञ्चरः प्रसार्यः | तत्सहितोऽपि हस्तो द्वितीयो वक्षसि खटकः | ईदृश्येवेयं चारी (ना. शा. १०-१६) भविष्यति | अनेन सन्निवेशेन सकटस्यासनं क्षेप इति | तथाविधबालक्रीडादिविषये भाणिकादिविषयेऽस्य प्रयोगः | (१६७) (१०८) गङ्गावतरणम् | अत्र केचिदूर्ध्वाङ्गुलितल इत्यनेन समपादाञ्चितभूमाववस्थानमुक्तमित्याहुः | एतच्चायुक्तमशब्दार्थत्वात् | तस्मादञ्चितो न पादः | अन्ये त्वाहुः - अनेन क्रमेणाग्रतलसञ्चारो वृश्चिकपाद इति | अपरे तु - चकारेण भिन्नक्रमेण च पादस्य त्रिपताकाहस्तयोश्शिरसश्च सन्नतत्वात्तेन प्रथमं पादोद्धारं स्थित्वा पादमूर्ध्वं विधाय पताकाहस्तौ तं पादं क्रमेणाग्रतलसञ्चारो वृश्चिकपाद इति | (अपरे तु चकारेण भिन्नक्रमेण च तदास्य त्रिपताकाहस्तयोः शिरसश्च सन्नतत्वात्तेन प्रथमः पादोद्धारः | प्. १३८) हस्तौ शिरस्सन्नतं च गङ्गावतरणं त्विति | यानि स्थानानि याश्चार्यो व्यायामे कथितानि तु || १६९ || पादप्रचारस्त्वेषां तु करणानामयं भवेत् | ये चापि नृत्तहस्तास्तु गदिता नृत्तकर्मणि || १७० || तेषां समासतो योगः करणेषु विभाव्यते | प्रायेण करणे कार्यो वामो वक्षःस्थितः करः || १७१ || चरणश्चानुगश्चापि दक्षिणस्तु भवेत्करः | चार्यश्चैव तु याः प्रोक्ता नृत्तहस्तास्तथैव च || १७२ || सा मातृकेति विज्ञेया तद्भेदात्करणानि तु | अष्टोत्तरशतं ह्येतत्करणानां मयोदितम् || १७३ || अतः परं प्रवक्ष्यामि ह्यङ्गहारविकल्पनम् | प्रसार्योत्क्षिप्य च करौ समपादं प्रयोजयेत् || १७४ || स्थित्वा पादमूर्ध्वं विधाय तदुपरि च त्रिपताकहस्तौ तं पादं क्रमेण) सन्नमयेत् अवरोधयेत् | तदनुसारेण च त्रिपताकाहस्तं सनमयेत् | तथैव क्रमेण शिरः | एवमेव त्रिविक्रमपादप्रसरणपूर्वकं गङ्गादेव्या अवतरणमिति नाम्नैवास्य करणस्य विषयो दर्शितः | इतिशब्दः समाप्तौ | (१६८) (इत्यष्टोत्तरशतकरणनिरूपणं समाप्तम्) अङ्गहारलक्षणम् | तलपुष्पपुटस्य पूर्वं निर्देशात्सर्वत्र वर्तनाप्राधान्येनोपक्रम इति सूचितं परं प्रयोगमाह | उक्तमुपसंहरन् क्रमप्राप्तानङ्गहारान्यथोद्देशं लक्षणीयत्वेन प्रतिजानीते - अष्टोत्तरशतमित्यादिना | हि यस्मात्करणानामष्टोत्तरशतमुदितं (ततो) हेतोः परं विशिष्टमङ्गहारो कल्प्यते परस्परतो भेद्यते येन तदङ्गहारेष्वेव विशेषलक्षणं वक्ष्यामीति सम्बन्धः | जातावेकवचनम् | (१७३) प्. १३९) व्यंसितापसृतं सव्यं हस्तमूर्ध्व प्रसारयेत् | प्रत्यालीढं ततः कुर्यात् तथैव च निकुट्टकम् || १७५ || ऊरूद्वृत्तं ततः कुर्यादाक्षिप्तं स्वस्तिकं ततः | नितम्बं करिहस्तं च कटिच्छिन्नं च योगतः || १७६ || (१) स्थिरहस्तः | तत्रोद्देशक्रमेण स्थिरहस्तं लक्षयति - प्रसार्येत्यादिना हरप्रिय इत्यन्तेन | तत्र प्रसार्योत्क्षिप्य च कराविति त्रिपताकाञ्जलि वक्षःस्थमिति लक्षितस्य लीनाख्यस्य करणस्य (ना. शा. ४-६६) प्रथमेतिकर्तव्यतानिरूपणेनोपलक्षितम् | एतच्च तल्लक्षण एवोक्तमस्माभिः पताकशब्दस्य प्रयोजनं वदद्भिः | इदमिदं करणं योगतोऽन्यादौ ह्यनया जिघृक्षतीत्यक्षिकरणगतहस्तपादाद्यौचित्ययुक्तवर्तनाचारीयोजनया यदि भवति तत एव चाविच्छिन्ना शुभा च | प्रबन्धादलातचक्रवदेकबुद्ध्यनुसंहार्यं तदलम् | स्थिरहस्तो नामाङ्गहार इति सम्बन्धः | एवं सर्वत्र योगत इति सर्वाङ्गहारेषु सम्बध्यते | अन्ये तु योगात्समाधेरप्ययं भगवतः प्रीतय इति व्याचक्षते | समपादमिति समनखं करणम् | पदं (पादौ) श्लिष्टौ समनखौ इति (ना. शा. ४-६५) | व्यंसिते - आलीढं स्थानकं यत्र करौ वक्षसि रेचितौ | ऊर्ध्वाधोविप्रकीर्णौ च व्यंसितं करणं तु तत् || (ना. शा. ४-१०८) इति लक्षिते करणेऽपसृतौ विप्रकीर्णौ यौ हस्तौ तौ द्वावप्यूर्ध्वस्थानस्थितौ कृत्वा आलीढस्य परिवर्तनेन (ना. शा. १०-७०) प्रत्यालीढं स्थानकं कुर्यात् | ततो निकुट्टिते निकुट्टितौ यदा हस्तौ (ना. शा. ४-६९) इति नवमं करणम् | ततोऽपि करमावृत्तकरणमूरुपृष्ठ (ना. शा. ४-१५९) इत्यष्टनवतितमम् | ततः स्वस्तिकं हस्ताभ्यामथ पादाभ्यामिति (ना. शा. ४-७५) पञ्चदशम् | तत आक्षिप्तं हस्तपादं चेति (ना. शा. ४-११५) पञ्चपञ्चाशत् | प्. १४० स्थिरहस्तो भवेदेष त्वङ्गहारो हरप्रियः | तलपुष्पापविद्धे द्वे वर्तितं सनिकुट्टकम् || १७७ || (प्रत्यालीढं ततः कृत्वा तथैव च निकुट्टकम् |) ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च | नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च || १७८ || भुजावूर्ध्वं विनिष्क्रान्तौ हस्तौ चाभिमुखाङ्गुली (ना. शा. ४-१४६) इति नितम्बगतिः | ततः करिहस्तम् - वामो वक्षःस्थितो हस्तः प्रोद्वेष्टिततलोपरि (ना. शा. ४-१४८) इति सप्ताशीतितमम् | ततः पर्यायशः कटिश्छिन्ना बाहु शिरसि (ना. शा. ४-७२) इत्येकादशम् | इत्येवं करणग्रामसम्यग्योजनया कृतं स्थिरहस्तमङ्गहारं निर्वर्तयति | अतः(त्र) सर्वेष्वङ्गहारेष्वित्यर्थः(हारेषु) करणावयववर्गं सर्वं करणजातं चतुर्दिङ्मुखेषु प्रयोज्यमिति नाट्याचार्या मन्यन्ते | अनागतातीतवे(दी मुनिस्तद)युक्तं मन्यमान एकान्नविंशतितमे हि परिवृत्तकरेचितेऽङ्गहारे (ना. शा. ४-२१९) वक्ष्यति पराङ्गमुखविधिर्भूय एवमेव भवेत् इत्यङ्गहारविधावित्यर्थायोगात् | तदाङ्गिकेष्वेव वक्ष्यामः | उद्वेष्टितकरणस्वरूपं निरूपयतः प्रयोगश्चैषामदृष्टार्थ एव | प्रयोगे च तत्तद्वाक्यार्थादूनं विप्रकर्षानुसारेण | एतच्च पूर्वरङ्गे (अ-५) यथोपदेशं वक्ष्यामः युद्धे नियुद्धे च इत्यादौ (ना. शा. ४-५६) विषयेणैतेषां (विशेषेणैतेषाम्) कदाचित्प्रयोगः | एवं स्थिरहस्त एव (नानिर्व(र्तनं) लक्ष्यत इति न वृथा तन्निर्देशेनायासः | (१७६) (२) पर्यस्तकः | तलपुष्पपुटेत्यादि | केचित्प्रसार्येत्यादिना प्रत्यालीढं ततः कुर्यादित्यन्तं सर्वेष्वङ्गहारेषु प्रथममितिकर्तव्यतां योजयन्ति प्रथमाङ्गस(ङ्ग)तिकरणयोगः कथमित्यभिप्रायेण | अन्ये तु प्रत्यङ्गहारसमुचिताः साधारणाः स्वयमूह्या इत्याहुः | श्रुतहानौ को गुण इत्यपरे | तत्र वामे पुष्पपुट (ना. शा. ४-६१) इति प्रथमम् | आवर्त्य शुकतुण्डाख्यमूरुपृष्ठे वामहस्तश्च वक्षःस्थ (ना. शा. ४-६४) इत्यपविद्धम् | कुञ्चितौ मणिबन्धे तु इति (ना. शा. ४-६२) वर्तितम् | निकुट्टिताविति (ना. शा. ४-६९) प्. १४१) एष पर्यस्तको नाम ह्यङ्गहारो हरोद्भवः | अलपल्लवसूचीं च कृत्वा विक्षिप्तमेव च || १७९ || आवर्तितं ततः कुर्यात्तथैव च निकुट्टकम् | ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च || १८० || करिहस्तं कटिच्छिन्नं सूचिविद्धो भवेदयम् | अपविद्धं तु करणं सूचिविद्धं तथैव च || १८१ || निकुट्टकम् | करमावृत्तकरणम् इति (ना. शा. ४-१५९) ऊरूद्वृत्तम् | (तत आक्षिप्तं हस्तपादम् (४-११६) इत्याक्षिप्तम् | स्वस्तिकापसृता विति (४-११५) उरोमण्डलम् | ततो भुजावूर्ध्वविनिष्क्रान्ताविति (४-१४६) नितम्बकरणम् | अनन्तरं वामो वक्षःस्थित इति (४-१४८) करिहस्तम् | ततः पर्यायश इति (४-७२) कटिच्छिन्नम् | एतेन करणदशकेन पर्यस्तकः ||) (१७८) (३) सूचीविद्धः | अर्घ(ल)पल्लवसूची चेति | अलपद्मः शिरोदेशे (हस्तः) सूचीपादश्च इति (ना. शा. ४-१३८) अलपल्लवोपलक्षितमर्धसूच्याख्यं सप्तसप्ततितमं करणम् - विक्षिप्तं हस्तपादं च पृष्ठतः पार्श्वतोऽपि वा | एकमार्गम् इति (ना. शा. ४-११९) विक्षिप्तम् | एकान्नषष्टितमं यदावर्ताख्यं करणं प्रसार्य कुञ्चितं पादं पुरस्त्वा(नरा)वर्तयेद्युतम् | प्रयोगवशगौ इति (ना. शा. ४-१२०) तदेवावर्तितशब्देनोक्तम् | ततो निकुट्टकादीनि षट् करणान्यक्ताङ्गहारवदेव (स्थिरहस्त इव) | (१८०) (४) अपविद्धः | अपविधन्त्वित्यादि | आवर्त्य शुकतुण्डाख्यमूरुपृष्ठे निपातयेत् | वामहस्तश्च वक्षःस्थोऽप्यपविद्धम् || (ना. शा. ४-६४) प्. १४२) उद्वेष्टितेन हस्तेन त्रिकं तु परिवर्तयेत् | उरोमण्डलकौ हस्तौ कटिच्छिन्नं तथैव च || १८२ || अपविद्धोऽङ्गहारश्च विज्ञेयोऽयं प्रयोक्तृभिः | करणं नूपुरं कृत्वा विक्षिप्तालातके पुनः || १८३ || पुनराक्षिप्तकं कुर्यादुरोमण्डलकं तथा | नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च || १८४ || पादसूच्या यदा पादो द्वितीयश्च प्रविध्यते | कटिवक्षःस्थितौ हस्तौ सूचीविद्धं तत् || (ना. शा. ४-१३९) एवं करणद्वयं कृत्वोद्वेष्टितेन करणेन (ना. शा. ९-२१६) बद्धया चार्या त्रिकं वलितं कृत्वोरोमण्डलहस्तोपलक्षितमुरोमण्डलकरणं ततोऽपि कटिच्छिन्नं विदध्यात् | स्वस्तिकापसृतौ पादावपविद्धक्रमौ यदा | उरोमण्डलकौ हस्तावुरोमण्डलं तु तत् || (ना. शा. ४-११५) प्रयोक्तृभिरिति ये प्रयोगकुशलास्तैः | स्वयमङ्गस्य गतिः सम्यग्विद्वद्भिर्ज्ञातुं न शक्य इत्यनेनेदमाह | एतेषु करणेषु यदा मध्यवर्तनशिरोभ्रूनेत्रादिकर्मसहितापि या योजना च सा अंशश्च स्वरूपतत्त्वविदा स्वयमङ्गीकर्तुं शक्यः | अन्यस्य तूक्तापि प्रयोक्तुमशक्या न चापि निरूपयितुं शक्या | गीतवाद्यलययन्ति(ति) वाक्यार्थभेदेन च तस्या एव योजना | योजने चानन्त्यम् | नहि सुशिक्षितोऽपि लक्षणकारो वाक्यानां प्रतिपदं लक्षणं कर्तुं शक्नोति | अस्य पश्चादिदं प्रयोज्यमिति दयापि(ज्ञापि)तेन किञ्चिदात्मनो योजना च संहिता कार्या | नियमनमग्रे वक्ष्याम इत्युक्तम् | तेन मण्डलादिस्थाननिरूपणमिह कैश्चित्कृतं निरुपयोगमेवेत्यास्ताम् | (१८२) (५) आक्षिप्तकः | करणं नूपुरमित्यादि | त्रिकं सुवलितं कृत्वा लतारेचितकौ करौ (ना. शा. ४-९७) (नू)पुरं च तथा पादकरणे नूपुरे विक्षिप्तं हस्तपादं च इति (ना. शा. ४-११९) विक्षिप्तम् | प्. १४३) आक्षिप्तकः स विज्ञेयो ह्यङ्गहारः प्रयोक्तृभिः | उद्वेष्टितापविद्धस्तु करः पादो निकुट्टितः || १८५ || पुनस्तेनैव योगेन वामपार्श्वे भवेदथ | उरोमण्डलकौ हस्तौ नितम्बं करिहस्तकम् || १८६ || कर्तव्यं सकटिच्छिन्नं नृत्ते तूद्घट्टिते सदा | पर्यायोद्वेष्टितौ हस्तौ पादौ चैव निकुट्टितौ || १८७ || अलातं चरणं कृत्वाऽप्यंसयोर्दक्षिणं करम् | ऊर्ध्वजानुक्रमं कुर्यादलातकमिति स्मृतम् || (ना. शा. ४-७८) यत्र यत्र पुनर्ग्रहणं तत्र तत्र केचित् द्विर्योगमाहुः | द्वितीयाङ्गहारोक्तमाक्षिप्तादिकरणपञ्चकम् | (१८४) (६) उद्घट्टितः | उद्वेष्टितापविद्धस्त्विति | अनेन प्रथमश्लोकेन पर्यायशोऽङ्गद्वयप्रयोगं निकुट्टकं करणमाह - निकुट्टितौ यदा हस्तौ (ना. शाष् ४-६९) इति | उरोमण्डलकादिकरणचतुष्कं द्वितीयाङ्गहारवदेव | (१८६) (७) विष्कम्भः | पर्यायोद्वेष्टिताविति | अनेनार्धेनानन्तराङ्गहारवदेव प्रथममण्डलद्वयेन निकुट्टितं करणमित्याह | कुञ्चिताविति | हस्तौ पादौ चेति सम्बन्धः | तेन कुञ्चितस्य करणस्याञ्चितस्य चाङ्गद्वयपर्यायेण प्रयोज्यत्वमुक्तम् | वृश्चिकं चरणं कृत्वा करं पार्श्वे निकुञ्चयेत् | (ना. शा. ४-८७) नासाग्रे दक्षिणं चैव निकुञ्चितम् || स्वस्तिकौ चरणौ कृत्वा करिहस्तं च दक्षिणम् | वक्षःस्थाने तथा वाममर्धस्वस्तिकमादिशेत् || (ना. शा. ४-८३) इत्यनन्तरं व्यावृत्तपरिवृत्तस्तु स एव तु करो यदा | अञ्चितो नासिकाग्रे तु तदञ्चितम् || (ना. शा. ४-८३) चतुरश्रमिति अनेनार्धेनार्धनिकुट्टकं दशमं करणमाह - प्. १४४) कुञ्चितावञ्चितौ चैव ह्यूरूद्वृत्तं तथैव च | चतुरश्रं करं कृत्वा पादेन च निकुट्टकम् || १८८ || भुजङ्गत्रासितं चैव करं चोद्वेष्टितं पुनः | परिच्छिन्नं च कर्तव्यं त्रिकं भ्रमरकेण तु || १८९ || करिहस्तं कटिच्छिन्नं विष्कम्भे परिकीर्तितम् | दण्डपादं करं चैव विक्षिप्याक्षिप्या चैव हि || १९० || व्यंसितं वामहस्तं च सह पादेन सर्पयेत् | निकुट्टकद्वयं कार्यमाक्षिप्तं मण्डलोरसि || १९१ || करिहस्तं कटिच्छिन्नं कर्तव्यमपराजिते | कुट्टितं करणं कृत्वा भुजङ्गत्रासितं तथा || १९२ || अञ्चितो बाहुशिरसि हस्तस्त्वभिमुखाङ्गुलिः | निकुञ्चितार्धयोगेन (ना. शा. ४-७०) इति | द्वितीयो हि तत्र प्राङ्मुखं खटकरूपं चतुरश्रो हस्तः | कुञ्चितं पादमुत्क्षिप्य त्र्यश्रमूरुं विवर्तयेत् | कटिजानुविवर्तश्च भुजङ्गत्रासितं भवेत् || (ना. शा. ४-८४) भुजङ्गत्रासितं चतुर्विधम् | अत्रैवकारेण हस्तप्रयोगमनुक्तं निरूपयति - करं चोद्वेष्टितमिति तत्समकालं च भ्रमरकेणाष्टत्रिंशेन (ना. शा. ४-९९) करणेन परित इत्युभयाङ्गप्रयोगेण च्छिन्नत्रिकं कुर्यात् | कटिमध्यस्य वलनाच्छिन्ना | यतः - आक्षिप्तः स्वस्तिकः पादः करौ चोद्वेष्टितौ तथा | त्रिकस्य वलनाच्च | इति भ्रमरकम् | ततः करिहस्तः कटिच्छिन्नश्च पूर्वाङ्गहारवदेव || (१८९) (८) अपराजितः | दण्डपादमित्यादि | नूपुरं चरणं कृत्वा दण्डपादं प्रसारयेत् | क्षिप्राविद्धकरं चेति दण्डपादम् | (ना. शा. ४-१४३) प्. १४५) रेचितेन तु हस्तेन पताकं हस्तमादिशेत् | आक्षिप्तकं प्रयुञ्जीत ह्युरोमण्डलकं तथा || १९३ || लताख्यं सकटिच्छिन्नं विष्कम्भापसृते भवेत् | त्रिकं सुवलितं कृत्वा नूपुरं करणं तथा || १९४ || भुजङ्गत्रासितं सव्यं तथा वैशाखरेचितम् | आक्षिप्तकं ततः कृत्वा परिच्छिन्नं तथैव च || १९५ || बाह्यभ्रमरकं कुर्यादुरोमण्डलमेव च | नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च || १९६ || यदत्र निरूपितं तदेवेह भङ्क्त्वा दर्शितं विक्षिप्येत्यादिना | आलीढस्थानकं यत्र (ना. शा. ४-१०९) इति व्यंसितं प्रथमाङ्गहारोक्तम् | वामहस्तेत्यादिना प्रसर्पितमष्टाशीतितकरणमाह | एकस्तु रेचितो हस्तः लताख्यश्च तथापरः | प्रसर्पितकम् | इति (ना. शा. ४-१४९) निकुट्टकद्व्यमिति | निकुट्टमर्धनिकुट्टं च (ना. शा. ४-६९-७०) निकुट्टितौ यदा हस्तौ इति | अञ्चितो बाहुशिरसि हस्तस्तु इति | मण्डलोरसीत्युरोमण्डले करणे (ना. शा. ४-११५) सतीत्यर्थः | आक्षिप्तादीनि कटिच्छिन्नान्तानि चत्वारि द्वितीयाङ्गहारवदेव | (९) विष्कम्भापसृतः | कुट्टितमित्यादि | निकुट्टकमर्धनिकुट्टकं चेति द्वे कुट्टितशब्देन साधारण्यात्सङ्गृहीते | कुञ्चितं पादम् (ना. शा. ४-८४) इत्यादि भुजङ्गत्रासितं चतुर्विंशतितमम् | रेचितेभ्यस्त्वि(तेने)त्यादिनार्धेन पञ्चत्रिंशकं (ना. शा. ४-९६) दर्शयतीति | भुजङ्गत्रासितं कृत्वा यत्रोभावपि रेचितौ | वामपार्श्वस्थितौ हस्तौ भुजङ्गत्रस्तरेचितम् || (ना. शा. ४-९६) अस्य चाङ्गपर्यायेण प्रयोग इति पताकाग्रहणेनाह | आक्षिप्तकादित्रयं पूर्वाङ्गहारवदेव | केवलमत्र कटिच्छिन्ने करणे (ना. शा. ४-७१) पर्यायेणैको लताहस्तः | प्. १४६) मत्ताक्रीडो भवेदेष ह्यङ्गहारो हरप्रियः | रेचितं हस्तपादं च कृत्वा वृश्चिकमेव च || १९७ || पुनस्तेनैव योगेन वृश्चिकं सम्प्रयोजयेत् | निकुट्टकं तथा चैव सव्यासव्यकृतं क्रमात् || १९८ || लताख्यः सकटिच्छेदो भवेत्स्वस्तिकरेचिते | पार्श्वे तु स्वस्तिकं बद्ध्वा कार्य त्वथ निकुट्टकम् || १९९ || द्वितीयस्य च पार्श्वस्य विधिः स्यादयमेव हि | ततश्च करमावर्त्य ह्यूरुपृष्ठे निपातयेत् || २०० || ऊरूद्वृत्तं ततः कुर्यादाक्षिप्तं पुनरेव हि | नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च || २०१ || पार्श्वस्वस्तिक इत्येष ह्यङ्गहारः प्रकीर्तितः | वृश्चिकं करणं कृत्वा लताख्यं हस्तमेव च || २०२ || तमेव च करं भूयो नासाग्रे सन्निकुञ्चयेत् | तमेवोद्वेष्टितं कृत्वा नितम्बं परिवर्तयेत् || २०३ || करिहस्तं कटिच्छिन्नं वृश्चिकापसृते भवेत् | कृत्वा नूपुरपादं तु तथाक्षिप्तकमेव च || २०४ || त्रिकं सुवलितं कृत्वेति | प्. १४७) परिच्छिन्नं च कर्तव्यं सूचीपादं तथैव च | नितम्बं करिहस्तं चाप्युरोमण्डलकं तथा || २०५ || कटिच्छिन्नं ततश्चैव भ्रमरः स तु संज्ञितः | मत्तल्लिकरणं कृत्वा करमावर्त्य दक्षिणम् || २०६ || कपोलस्य प्रदेशे तु कार्यं सम्यङ्निकुञ्चितम् | अपविद्धं द्रुतं चैव तलसंस्फोटसंयुतम् || २०७ || करिहस्तं कटिच्छिन्नं मत्तस्खलितके भवेत् | दोलैः करैः प्रचलितैः स्वस्तिकापसृतैः पदैः || २०८ || अञ्चितैर्वलितैर्हस्तैस्तलसङ्घट्टितैस्तथा | निकुट्टितं च कर्तव्यमूरुद्वृत्तं तथैव च || २०९ || करिहस्तं कटिच्छिन्नं मदाद्विलसिते भवेत् | मण्डलं स्थानकं कृत्वा तथा हस्तौ च रेचितौ || २१० || उद्घट्टितेन पादेन मत्तल्लिकरणं भवेत् | आक्षिप्तं करणं चैव ह्युरोमण्डलमेव च || २११ || कटिच्छिन्नं तथा चैव भवेत्तु गतिमण्डले | समपादं प्रयुज्याथ परिच्छिन्नं त्वनन्तरम् || २१२ || प्. १४८) आविद्धेन तु पादेन बाह्यभ्रमरकं तथा | वामसूच्या त्वतिक्रान्तं भुजङ्गत्रासितं तथा || २१३ || करिहस्तं कटिच्छिन्नं परिच्छिन्ने विधीयते | शिरसस्तुपरि स्थाप्यौ स्वस्तिकौ विच्युतौ करौ || २१४ || ततः सव्यं करं चापि गात्रमानम्य रेचयेत् | पुनरुत्थापयेत्तत्र गात्रमुन्नम्य रेचितम् || २१५ || लताख्यौ च करौ कृत्वा वृश्चिकं सम्प्रयोजयेत् | रेचितं करिहस्तं च भुजङ्गत्रासितं तथा || २१६ || आक्षिप्तकं प्रयुञ्जीत स्वस्तिकं पादमेव च | पराङ्मुखविधिर्भूय एवमेव भवेदिह || २१७ || लताख्यश्च करो वामः (ना. शा. ४-१०५) इति लतावृश्चिकम् | एको वक्षःस्थितो हस्तः इति (ना. शा. ४-१४८) | रेचितमित्युन्मत्तकरणम् | अञ्चितेन तु पादेन रेचितौ इति (ना. शा. ४-७४) | एको वक्षःस्थितो हस्तः इति करिहस्तकम् | कुञ्चितं पादम् इति (ना. शा. ४-८४) प्. १४९) करिहस्तं कटिच्छिन्नं परिवृत्तकरेचिते | रेचितौ सह गात्रेण ह्यपविद्धौ करौ यदा || २१८ || पुनस्तेनैव देशेन गात्रमुन्नम्य रेचयेत् | कुर्यान्नुपुरपादं च भुजङ्गत्रासितं तथा || २१९ || रेचितं मण्डलं चैव बाहुशीर्षे निकुञ्चयेत् | ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च || २२० || करिहस्तं कटिच्छिन्नं कुर्याद्वैशाखरेचिते | आद्यं तु जनितं कृत्वा पादमेकं प्रसारयेत् || २२१ || भुजङ्गतासितम् | आक्षिप्तं हस्तपादम् | इत्याक्षिप्तकम् | (ना. शा. ४-११६) | स्वस्तिकं पादमित्यस्यैव पादस्वस्तिकपर्यन्ततया बद्धं चारीं सूचयन्नितम्बकरणमाह - भुजावूर्ध्वं विनिष्क्रान्तौ इति (ना. शा. ४-१४६) पराङ्मुखेति | अङ्गहारेषु मध्ये परिभाषमाणो मुनिरेतदाह - सर्वेष्वेव चाङ्गहारेषु पाश्चात्यं करणद्वयं वर्जयित्वा वर्तनीयानि करणानि | तानि चतुर्दिङ्मुखेषु प्रयुज्य संमुखमन्त्ये करणद्वयेन पूरयेदिति | (१०) वैशाखरेचितः | रेचिताविति | अनेन श्लोकेन क्रमेण वैशाखरेचितमङ्गद्वयेन प्रयोज्यमित्याह | रेचितं हस्तपादं च इत्यादि (ना. शा. ४-९८) वैशाखरेचितं करणम् | त्रिकं सुवलितं कृत्वा लतारेचितकौ करौ | नूपुरं च तथा पादम् | (ना. शा. ४-९७) इति नूपुरोर्ध्वपादम् | कुञ्चितं पादमुत्क्षिप्येति (ना. शा. ४-८४) भुजङ्गत्रासितम् | रेचितमित्युन्मत्तकरणम् | अञ्चितेन तु पादेन रेचितौ इति (ना. शा. ४-७४) | मण्डलमिति मण्डलस्वस्तिकम् - स्वस्तिकौ तु करौ कृत्वा प्राङ्मुखोर्ध्वतलौ समौ | मण्डलस्थानकेन | इति (ना. शा. ४-६८) प्. १५०) तथैवालातकं कुर्यात् त्रिकं तु परिवर्तयेत् | अञ्चितं वामहस्तं च गण्डदेशे निकुट्टयेत् || २२२ || कटिच्छिन्नं तथा चैव परावृत्ते प्रयोजयेत् | स्वस्तिकं करणं कृत्वा व्यंसितौ च करौ पुनः || २२३ || बाहुशीर्ष इत्यनेन निकुट्टितं करणमाह निकुट्टितौ यदा हस्तौ इति (ना. शा. ४-६९) | ऊरूद्वृत्तादिकरणजातं क्रमेणोक्ताङ्गहारवत् | (११) परावृत्तः | आद्यन्त्विति | एको वक्षःस्थितो हस्तो द्वितीयश्च प्रलम्बितः | तलाग्रसंस्थितः पादो जनितम् | (ना. शा. ४-१५५) इति | आद्यशब्दो दक्षिणाङ्गप्रयोज्यत्वमस्याह | पादमेकं प्रसारयेदिति शकटास्यं करणमाह - निषण्णाङ्गस्तु चरणं प्रसार्य तलसञ्चरम् | उद्वाहितमुरःकृत्वा शकटास्यम् | (ना. शा. ४-१६८) अलातं चरणं कृत्वा व्यंसयेद्दक्षिणं करम् | ऊर्ध्वजानुक्रमं कुर्यादलातकम् (ना. शा. ४-७८) इत्यलातम् | त्रिकं तु परिवर्तयेदिति भ्रमरकम् | आक्षिप्तः स्वस्तिकः पादः करौ चोद्वेष्टितौ तथा | त्रिकस्य वलनाच्च इति (ना. शा. ४-९९) अञ्चितं वामहस्तं चेत्यनेनार्धेन करिहस्तं करणं गण्डदेशे निकुट्टयेदिति विशेषयुक्तमाह | वामो वक्षःस्थितो हस्तः प्रोद्वेष्टितलोऽपरः | अञ्चितं चरणं चैव प्रयोज्यः करिहस्तकः || (ना. शा. ४-१४८) पर्यायश इति कटिच्छिन्नम् (ना. शा. ४-७१) प्. १५१) अलातकं प्रयुञ्जीत ह्यूर्ध्वजानु निकुञ्चितम् | अर्धसूची च विक्षिप्तमुद्वृत्ताक्षिप्तके तथा || २२४ || करिहस्तं कटिच्छिन्नमङ्गहारे ह्यलातके | निकुट्य वक्षसि करावूर्ध्वजानु प्रयोजयेत् || २२५ || (१२) अलातकः | स्वस्तिकमित्यादि | स्वस्तिकाविति (ना. शा. ४-६८) स्वस्तिकम् | व्यंसितौ चेति द्विवचनेन पुनश्शब्दे स्वस्तिकव्यवधानेन व्यंसितस्य द्विप्रयोगमाह | आलीढस्थानकं यत्र करौ वक्षसि रेचितौ | ऊर्ध्वाधोविप्रकीर्णो च व्यंसितम् (ना. शा. ४-१०९) अलातं चरणं कृत्वा व्यंसयेद्दक्षिण करम् | ऊर्ध्वजानुक्रमं कुर्यात् इत्यलातकम् (ना. शा. ४-७८) कुञ्चितं पादमुत्क्षिप्य जानुस्तनसमं न्यसेत् | प्रयोगवशगौ हस्तावूर्ध्वजानु (ना. शा. ४-८६) वृश्चिकं चरणं कृत्वा करं पार्श्वे निकुञ्चयेत् | नासाग्रे दक्षिणं च इति निकुञ्चितम् | (ना. शा. ४-८७) अलपद्मः शिरोदेशे सूचीपादश्च दक्षिणः (ना. शा. ४-१३८) इत्यर्धसूची | विक्षिप्तं हस्तपादं च पार्श्वतः पृष्ठतोऽपि वा | एकमार्गगतं यत्र तद्विक्षिप्तम् | (ना. शा. ४-११९) आक्षिप्तहस्तमाक्षिप्तपादमुद्वृत्तगात्रमुद्वृत्तं करणम् | (ना. शा. ४-१५२) आक्षिप्तं हस्तपादं च क्रियते यत्र वेगतः (ना. शा. ४-११६) इत्याक्षिप्तम् | वामो वक्षःस्थितो हस्तः प्रोद्वेष्टिततलोऽपरः | अञ्चितश्चरणश्चैव (ना. शा. ४-१४८) इति करिहस्तम् | पर्यायशः कटिच्छिन्नेति (ना. शा. ४-७२) कटिच्छिन्नम् | प्. १५२) आक्षिप्तस्वस्तिकं कृत्वा त्रिकं तु परिवर्तयेत् | उरोमण्डलकौ हस्तौ नितम्बं करिहस्तकम् || २२६ || कटिच्छिन्नं तथा चैव पार्श्वच्छेदे विधीयते | सूचीवामपदं दद्याद्विद्युद्भ्रान्तं च दक्षिणम् || २२७ || दक्षिणेन पुनः सूची विद्युद्भ्रान्तं च वामतः | परिच्छिन्नं तथा चैव ह्यतिक्रान्तं च वामकम् || २२८ || (१३) पार्श्वच्छेदः | निकुट्येत्यादि | अनेन वृश्चिककुट्टितं द्विचत्वारिंशत्तमकरणमाह | वृश्चिकं चरणं कृत्वा द्वावप्यथ निकुट्टितौ | विधातव्यौ करौ | (ना. शा. ४-१०३) कुञ्चितं पादमित्यूर्ध्वजानु (ना. शा. ४-८६) आक्षिप्तं हस्तपादं च इत्याक्षिप्तकम् (ना. शा. ४-११६) हस्ताभ्यामथ पादाभ्याम् (ना. शा. ४-७५) इति स्वस्तिकम् | हस्तद्वारेणोरोमण्डलकरणम् - स्वस्तिकापसृतौ पादावाविद्धक्रमणं यदा | उरोमण्डलकौ हस्तौ | (ना. शा. ४-११५) नितम्बादित्रयं पूर्ववत् | (१४) विद्युद्भ्रान्तः | सूचीत्यादि वामाङ्गप्रयोज्यमर्धसूचीकरणमाह - अलपद्मः शिरोदेशे इति (ना. शा. ४-१३८) दक्षिणेन विद्युद्भ्रान्तं करणम् - पृष्ठतो वलितं पादं शिरोघृष्टं प्रसारयेत् | सर्वतो मण्डलाविद्धं विद्युद्भ्रान्तम् | (ना. शा. ४-१२६) एतद्दक्षिणेन | पुनरेतदेव द्वयमङ्गविपर्ययेण | तदाह दक्षिणेन पुनरिति | परिच्छिन्नमिति छिन्नं करणम् | पल्लवौ तु कटीदेशे छिन्ना पर्यायशः कटी | वैशाखस्थानकेन इति (ना. शा. ४-१०६) प्. १५३) लताख्यं सकटिच्छिन्नं विद्युद्भ्रान्तश्च स स्मृतः | कृत्वा नूपुरपादं तु सव्यवामौ प्रलम्बितौ || २२९ || करौ पार्श्वे ततस्ताभ्यां विक्षिप्तं सप्रयोजयेत् | ताभ्यां सूची तथा चैव त्रिकं तु परिवर्तयेत् || २३० || लताख्यं सकटिच्छिन्नं कुर्यादुद्वृत्तके सदा | आलीढव्यंसितौ हस्तौ बाहुशीर्षे निकुट्टयेत् || २३१ || अतिक्रान्तक्रमं कृत्वा पुरस्तात्संप्रसारयेत् | प्रयोगवशगौ हस्तावतिक्रान्तम् | (ना. शा. ४-१२७) एतद्वामेनाङ्गेन लताख्यमिति लतावृश्चिकम् | अञ्चितः पृष्ठतः पादः कुञ्चितोर्ध्वतलाङ्गुलिः | लताख्यश्च करो वामः | (ना. शा. ४-१०५) इति लतावृश्चिकम् | कटिच्छिन्नं प्राग्वत् | (१५) उद्वृत्तकः | कृत्वा नूपुरपादमिति | त्रिकं सुवलितं कृत्वा लतारेचितकौ करौ | नूपुरं च तथा पादं करणे नुपूरे न्यसेत् || (ना. शा. ४-९७) सव्यवामग्रहणेन पर्यायशः कराविति च द्विवचनेन यौगपद्यं सूचयन् भुजङ्गत्रासितं च द्वात्रिंशत्तमम् (भुजङ्गाञ्चितं चत्वारिंशत्तमम्) गृध्रावलीनकं चतुस्सप्ततितमं करणं दर्शयति | भुजङ्गत्रासितः पादो रेचितो दक्षिणः करः | लताख्यश्च करो वामः इति (ना. शा. ४-१०१) पृष्ठप्रसारितः पादः किञ्चिदञ्चितजानुकः | यत्र प्रसारितौ बाहू तत्स्याद् गृध्रावलीनकम् || (ना. शा. ४-१३५) अत एव करणद्वयमेवोपसंहरति ताभ्यामनन्तरं विक्षिप्तमिति विक्षिप्तं हस्तपादं च इति (ना. शा. ४-११९) तदपीच्छाङ्गापर्यायेणेत्युपसंहारेणाह - ताभ्यामनन्तरं सूचीति | प्. १५४) नूपुरश्चरणो वामस्तथालातश्च दक्षिणः | तेनैवाक्षिप्तकं कुर्यादुरोमण्डलकौ करौ || २३२ || करिहस्तं कटिच्छिन्नमालीढे सम्प्रयोजयेत् | हस्तं तु रेचितं कृत्वा पार्श्वमानम्य रेचयेत् || २३३ || पुनस्तेनैव योगेन गात्रमानस्य रेचयेत् | रेचितं करणं कार्यमुरोमण्डलमेव च || २३४ || तेनाङ्गपर्यायेण योगस्याक्षेपोपलब्धेः तेन सन्धानायोद्वृत्तं करणम् | (त्रिकपरिवर्तनेन बद्धया चार्या नितम्बं करणम् | ततो अञ्चितः पृष्ठतः पाद इत्यादिना लतावृश्चिकं चतुश्चत्वारिंशत्तमम् | ततः कटिच्छिन्नम् | (१६) आलीढः | आलीढेति | आलीढं स्थानकं यत्र करौ वक्षसि रेचितौ | ऊर्ध्वाधो विप्रकीर्णौ च व्यंसितम् || (ना. शा. ४-१०९) इति व्यंसितं दर्शयति | बाहुशीर्ष इति निकुट्टकं नवमं करणम् | वामतो नूपुरं षट्त्रिंशत्) निकुट्टितौ यदा हस्तौ इति (ना. शा. ४-६९) निकुट्टितकरणम् | ततः अलातं चरणं कृत्वा व्यंसये दित्यलातकम् | (ना. शास्. ४-७८) | तेनैवेति दक्षिणेन | आक्षिप्तं हस्तपादं चेत्याक्षिप्तम् (ना. शा. ४-११६) | उरोमण्डलकादिकरणत्रयं पूर्ववत् | (१७) रेचितः | हस्तं तु रेचितमिति | अनेन श्लोकेन सर्वाणि हस्तरेचनवन्ति करणानि सङ्गृह्णीते | तथा चोपसंहरिष्यति रेचितं करणमिति | जातावेकवचनेन हि किञ्चित्प्रतिपद्येत | रेचितं नाम करणमस्ति यदनेनोच्यते | कार्यमित्यनेन तावतां करणानां श्लिष्टाङ्गतया स्वबुद्ध्या स्वकार्यवद्धि चित्रमेव योजनं कार्यमिति सूचयति | अत एवायं विचित्रभेदसङ्कीर्णोऽङ्गहारः | तथा चान्यत्र श्रुयते | प्. १५५) कटिच्छिन्नं तु कर्तव्यमङ्गहारे तु रेचिते | नूपुरं चरणं कृत्वा त्रिकं तु परिवर्तयेत् || २३५ || पञ्चविंशतिविचित्र(मातृका)प्रक्रमेण विविधं व्यरीरिचत् | रेचिताङ्गहरणं महेश्वरो गेयमार्गमिव सप्तभिः स्वरैः || इति | स्वस्तिकौ रेचिताविद्धौ (ना. शा. ४-६७) इति स्वस्तिकरेचितम् | अपविद्धः करः सूच्या (ना. शा. ४-७२) इत्यादीन्यर्धरेचितम् | वक्षः स्वस्तिकमुन्मत्तश्चेति द्वादशादीनि त्रीणि हस्तो हृदि भवेद्वामः इति (ना. शा. ४-८०) आक्षिप्तरेचितम् | स्खलितापसृतः पादः इत्यर्धमत्तल्लि (ना. शा. ४-८९) रेचकनिकुट्टकं च (ना. शा. ४-९०) भुजङ्गत्रासितं कृत्वा यत्रोभावपि रेचितौ इत्यादित्रयं भुजङ्गत्रस्तरेचितं (ना. शा. ४-९६) नूपुरं (ना. शा. ४-९७) वैशाखरेचितं च | (ना. शा. ४-९८) भुजङ्गत्रासितः पादो रेचितो दक्षिणः करः (ना. शा. ४-१०१) इत्यदिकरणद्वयं भुजङ्गाञ्चितकं दण्डरेचितकं च (ना. शा. ४-१०२) वृश्चिकं चरणं कृत्वा स्वस्तिकौ च इत्यादि (ना. शा. ४-१०७) वृश्चिकरेचितम् | आलीढस्थानकं यत्र इत्यादि (ना. शा. ४-१०९) व्यंसितम् | आक्षिप्तं हस्तपादेत्यादिद्वयम् | (ना. शा. ४-१२२) विवृत्तं विनिवृत्तं च (ना. शा. ४-१२३) आक्षिप्तं हस्तपादं च त्रिकं चैव विवर्तितम् (ना. शा. ४-१२८) इति विवर्तितकम् | पृष्ठप्रसारितः पाद इत्यादि (ना. शा. ४-१३१) गरुडप्लुतकम् | वृश्चिकं चरणं कृत्वा रेचितौ च तथा करौ (ना. शा. ४-१४१) इति मयूरललितम् | सर्पितकं च (ना. शा. ४-१४२) | दोलापादक्रमः कार्यः (ना. शा. ४-१४७) इत्यादि स्खलितम् | एकस्तु रेचित इति (ना. शा. ४-१४९) प्रसर्पितकम् | दोलापादक्रममिति (ना. शा. ४-१५४) तलसङ्घट्टितम् | प्रयुज्यालातकमित्यादिद्वयं (ना. शा. ४-१६५) वृषभक्रीडितकं लोलितं च (ना. शा. ४-१६६) | एवं करणपञ्चविंशतिर्वैचित्र्येण प्रयोज्याः | चतुष्षडादिक्रमेण प्. १५६) व्यंसितेन तु हस्तेन त्रिकमेव विवर्तयेत् | वामं चालातकं कृत्वा सूचीमत्रैव योजयेत् || २३६ || करिहस्तं कटिच्छिन्नं कुर्यादाच्छुरिते सदा | रेचितौ स्वस्तिकौ पादौ रेचितौ स्वस्तिकौ करौ || २३७ || कृत्वा विश्लेषमेवं तु तेनैव विधिना पुनः | पुनरुत्क्षेपणं चैव रेचितैरेव कारयेत् || २३८ || पुनरुक्ततया चतुर्दिङ्मुखेषु यावत्समाप्ता भवति | यत उक्तम् - द्वाभ्यां त्रिचतुराभिर्वाप्यङ्गहारस्तु मातृभिः इति (ना. शा. ४-३१) पुनस्तेनैव योगेन गात्रमानम्ये त्यनेन मध्ये वैचित्र्याच्चक्रमण्डलेन (ना. शा. ४-११४) व्यवहितेयं करणपरम्परा प्रयोज्येत्याह | प्रलम्बिताभ्यां बाहुभ्यां यद्गात्रेण नतेन च | अभ्यन्तरापविद्धं स्यात्तज्ज्ञेयं चक्रमण्डलम् || (ना. शा. ४-११४) आनम्येत्यादिरन्तर्भावितण्यर्थः | प्रयोग एवं प्रयोज्यः | प्राग्वदुरोमण्डलं कटिच्छिन्नं च | (१८) आच्छुरितः | नूपुरमित्यादि | त्रिकन्तु परिमितं नूपुरं परिवर्तयेदित्यनेन भ्रमरकम् - आक्षिप्तः स्वस्तिकः पादः ..... त्रिकस्य वलनं चैव | (ना. शा. ४-९९) इति | व्यंसितेन त्विति व्यंसितम् - आलीढं स्थानकं यत्रेति (ना. शा. ४-१०९) | ततोऽलातकम् - अलातं चरणं कृत्वा इति (ना. शा. ४-७८) | त्रिकमेवेत्येवकारेण नितम्बं भुजावूर्ध्वविनिष्क्रान्तौ इति (ना. शा. ४-१४६) सूचितम् | ततः करणद्वयं पूर्ववत् | (१९) आक्षिप्तरेचितः | रेचितौ स्वस्तिकावित्यादि | यत्र यत्र करणे करयोः पादयोर्वा रेचितस्वस्तिकसाहित्यं तत्तदिहाप्यनुजानाति पृथगभिधानेन | रेचितं स्वस्तिकं ह्येतेनैव ह्येतानि करणानि | स्वस्तिकरेचितं स्वस्तिकौ रेचिताविद्धौ इति पृष्ठस्वस्तिकं दिक्स्वस्तिकं च विक्षिप्ताक्षिप्तबाहुभ्याम् इत्यादि (ना. शा. ४- ७६-७७) कटीसमं स्वस्तिकापसृतः पाद इत्यादि (ना. शा. ४-७९) | भूर्णितम् - प्. १५७) उद्वृत्ताक्षिप्तके चैव ह्युरोमण्डलमेव च नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च || २३९ || आक्षिप्तरेचितो ह्येष करणानां विधिः स्मृतः | विक्षिप्तं करणं कृत्वा हस्तपादं मुखानुगम् || २४० || वर्तितघूर्णितः सव्यो हस्तो वामश्च दोलितः | स्वस्तिकापसृतः पादः | (ना. शा. ४-९३) इति भ्रमरकम् आक्षिप्तः स्वस्तिकः पाद इति (ना. शा. ४-९९) | वृश्चिकरेचितम् | वृश्चिकं चरणं कृत्वा स्वस्तिकं च इति (ना. शा. ४-१०७) | पार्श्वनिकुट्टकम् | हस्तौ तु स्वस्तिकौ पार्श्व इति (ना. शा. ४-११०) उरोमण्डलकम् | स्वस्तिकापसृतौ इति (ना. शा. ४-११५) | सन्नतम् | उत्प्लुत्य चरणौ कार्यावग्रतः स्वस्तिकौ स्थितौ (ना. शा. ४-१३६) इति सिंहाकर्षितकम् | पृष्ठप्रसारित इति (ना. शा. ४-१५१) | नागापसर्पितम् | स्वस्तिकापसृतौ पादौ इति (ना. शा. ४-१६७) | वक्ष-स्वस्तिकादौ तु रेचनं नास्तीति न सङ्गृहीतम् | परे त्वङ्गपरिवर्तनक्रमेण तत्रापि रेचितमिच्छन्तस्तदपि सङ्गृह्णते | एवं हस्तपादस्वस्तिकश्च (कञ्च) तद्रेचितश्च (तञ्च) वैचित्र्येण विधाय तेनैव विधिनेत्यत्रुटितेनाङ्गेनोत्क्षेपणं हस्तपादस्य कार्यम् | अनेन यत्र यत्रैतदस्ति तत्तत्करणं सूचयति | तद्यथा दण्डपक्षम् ऊर्ध्वजानुं विधायाथ तस्योपरि लतां न्यसेत् इति (ना. शा. ४-९५) ललाटतिलकं वृश्चिकं चरणं कृत्वा इति (ना. शा. ४-१११) तलविलासितम् ऊर्ध्वाङ्गुलिततः पाद इति (ना. शा. ४-११७) निशुम्भितं - पृष्ठतः कुञ्चितः पादो वक्षश्चैव समुन्नतम् | तिलके च करः स्थाप्यः | इति (ना. शा. ४-१२५) विद्युद्भ्रान्तं पृष्ठतो वलितं पादम् | इति (ना. शा. ४-१२६) गजक्रीडितं कर्णेऽञ्चितः करो वामः इति (ना. शा. ४-१२९) नितम्बं भुजावूर्ध्वं विनिष्क्रान्ताविति (ना. शा. ४-१४६) विष्णुक्रान्तम् ऊर्ध्वं प्रसारितः पादः इति (ना. शा. ४-१६१) | प्. १५८) वामसूचीसहकृतं विक्षिपेद्वामकं करम् | वक्षःस्थाने भवेत्सव्यो वलितं त्रिकमेव च || २४१ || नूपुराक्षिप्तके चैव ह्यर्धस्वस्तिकमेव च | नितम्बं करिहस्तं च ह्युरोमण्डलकं तथा || २४२ || कटिच्छिन्नं च कर्तव्यं सम्भ्रान्ते नृत्तयोक्तृभिः | अपक्रान्तक्रमं कृत्वा व्यंसितं हस्तमेव च || २४३ || तत उद्वृत्तमित्यूरूद्वृत्तम् | (ना. शा. ४-१५९) अत्र समाक्षिप्तकरणमध्ये तस्य दृष्टत्वात् करणमावृत्य तत्करणमिति | आक्षिप्तं हस्तपादं च इत्याक्षिप्तम् (ना. शा. ४-११६) | स्वस्तिकापसृतौ पादौ इत्युरोमण्डलम् (ना. शा. ४-११५) साहचकाराच्च (साहचर्याच्चकाराच्च) कटिच्छिन्नमप्यन्ते केचिदिच्छन्ति || (२०) सम्भ्रान्तः | विक्षिप्तमित्यादि | विक्षिप्तहस्तपादं च इति (ना. शा. ४-११९) विक्षिप्तम् | हस्तपादं मुखानुगम् इत्यञ्चितं गण्डसूची गङ्गावतरं चेति दर्शयति | व्यावृत्तपरिवृत्तस्तु स एव तु करो यदा | अञ्चतो नासिकाग्रे | इति (ना. शा. ४-८३) सूचीपादोन्नतं पार्श्वम् इति (ना. शा. ४-१३२) गण्डसूची | ऊर्ध्वाङ्गुलितलः पादस्त्रिपताकावधोमुखौ | हस्तौ च सन्नतौ (ना. शा. ४-१६९) इति गङ्गावतरणम् | वामसूचीसहकृतमित्यनेनार्धसूचीं दण्डपादं च दर्शयति | अलपद्मः शिरोदेशे (ना. शा. ४-१३८) इत्यर्धसूची | नूपुरं चरणं कृत्वा दण्डपादं प्रसारयेत् | क्षिप्राविद्धकरम् (ना. शा. ४-१४३) इति दण्डपादम् | प्. १५९) कुर्यादुद्वेष्टितं चैव ह्यर्धसूचीं तथैव च | विक्षिप्त सकटिच्छिन्नमुद्वृत्ताक्षिप्तके तथा || २४४ || करिहस्तं कटिच्छिन्नं कर्तव्यमपसर्पिते | कृत्वा नूपुरपादं च द्रुगमाक्षिप्य च क्रमम् || २४५ || एतच्च वामेनाङ्गेन | सव्य इति दक्षिणे वक्षसि | वामस्योपयोगित्वात् | अनेन चतुरं करणं सूचयति - अञ्चितः स्यात्करो वामः सव्यश्चतुर एव च | दक्षिणः कुट्टितः पादश्चतुरं तत्प्रकीर्तितम् || इति (ना. शा. ४-१००) | वलितं त्रिकमिति भ्रमरकम् - आक्षिप्तः स्वस्तिक इति (ना. शा. ४-९९) त्रिकं सुवलितं कृत्वा इति (ना. शा. ४-९७) नूपुरम् | आक्षिप्तं हस्तपादं च | इत्याक्षिप्तम् | (ना. शा. ४-११६) | स्वस्तिकं चरणं कृत्वा कटिहस्तं च दक्षिणम् | वक्षःस्थाने तथा वाममर्धस्वस्तिकम् || (ना. शा. ४-८२) इत्यर्धस्वस्तिकम् | नितम्बादिचतुष्कं पूर्ववत् | (२४२) (२१) अपसर्पितः | अपक्रान्तमित्यादि | अपक्रान्तं - कृत्वोरुवलितं पादमपक्रान्तक्रमं न्यसेत् | प्रयोगवशगौ हस्तावपक्रान्तम् || (ना. शा. ४-१४०) इति | व्यंसितमिति आलीढं स्थानकं यत्र करौ वक्षसि इति (ना. शा. ४-१०९) | अतो व्यंसितात्करणात्करक्रियामेव गृह्णीयादित्येवकारेणाह | एकवचनं जातौ | उद्वेष्टितमिति करिहस्तकरणं निर्दिशति - वामो वक्षःस्थितो हस्तः प्रोद्वेष्टिततलोऽपरः | इति (ना. शा. ४-१४८) | अलपद्मः शिरोदेशे सूचीपादः (ना. शाः ४-१३८) इत्यर्धसूची | विक्षिप्तं हस्तपादं च इति (ना. शा. ४-११९) विक्षिप्तम् | पर्यायशः कटीच्छिन्ना इति (ना. शा. ४-७१) कटिच्छिन्नम् | उरूद्वृत्तमिहोद्वृत्तशब्देनोक्तम् | (ना. शा. ४-१५९) | प्राग्वदन्ते (त्रीणि) करणानि | (२४४) अथार्धसूची - प्. १६०) पादस्य चानुगौ हस्तौ त्रिकं च परिवर्तयेत् | निकुट्य करपादं चाप्युरोमण्डलकं पुनः || २४६ || करिहस्तं कटिच्छिन्नं कार्यमर्धनिकुट्टके | द्वात्रिंशदेते सम्प्रोक्ता ह्यङ्गहारा द्विजोत्तमाः || २४७ || (२२) अर्धनिकुट्टकः | कृत्वा नूपुरपादमित्यादि | त्रिकं सुवलितं कृत्वा - इति (ना. शा. ४-९७) नूपुरपादम् | द्रुतमाक्षिप्येत्यादिना विवृत्तं करणमाह - आक्षिप्तं हस्तपादं च त्रिकं चैव विवर्तितम् | रेचितौ च तथा हस्तौ विवृत्ते करणे द्विजाः || इति (ना. शा. ४-१२२) निकुट्येत्यनेन करपादनिकुट्टितं यत्र तानि करणान्याह निकुट्टितार्धनिकुट्टकादीनि | उरोमण्डलकादित्रयं पूर्वाङ्गहारवत् | ये यऽङ्गहारास्तेषां प्रतिकरणं गुरुपरिमाणं कलानिवर्तनकालस्तावता सम्यक्करणं वर्तनाक्रमेण शक्यम् | तत्र ये षड्द्वादशचतुर्विंश(ति)रित्यादिकरणात्मका एकेन द्वाभ्यां वाऽभ्यसितेन युक्तास्ते त्र्यश्रमानेन बोद्धव्याः | एकस्य द्वयोर्वा मध्ये तु प्रवेशयितुं तालकलाद्यभिसन्धानेन शक्यत्वात् | ते च षोडशात्र सन्ति | पूर्ववदेवाष्टषोडशादिकरणात्मका एकेन द्वाभ्यां वाऽभ्यसितेन किंचिदधिका वा ते चतुरश्रतालविषया द्रष्टव्याः | तेऽपि षोडशैव एकस्य क्वचिदूनत्वेऽपि कस्यचित्पुनः क्रियया तालहरण शक्यमिति मन्तव्यम् | तत्रापविद्ध उद्घट्टितो विष्कम्भस्तदपसृतः स्वस्तिकरेचितो वृश्चिकापसृतो मत्तस्खलितो गतिमण्डलः परिवृत्तकरेचितः परावृत्तकोऽलातक उद्वृत्तको रेचित आक्षिप्तरेचितः सम्भ्रान्तोऽर्धनिकुट्टकश्चेति त्र्यश्रतालकाः षोडश | एषां चतुरश्राश्रयास्तावन्तः | तत्र द्विभेदभिन्नेष्ववान्तरभेदेन षोडशसु पूर्वरङ्गाङ्गेषूत्थापनादिप्ररोचनान्तेषु बहिर्यवनिकागतेषु प्रयोगात् द्वात्रिंशद्रूपतेत्येवं केचित् | एके त्वाहुः - चतसृणां नर्तकीनां प्रतिप्रयोगं चत्वार इति पुनः पिण्डीरेचकन्यासापन्यासश्चतुर्धेति द्वात्रिंशत् | एतच्च पूर्वेरङ्ग(ना. शा. ५) व्याख्याने स्पष्टयिष्याम इत्यलम् | प्. १६१) चतुरो रेचकांश्चापि गदतो मे निबोधत | पादरेचक एकः स्यात् द्वितीयः कटिरेचकः || २४८ || कररेचकस्तृतीयस्तु चतुर्थः कण्ठरेचकः | (रेचिताख्यः पृथग्भावे वलने चाभिधीयते || उद्वाहनात्पृथग्भावाच्चलनाच्चापि रेचकः | पार्श्वात्पार्श्वे तु गमनं स्खलितैश्चलितैः पदैः || अन्ये तु गीतकानामङ्गनिबन्धानां वस्तुनिबन्धानां च वस्तु त्रिविधम् | बद्ध(वर्ध)मानकारणानि(नव) | चत्वारि आसारितानि | पाणिकैकप्रकारा | इत्येवंभूतं च यतो ब्रह्मगीतिवैचित्र्यं द्वात्रिंशद्भासितं तस्मात्तत्प्रयोगानात्मनोऽङ्गहारेऽपि तावदेवेत्याहुः | अन्ये तु परमेश्वरभाषितत्वादि यथा (दियता?) सफलसम्पत्तिहेतुत्वमित्याहुः | एतन्मनसि कृत्वोपसंहरति पुनः - द्वात्रिंशदेत इति | (२४७) अथ रेचकानाह - पादरेचक इति | पादयोरेव चलनं न च पार्ष्णुभूतयोरन्तर्बहिश्च सन्नतं नमनोन्नमनह(व्यं)सितं गमनमङ्गुष्ठाग्रस्य च | हस्तयोरेव चलनं हंसपक्षयोः पर्यायेण द्रुतभ्रमणम् | ग्रीवायास्तु रेचितत्वं विधुतभ्रान्तता | सर्वतो भ्रमणाच्चापि विज्ञेयं तु रेचिताङ्गक इत्यादिसङ्ख्योपादानात्पृथगेते वैशाखमण्डलादिस्थानकस्थेन प्रयोज्या इति दर्शयन् वैशाखरेचितेन करणेन सङ्गृहीतत्वमेषां दर्शयति | पृथगदृष्टार्थताख्यापनार्थं चैषां करणाङ्गहारान्तर्भूतानामप्युपादानम् | सुकुमारगीतवाद्यप्रधाने च प्रयोग एषां प्रयोगः | तुम्बुरुणेदमुक्तम् - अङ्गहारादिमध्यान्तकरणै रेचकान्विदुः (इति) | इहाष्येतन्मुनेर्मतमिति लक्ष्यते | यत्सहशब्देन तत्र तत्र निर्दिशति व्याख्यास्यामि सरेचकान् (ना. शा. ४-१९) इति | नन्वेवं करणाङ्गहाररेचकाः किं पूर्वरङ्गानेव(ङ्ग एव)वैचित्र्यकारित्वमात्रे (णै) वोपयुज्यन्ते | नेह प्रस्तुमः (नेति ब्रूमः) | प्. १६२) विविधैश्चैव पादस्य पादरेचक उच्यते | त्रिकस्योद्वर्तनं चैव कटीवलनमेव च || तथाऽपसर्पणं चैव कटिरेचक उच्यते | उद्वर्तनं परिक्षेपो विक्षेपः परिवर्तनम् || विसर्पणं च हस्तस्य हस्तरेचक उच्यते | उद्वाहनं सन्नमनं तथा पार्श्वस्य सन्नतिः || भ्रमणं चापि विज्ञेयो ग्रीवाया रेचको बुधैः |) रेचकैरङ्गहारैश्च नृत्यन्तं वीक्ष्य शङ्करम् || २४९ || सुकुमारप्रयोगेण नृत्यन्तीं चैव पार्वतीम् | मृदङ्गभेरीपटहैर्भाण्डडिण्डिमगोमुखैः || २५० || कथं तर्हि | देवतापरितोषकत्वेनापि | तदपि च वैचित्र्यमात्रात् | यावत्तत्तद्देवताध्वजप्रतिकृतिभूतपिण्डीबन्धनिष्पत्तिद्वारेणेत्यभिप्रायेण पिण्डीबन्धावतारणाय भरतमुनिः पुराकल्पमाह श्लोकचतुष्टयेन- रेचकैरङ्गहारैश्चेत्यादिना | इह चत्वारश्चकाराः | तत्रैको हेतावन्ये समुच्चये | तत्रैवमभिसम्बन्धः | यस्मात्प्रहर्षपरवशप्रमथाभिहतैर्मृदङ्गादिभिरुपलक्षिते दक्षयज्ञे निहते प्रहर्षवशान्नर्तिनि | नृत्यं नृत्यन्तीमिति धातुसम्बन्धे प्रत्यया इत्यनेन प्रयोगः | अन्यथा नृत्तवन्तमित्यादि स्यात् | सन्ध्याकाले दिनात्यय इति प्रमोदविकासमये | तत एव पुण्यात्मके | सततमतिशयेन भृशं च नृत्यति तद्धेतोः | रेचकैरङ्गहारैश्चैव न तु सुकुमारं प्रणृत्यन्तं शङ्करं वीक्ष्य सुकुमारप्रयोगमेव कृत्वा तु अर्थतत्त्वेन नृत्यन्तीं भगवतीं च वीक्ष्य | तत एवेति तावतामेव | अङ्गहारा रेचकाश्चेति | तद्धेतुकान्पिण्डीबन्धान्दृष्ट्वा नन्दी तथा भद्रमुखवीरभद्रप्रभृतयो नन्दिभद्रदेवतागणास्तत्प्रमुखाः पिण्डीबन्धनाम चक्रुः | आकारसादृश्येऽयं (नः) च पिण्डीबन्धं प्रयोगं चक्रुः | सलक्षणं लक्षणपर्यन्तम् | अन्तवचनेऽव्ययीभावः | अङ्गहारप्रयोगनान्तरीयकतया आकारविशेषसम्पत्तिं दृष्ट्वा सम्यक्प्रयुज्य लक्षणं विदधिर इति यावत् | द्वयोः प्रयोक्तृतया सुकुमारावृत्त - प्. १६३) पणवैर्दर्दुरैश्चैव सर्वातोद्यैः प्रवादितैः | दक्षयज्ञे विनिहते सन्ध्याकाले महेश्वरः || २५१ || नानाङ्गहारैः प्रानृत्यल्लयतालवशानुगैः | पिण्डीबन्धांस्ततो दृष्ट्वा नन्दिभद्रमुखा गणाः || २५२ || चक्रुस्ते नाम पिण्डीनां बन्धमासां सलक्षणम् | ईश्वरस्येश्वरी पिण्डी नन्दिनश्चापि पट्टसी || २५३ || नृत्तयोः समकालप्रयोगेण पिण्डीबन्धनिष्पत्तिं सूचयति - नन्दिभद्रमुखा गणा इति | अनेन चतुष्प्रभृतिप्रयोजतामप्याह - नन्दिभद्रनामैव गण इति | नन्दिकेश्वरनियतस्थानं मृदङ्गः | मुरजः भेरी कांस्यशकलान्तःपूर्णा महर्षकाभङ्गमर्दलः | ड्ण्डिमः करटिका | गोमुखा धङ्गी(ण्डी) | अन्तरीयुक्तस्ततन्त्रीयुक्तः पटहः पणवो दर्दुरो महाघटिकाधार इति सर्व एते चर्मावनद्धभेदाः | लयो दुतमध्यविलम्बितात्मा | तस्य यस्तालः प्रतिष्ठा | अपि च तत्त्वं विशिष्टवर्धमानगीतकादिनियतवैणवस्वरविशेषात्मकधातुवाद्यशेष- भूतशुष्कप्रयोगप्रकृतिकावनद्धवाद्यगीतिनियतप्रतिष्ठितलयात्मकत्वम् | नाट्ये च प्रयोज्यचित्तवृत्तिपरिवृत्तानुसारेणान्यथाभावेन | तस्य यो वशः सामर्थ्य तस्यानुषङ्गं कृत्वा तदनुसारित्वेनानुगम्यमानः अनुसृतं कृत्वेत्युभयथा तन्त्रेण द्रष्टव्यम् | लयतालवशस्यास्य लयतालवशत्वानुगो यत्रेति | ननु च नाट्य एवाङ्गानुसारित्वेन लयादि | न तु नृत्त एव | आङ्गिके नाट्यस्य भेदः | उच्यते - इहादृष्टविशेषसम्पत्तिहेतुत्वं वर्धमानादिप्रयोगस्य सोपकरणनृत्तप्रयोगस्य च | तत्र गुणप्रधानभावं प्रति कामचारः | यदा गीतकादेः प्राधान्यं तदा तदनुसार्यङ्गं भवति | तदभिप्रायेणैव यद्वक्ष्यति - गत्या वाद्यानुसारिण्या तस्याश्चारीं प्रयोजयेत् | इति (ना. शा. ४-२८१) | प्. १६४) यदा तु नृत्तस्यादृष्टसम्पादकत्वे प्राधान्यं क्रियते तदा तदनुसारेण गीतकादेराश्रयणम् | यदाश्रयेण वक्ष्यति - गीतानां मद्रकादीनां योज्यमेकं तु गीतकम् | वर्धमानमथापीह ताण्डवं यत्र युज्यते || (ना. शा. ५-१३) इति | अनेन हि चतुर्थेन पादेन ताण्डवस्य प्राधान्यं तदुपयोगित्वं च गीतकादेरुक्तम् | न च नाट्यात्तु भेदः | नाट्ये ह्यङ्गं गीतकं चेत्युभयमप्यप्रतिष्ठितम् | तथा च करचरणचारीमण्डलादि यत्तत्राङ्गोपयोगि तत्स्वरूपेण लयादिव्यवस्थया वा नियतमेव यथारसं प्रयुज्यमानत्वेन विपर्ययात् | एवं ध्रुवागानादावपि द्रष्टव्यम् | सैव हि ध्रुवा कदाचित् द्रुता प्रयुज्यते कदाचिद्विलम्बितेति द्वयमपि (कुत्रचित्) | तत्रापि गीतं च प्रयोज्यचित्तवृत्ति (परिवर्तत्वं तन्त्रम्) (?) | इह तु गीतमङ्गं च द्वयमपि स्वप्रतिष्ठितम् | तथा हि यस्य यादृशं लययतिस्वरूपादिकं निरूपितं तन्न विपर्येति मन्त्रादिवत् | वेदवत् न वा (इह तु) योज्यतयाऽङ्गाङ्गिभावः | तथा हि - अपविद्धं द्रुतं चैव (ना. शा. ४-२०७) इत्यङ्गहारे गीतकादावपि मध्ये स्त्रोतोगतलयादिरित्यादिकं नान्यथा क्रियते | तेन प्रधानमनुभिद्य(बध्य)न्ते गुणाः इत्येतदिह सङ्कोचयति | किन्तु स्वप्रतिष्ठितेऽपि द्वये येन यत्संमेलनयोग्यं तत्तत्र प्रयुज्यत इत्येतावानङ्गाङ्गिभावः | एवं शत्रुज्वलनप्रवृत्तामर्षा(त्तसा)भिमाननरपतिद्वितयवत् | अत एव प्रयुज्यत इत्युक्तम् | तेनैव तथाकरणं सूच्यते | तत्र दक्षयज्ञे निहते मृदङ्गादिवाद्यं प्रमथैः प्रवर्तितमिति तदनुगं नृत्तम् | सन्ध्याकालेषु हृदयभूतानन्दोल्लासात्मकेषु भगवन्नृत्तप्राधान्ये स्थिते वाद्यादिप्रवृत्तिः | एतदर्थमेवेत्थंभूतलक्षणतृतीयया साधारण्येनार्थोऽभिहितः | अवसरद्वयाभिधानं चैतदर्थमेव लक्षणमर्थत्वे तथैव दृश्यते ? तथा हि - गीतमेव तदाऽन्यार्थं तदन्यगत्वेन नृत्तादि यथा डोम्बिकादौ | तत्र हि परिष्कर(क्रम)णाद्यपि सुकुमारेणैवाङ्गेन | तत्रापि वर्णाङ्गप्राधान्यं क्वचित् | यथा प्रस्थानादौ | क्वचिद्गीयमानरूपकाभिधेय - प्राधान्यं यथा त्रिपुरदाहडिमादौ (शिल्पकादौ) क्वचिद्वाद्यप्राधान्यं भाणकादिषु भग्न(ण्ड)तालपरिक्रमणादौ | क्वचिन्नृत्तप्राधान्यं यथा डोम्बिकादिप्रयोगानन्तरं हुडुक्कावाद्यावसरे | प्. १६५) चण्डिकाया भवेत्पिण्डी तथा वै सिंहवाहिनी | तार्क्ष्यपिण्डी भवेद्विष्णोः पद्मपिण्डी स्वयम्भुवः || २५४ || शक्रस्यैरावती पिण्डी झषपिण्डी तु मान्मथी | शिखिपिण्डी कुमारस्य रूपपिण्डी भवेच्छ्रियः || २५५ || धारापिण्डी च जाह्नव्याः पाशपिण्डी यमस्य च | वारुणी च नदीपिण्डी याक्षी स्याद्घनदस्य तु || २५६ || अत एव तत्र लोकभाषया चिल्लिमार्ग इति प्रसिद्धिः | चारीमार्गो ह्यसावङ्गप्राधान्यात् | तत्रापि वैचित्र्येण मध्ये मध्ये गीतवाद्यादेरपि प्राधान्यम् | वाद्यस्यापि कूप (क्वचित्) सुषिरावनद्धभेदेन प्राधान्यं यथायोगं विवेचनीयमित्यलं बहुना | तत्रैते पिण्डीबन्धा आधाराङ्गप्रयोगसाधकतमभेदाद्बहुप्रकारं भिद्यन्ते | तत्र भूमिर्देश आकाशद्वयभेदात्सप्तसप्तभेद एकैक इत्याधारभेदाः सप्त(?)| हस्तौ पादौ (अक्षिणी) शिर इत्यङ्गभेदा अपि सप्तेत्येकान्नपञ्चाशत् | एकोऽनेको वा प्रयोक्ता | सोऽपि समप्रयोगो विषमप्रयोगो वेति चतुर्धाकरणेन सम्पाद्यते अङ्गहारेण वेत्यष्टाभिरेकान्नपञ्चाशतो गुणनात् द्विनवत्यधिकं त्रिशतं पारमेश्वराः (पिण्डीबन्धाः) | कल्पापायनिशान्तसान्ध्यसमये सद्व्योमरङ्गं गणः (ङ्गाङ्गणं) सम्प्राप्य प्रतताङ्गहारवलनावैचित्र्यचित्रस्थितिः | आकाशे स्ववपुष्यके(?)च विविधां सृष्टिं समासूत्रयन् त्रैलोक्यस्थपतिस्त्वमेव भगवन्विश्वाकृतिर्जृम्भसि || इति | अनया च (दिशा) पिण्डीबन्धानां तत्तद्देवताप्रकृतिमद्भागादिसूचनद्वारेण केवलमपि करणं प्रयुज्यमानमेव हर्षदायि भवति | एवं तत्र प्रधानदेवतोद्देशेन तावत्पिण्डीबन्धान्दर्शयति श्लोकपञ्चकेनेश्वरस्येत्यादिना | भगवत एव र्पाधान्यात् परितोषणीयतेति तस्याव्यक्तं यदीश्वरशब्दवाच्यं निर्विशेषं रूपं तस्य तादृश एव शिवलिङ्गाकृतिः पिण्डीबन्धः | प्. १६६) हलपिण्डी बलस्यापि सर्पपिण्डी तु भोगिनाम् | गाणेश्वरी महापिण्डी दक्षयज्ञविमर्दिनी || २५७ || त्रिशूलाकृतिसंस्थाना रौद्री स्यादन्धकद्विषः | एवमन्यास्वपि तथा देवतासु यथाक्रमम् || २५८ || पिण्डी आधाराङ्गादिसङ्घातः | तथा बध्यते बुद्धौ प्रवेश्यते तनुभावेन वा व्योमादाविति पिण्डीबन्ध आकृतिविशेषः | तस्यैकदेशाभिधानं पिण्डीति | यदि वा पिण्डीविशिष्टान्येव तान्याहेति | आबाध्यते पुनरनेनेति पिण्डीबन्धः करणाङ्गहारादिः | अन्ते च भगवत एव व्यक्तरूपस्य पिण्डीबन्धो भविष्यति | परमेश्वरानन्तरं च प्रधानभूतस्य पिण्डीबन्धलक्षणविधायिनो नन्दिनः | पट्टसः उभयत्र त्रिशूलाकृतिरायुधविशेषः | तदनन्तरं भगवत्याः | सिंहश्चासौ वाहनञ्च तस्यैवमिति | आक्रान्ततया | भूमिर्वा लिङ्गस्य सिंहः | तदाकृतिकत्वं दर्शयति | तदनन्तरं विष्णोर्रह्मणश्च | ऐरावतीति गजाकारा | रूपपिण्डी स्वा(पद्मा)कारा | धारापिण्डी पुनः पुनः प्रयुज्यमाना नदीपिण्डी भवति | याक्षी वैश्रवणायुधः मुद्गराकारा | एवं प्रतिपाद्यानभिधायान्यत्रापि दर्शयत्येवमित्यादिना | अन्यास्विति | तृतीयाध्याये पूज्यत्वेन निरूपितासु | तदभिप्रायेणैव यथाक्रममित्युक्तम् | ध्वजपूजाहुत्यायुधवाहनविशेषरूपाः | सचिह्नका इत्यनेनापि केनचित्कर्मादि(क्रमादि)सूचकेन रूपेणोपलक्षिताः | एतदुक्तं भवति - या काचिद्देवतेत्युच्यते तस्याः पश्चान्नृत्तेन परितोषणं कार्यम् | तन्मध्ये च तदीयायुधवाहनकर्मभावाभ्य(द्य)नुकारी अङ्गप्रयोगो विधेयः | अत एव पादाग्रस्थितया (रत्ना १-१) इत्यत्र तलपुष्पपुटकरणेन कर्मणा विशेषसूचकेन भगवत्याः परितोषणं सम्पाद्यते | तिलके च करः स्थाप्य (६४ करणम्) इत्यभिनयेन भगवतः परितोषः | निकुट्टितौ यदा हस्तौ (९ करणम्) इत्यनेन त्रिशूलाकृतिर्या कायसम्पत्तिः | गरुडप्लुतकेन तार्क्ष्याकारगतिसूचनम् | गङ्गावतरणेन धारापिण्डी | नागापसर्पितेन प्. १६७) ध्वजभूताः प्रयोक्तव्याः पिण्डीबन्धाः सुचिह्निताः | रेचका अङ्गहाराश्च पिण्डीबन्धास्तथैव च || २५१ || भोगिपिण्डी | प्रसार्योत्क्षिप्य च करौ इत्यङ्गहारेण (ना. शा. ४-१७४) आका(धा)रीयभौमत्रिशूलशिवलिङ्गादिपिण्डीनिष्पत्तिः | रेचितेनाक्षिप्तरेचितेन च समस्तानामुक्तानां चारा(चाधारा)द्यनन्तभेदानां निष्पत्तिः | तथा च नन्दिमत उक्तम् - रेचिताख्योऽङ्गहारो यो द्विधा तेन ह्यशेषतः | तुष्यन्ति देवतास्तेन ताण्डवे तं नियोजयेत् || इति || एवमन्यदप्यूह्यमित्यनुपयोगात्समस्तं न लिखितम् | आगमभ्रंशरक्षणाय तु दिङ्निरूपिता | एतदुपसंहरति - रेचका इति | पिण्डीबन्धग्रहणेन शिखिपिण्डिप्रभृत्युपायमयूरललितादिकरणसङ्ग्रहः | अत एवानया केवलस्यापि करणस्य देवता परितोषणेनादृष्टार्थं प्रयोगः | यथा विष्णुक्रान्तस्य चक्रमण्डलस्य च वैष्णवक्रीडासूचकस्य सः | एवकारेणाङ्गहारप्रयोगनान्तरीयकपिण्डीबन्धसम्बन्धः | अङ्गहारा एव पिण्डीबन्धाः तथान्येऽपि पिण्डीबन्धा इति केवलकरणसंग्रहः | चकारात्पिण्डीबन्धनिष्पत्त्युपायत्वं करणद्वयस्यापि यदा विद्यते अन्यस्य करणसमूहात्मनः कल्पितस्याङ्गहारस्य वा | तस्यापि प्रयोगे प्रत्यनुज्ञानमाह | एतदर्थमेव नृत्तमातृकाया लक्षणमङ्गहाराणां च सामान्यलक्षणं प्रणीतम् | (२४८-२५९) सृष्ट्वेति | ननु स्मृतं नृत्तं सन्ध्याकालेष्वित्यनेनैतद्विरुद्ध्यते | न | स्थानकचारीनृत्तहस्तभ्रूताराकर्मादीनां वर्णानामिव प्रवाहानादित्वेऽपि विशिष्टपरमात्मना (नः) शोभाविशेषेण भगवता पुनः निर्माणं वेदानामिवेत्यविरोधः | वेदरचनापि हि वर्णानादि - नित्यत्वेऽपि प्रतिप्राणिस्थानकरणाभिघातसम्पत्त्यभिव्यक्तपौर्वापर्यनिबन्धना कृतका | सा परं पूर्वपूर्वरचनासजातीयत्वप्रवाहेण नित्या | तथा नृत्तमपीति न कश्चिद्विरोधः | दत्ता इति | या तन्द्र्या(स्वातन्त्र्य)मनुजानानो निजबुद्धिकृतं यत्तेन तत्र वैचित्र्यमनुप्रवेशितं न तद्दृष्टप्रतिघातीति दर्शयति | तेन शोभाप्राधान्यमेवात्र ज्याय इत्यनद्यतन इति यावल्लक्ष्यं न विरूपमिति मन्तव्यम् | मुनये इत्यूहापोहादिकुशलाय | प्. १६८) सृष्ट्वा भगवता दत्तास्तण्डवे मुनये तदा | तेनापि हि ततः सम्यग्गानभाण्डसमन्वितः || २६० || हि यस्मात् अर्था यतो दत्ताः अतो नृत्तात्मकः प्रयोगः सम्यग्वैचित्र्येण | स्प(सृ)ष्टः | सम्यगिति समञ्चिततालसाम्यातिका(त्मिका)सङ्गेति (अञ्चन्ति) गच्छन्तीति सम्यग्भूतं यद्गानं गीतम् | भाण्डं भणति शब्दं करोतीति भडितव्याण्ण(?) इत्यनया वा पुष्कराध्यायोदितया व्युत्पत्त्या(तदादि)तदिति | इह तद्गीतं वाद्यं च सम्यगञ्चितं तदनुसारि | तत्प्रधानतया नृत्तप्रधानत्वेन गीतेन वाद्येन च समन्वितः | अत एव तण्डोरयं ताण्डव इति वैयाकरणैः स्मृतम् | (२६०) अत्र भरतमुनिरेव परकीयामाशङ्कामुपनिबध्नाति | अनभिज्ञानाच्च मुनीनामभिनयादीनामप्यविदुषां कथम् | अभिनयः कृत इति गीतकार्थेऽभिहितेष्वासारितेष्विति च न वचनोपपत्तिस्स्यात् | तस्मान्मुनिरेवेदं स्वयमाशङ्कते | पूर्वपक्षत्वेन वा शङ्केयमिति प्रकटयितुं सुकुमारमिति(रमतिभिः)मध्ये ऋषय ऊचुः इति प्रक्षिप्तम् | तत्रेत्थमाशङ्का | नृत्तं नाट्याद्भिन्नमभिन्नं वा | भिन्नत्वेऽपि सप्रयोजनमप्रयोजनं वा | न तावद्भिन्नम् | अङ्गविक्षेपनृत्तगीतवत्त्वेनावैलक्षण्यात् | अभिनयप्रयोगस्य नीयमानपदार्थवाक्यार्थगतनाट्यार्थगतविषयत्वे भाव्यविकलस्य दर्शनमस्ति तावत् | अवान्तरवैलक्षण्यं च दशरूपके न विद्यते | एकपात्रहार्ये त्वसन्निहितेऽपि च प्रियतमसखीप्रभृतौ तद्विषयोक्तिप्रत्युक्त्यादिप्रयोगो नाट्येऽपि | आकाशभाषितादौ भाणरूपके च विद्यते | यथाह राहुलः - परोक्षोऽपि हि वक्तव्यो नार्या प्रत्यक्षवत्प्रियः | सखी च नाट्यधर्मोऽयं भरतेनोदितं द्वयम् || इति | तथा भाणे चैकाकी वा यो योज्योऽनेकाङ्गहारिणि | मुनिना हि वक्ष्यते भाणकवच्चैकहार्यं स्यात् इति | वार्तिककृताऽप्युक्तम् - प्. १६९) वाच्यानुगतेऽभिनये प्रतिपाद्येऽर्थे च गात्रविक्षेपैः | उभयोपरि हि समाने को भेदो नृत्तनाट्यगतः(योः) || अत्रोच्यते | (यदि) साक्षाद्बुद्ध्यभावान्न नाट्यं तदसत् | इयं प्रियतमगुणकीर्तनपरा नृत्यति | खण्डिता नृत्यति | कलहान्तरिता नृत्यति - इति बुद्धेः सम्भवात् | यदाह - या चैवंविधगुणकीर्तनवचनेषु प्रियतमस्य संरक्ता | सख्याः समक्षमुच्चैः प्रमदा सैवानुकार्याऽत्र || एतेनोत्साहगातव्यानामर्थेऽनुकार्यत्वं दर्शितम् | अथ गीयमानरूपकाभिनयदर्शनात् नाट्यतो वैलक्षण्यं न तत्तावत् | वैलक्षण्यमात्रप्रयोजकावान्तरभेदस्य सर्वत्र सम्भवादिति ह्युक्तम् | न चेदं वैलक्षण्यम् | नाट्येऽपि तस्य भावात् | वक्ष्यते चाङ्गोपाङ्गकशारीराभिनयलक्षणविधौ स्थाने ध्रुवास्वभिनयो यत् क्रियते हर्षशोकरोषाद्यैः | भावरससंप्रयुक्तं ज्ञेयं नाट्यायितं तच्च || इति || (ना. शा. २२-४७) उपरञ्जकमपि तत्र गीतं नाट्ययितं रूपकं वाच्याभिनययोश्च व्यक्त इति | तत्प्रयोगस्य(श्च) सर्वत्र | . दोम्बिकाप्रस्थानषिद्रकभाणकभाणिकारागकाव्यादेर्दशरूपकलक्षणेन् आसङ्ग्रहान्नाट्याद्भेद इति चेत् | तदैकान्तिकम् | तोटकप्रकरणिकारासकप्रभृतेस्तदसङ्गृहीतस्यापि नाट्यरूअपत्वात् | कोहलस्तु ब्रवीति इति च परिहारस्य समानत्वात् | वाचिकोऽप्यभिनय आसीनपाठ्यादौ क्वचिदस्त्येव | अहो गाणगाणबुल्लिभाण इत्यादौ | आहार्यस्तु प्राधान्येनैकः कृतः भाणादावपि न क्षणे क्षणे परिवर्तते | सात्त्विकोऽप्यङ्गीकृत एव कोहलाद्यैः सत्त्वतिरिक्तोऽभिनयः इत्यादिवचनमालिखद्भिः | आङ्गिकस्तु शुट एव | अस्त्री(अन्यस्त्री) डोम्बिअकषिद्गकानामन्योन्यानन्वितत्वं वाक्यानामिव | समवकारेऽपि अङ्गानामस्त्रीप्रधानेऽर्थे तत्रान्वय इति चेदिहापि समानम् | देवतास्तुतेः स्त्रीपुंभावाश्रयस्य च शृङ्गारस्य सर्वत्रानुगमात्तस्यैव च प्राधान्याद्वक्ष्यति - देवस्तुत्याश्रयकृतं स्त्रीपुंभावसमाश्रयम् | इति | अत एव च चूडामणिडोम्ब्कायां प्रतिज्ञातं बिंदुगुणं वमि सहि इहोदिवचो अमिदुणधं | महसारकः गेते उं (?) | अत एव सहृदयाः स्मरन्ति वध(स) मचूडामणि-आ (इति | तस्मान्नृत्तं नाट्यादभिन्नं तल्लक्षणोपेतत्वात् | प्. १७०) नृत्तप्रयोगः सृष्टो यः स ताण्डव इति स्मृतः | ऋषय ऊचुः - यदा प्राप्त्यर्थमर्थानां तज्ज्ञैरभिनयः कृतः || २६१ || एतदाह - यदा प्राप्त्यर्थमिति | यतो हेतोरर्थानां काव्यार्थानां प्राप्त्यर्थ साक्षात्कारबुद्ध्या स्वीकारार्थं तज्ज्ञैः प्रयोक्तृभिराङ्गिकाद्यभिनयः कृतः | तत्र तस्मादेतन्नृत्तं कृतम् | नृत्तशब्देन व्यपदिष्टम् | न तु नाट्यशब्देनैवेत्यर्थः | भवतु वा भिन्नं तथापि कं स्वभावं लक्षणमपेक्षते च स्वात्मन्यङ्गीकरोति | लौकिकत्वं लोकोत्तरत्वं वा ? लौकिकत्वे घंटादिवस्तुतुल्यत्वं तदनुकारत्वं प्रतिबिम्बादिरूपता वा | तत्रापि नाट्यच्छायात्मकतैव | नाट्यस्यैव ह्यमी भागनिष्यन्दाश्चित्रपुत्रिकापुस्तप्रभृतयो ग्रन्थकारकल्पिताः साक्षात्कारकल्पप्रत्ययसम्पदा कथापर्यन्तम् | तथा लोकोत्तरत्वे तु नाट्यस्यैवावान्तरभेदमात्रं तत् | तथाविधमपि च तन्न निष्प्रयोजनम् | तद्भावाद्युपलक्षणीयं स्यात् | असिद्धमेतत् - चतुर्वर्गोपदेशस्य राघवविजयादिकरागकाव्येषु दृष्टत्वात् | डोम्बिकादु तु कामस्यैव प्रच्छन्नरागपरमरहस्योपदेशात् | यद्वामाभिनिवेशित्वम् (ना. शा. २२-१९९) इत्यनेन सामान्याभिनये प्रच्छन्नरागस्यातीव देव(मन्मथ)सारसर्वस्वत्वेनाभिधानात् | सिंहसूकरभल्लुककासरादिवर्णनेनापि भाणप्रेरणभाणिकादावप्रस्तुतप्रशंसार्थान्तरन्यासदृष्टान्तादिना पुरुषार्थस्यैवोपदेशदर्शनादिति प्रयोजनभेदादपि न भेदः | तदाह - यदा प्राप्त्यर्थमिति | यदा यतोऽर्थानां धर्मादि प्रयोजनानां प्राप्त्यर्थं तज्ज्ञैः कविभिरभिनय इत्यभिनीयमानो रागकाव्यादिः कृतः | तस्मात्कस्माद्धेतोरेतन्नृत्तं न नाट्यम् | नाट्यं च कस्मान्न नृत्तम् | गात्रविक्षेपात्मकं हि तदपि | तुल्ये च तथाऽर्थे कं भेदकं स्वभावमपेक्षते | नास्त्यसौ भिन्नस्वभाव इति यावत् | यद्वार्तिकम् - एवमवान्तरवाक्यैरुपदेशो रागदर्शनीयेषु | सिंहादिवर्णनिर्वा क्वचिदप्यर्थान्तरन्यासात् || इति || तस्मात्स्वभावस्य प्रयोजनस्य चाभेदान्नृत्तं नाट्यादभिन्नमिति | अथोच्यते (राघवविजयादि)रागकाव्यादि प्रयोगो नाट्यमेव | अभिनययोगात् | यत्त्वभिनयादिशून्यं केवलं वलनावर्तनाभ्रूक्षेपताराचलनचरणधारणकम्पस्फुरितकटिच्छे- प्. १७१) दरेचकादि तदस्माकं नृत्तं भविष्यति | यत्र नाट्यशङ्कापि नास्ति | ननु किं तेन मो(प्रे)क्षितेन प्रयोजनम् | ननूक्तं नाट्योपयोगित्वं - तस्य शाखा च नृत्तं च तथैवाङ्कुर एव च | वस्तून्यभिनयस्य इति (ना. शा. ८-१५) | एतद्दूषयति - यदा प्राप्त्यर्थमिति | इह योऽयं स्वभावो लोकस्य इति (ना. शा. १-११९) लक्षणेन नाट्यं लक्षितम् | तत्राभिनयानामुपयोग उक्तार्थाभिमुख्यप्राप्तिः | नृत्तस्य तूक्तरूपस्य न किञ्चित्प्रयोजनम् | उपरञ्जकतया गीतवाद्यादिवदुपयोग इति चेत् गीतस्य तावत् - यत्तु काव्येन नोक्तं स्यात्तद्गीतेन प्रसाधयेत् || इति यानि वाक्यैस्तु न ब्रूयात् इति न तैरेव तु वाक्यार्थैः इति न्यायेन प्रकृतिचित्तवृत्तिकथावस्थादि सूचयतोऽस्त्युपयोगः | वाद्यस्यापि गीतसाम्याक्षिप्तततालोद्दीपकत्वेन | एतन्मध्यात्तु नृत्तं कर्तृ कं स्वभावमपेक्षते | न युद्धनियुद्धगतिपरिक्रमादावस्योपयोग इत्युक्तम् | तत्रापि कं स्वभावं लौकिकमलौकिकं वाऽपेक्सते | लौकिकत्वे प्रयोज्यत्वेन लोकधर्म्या सङ्ग्रहोऽस्य | चारीमण्डलादिक्रमेण च तस्याङ्ग एव निरूपणं भविष्यति | अथाप्यलौकिकस्तथापि सिद्धम् | ऊर्ध्वेन तु कुर्यात् इत्यादि चतुरहस्ताभिनेतव्यविषयविभागन्यायेनाभ्यधिकं सुन्दरोपरञ्जकभागानुप्रवेशेन नाट्यधर्म्यनुप्रवेशे पुनरपि नाट्यादभ्यधिकता | अथोच्यते - पूर्वरङ्गप्रयोगस्य वैचित्र्यसिद्ध्यै तदेतदिति | तत्रापि पूर्वरङ्गप्रयोज्यया ब्रह्मगीत्या साकम् | अस्या(था)ङ्गाङ्गिभावेन वा | तत्राद्ये पक्षे स्यादसामञ्जस्यम् | अन्त्ये तु पक्से कथमाहित(ङ्गिक)हस्तचार्याद्यभावः | तदुक्तम् - महागीतेषु चैवार्थान् सम्यगेवाभिनेष्यसि | इति (ना. शा. ४-१५) | अत्राह - यदा प्राप्त्यर्थमिति | अर्थानां गीतकपदाभिधेयानां प्राप्त्यर्थमभिमुखं नयनार्थम् | यद्ययं नृत्ताभिमतोऽभिनयो विहितस्तत्कस्मादभिनयत्वे तुल्ये नृत्तमेतन्न नाट्यम् | तथाहि - गीतकार्थाभिनये कर्तव्ये कमन्यमाङ्गिकहस्तका(चा)र्याद्यभिनयव्यतिरिक्तं स्वभावमपेक्षते | न कञ्चिदन्यमित्यर्थः | प्. १७२) कस्मान्नृत्तं कृतं ह्येतत्कं स्वभावमपेक्षते | न गीतकार्थसम्बद्धं न चाप्यर्थस्य भावकम् || २६२ || कस्मान्नृत्तं कृतं ह्येतद्गीतेष्वासारितेषु च | (भरतः) - अत्रोच्यते न खल्वर्थं कंचिन्नृत्तमपेक्षते || २६३ || अथोच्यते - न गीतकादिपदार्थाभिनयतयाऽस्योपयोग इति | किन्तर्ह्यन्यथा गीतकादावस्योपयोग इति | तत्राह - न गीतकार्थसम्बद्धं न चाप्यर्थस्य भावकमिति | इह गीतकार्थास्तदारम्भकाः वस्त्वङ्गप्रभृतयः | तेषु न संबद्धं तन्मध्ये न परिगणितमित्यर्थः | यदि ह्यङ्गवस्त्वादित(अ)न्मध्यपरिगणनमस्य भवेन्न तद्भवेदप्यन्यतदुपयोगस्तदारम्भकत्वात् | नचैतदुपगतम् | न च युक्तम् | नृत्तस्य गीतद्वितीयजातीयत्वात् | ननु यथा तत्सुषिरादिवाद्यं तदङ्गसम्बद्धमपि तत्रोपयोगि तथेदं भविष्यतीत्याशङ्क्याह - न चाप्यर्थस्येति | अर्थ्यते प्रधानतया गीतकादौ निरूप्यत इत्यर्थः स्वरूपपदतालादिः | तस्याप्येतद्भावकं प्रापकं न भवति | एतदुक्तं भवति - स्वरात्मके भागे प्रतिबिम्बरूपतया लग्नस्वरत्वेन स्थानप्रदायितया स्वरपरमार्थप्रापकतया स्वरात्मगीतिभागे स्तुतः सुषिरोपयोगः | अवनद्धस्यापि तत्साम्योपायतालांशप्रापकत्वेन पदपातादभिधेयोपयोगित्वेऽप्यभिनयरूपया(पतया) नाट्यादभेद एव स्यादित्युक्तम् | अथोच्यते रेचकाङ्गहारनिबन्धात्मकं यन्नृत्तं न तेन कश्चिदर्थोऽभिनीयते | अपि तु यथा विशिष्टैर्मन्त्रैः भावनाविशेषैश्चाभ्युदयसिद्धिः तथा | विशिष्टदेवतासूचकैर्मन्त्रैस्तथा तद्गीते चाभ्यधायि | गीतेष्वासारितेषु चेति | भावारम्भगीताङ्गवस्तुषु सप्तविंशतिसङ्ख्येष्वासारितेषु वर्धमानारम्भकेषु चतुर्षु चकारात्पानिकायमित्येतेषु(न?) सम्बद्धमेतदङ्गहारात्मकं द्वात्रिंशत्प्रकारं नृत्तमिति तत्संबन्धश्चेदानीं न किञ्चित् | एवं पृथङ्निवृत्त(नृत्त)काव्यादौ नाट्यरूपतैव | नाट्योपयोगित्वेनापि नृत्ततालगीतकाद्युपयोगोऽपि दुर्घट इति त्रिधा पूर्वपक्षसंक्षेपः | एतत्परिहर्तुमाह - अत्रोच्यत इत्यादिश्लोकत्रयेण | अस्मिन्पूर्वपक्षे तूच्यते प्रत्युत्तरमिति शेषः | तत्र यदुक्तमङ्गविक्षेपनृत्तगीतमयत्वान्नाट्यादेर्भेदो(दभेदो) प्. १७३) रागकाव्यादिनृत्तस्येति तदनैकान्तिक(त्व)मस्य हेतोः लौकिकनृत्तेऽपि स्फुटम् | नाट्यादिलक्षणसहगोपने तु लोकिके गात्रविक्षेपणं(णे) पठ्यमानमभिनीयमानं वा यावत्पदजातमर्थो नाभिनीयते इति कि नानुसन्धीयते | किं वा न साक्षात्क्रियायोग्यतां नीयते | प्राप्यकल्पोऽसिद्धः | लोकेऽपि सौमनस्याभावादङ्गोपाङ्गपरिक्षेपानुयातस्य वाक्यादीरितस्य दृष्टवात् | गीयता (गायतां) पदार्थसंवादकृततन्मयीभावदग्धा(बद्धा)याश्च स्फुटमेव सात्त्विकाङ्गतावलोकनात् | अथापरः पक्षस्तु नृत्तेऽपि समानम्(नः) | तथाहि - नृत्तकाव्ये डोम्बिकादौ वर्णच्युतादिव वर्णादिप्रयोगे तावदभिनयकथैव नास्तीति किं तत्र विचार्यते | केवलं नृत्तस्वभावमात्रमपि तत्केवलं भावितकाव्यार्थगतार्थतत्त्वसौकुमार्यकृतमङ्गस्य तथात्वमिति निर्णेष्यत इत्यास्तां तावदेतत् | तदनन्तरं तु धारापरिक्रमपूर्वकलयप्रयोगावसरे पा-आल- अलोससाहिणिहुजयजय लच्छिमच्चमलि-आ इत्यादि यद्गीयते तत्कस्योक्तिरूपम् | यदि तावन्नर्तितुमागताया लौकिक्या डोम्बिकाप्रवृत्तनर्तक्याः तदा सैवेदानीमेवंभूतं वस्तुरूपं लौकिकं वचनमभिधत्ते | गायनादिस्वक्रमिकस्ववाक्यत एकवाक्यतः साक्षात्कारकल्पार्थः | साक्षात्कारकल्पानुव्यवसायगोचरकार्यत्वं च नाट्यस्य लक्षणमित्यवोचाम | तेन यथा कश्चित्कंचिदन्यापदेशगानादिक्रमेण वस्तूद्बोधनकरणद्वारेण वा छन्दानुप्रवेशितया वा कस्यचिन्मनस्यावर्जनातिशय विधत्ते | नृत्यन्नपि गायन्नपि तद्वदेव डोम्बिकादौ द्रष्टव्यम् | विडम्बिडोम्बीत्यादावपि (?) वचसि सैव डोम्बिका | नरपतिपरितोषकार्थाभिधायिवचननिष्ठेन गीतेन नृत्तेन वान्येन (वाद्येन) च राजानमनुरञ्जयितुं गृहीतो मन्त्रित्वेन पूर्वं स्थित्वा मध्ये काचिदीदृशी चौर्यकामुककेलीवासमनासाद्य कापि पुनरेवंविधा कश्चिदेवम्भूतश्चौर्यकामुकैः कोऽप्येवम्भूतस्तत्र काचिदेवम्भूता प्रौढदूतीत्येवमादि राजपुत्रहृदयानुप्रवेशयोग्यं तत्प्रसादेन धनार्जनोपायमभिदधती तमेव राजपुत्रं परत्वेन तथैव वा धनमुद्दिश्यान्यदपि चेष्टितमभिधीयते | डोम्बिकाकृत्यमेवोपसंहरति गुणमालायां जामि हरार्धातुं गि-अपुण्णं चिसमि इत्यादौ | तत्र सा नृत्यती डोम्बिका च बहुतरोपरञ्जकगीतादिपटुचेटकपरिवृता त्वां प्रत्येवमहमुपश्लोकितवतीति तन्मध्यवर्तिगायनमुखसङ्क्रमितनिजवचना लौकिकेनैव रूपेण तद्गीयमानरूपकगतलयतालसाम्येन तावन्नृत्यति | तद्गीयमानपदार्थस्य च प्. १७४) सातिशयमावर्जनीये राजादौ हृदयानुप्रवेशितां दर्शयितुं लौकिकव्यवहारगतहस्तभ्रूकर्मरोमाञ्चाक्षिविकारतुल्ययोगक्षेमतयैवाऽऽ न्गविकारादिसंभवमप्याक्षिपति | एवं गीतेन रञ्जनं प्राधान्येन विधाय तदुपयोगिनं चाङ्गिनं चाङ्गव्यापारं प्रदर्श्य नृत्तेन पुनस्तच्चित्तग्रहणं कुर्वती नृत्तं प्रधानभावं गीतं च तदुपसर्जनभावं नयन्ती तत एव तदभिनयमनाद्रियमाणा तद्गीयमानांद्भावाद्विक्षिप्ततदुदितभावमेवाङ्गविक्षेपंकरोति लयपरिष्वक्तकरणादौ | तत्रेयत्यंशे लौकिकमातस्वभावरामनटादिव्यवहारवत् क्व प्रयोज्यप्रयोजकभावाशङ्का | कस्य वा सामाजिकस्य व्युत्पादनमाभिसंहितम् | तदनन्तरं च यथैव सा गीतनृत्तादि प्रायुङ्क्त तथैव सदृशं न नर्तकी प्रयुङ्क्ते | न तु डोम्बिका साक्षात्कारकल्पेन दर्शयति तदीयाहार्यादिना स्वात्मरूपप्रच्छादनाद्यभावात् | तत एव न डोम्बिकां साक्षत्कारकल्पेन सा दर्शयति | अपि तु तथैव नृत्तं साभिनयं केवलं च र्पदर्शयति तेन नाट्याङ्गतायां यत् दृष्टं पताकादि तद्दर्शनमात्रतया | अतो नाट्यं संस्कारकं नृत्तस्येत्यङ्गादिव्यपदेश इत्युपचारादुच्यते | नाट्यस्य प्रस्तावनाप्राणप्रतिबिम्बकल्पं नृत्तमित्ययमपि व्यवहारस्ततस्त्य एव | नाट्यस्यात्र नामाप्यस्ति पदमूर्ध्वादौ चातुरश्र्यभङ्गाभावे (?) तद्भावाद्ययोगात् नाट्यरूपत्वे हि साक्षात्कारकल्पानुव्यवसायसम्पत्त्युपयोगिनः पात्रं प्रति भाषानियमस्य छन्दोऽलङ्कारादिनियमोऽवश(श्य)रूपाद्योगयोगिन आहार्यविशेषस्य जात्यंशकादे(रि)ति परिक्रमादेश्च स नास्यैवोपयोगो भवेत् | न वैवमस्ति | मूलभूतस्य च पाठ्यस्य सम्भावनानुषक्तमाकाशभाषितमपि स्यात् | पादताडितकादि भाणरूपक इव | इह तु मूलत एव न केनचित्किञ्चिदुच्यते | अहो गाणेत्यादि गायनं यच्चोक्तं प्रमदा सैवानुकार्यात्र इति तदप्यनेन प्रतिसमाहितं नर्तक्याः स्वरूपानाच्छादनात् | कलहान्तरितेयं खण्डितेयं नृत्यतीति व्यवहार औपचारिकः | तदर्थगीयमानरूपकगतगीतवाद्यानुसारित्वात्तन्नृत्तस्य | न तु मुख्यः | लम्बालकत्ववेणीधारणमङ्गलवलयापरिग्रहादितदुचितवेषादिपरिग्रह- वैकल्यात् | यच्च नाट्यायितत्वमाशङ्कितं तदस्थाने भ्रान्तम् | सह्ड्रयैर्नाट्यायितमिति हि तावन्तं गीयमानमभिनीयते असाङ्गत्यापत्तेः | अपि तु यादृशा लयतालादिना यादृगर्थसूचनयोग्याभिनयः सात्त्विकादिप्रधानरसानुसारितया प्रयोगयोग्यस्तदुचितार्थपरिपूरणं ध्रुवागीतेन क्रियते | सूच्या(क्ष्मा) ह्यमी पल्लवप्रकारा अङ्कुरादयो निवृत्त्यङ्कुरान्ता ये विघायितवच्च नाट्यायैतम् | एतच्च स्वक्षेत्र एव वितनिष्यामः | एवं नाट्यायितशङ्काऽप्यत्र न काचित् | मूलभूतस्याभिनयस्यैवाभावात् | तद्भावे यथा - मुंच-इ वलवि अंअ-अ इरो-अगुहंसणलिण अग्नि चिङज इत्यादौ प्. १७५) किं तु शोभां प्रजनयेदिति नृत्तं प्रवर्तितम् | प्रायेण सर्वलोकस्य नृत्तमिष्टं स्वभावतः || २६४ || मूर्च्छादिसाक्षात्कारः शययायाश्चाङ्गनिपतनादिबाहुस्तथा नृत्तकाव्येऽपि स्यात् | होशं दणषक हमहुमा-इषक इत्यादौ | नचैवमस्तीत्युक्तमसकृत् | एतेन प्रयोजनभेदोऽपि प्रत्याप्तः (त्युक्तः) | नहि सामाजिकाः प्रीयन्तां व्युत्पद्यन्तां वेत्यभिसन्धिना नृत्तप्रयोगः | तत्संपत्तिस्तु नान्तरीयकत्वाद्भवतु | ज्योतिष्टोमादिप्रयोगसङ्गीतापनोदादिवददृष्टविशेषोद्देशेनैव हि तस्य प्रयोगः | डोम्बिकादेर्दृष्टोद्देशेन राजपुत्रादिप्रीतये यद्यपि प्रवृत्तिर्लौकिकी सा | अद्यत्वे तु न द्वयम् | नर्तक्याः प्रवृत्तिः प्रवर्तना वा देवतापरितोषणफलैव | यथोक्तं तत्र - यत्किञ्चिल्लास्यमेतेन देवस्तु(वी तु)ष्यति नित्यशः | यत्किञ्चित्ताण्डवं तेन सोमः सानुचरः शिवः || इति || मूले च सूदादेरिव वस्तुभूतरूपरसादिमध्यपातिविषयविशेषयोजनया कृता प्रीतिः साध्या | डोम्बिकावर्णनगतस्यैवालौकिकरूपान्तरप्रादुर्भावान्तरस्येति व्युत्पत्त्यभिसन्धानं चानुभवतीति केयं सम्भावना गेयेऽपि | नाट्ये तु तदेव प्रधानं भरतमुनिप्रभृतीनां तथैव मूलतः प्रवृत्तेः | अन्यत्वे तु जीविता (का) पर्यवसितत्वमिति पुरुषमि(म)तिपुरुस्ऽदौरात्म्यमेतद्धर्मादिचतुष्टयोपदेशि पुराकल्पोपदेशनमिव पुस्तकवाचकानां मूलेन प्रवर्तनात्तत्र व्युत्पत्त्यभिसन्धेरेवेति फलभेदः | अन्योऽपि लक्षणभेदो नाट्यरूपताशङ्कापराकरणहेतुग्रन्थव्याख्यानावसर् वक्ष्यते | तन्नाट्यलक्षणप्रयोजनाभेदादित्यसिद्धो हेतुः | तदाह नृत्तं कर्तृ कंचिदर्थमर्थ्यमानं साक्षात्कारं प्राप्यमानं नाट्यवेदं नापेक्षते येन लक्षणाभेदः स्यात् | तथा न कश्चिदर्थः सामाजिकान्प्रति व्युत्पादनीयधर्माद्युपायान्यतमं व्यपेक्षते येन प्रयोजनाभेदोऽपि स्यादित्यतो हेतोरेतन्नृत्तं प्रवर्तितं नृत्तवाचोयुक्त्यैव व्यवहृतम् | ननु(तु) नाट्यमिति | किञ्चिदपि शुद्धं ना.याङ्गं पूर्वरङ्गादिकं वेति पाठो वा इयता तदनु प्राप्त्यर्थमित्यादि प्रतिसमाहितम् | ननु भवत्वेवंभूतं नृत्तं नाट्ये तु कथमस्योपयोग इत्युक्तं गीतकस्यापि कथमुपयोगः | प्. १७६) मङ्गल्यमिति कृत्वा च नृत्तमेतत्प्रकीर्तितम् | विवाहप्रसवावाहप्रमोदाभ्युदयादिषु || २६५ || विनोदकारणं चेति नृत्तमेतत्प्रवर्तितम् | अतश्चैव प्रतिक्षेपाद्भूतसङ्घैः प्रवर्तिताः || २६६ || उक्तं - यानि वाक्यैस्तु न ब्रूयात् इति यत्तु काव्येन नोक्तं स्यात् इति | ध्रुवायास्तु सम्पाठमात्रमेवास्तु | अलं वर्णालङ्कारयोजनात्मकगानक्रियादिप्रसारायासेन | ननु रामरावणादिगत(ता)ग्राम्यत्याज्यरूपचरितार्थडम्बरस्य हृदयानुप्रवेशद्वारभूतं हृद्यं तत्सूचीकल्पं स्वयं हृदयानुप्रवेशित्वादित्युक्तं प्राक् | स एव तर्हि नृत्तस्य वलनावर्तनादेरन्तरङ्गेऽस्य नाट्य उपयोगः | विशेषतो हि तद्विनाऽलातचक्रप्रतिमत्वे तैर्बुद्धिग्राह्यमेव नाट्यं न स्यात् | तत एव विमलाभिनयमाणिक्यगुम्फविधायिसूत्रस्थानीयं वलनादिरूपनृत्तसजातीयत्वान्निकटत्वादन्तरङ्गगीतादिव्यापि नाट्यम् | तदेतदाह - किन्तु शोभां प्रजनयेदिति | नृत्तं प्रवर्तितं प्रकृष्टमत्रुटितं वर्णनाविलासवलनादिदक्षिणं यद्वर्णितं कायावयवानां कायस्य च विलासचेष्टावस्थानात्मकं वर्तितं तदात्मकं यन्नृत्तं तच्छोभां रञ्जनायोग्यत्वं शोभानान्तरीयकचमत्कारं प्रकर्षेण गानादिवैलक्षण्येन जनयेदिति नृत्तं प्रवर्तितमित्यन्तेनाभिसम्बन्धः | हेतौ लिङ् | ननु रञ्जकत्वं भोजनादीनामप्यस्ति | तत्तदनुप्रवेशनीयमत्रेत्याशङ्कां मध्येऽपाकरोति - प्रायेणेति | विवाहप्रसवावाहादिषु सर्वस्य लोकस्य स्वभावतः स्वभावेष्वात्माभिमतेषु स्वदेहेनात्मना नर्तनमिष्टं वल्लभम् | सर्वोऽपि जनो स्वभावतः स्वाभिमते विवाहादौ नृत्यति योऽपि वादयन्नृत्यपि तेनापि | दुर्दुरूटेनापि मङ्गल्यमिति | विवाहो वध्वा आनयनम् | तत्पूर्वकः सर्व उत्सवः | पुत्रजन्म प्रसवः | ततो जामातुः सवधूकस्य सर्वत्र श्वशुरभवनगमनमावाहः | प्रमोदा राज्ञामर्थकरणादयः | अभ्युदयो मनोरथप्राप्तिरभिलषितस्योदय इति | आदिग्रहणेनानाकाङ्क्षितशुभप्राप्त्यादि | एतेन निनिमिति (विनोदनमिति)श्लोकत्रयस्य सम्बन्धः | एतच्च कैशिकीमपि योजय (ना. शा. १-४२) इत्यत्र दर्शितम् | कं स्वभावमपेक्षत इति प्रतिसमाधातुमाह - अतश्चैवेति | अतश्च कारणान्नृत्तं प्रवर्तितम् | प्रारम्भे पूर्वरङ्गे लक्षणवर्तितं योजितमिति संबन्धः | एवकारो हेतौ प्. १७७) ये गीतकादौ युज्यन्ते सम्यङ्नृत्तविभागकाः | देवेन चापि सम्प्रोक्तस्तण्डुस्ताण्डवपूर्वकम् || २६७ || यस्मात्प्रतिक्षेपात् | ज्झण्टुमाद्याः शुष्काक्षराः देवैः प्रतिक्षिप्तत्वात् भूतसङ्घैश्च दैत्यादिभिः प्रवर्तिताः | (२६६) निर्गीतं तु सवादित्रमिदं गृह्णीमहे वयम् | (ना. शा. ५-३५) इति वक्ष्यते | अत एवम्भूता गीतानां मद्रकादीनामादौ सम्यङ्नृत्तस्याभिनेयपदार्थाभावेनाभिनयशून्यतया नाशा(तयाश)ङ्किता नाट्याङ्गस्य शुद्धस्य विभागका विभागप्रापका आदौ प्रयुज्यन्ते | एतदुक्तं भवति - गीतकानां यान्युपोहनानि तत्र तावन्नृत्तं शुद्धमेवं कर्तव्यम् | यद्वक्ष्यति - तत्रावतरणं कार्यं नर्तक्याः सर्वभाण्डकम् | क्षेपप्रतिक्षेपकृतम् | इति (ना. शा. ४-३००) तद्गत(तत)श्च गीतकाङ्गमध्ये तु प्रवेशाभावोऽसि(भावस्सि)द्धः | विचारणीयस्य चावापनिष्क्रामादेरगीतकाङ्गत्वमस्त्येव | यद्यपि महागीतेषु ऐवार्थान् (ना. शा. ४-१५) इत्युक्तं वक्ष्यते च ततोऽभिनयमाचरेत् (ना. शा. ४-२९०) इति प्रथमत्वेऽभिनयनेऽस्यापि तथापि तत्र न मुख्यो नाट्यप्रसिद्धोऽभिनयार्थ इत्युक्तम् | किञ्चाभिनेयत्वेन नाट्याङ्गत्वदशायामवलोकनात् तथा वाचोयुक्तिः | लौकिककथास्विवाङ्गव्यवहारादावभिमुखीभावमात्रनयनश्चापि स्वार्थो यथावाच्यमभिनीतः | नहि तत्र साक्षात्कारकल्पतापादनमभिनयार्थः | किन्तु तल्लयाद्याहारित्वमात्रम् | एवमत्रापि तदर्थानुसारित्वमात्रं परप्रतिपत्तिमात्रं स्यात् | .....डस्थेनैवाङ्गभूतत्वेऽप्यनुगयिते(गमित)कालात्पृथग्भूत एवादौ प्रयुज्यमानो लोकप्रसिद्धप्रथमगीयमानाक्षिप्तडोम्बिकाप्रायः प्रचुरस्तुतिपदयुक्तो गीतिविशेषप्रतिक्षेप इत्याह | इदं भरमुनिना न क्वचिल्लक्षितम् | अन्ये तु गीतान्ते प्रयोज्याश्छन्दकादय एवं नृत्तवैचित्र्याश्रया यथारुचि प्रतिक्षिप्यमाणाङ्गकाः प्रतिक्षेपाः | आदिशब्दश्च व्यवस्थायामासारितादिसङ्ग्रहार्थः प्रयुक्तः | सतीति चाध्याहार इति | मुनिमतं चाद्य तयोरनुग्राहकम् | प्. १७८) गीतप्रयोगमाश्रित्य नृत्तमेतत्प्रवर्त्यताम् | प्रायेण ताण्डवविधिर्देवस्तुत्याश्रयो भवेत् || २६८ || एवं नाट्याङ्गता नृत्तस्य गीतादिवदुपयोगश्च समर्थितः | अधुना नृत्तप्रधानरागकाव्यादिर्विषयः काव्यं च नाट्याङ्गमिति दर्शयन्पुराकल्पच्छायया प्रकारान्तरमपि नृत्तस्य समर्थयितुमाह - देवेनेत्यादि | चकार एवकारार्थे | देवेनैव महेश्वरेणैव | तण्डुः सन्तोषपूर्वकं प्रकर्षेणादरेणोक्तः | किमित्याह - गीयत इति गीतं काव्यम् | तस्य यः प्रकर्षेण योगस्तदर्थानुप्रवेशलक्षण(स्त)माश्रित्य न छायाम् | आसमन्ताच्छ्रित्वा | अङ्गविक्षेपिताङ्गत्वं सामरस्यलयसत्वादिना नृत्तं तच्छब्दस्वभावमपि यदभूत्ताण्डवप्रभृति (नृत्तं तद्गीयमानरूपकगतवर्णालङ्कारलयपदार्थवाक्यार्थसम्मिलितं यतत्प्रवर्त्यताम् |) तदुक्तं कोहलेन - सन्ध्यायां नृत्यतः शम्भोर्भक्त्याऽर्द्रो नारदः पुरा | गीतवांस्त्रिपुरोन्माथं तच्चित्तस्त्वथ गीतके || चकाराभिनयं प्रीतस्ततस्तण्डुं च सोऽब्रवीत् | नाट्योक्त्याभिनयेनेदं वत्स योजय ताण्डवम् || इति || अथशब्दान्न केवलमिदं शुद्धमेव | नापि गानक्रिया | भाण्डवाद्यमात्रसम्बन्धमेव यावद्गीत्याधारपदानुसार्यपि | तदर्थानुसरणाच्च तदनुसारणमिति | ननु किं तत्ताण्डवप्रवृत्तिनिमित्तमित्याशंक्याह - प्रायेणेति | ताण्डवमिति सर्व नृत्तमुच्यते | लास्यशब्देन सन्निधौ गोबलीवर्दन्यायेन प्रवर्तते | तत्र विधीयतेऽस्मिन्नृत्तमिति विधिः विधीयमानं काव्यं सदैव(यद्दैव) स्तुतिं वर्णनीयत्वेन चाश्रयति | तेन धर्मवीरप्रधानं तत्र काव्यम् | तत्र रसान्तरमप्यस्ति | नाट्ये शृङ्गारः | प्रयुज्यत इति प्रयोगः काव्यं सुकुमारो मसृणोऽनुसृतो यस्य तं दर्शयति | शृङ्गाररसस्य सम्भवो विद्यमानत्वमस्मिन् | शृङ्गाररसाच्च परिपूर्णात्सम्भवो यस्य कामावस्था मनसोऽस्मिन्नस्तीति | शृङ्गारेण पूर्णापूर्णरूपेण मसृणप्रयोगोपलक्षणम् | यद्यपि च नाट्यान्नान्यत्र रस इति वक्ष्यते तथापि काव्यं नाट्यनिष्यन्द एवेत्यस्ति रसानुप्रवेशः | अनेन च रसाङ्गं नृत्तस्य नाट्यम् | प्रायेणेति वचनान्नरपतिचाटुकाद्यपि सङ्गृहीतम् | चकारान्मसृणमप्यद्धतमिश्रमुद्धतं मसृणमिश्रमित्यादिकमपि सङ्गृहीतं भविष्यतीति सर्वं लक्ष्यमनेन सूचितम् | तथाहि - डोम्बिकासु नरपतिचाटुप्राधान्येन प्रवृत्तासु सुकुमारमेव प्. १७९) शुद्धं रूपम् | भाणकेषु नृसिंहादिचरितवर्णनमुद्धतमेव | यत्पुनर्मसृणेऽप्युद्धतं प्रविशति तत्तदुचितमेव अत्राप्यल्पत्वबहुत्वकृतो भेदः (पूर्वः प्रस्थानप्रबन्धः | उत्तरः षिद्गकभेदः) उद्धते तु मसृणानुप्रवेशाद्भाणिकाभेदंः | अन्यदपि प्रेरणरामाक्रीडकरासकहल्लीसकादिकमल्पत्वबहुत्ववैचित्र्यकृतमितीहैव प्रविष्टं वेदितव्यम् | तदुक्तं चिरन्तनैः - छन्नानुरागगर्भाभिरुक्तिभिर्यत्र धूपतेः | आवर्ज्यते मनः सा तु मसृणा डोम्बिका मता || नृसिंहसूकरादीनां वर्णनां कल्पयेद्यतः | नर्तकी तेन भाणः स्यादुद्घताङ्गप्रवर्तितः || गजादीनां गतिं तुल्या कृत्वा प्रवसनं तथा | अल्पाविद्धं सुमसृणं तत्प्रस्थानं प्रचक्षते || सख्याः समक्षं भर्तुर्यदुद्धतं वृत्तमुच्यते | मसृणं च क्वचिद्धूर्तचरितं षिद्गकस्तु सः || वालक्रीडानियुद्धादि तथा सूकरसिंहजा | ध्वजादिना कृता क्रीडा यत्र सा भाणिका मता || हास्यप्रायं प्रेरणं तु स्यात्प्रहेलिकयाऽन्वितम् | ऋतुवर्णनसंयुक्तं रामाक्रीडं तु भाष्यते || मण्डलेन तु यन्नृतं हल्लिसकमिति स्मृतम् | एकस्तत्र तु नेता स्याद्गोपस्त्रीणां यथा हरिः || अनेकनर्तकीयोज्यं चित्रताललयान्वितम् | आचतुष्षष्टियुगलाद्रासकं मसृणोद्धतम् || इत्यादि एते प्रबन्धा नृत्तात्मकाः न नाट्यात्मकनाटकादिविलक्षणाः | राघवविजयमारीचवधादिकं रागकाव्यम् | एतच्च ग्रन्थविस्तारभीत्या बहुतरं यथासम्भवं न लिखितमनुपयोगाच्च | यत्तुपयोगि तद्यथावसरं वर्णयिष्यामः | एष तावत्पदगते चोद्यकप्रकारः | तत्र तु परस्परमसङ्गतिदोषोऽयं कैश्चिदुद्भाव्यते | प्. १८०) सुकुमारप्रयोगश्च शृङ्गाररससम्भवः | तस्य तण्डुप्रयुक्तस्य ताण्डवस्य विधिक्रियाम् || २६९ || स पूर्वादिनैव प्रतिसमाहितः | एष एव तु प्रकारः कलाविधिना निबध्यमानो राघवविजयमारीचवधादिकं रागकाव्यभेदमुद्भावयतीति | यथोक्तं (कोहलेन) - (लयान्तरप्रयोगेण रागैश्चापि विवेचितम् |) नानारसं सुनिर्वाह्य कथं काव्यमिति स्मृतम् || लयतश्चास्य गीत्याधारत्वेनाप्राधान्ये गीतेरेव प्राधान्यमिति न काव्यार्थविपर्यासवशेन रागभावादिविपर्यासो नाट्य इव | तथा हि राघवविजयस्य हि ठक्करागेणैव विचित्रवर्णनीयत्वेऽपि निर्वाहः | मारीचवधस्य ककुभग्रामरागेणैव | अत एव रागकाव्यानीत्युच्यन्त एतानि | रागो गीत्यात्मकत्वात्स्व(कः स्व)रस्य तदाधारभूतं काव्यमिति | एवमिदं च नृत्तं सप्तकृतिप्रकारैर्भगवत एव प्रसृतम् | तथाहि - शुद्धमेव नृत्तं रेचकाङ्गहारात्मकम् | ततो गीतकाद्यभिनयोन्मुखम् | ततोऽपि गानक्रियामात्रानुसारि वाद्यतालानुसारि च | (बाहु)प्रेङ्खणोरःकम्पपार्श्वनमनोन्नमनचरणसरणस्फुरितकम्पितभ्र् ऊतारापरिस्पन्दकटिच्छेदाङ्गवलनमात्ररूपम् | यत्रो(च्चो)क्तं- तण्डुनापि ततः सम्यग्गानभाण्डसमन्वितः | नृत्तप्रयोगः | इत्यादि | (ना. शा. ४-२६०) गीतिर्गानमिति ह्यत्र व्युत्पत्तिरुक्ता | ततोऽप्युद्धतसुकुमारमिश्रात्मकभेदचतुष्टयभिन्नकाव्यार्थानुसारितया चतुर्विधम् | तत्र प्रथमो भेदो लौकिके स्वतन्त्रनृत्ते देवतातोषणादौ वा | द्वितीयः पूर्वरङ्गविधौ परिशिष्टनृत्तलक्ष्यतया वास्य ताण्दवादि विश्वं व्याप्तमितीह पूर्वमुक्तम् - प्रयोगमङ्गहाराणामाचक्ष्व भरताय वै | इति (ना. शा. ४-१८) भगवता तत्र तण्डुनाऽङ्गहाराः सप्रयोगाः प्रोक्ताः | तत्रैवंभूतास्तावदङ्गहारा मह्यं प्रोक्ता इति रेचकैः पिण्डीबन्धैश्च सहितं मुनिना निरूपिताः | करणान्यपि तदुपयोगित्वेनाशङ्कितचोद्यनिराकरणप्रसक्तानुप्रसक्तं नृत्तस्वरूपं दर्शितम् | अधुना तु प्रयोगः कीदृशोऽङ्ग प्. १८१) वर्धमानकमासाद्य संप्रवक्ष्यामि लक्षणम् | कलानां वृद्धिमासाद्य ह्यक्षराणां च वर्धनात् || २७० || हाराणां प्रोक्त इति प्रकृतमेवानुसन्धातुमाह - तस्य तण्डुप्रयुक्तस्येति | तत्र पूर्वरङ्गोचितत्वायाङ्गहारप्रयोग इत्युक्तम् | तत्र च ताण्डवं यत्र युज्यते | (ना. शा. ५-१३) इति वर्धमानकताल एव ताण्डवयोगयोग्य इति पूर्वं वर्धमानं गृह्णाति | तदनन्तरं तु गीतकादिविषयो विधिर्वक्ष्यते | तस्येति व्यवहितानुसन्धानार्थः परामर्शः तण्डुप्रयुक्तग्रहणं समनन्तरोक्तनृत्तकाव्यादिविषयताण्डवशङ्कां निरस्यति | विधीयतेऽनेनेति विधिः गात्रम् | तत् दृष्ट्वा येयं क्रिया प्रयोगः सैव लक्षणम् | अन्यतो व्यवच्छेदकत्वात् | तत्र क्रियात्मकं लक्षणं वक्ष्यामीति सम्बन्धः | (२६९) ननु सा क्रियोक्ता करणाङ्गहारविषया | सत्यम् | गीततालसंमिश्रा तु नोक्ता | इह तु वर्धमानाख्यं तालमासाद्य साम्यापादनायोपायतां नीत्वा तत्प्रमितिगीत्याधारत्वाच्च वर्धमानशब्दवाच्यं देवं देवैः संस्तुतमीशम् | (ना. शा. ३१-९८) इत्यादिवाक्यसमूहमासाद्याभिनेयतयाश्रित्य तदाक्षिप्तञ्च गीतविशेषमासाद्याङ्गस्य वलनावर्तनादिगतद्रुततारादिनियमकारित्वेनावलम्ब्य वक्ष्यामीति सम्बन्धः | वर्धमानकगीततालाभिनयसम्बन्धतयोदितं ताण्डवं वक्ष्यतीति यावत् | तत्र वर्धमानस्य भविष्यल्लक्षणानुवादेन (ना. शा. १-३१) ताण्डवोपयोगाभिधानायाद्यरूपमाह - कलानामित्यादि | सप्तदशकलः कनिष्ठासारितकः | स एव द्विगुणलयो लयान्तरः | त्रयस्त्रिंशत्कलो मध्यमः | पञ्चषष्टिकलो ज्येष्ठः | तेन कलानां लयद्वारेण सङ्ख्याद्वारेण च वृद्धिः | तद्वृद्ध्यैव च हीयमानपदवृद्धिराक्षिप्ता | यद्वक्ष्यति - चत्वारस्तु गणा युग्मे ओजे इत्यादि (ना. शा. ३२-९७) | इह त्वक्षराणि तेषां वृद्धिः कलानुसारेणैव नर्तकीनां च वृद्धिः | एका हि प्रथमासारिते नृत्ते प्रयोक्त्री | द्वितीये द्वे इत्यादिक्रमेण | अतो वृद्धियोगाद्वर्धमानकम् | संज्ञायां कन् | कण्डिकानां च दशपरिवर्तक्रमो भविष्यति | प्रयोगे यथा यथाक्षरं विनिवृत्तमित्यपि यो भेदो भविष्यति तेनापि क्रमेण कलादीनां वृद्धिः | अतोऽत्राङ्गहारप्रयोगस्य परिपूर्णस्य च पिण्डीबन्धविधेः सम्यङ्निष्पत्तिर्भवतीति तात्पर्यम् | (२७०) प्. १८२) लयस्य वर्धनाच्चापि वर्धमानकमुच्यते | कृत्वा कुतपविन्यासं यथावद् द्विजसत्तमाः || २७१ || एवं लक्षणानुवादेन ताण्डवोपयोगमभिधाय विधिदृष्टां क्रियां प्रतिज्ञानपूर्वमाह - कृत्वेत्यादि | पूर्वरङ्गविधौ वक्ष्यते - कलापातविभागार्थं भवेदासारितक्रिया | कीर्तनाद्देवतानां च ज्ञेयो गीतविधिस्तथा || (ना. शा. ५-२१) | तत्र प्रथमार्धेन शुष्काक्षरैररासारितप्रयोगमाह | तथा च वक्ष्यति - एतानि तु बहिर्गीते त्वन्तर्यवनिकागतैः || इति (ना. शा. ५-११) | बहिर्गीतशब्देन द्वितीयार्धेन सार्थकपदयुक्तमासारितप्रयोगमाह | तत्रैव चोच्यते - ततः सर्वैस्तु कुतपैः संयुक्तानीह कारयेत् | विघाट्य वै यवनिकां नृत्तपाठ्यकृतानि तु || गीतानां मद्रकादीनाम् | (ना. शा. ५-१२) इत्यादि | तस्मिन्नवसरेऽयं नृत्तप्रयोग इति तमेवावसरं दर्शयति - कृत्वेत्यर्धेन | कुतं शब्दं पातीति चतुर्विधमातोद्यं कुतपं तत्प्रयोक्तृजातञ्च | तस्य विशेषेण न्यासः व्यवस्थापनम् | तत्र विशेषेण न्यासो यथायोगं स्वरताललयकलादिनिवेशनम् | स एव प्रत्याहारादिरासारितक्रियान्तः परिपूर्णो विन्यासः | आसारितक्रिययाभिघातातोद्ये तत्प्रयोक्तरि च प्रयोक्ष्यमाणासारितगतकलापातप्रस्ताव एवं क्रियत इत्युक्तम् | स च परिपूर्णो विन्यासो यथावच्छब्देन दर्शितः | अनुपूर्वश इति पाठे प्रत्याहारावतरणाद्यङ्गजातं सूचयति | तेन (ए)तदुक्तं भवति - अन्तर्यवनिकागते शुष्काक्षरप्रयोगप्राणभविष्यदातोद्यप्रयोगप्रस्तावनात्मके दृष्टफले दैत्यादिपरितोषणया तद्विघ्नशमनशास्त्रीयफले च प्रयुक्तेऽङ्गकलापेऽयं प्रयोगविधिः | आसारितप्रयोग इति सार्थकपदं य इत्यर्थः | प्रयोक्तृभिरित्यातोद्यान्तरसाहित्यं बहुवचनेनाह | प्रयोगक्रमं दर्शयति - तत्र त्वित्यादिना | उपोहनं शुष्काक्षरं कनिष्ठासारिते पञ्चकलम् | उपोह्यन्ते समासव्यासतः पदकालतालमभिहिताः स्वरा यस्मिन्नङ्गे तत्तथोक्तम् | गानं सुषिरातोद्यं गीयते यतः स्थानस्वरादिति स्वराणि सादिनादीति | प्. १८३) आसारितप्रयोगस्तु ततः कार्यः प्रयोक्तृभिः | तत्र तूपोहनं कृत्वा तन्त्रीगानसमन्वितम् || २७२ || कार्यः प्रवेशो नर्तक्या भाण्डवाद्यसमन्वितः | विशुद्धकरणायां तु जात्यां वाद्यं प्रयोजयेत् || २७३ || गत्या वाद्यानुसारिण्या तस्याश्चारीं प्रयोजयेत् | वैशाखस्थानकेनेह सर्वरेचकचारिणी || २७४ || पुष्पाञ्जलिधरा भूत्वा प्रविशेद्रङ्गमण्डपम् | पुष्पाञ्जलिं विसृज्याथ रङ्गपीठं परित्य च || २७५ || तेन घनावनद्धातोद्यद्वयस्यात्र निरासः | उपोहनसमाप्तौ नर्तक्याः प्रवेशः | तत्र भाण्डवाद्यं पुष्करवाद्यं तच्च विशुद्धकरणजातौ | सा च मध्यस्त्रीणां लक्ष्यते | तत एवात्रानुकारसाक्षात्कारशङ्कानिराकरणम् | तथा हि - सति परमेश्वरस्य रामादिवत्प्रयोज्यत्वे प्रथमप्रकृत्यादिचित्तजातिप्रसङ्गः | तत्र - एकाक्षरं विशुद्धायां वाद्यं स्यात्सर्वमार्गकम् | द्धं धां खो खो णा णादि या विहितवाक्या | सा शुद्धा विज्ञेया मध्यस्त्रीणां समा जातिः || इति | (ना. शा. ३४-१३६-१३८) विशुद्धमेकाक्षरवाच्यम् | करणमङ्गहारम् | आद्यत्वे अयमेव वर्णस्तत्तत् रुन्दहि रुन्दहि इत्यादि | तथाविधवाद्यानुसारिणी या गतिः तदुपलक्षणचारीति संबन्धः | करणाङ्गहारान्प्रयुञ्जीत इति भाण्डवाद्यस्यानुप्रयोज्यता प्रधान्येनोक्ता | यथोक्तं भवति भट्टतोतेन - पर्यायशस्त्रस्यास्य प्रयोगः इति | तदनन्तरं प्रयोगमाह - वैशाखस्थानकेनेत्यादि | वैशाखरेचितकरणमनेन लक्षयति - रेचितं हस्तपादं च कटिग्रीवं च रेचितम् | इति (ना. शा. ४-९७) (२७४) पुष्पाञ्जलिधरेति | तलपुष्पपुटकरणमनेन लक्ष्यते - विसृज्येति | पुष्पाक्षेपमङ्गप्रक्रमेण प्रदर्श्येत्यर्थः | प्. १८४) प्रणम्य देवताभ्यश्च ततोऽभिनयमाचरेत् | यत्राभिनेयं गीतं स्यात्तत्र वाद्यं न योजयेत् || २७६ || अङ्गहारप्रयोगे तु भाण्डवाद्यं विधीयते | समं रक्तं विभक्तं च स्फुटं शुद्धप्रहारजम् || २७७ || अन्ये तु सद्य एव पुष्पाञ्जलिं तन्मोक्षं चाहुः - रङ्गपीठे यः परिगमः समन्ततः परिष्वङ्गकरणं मध्य एव देवतानां पूर्वपूजितानां प्रणामाभिनय इत्येककालत्वं चशब्देनोक्तत्वात् द्वयं चाचरेदित्येतदुपेक्ष्यम् | पौर्वकाल्यमाश्रित्य ततोऽभिनयमिति | भक्त्यतिशयेन तदर्थभावनया विशिष्टविषयतां प्रदर्शयितुम् | आसारितवाक्यस्य पदार्थवाक्यार्थविषयोऽभिनयः स्वात्मन्याभिमुख्यनयनात् | न तु सामाजिकान्प्रति | यत्रेति निपातो यतो हेतोरित्यर्थे | तेन यतो गीतमिति गीयमानं वाक्यमभिनेयं स्वात्माभिमुख्यं नेयम् | तच्च गानं वर्णालङ्कारलक्षणमाभिमुख्यमङ्गसाम्यं नेयम् | ततो हेतोस्तस्यैव प्राधान्यात्तस्मिन्कालेऽवनद्धवाद्यं तदाच्छादनकारि भवतीति स्वातन्त्र्येण न योजयेदतिशयेन न नयेत् | यत्रेति च वीप्सया परिभाषां सार्वत्रिकीमाह | (२७६) अनुवादमुखेन परिशिष्टं प्रयोगमाह - अङ्गहारप्रयोगेत्विति | तुशब्द एवकारार्थे अङ्गहारस्य शुद्धस्यैवाभिनयशून्यस्य प्रयोगे नृत्तप्राधान्ये तदनुसारि वाद्यम् | विशेषेणान्तरयोगा(नन्तरयोगा)पेक्षया स विधेयो विधीयते धार्यते | अत एव चानुपादानात् - तदेव हि पुनर्वस्तु भूयो नृत्तेन योजयेत् | (ना. शा. ४-२८४) इति वक्ष्यमाणस्य नर्तक्या समाकर्षणे पुनरासारितगाने शुद्धनृत्तमिति वाद्यस्य गीयमानसहितस्य गानस्य नृत्तस्य च क्रमेण प्राधान्येन प्रयोगो दर्शितः | भाण्डवाद्यं विधीयत इत्युक्तम् | तदीदृशमिति दर्शयति सममिति | अक्षराङ्गताललययतिपाणिग्रहन्यासविकृतमष्टविधकालेदेशसमतात्मक. म् साम्यं पुष्कराध्याये च वक्ष्यते | तत्र षोढा तालकृतम् | द्विधा स्वरोच्चारणस्थानदेशकृतम् | तद्योगात् समरक्तभावः शब्दस्य हृद्यस्वरूपता | सा च मायूर्यादिमति(मत्रि)विधमार्जनायोगात् | तेन सम्यङमार्जनायोगात् रक्तं विभक्तम् | आहत्यानन्तरं च पीडितयोगेन विच्छेदप्रतिभा- प्. १८५) नृत्ताङ्गग्राहि वाद्यज्ञैर्वाद्यं योज्यं तु ताण्डवे | प्रयुज्य गीतवाद्ये तु निष्क्रामेन्नर्तकी ततः || २७८ || अनेनैव विधानेन प्रविशन्त्यपराः पृथक् | अन्याश्चानुक्रमेणाथ पिण्डी बध्नन्ति याः स्त्रियः || २७९ || समानाक्षरम् | स्फुटमिति कादिवर्णानामनुहारो यत्र स्पष्टो भवति | प्रहारजा वर्णान्ते शुद्धविशुद्धका(क)रणान्ते स्थिताः | यदि वा आलिप्तिकादिमार्गादन्यतम एव मार्गे स्थिताः | यत्र नृत्तमङ्गहारात्मकं तदङ्गानीव करणानि | यदि वा गीताङ्गानि मुखादीनि गृह्णाति समया(तया)स्वीकुरुते एतच्च सममिति गतार्थम् | तेनायमर्थःनृत्तकर्मभूतमङ्गकर्तृभूतं यद्वाद्यं ग्राहयति नृत्तं तन्नृत्यतेति यदङ्गानि प्रयुङ्क्त इव स्वयं वैचित्र्यप्रयोगात्सविलासमिव श्रूयमाणमेव यद्बलादङ्गानि नर्तयतीति तत्तथोक्तम् | तद्यथा कर्तृककतकणककुन्दन्तरकरहतत्तततर्हिकटिच्छिदशतहीत इति चञ्चत्पुटे | यदेवंविधं वाद्यं पुष्कराध्याये वक्ष्यते तत्तण्डवे इहावसरे योज्यम् | पुष्कराध्याये त्वीदृश एव श्लोको भविष्यति (ना. शा. ३४-१७२) | तत्र विध्यनुवादाविह द्वौ विपर्यसनीयौ | ताण्डवमुक्तं प्राक् | तत्रैवंविधं वाद्यं कार्यमिति | एवं प्रथमासारितस्य प्रयोगमुपसंहरत्यर्धेन - प्रयुज्येत्यनेन | एषां च प्रयोगे प्रथमं परिभाषां करोति श्लोकत्रयेण - अनेनैवेत्यादिना - करणान्वितमित्यन्तेन | गानमिति गीयते च गीतम् | गीतवाद्ये प्रधानतयावस्थिते नर्तकी नृत्तेन प्रयुज्य तथा स्वरागतो नृत्तप्राधान्यं तदौचित्याय गीतवाद्यं प्रयुज्य स्वानुसारिणीकृत्य | नर्तकी न तु नाट्य इव साक्षाद्रामादिरूपताप्रच्छन्नात्मिका | सा निष्क्रामेदपसरेत् | न तु सर्वथैव निर्गच्छेत् | द्वे द्वितीयमिति (ना. शा. ४-२८६) वक्ष्यमाणत्वात् | अपराः किं युगपत्प्रविशन्ति नेत्याह | पृथक् एकैकक्रमेण प्रविशेदित्यर्थः | ननु कियत्यस्ता अपरा या अनेनैव विधिना प्रविशन्तीत्याशङ्क्याह - अन्याश्चेति | अनुक्रमेण कनिष्ठादिषु चतुर्ष्वासारितेषु यथासङ्ख्यं वक्ष्यमाणाश्चतुरः पिण्डीबन्धप्रकारान् या अन्याः बध्नन्ति ताः अपराः | अनेन चतस्र एवेत्युक्तं भवति | पिण्डीमिति जातावेकवचनम् | (२७९) प्. १८६) तावत्पर्यस्तकः कार्यो यावत्पिण्डी न बध्यते | पिण्डीं बध्वा ततः सर्वा निष्क्रामेयुः स्त्रियस्तु ताः || २८० || पिण्डीबन्धेषु वाद्यं तु कर्तव्यमिह वादकैः | पर्यस्तकप्रमाणेन चित्रौघकरणान्वितम् || २८१ || एवं प्रवेशपृथक्त्वं परिभाष्य परिभाषान्तरमाह - तावत्पर्यस्तक इति | यावत्पिण्डी न बध्यते इति पाठः | तावद्यावदिति भिन्नक्रमः | यावत्पर्यस्तकः केवलासारिताभी (भिहि)-तलक्षणः प्रयोगः कार्यः तावन्न पिण्डी बध्यते | तावत्पिण्डीबन्धो न कार्यः | तदनन्तरं तु कर्तव्य इत्यर्थः | पूर्वप्रविष्टया नर्तक्या परिवर्ज्यते | महावाक्यानुसारादेकघन एव वाहिन्यात्मकोऽङ्गविक्षेपो यत्र प्रयोगे स पर्यस्तको नृत्ताचार्यभाषया पर्यस्तक इति प्रसिद्धः | अभिनयशून्य(आ)ङ्गिकविधिः पर्यस्तकः | स च पिण्डिबन्धे न कार्यः | तदनन्तरं तु कर्तव्य इत्यर्थः | पूर्वप्रविष्टाया नर्तक्याः शिक्षार्थमित्याद्यसङ्गतमेव कैश्चिदुक्तं तदुपेक्ष्यमेव | यावच्च पिण्डीबन्धोपयोगि नृत्तं न प्रवर्तते तावत्प्रविष्टनर्तकीनिवर्तनेनैकाकिन्यैवासारिताभिनयः प्रयोक्तव्यैति परिभाष्यते | परिभाषान्तरमाह - पिण्डी बध्वेति | तस्यासारितस्य नृत्तप्रयोगं कृत्वा सर्वास्ता निष्क्रामेयुरपसरेयुः | अत एवैतत्स्थानोपजीविभिरेव श्रीराणकादिकविभिर्डोम्बिकादौ चतुरपसारकः प्रयोगः | (२८०) परिभाषान्तरमाह - पिण्डीबन्धेष्विति | यावदेव पर्यस्तक आसारिताभिनयप्रयोगे वाद्ये तावदेव तदन्तरतापि(पाति)नि पिण्डीबन्धोपयोगिन्यङ्गहारप्रयोगे | किन्तु चित्रं विचित्रं नानाप्रकारं प्रयोजितमोघे च वाद्यविधौ (ना. शा. अ-३४) वक्ष्यमाणानि यानि करणानि क्रिया याभिवेध्या भगवत्यारूपास्ताभिरन्वितम् (?) | द्विमात्रा यत्र कला स चित्रमार्ग ओघशब्दादेव लब्धः | तत्रैव ह्योधो लक्ष्यते | (२८१) एवं पृथक्प्रवेश एकाकिन्या अभिनयप्रयोगः सम्भूयाङ्गहारप्रयोगः तदनन्तरमपसारस्तावत्कालता नृत्तस्य वाद्यस्य वैचित्र्यमिति परिभाषाषट्कं कृवा द्वितीयस्य प्. १८७) तत्रोपवहनं भूयः कार्यं पूर्ववदेव हि | ततश्चासारितं भूयो गायनं तु प्रयोजयेत् || २८२ || पूर्वेणैव विधानेन प्रविशेच्चापि नर्तकी | गीतकार्थ त्वभिनयेद् द्वितीयासारितस्य तु || २८३ || तदेव च पुनर्वस्तु नृत्तेनापि प्रदर्शयेत् | आसारिते समाप्ते तु निष्क्रामेन्नर्तकी ततः || २८४ || पूर्ववत्प्रविशन्त्यन्याः प्रयोगः स्यात्स एव हि | एवं पदे पदे कार्यो विधिरासारितस्य तु || २८५ || लयान्तरस्यासारितप्रयोगमाह - तत्रोपवहनमिति | तत्रैवं परिभाषयति तावत् | यत्रेति पूर्वं कनिष्ठासारितं प्रयुक्तम् | भूय इति बहुतरं षट्कलमित्यर्थः | भूय इति लयाधिकत्वात्कथंचिदभ्यधिकमित्यर्थः | पूर्वेणैवेति | तत्र तूपोहनमित्यादिना | अपिशब्दात् गत्या वाद्यानुसारिण्या इत्यादि प्रणम्य देवतां च इत्यनन्तरमुद्दिष्टम् | ततः सा द्वितीया नर्तकी आसारितस्य तालविशेषसंबन्धि यद्गीतकं गीयमानं च वाक्यं तस्यार्थमभिनयेत् | पुनस्तदेव लयान्तरासारितलक्षणं वस्तु | सा द्वितीया | चकारात्पूर्वप्रविष्टा च | नृत्तेन च केवलाङ्गहारात्मनाऽभिनयस्तत्साम्येन प्रदर्शयेत् | आसारितप्रयोगानन्तरं तया सह साऽप्यपसरेत् | (२८४) अथ तृतीयचतुर्थयोरासारितयोरतिदेशेन प्रयोगमाह - पूर्ववदिति | पृथक्त्वेनेत्यर्थः | स एवेति | तत्र तूपोहनं कृत्वेति य उक्तो यश्च परिभाषाषट्केनोक्त इत्यर्थः | अथ यदैकमेवापसारितं प्रयुज्यते तदायं प्रयोगवैचित्र्यक्रम् इत्यतिदेशेन दर्शयति - एवमित्यादिना | एकवचनमतन्त्रम् | एकमप्यासारितं यदा प्रयुज्यते तदास्य यानि प्. १८८) भण्डवाद्यकृते चैव तथा गानकृतेऽपि च | एका तु प्रथमं योज्या द्वे द्वितीयं तथैव च || २८६ || तिस्रो वस्तु तृतीयं तु चतस्रस्तु चतुर्थकम् | पिण्डीनां विधयश्चैव चत्वारः सम्प्रकीर्तिताः || २८७ || पदानि छेदाश्चत्वारो मुखप्रतिमुखशरीरसंहरण(ना. शा. ३१-८०) लक्षणास्तदाश्रयेणायं वर्धमानवच्चतुरपसारप्रयोगो भाण्डवाद्यक्रियायां गीतिक्रियायां च कार्यः | यद्वक्ष्यति इत्येवं चतुरङ्गानि इति (ना. शा. ३१-८२) | एतदेव स्पष्टयत्येकं त्वित्यादिना (एका त्वित्यादिना |) वस्त्वित्यङ्गम् | युञ्ज्यादि (योज्या इ)ति नृत्तेनेति शेषः | त्रिमात्रादिकं यदत्र वस्तु केचित् द्विः कुर्वते तदसदेव | अन्ये त्वेवं पदे पद इत्यादि सार्धश्लोकमुपसंहारवाक्यं वर्धमानप्रयोगस्येति वर्णयाञ्चक्रुः | अपरे पुनराहुः - आसारितस्य पदमभिव्यक्तिस्थानं कण्डिकानां दश परिवर्तितेन प्रयोगः | तथा हि- विशाला सङ्गता सुनन्दा सुमुखीति चतस्रः कण्डिका वक्ष्यन्ते (ना. शा. अ. ३१-१२०) क्रमेण नवाष्टौ षोडश द्वात्रिंशत्कला | तस्य विशालामनु सङ्गता अनुविशालं सुनन्दा सङ्गता विशालामनु सुमुखी सुनन्दा सङ्गता विशालेति दश परिवर्ताः | तत्र विशालादिपरिवर्तत्रये सङ्गताः परिवर्ताः काकाक्षिवदुभयत्र संबन्ध इति सप्तदशकलस्य द्विः प्रयोगे कनिष्ठलयान्तरितयोः स्थानं भवति | ततः सुनन्दादिपरिवर्तत्रये त्रयस्त्रिंशत्कलस्य मध्यमासारितस्य स्थानं भवति | ततः सुमुख्यादिचतुष्टये पञ्चषष्टिकलस्य ज्येष्ठासारितस्य | एवमासारितस्य पदेषु स्थानेषु कण्डिकादिपरिवर्तेषु चतुरपसारको नर्तकीप्रयोगः | तदाहैकापीति (एका त्विति) | वस्त्वासारितस्थानमित्येवं कण्डिकावर्धमान(परिवर्तन?)स्यायं प्रयोगोऽतिदेश इति तृतीयव्याख्यानतात्पर्यम् | द्वितीये तु व्याख्याने न किञ्चिदधिकमुक्तमिति तदुपेक्ष्यमेव | पिण्डीबन्धप्रकारा अनुक्रमेणासारितेषु प्रयोज्या इत्युक्तम् | के त इत्याह - पिण्डीनामित्यादि | विधयः प्रकाराः | तत्र विशेषान्तरहृद्यमेकप्रयोज्यं पिण्डीबन्धरूपमित्येकः प्रकारो विशेषनामधेयविरहात्सामान्यशब्देनोक्तः | तदाह - पिण्डीबन्धः पिण्डत्वादिति | प्. १८९) पिण्डी शृङ्खलिका चैव लताबन्धोऽथ भेद्यकः | पिण्डीबन्धस्तु पिण्डत्वादुल्मः शृङ्खलिका भवेत् || २८८ || जालोपनद्धा च लता सनृत्तो भेद्यकः स्मृतः | पिण्डिबन्धः कनिष्ठे तु शृङ्खला तु लयान्तरे || २८९ || मध्यमे च लताबन्धो ज्येष्ठे चैवाथ भेद्यकः | पिण्डीनां विविधा योनिर्यन्त्रं भद्रासनं तथा || २९० || नर्तकीप्रयोज्यः परस्परसंबन्ध एव पिण्डीबन्धः द्विप्रकारः | सजातीयो वा एकता(ना)लावबद्धकमलयुगलवत् विजातीयो वा हंसवदनपरिगृहीतनालनलिनवत् गुल्मः शृंखलिकाशब्दवाच्यः | नर्तकीत्रयप्रयोज्यस्तु ततोऽपि वैचित्र्यसहिष्णुत्वाज्जालवद्विचित्रतां गच्छत्पूर्ववत्सजातीयविजातीयात्मा लताबन्धः | चतुष्टयप्रयोज्य स्तुगतो(ते)ऽत्र रूपत्रयो (य) महावाक्ये तावद्भिः प्रकारैर्भेदनीय इति तेभ्य एकसत्त्वयोजनाच्चाज्ञातो भेद्यकः | महावाक्यार्थ इति वैकस्यां योजनायां प्रविष्ट इत्यर्थः | स तूक्तविधैस्त्रिभिः नृत्तैः सह वर्तते | (२८८) एकादिप्रयोज्यत्वं स्पष्टयति - पिण्डीबन्धः कनिष्ठेत्वित्यादिना | ननु कथमेते पिण्डीबन्धान्निष्पद्यन्त इत्याशंक्याधारादिभेदकृतां निष्पत्तिं दर्शयति - पिण्डीनां विविधा योनिरित्यादिना | तत्र यत्र पुत्रकादीनां यथा पृथग्भूताङ्गानामनुसन्धिस्तथैव भूमिदेहाकाशाद्याधारखण्डलकाद्यनुसन्धानं यन्त्रम् | तस्य भूयसा सम्भावात्पूर्वमभिधानम् | अनेन मिश्रा भेदाः सङ्गृहीताः | भद्रं स्फुटमेवेत्यस्यासनं स्थानं भूम्यादौ स्फुटमेव दर्शनादित्येकभेदसङ्ग्रहः | अनेनाधाराङ्गभेदो दर्शितः | प्रयोक्तृप्रयोगभेदस्तु पूर्वमेव दर्शितः इहापि चोक्तः | शिक्षायोग इति | करणाङ्गहारविशेषष्वङ्गविक्षेपवैचित्र्याभ्यास प्. १९०) शिक्षायोगस्तथा चैव प्रयोक्तव्यः प्रयोक्तृभिः | एवं प्रयोगः कर्तव्यो वर्धमाने तपोधनाः || २९१ || इति साधकतमभेदो दर्शितः | इत एवोपजीव्यास्माभिर्वितत्योक्तं रेचकैरङ्गहारैश्च (ना. शा. ४-२४९) इत्यादिव्याख्यानावसरे | विविधग्रहणेन तद्व्यायामिश्रणया भेदानन्त्यं सूचयति | तच्चास्माभिः पूर्वमेव दर्शितम् | (२९०) ननु सर्वोऽयं पिण्डीबन्धप्रकार इहोपयोगी वा न वेत्याशङ्क्याह - तथा चैव प्रयोक्तव्य इति | तैः सर्विरेव प्रकारैः पिण्डीशृङ्खलकादिबन्धो योज्यत इति यावत् | यत्रच्छेद्यकर्म चर्मयन्त्रं काष्ठमयी प्रकृतिर्भद्रासनमिति केचिदत्र व्याख्यां कुर्वन्ति | युक्तायुक्ततां तु सहृदया एव विदुः | एवं गीतकाङ्गवाद्यनर्तकीपिण्डीबन्धादिदर्शनादपि नाट्यान्नृत्य(न्नृत्त?)मभिन्नमित्यपि सूचितम् | न चायं पिण्डीबन्धप्रकारो लक्ष्ये विच्छिन्नः | केवलनृत्तकपक्षयोः पतितमहौषधिवदनवस्थितैरभ्युद्धर्तुं न शक्यते सावधानतया तु शक्यत एवेति नात्रालस्यं श्रयितव्यम् | अन्यथा प्रयोगमाहुः | तथा हि - एकं तु प्रथममित्यत्र प्रथमासारितमभिनयति | ततो द्वितीया द्वितीयासारितम् | तत्समकालं तु प्रथमा केवलमङ्गहारं करोतीति | एवं तृतीया तृतीयासारितार्थमभिनयति | तदा द्वेऽङ्गहारं प्रयुञ्जाते | चतुर्थी चतुर्थाभिनयं यदा करोति तिस्रोऽङ्गहारं रञ्जयन्ति | अन्य त्वभिनयप्रयोगेऽपि सहिततामाहुः | जालशृङ्खलिकादिपिण्डीबन्धजातं चान्योन्यं बाहुबन्धवैचित्र्यरचितमिच्छन्ति | अथ वर्धमानकमासाद्येति प्रतिज्ञातमुपसंहरति - एवमित्यादिना | एवं प्राधान्याद्वर्धमानप्रयोगमभिधाय गीतानां मद्रकादीनाम् | (ना. शा. ५-१३) इति यद्वक्ष्यते तन्निर्णयाय प्रतिजानीते - गीतानामित्यादि | चकार्ऽह् सर्वशेषतां द्योतयति अन्वाचयं च | आसारितादिपर्यन्तप्रयोज्यानां छन्दकादीनां तच्छेषतयैव लक्षणं वक्ष्यते | तथाहि तालाध्याये (ना. शा. अ-३१) वर्धमानासारितकगीतकपाणिलतान्तेच्छन्दकप्रयोगश्चतुष्पदाप्रयोगश्चा भिधास्यते | प्. १९१) गीतानां छन्दकानां च भूयो वक्ष्याम्यहं विधिम् | यानि वस्तुनिबद्धानि यानि चाङ्गकृतानि तु || २९२ || गीतानि तेषां वक्ष्यामि प्रयोगं नृत्ताअद्ययोः | तत्रावतरणं कार्यं नर्तक्याः सार्वभाण्डिकम् || २९३ || क्षेपप्रतिक्षेपकृतं भाण्डापोहनसंस्कृतम् | प्रथमं त्वभिनेयं स्याद्गीतके सर्ववस्तुकम् || २९४ || सर्वेषामेव तीतानामन्ते छन्दक इष्यते | चतुरङ्गस्ततः त्र्यङ्गो नवाङ्गो युग्म एव च || (ना. शा. ३१-२९३) चतुष्पदा तथैकाङ्गा | इत्यादौ | तेन प्रधानतया तावद्गीतकादिविशेषाणां विधिस्तत्प्रयोगे न तु स्वतन्त्राणाम् | गीतकगतवस्त्वङ्गादि यत्र स्वेच्छया समाश्रित्यैकद्वित्र्याद्यनियमेन प्रयुज्यते तानि च्छन्दकानि | यान्यद्यत्वे नृत्ततालात्मना डोम्बिकानर्तकीलयचरणादिरूपेण प्रसिद्धानि | भूय(इति) | उक्तो हि वर्धमानविधिस्तताप्याधिकं वस्तु वक्ष्यते | तत्र गीतकतालाश्रितनृत्तविधानं तावद्दर्शयितुमुपक्रमते यानीति | भूयांसि ख्ण्डलकादिवस्तूनि | स्वल्पानि त्वङ्गानि | तत्र वस्तुनिबन्धनानि त्रीणि गीतकानि - मद्रकः परान्तकं प्रकरी च | अन्यानि चत्वर्यङ्गान्युल्लोप्यकं रोचितकमोवेणकमुत्तरं च | तेषां क्रमेणाह - तेषामिति | तेषामपि नृत्ते वाद्ये च यो विधिस्तं वक्ष्यामि | तत्र गीतकेषु ये क्षेपाः प्रथमवस्त्वांदावुपोहनानि ये च प्रतिक्षेपाः द्वितीयवस्त्वादिषु प्रत्युपोहनानि मतान्तरे त्वनन्तर्भूतपृथक्कालात्मकगीतशेषरूपाणि तानि तन्त्रीगतानि (गा)-नयुक्तानि प्रयुज्य नर्तक्या अवतरणं भाण्डवाद्यसहितं पुष्कराध्यायभाविना प्रविरलचलदङ्गुलि - (ना. शा. ९-२०) दलाभिहन्यमानाङ्गिकप्राधान्येन कार्यम् | एतदुक्तं भवति - प्रथमे वस्तुन्याक्षिप्तिकामुपोहनं च प्रयुज्य नर्तकीप्रवेशः | द्वितीयादौ प्रत्युपोहनम् | पदयोजना तु - तन्त्रीगानान्वितं कृत्वा क्षेपप्रतिक्षपयोः कृतं प्. १९२) तदेव च पुनर्वस्तु नृत्तेनापि प्रदर्शयेत् | यो विधिः पूर्वमुक्तस्तु नृत्ताभिनयवादिते || २९५ || आसारितविधौ स स्याद्गीतानां वस्तुकेष्वपि | एवं वस्तुनिबन्धानां गीतकानां विधिः स्मृतः || २९६ || शृणुताङ्गनिबद्धानां गीतानामपि लक्षणम् | य एव वस्तुकविधिर्नृत्ताभिनयवादिते || २९७ || तमेवाङ्गनिबद्धेषु च्छन्दकेष्वपि योजयेत् | वाद्यं गुर्वक्षरकृतं तथाल्पाक्षरमेव च || २९८ || मुखे सोपोहने कुर्याद्वर्णानां विप्रकर्षतः | यदा गीतिवशादङ्गं भूयो भूयो निवर्तते || २९९ || परिसमाप्तता यत्र | तादृगवतरणात्का(णं का)र्यं सर्वभाण्डवाद्याद्याविर्भावम् | प्रथममित्यादावित्यर्थः | वस्त्वेव वस्तुकम् | तत्सर्वमादावभिनेयं पुनर्नृत्तेन योज्यम् | (२९४) कथमित्याह - यो विधिरिति | आसारितविधौ यः प्रकारः स एवात्र प्रकारः | यथाऽसारितेष्व(षु) सङ्ख्यानियमो नर्तकीवृद्ध्या नृत्तप्रयोगः | पूर्वं चैकाकिन्याऽभिनयः | नृत्ते च भाण्डवद्यादिप्रयोगः | तथात्रापि | तेन वस्तुसङ्ख्यां (सङ्ख्यया) नर्तक्य इहेति मन्तव्यम् | एतदुपसंहरन्नन्यदुपक्रमते - एवं वस्तुनिबन्धानामित्यादि | वादिते च विशुद्धकरणायमित्यादि योजयेत् | तदेवाङ्गनिबन्धेषु योजयेत् | तथा सर्वशेषभूतेषु स्वतन्त्रके छन्दकेष्वपि | (२९७) विशेषं तु दर्शयति - वाद्यमिति | घिंघिंढन् त्रन् इत्यादीनि रूपाणि गुरूण्यपि कदाचित्प्रयत्नशीघ्रतया ताले प्रयुक्तानि बहूनि भवन्ति | यथोत्साहच्छटादौ त्थीत्थीत्थीत्थन् धृत् दत्थकुदहिं - एषैका कला | अत आह - अल्पाक्षरमयेऽपि च भवत्यर्धादौवाद्ययोजनात्कलार्धादेश्च शून्यत्वात् | तथा चञ्चत्पुटे प्रथमकलायां त् हिविटा ? एव | प्. १९३) तत्राद्यमभिनेयं स्याच्छेषं नृत्तेन योजयेत् | यदा गीतिवशादङ्गं भूयो भूयो निवर्तते || ३०० || तत्परिहारार्थमाह - वर्णानां गुरूणां विशेषेणाणुपर्यन्तं त्रिमात्रचतुर्मात्रतया प्रकृष्टं तद्वाद्यं कर्तव्यम् | मुखनाम्न्युपवहसंज्ञके वाऽङ्गे वस्तुनिबन्धेष्वप्युपोहनेऽङ्गेऽयं वाद्यविधिः | अङ्गाल्पत्वात्तु तत्र नाङ्गनिबन्धव्यपदेशः | अथ वक्तव्यं सर्वशेषत्वेनाह - यदा गीतिवशादङ्गमित्यादि | मुख्याङ्गानि यदा पुनः पुनरावर्तन्ते | कथम् | गीतेश्चतुर्विधाया मागध्यादिकाया वशात्सामर्थ्यात् | वक्ष्यते हि ध्रुवाध्यायान्ते - अ(त्रिः) निवृत्त्या पदानां तु मागधी समुदाहृता | (ना. शा. ३२-४३८) | इत्यादि | गीतवशादित्यपि पाठ एवमर्थः | गीतिं वा गीयमानं वा | तत्र विधिमिति | तालाध्याये वक्ष्यते - यथाक्षरं द्विसंख्यातं त्रिसंख्यातमथापि च | (ना. शा. ३१-१०३) इति | तत्रेति | निवर्तने | आद्यमिति | आद्य आवर्तः | शेषमित्यादि | आवर्तान्तराणि शुद्धन्र्त्तप्रयोज्यानि | तेन न केवलं वस्त्वङ्गादिसमाप्तौ नृत्तम् | यावन्मध्येऽपि कदाचित्परिवर्तेषु भवतीति दर्शनम् | यत्तु राहुलकेनोक्तयपौनरुक्त्येनाभिनयनं तदेवंविधमेव मन्तव्यम् | यत्तु अहं ? जलणिहिचुलु-इ मा-इमा इत्यत्र जलनिधिचुलुके मानितेन चोन्मीयत इत्यादि कैश्चिदुत्प्रेक्षितं तत्र सर्वत्र निर्वहतीत्यास्तां तावत् | (३००) तत्र वाद्यविधिमाह | आवर्तमानगीतवशादङ्गं शाखाचारीप्रयोगात्मकं यदाऽवर्तते तदा वाद्यप्राधान्येन नृत्तमिव वाद्यस्य यथासंभवं वैचित्र्यं प्रदर्शनीयम् | पूर्वं हि तद्वैचित्र्यं काव्यार्थेन नियन्त्रितम् | अधुना तु सङ्कोचोऽस्य नास्ति | तथा च लक्ष्ये प्रावेशिक्यां पात्रकृतसङ्कोचाद्यभावं मन्यमाना गीताचार्याः त्रितयप्रयोगमाहुः | एतच्च विचारयिष्यत इत्यास्तां तावत् | समपाणिरुपरिपाणिरर्ध(रव)पाणिश्चेति (ना. शा. ३१-३२९) त्रिधापाणिः तालः | तदभिव्यङ्ग्यत्वात् | सङ्गीतनृत्ताभ्यां सह या (वा) पुर्व वेति त्रिधा | छन्दोऽक्षरपदानां प्. १९४) त्रिपाणिलयसंयुक्तं तत्र वाद्यं प्रयोजयेत् | यथा लयस्तथा वाद्यं कर्तव्यमिह वादकैः || ३०१ || (ततं चानुगतं चापि ओघं च करणान्वितम् | स्थिरे तत्त्वं(त.) प्रयोक्तव्यं मध्ये चानुगतं भवेत् || भूयश्चौघः प्रयोक्तव्यस्त्वेष वाद्यगतो विधिः | छन्दोगीतकमासाद्य त्वङ्गानि परिवर्तयेत् || एष कार्यो विधिर्नित्यं नृताभिनयवादिते | यानि वस्तुनिबद्धानि तेषामन्ते ग्रहो भवेत् || अङ्गानां तु परावृत्तावादावेव ग्रहो मतः ||) साम्यं लयः | कलाकालान्तरकृतो द्रुतादिभेदस्त्रिविधः (ना. शा. ३१-३२६) | एतच्च त्रैविध्यं यतिमार्गादिभेदस्याप्युपलक्षणम् | ननु प्रथम आवर्ते कीदृशं वाद्यमित्याशंक्याह - यथा लय इति | प्रथमे ह्यावर्ते काव्यार्थाभिनयवशादङ्गस्य य उचितो लयो द्रुतादिस्तदनुसार्येव वाद्यं कार्यम् | अन्य तु यथातथाशब्दावविचार्यास्य पूर्वशेषत्वेनैव श्लोकार्थं गमयन्ति - यथा वाद्यं त्रिपाणिलयवैचित्र्ययुक्तं तथाङ्गस्य गीतस्य च लयः कार्य इति | (३०१) नचैवं तद्व्ययतिक्रमणीयमिति सहेतुकं दर्शयति पादोनेन श्लोकेन - एवमेव इति | हि यस्माद्देवस्य भगवतो महादेवस्य स्तुतिनिमित्तं परितोषणप्रयोजनमेतन्नृत्तमतो हेतोरुन्नीयमाना दृष्टसम्पत्त्यै | एष एव गीतकासारितेषु च तच्चैषु (तच्छेषेषु) च छन्दकेषु विधिः | पाणिका तु परिमितशरीरत्वात्स्वयं ताण्डवभाजनं न भवति | सा हि सुकुमारे पूर्वरङ्गे लास्यप्रधाने तत्सत्तावैदग्ध्यायोक्ताल्लास्यस्वरूपादेव निश्चीयते | अन्यथा पूर्वरङ्गोपयोगे प्रकान्ते तत्राध्याये लास्यस्य कोऽवसरः | वाद्याङ्गमात्रे तदनुपयोगीति चेत् तत्र दशाङ्गस्य चेत्प्रयोज्यतादेरतिप्रसङ्गः | स च निषेत्स्यते | तदप्रयोगे कृतानि प्. १९५) एवमेष विधिः कार्यो गीतेष्वासारितेष्वपि | देवस्तुत्याश्रयं ह्येतत्सुकुमारं निबोधत || ३०२ || स्त्रीपुंसयोस्तु संलापो यस्तु कामसमुद्भवः | तज्ज्ञेयं सुकुमारं हि शृङ्गाररससम्भवम् || ३०३ || गेयपदानीति न मिन्मः | तालाध्याये चैतद्भविष्यति | गीतकादिशेषत्वे तु छन्दकसङ्गृहीतैवेति नात्रोक्ता | गीतकं च स्वतन्त्रेऽप्यासारिते भवति | ताण्डवप्रयोगस्तु यदा त्वेष पिण्डीबन्धैर्विकल्प्यते प्रत्येकमङ्गविन्यासस्तदा तेषां पृथक्पृथग्गति त...डोतातिदेशेनासारितेष्यप्येवमेव | मुख्यान्यङ्गचतुष्टयविभागेन नर्तकीक्रमप्रवेशादिप्रयोगः | एतदर्थमेव वर्धमानेऽप्युक्ते पुनरासारितसङ्कीर्तनम् | परपूर्वरङ्गे चापिशब्दात्तत्सङ्ग्रहो व्याख्येयः | सर्वेषामेव गीतानामन्ते इत्युपक्रम्य चतुष्पदा तथैकाङ्गा...युग्नौ यौ वा प्रमाणतः | तथा शृङ्गारभूयिष्ठा त्रिलया वा (ना. शा. ३१-२९३) इति निरूप्य दशाङ्गं लास्यं तालाध्याये (ना. शा. ३१) निरूपयिष्यते | मुनेश्चतुश्चदान्तर्भूतं लास्यगानमित्यादि भूयो भविष्यत ए(त्ये)व | विशाखिलादिप्रणीतं लस्यगानान्तरं मुनिनाऽभिहितचतुष्पद एव सङ्गृहीतत्वात् | सा चतुष्पदा गीतकानामन्ते पाणिकान्ते वा प्रयोज्येति दर्शितम् | तदभिप्रायेणोपक्रममाह - सुकुमारं निबोधएतेति | तु शब्द उत्तरतोऽपेक्षणीयः सुकुमारं त्विति यावत् | अत एवोक्तरञ्जकताविधिं निजयोहापोहधिया कल्पयति | तत्रापि ह्यङ्गवृद्ध्या नर्तकीवृद्धिरित्यादि सर्वमुन्नेयमित्यर्थः | (३०२) ननु किं तत्सुकुमारमित्याह - स्त्रीपुंसयोस्त्विति | एकस्तुशब्दः पूर्वत्र नीतः | द्वितीयः सुकुमारकं विशेषयति | तदेव हि सुकुमारं न तु करुणहास्यादिमयम् | किं तदित्याह | स्त्रीपुंसयोर्यः कामः | स्त्रियाः पुरुषस्य कामना | पुंसो वा स्त्रियाः | तस्मात्कविहृदयस्थिताद्विवक्षाक्रमेण समुद्भवो यस्य लापस्य काव्यव्यु(त्पादकवा)क्यस्य तत्सुकुमारम् | तत एव परस्परहेतुकत्वं भवति | अत एवाह - शृङ्गाररसस्य परस्परहेतुकत्वे संभवमात्रमयोगव्यवच्छेदनं यत्र | तेन तदवस्थामात्रोपनिबन्धोऽपि डोम्बिकादिकविरुद्धषिद्गकादौ चावगन्तव्योत्साहादौ शृङ्गाररसस्याव्यापत्तिबन्धः | परमेश्वरे प्. १९६) यस्यां यस्यामवस्थायां नृत्तं योज्यं प्रयोक्तृभिः | तत्सर्वं सम्प्रवक्ष्यामि तच्च मे शृणुत द्विजाः || ३०४ || अङ्गवस्तुनिवृत्तौ तु तथा वर्णनिवृत्तिषु | तथा चाभ्युदयस्थाने नृत्तं तज्ज्ञः प्रयोजयेत् || ३०५ || यत्तु संदृश्यते किञ्चिद्दम्पत्योर्मदनाश्रयम् | नृत्तं तत्र प्रयोक्तव्यं प्रहर्षार्थगुणोद्भवम् || ३०६ || हि तपस्यति(न्ती)भगवती तदेकहृदया बभूवेति तावति परस्परास्था(नु)बन्धात्मकरत्यभावे कामावस्थामात्रकम् | परतस्त्वर्धशरीराक्रमाणादौ शृङ्गारहास्ये इत्येवं परमेश्वरचरिते सुकुमारस्य वि(द्वि)शाखत्वेनाप्रसरात्तस्यैवाद्यापि पक्षे स्थितिः | करुणादिर्भगवति न सम्भवति | नापि तत्तत्र समुचितमिति न तत्सुकुमारम् | यत्तु राघवविजयादौ भी(सी)तामूर्च्छादिव्यावर्णनान्तं ताण्डवम् | न च तत्र (सी)तारचितसुकुमाराङ्गहारात्मकनृत्तयोजना | अपि तु गीतकार्थभावनान्यायेन रौद्रस्य चैव यत्कर्म स करुण इति प्रसक्त्या तत्र तथाविधाभिनययोग इत्यलं बहुना | (३०३) वक्तव्यशेषमाह - यस्यां यरषामित्यादि | सुकुमारं यत्काव्यं तदाश्रितं गानमपि तथा | अन्तर्लग्नं नृत्तमपि | तत्र यदुक्तं - तदेव हि पुनर्वस्तु (ना. शा. ४-२९५) इति तथा यदा गीतिवशादङ्गम् (ना. शा. ४- २९९) इति | नृत्तयोजनं तु तदनुवादपूर्वकं नियम इति | (३०४) अङ्गवस्तुनिवृत्तौ त्विति | तुर्भिन्नक्रमोऽवधारणे | वर्णानां स्थाययादीनां गीतक्रियाविस्ताररूपाणां निवृत्तिर्यथा परान्तकादौ | प्रतिशाखायां यद्वक्ष्यते - प्रतिशाखाद्यपि च इति तेनाङ्गवस्तुवर्णापरावर्तेषु यत्तथाभूतेनैववाद्यादिवैचित्र्यप्रकारेण नृत्तमुक्तं तदध्यायाभ्युदयस्थानभेदभावज्ञो नृत्ताचार्यः प्रयोजयेत् | (३०५) तदनु(तदु)दाहरति - यत्तु संदृश्यत इति | यत्काव्यखण्डं दम्पत्योः स्त्रीपुंसयोः कामकृतं वाच्यत्वेन श्रूयते अन्यच्च प्रहर्षार्थगुणोद्भवम् | प्रहर्षप्रयोजनो यो गुणः प्. १९७) यत्र सन्निहिते कान्ते ऋतुकालादिदर्शनम् | गीतकार्थाभिसंबद्धं नृत्तं तत्रापि चेष्यते || ३०७ || खण्डिता विप्रलब्धा वा कलहान्तरितापि वा | यस्मिन्नङ्गे तु युवतिर्न नृत्तं तत्र योजयेत् || ३०८ || सखीप्रवृत्ते सलापे तथाऽसन्निहिते प्रिये | नहि नृत्तं प्रयोक्तव्यं यस्या वा प्रोषितः प्रियः || ३०९ || आस्थाबन्धो वचनं दूतीवचनाकर्णनादिरशस्तदुद्भवं तदाब्धं तत्र नृत्तं योज्यमिति कामावस्थासु मन्तव्यम् | शृङ्गारेऽप्यनेन वासकसज्जाभिसारिकाविषयं नृत्तमुक्तम् | (३०६) स्वाधीनभर्तृकाविषयमाह - यत्र सन्निहित इति | यस्मिन्नङ्गे गीतकस्य गीयमानस्य काव्यस्यार्थत्वेन वाच्यत्वेन संबन्धः | कान्तसन्निधाने ऋतोर्वसन्तादेः कालस्य चन्द्रोदयादेरवलोकनं भवति तत्र नृत्तम् | (३०७) नियमफलं दर्ऽऽअयितुमाह - खण्डितेत्यादि | व्यासङ्गादुचिते यस्या वासके नागतः प्रियः | सा खण्डिता (ना. शा. २२-२०९) यस्या दूतीं प्रियः प्रेष्य दत्त्वा सङ्केतमेव च | नागतः कारणेनेह विप्रलब्धा तु सा | (ना. शा २२-२१०) ईर्ष्याकलहनिष्क्रान्तो यस्या नागच्छति प्रियः | साऽनुतापवशप्राप्ता कलहान्तरिता | (ना. शा. २२-२०८) अङ्ग इति | तदाधारभूते काव्यखण्डे | किमियत्येव न नृत्तमित्याशङ्कयाह - सखीप्रवृत्त इति | तथा असन्निहिते प्रिये यद्विषयकसल्लापतत्समागमोपायपर्यालोचनादिरूपवृत्त(त्तान्त)स्तत्रापि न नृत्तं योज्यम् | अनेन विरहोत्कण्ठिता लक्षिता | वासकसज्जा प्रियानागमने तथोक्ता | खण्डिता ज्ञाततदीयव्यलीकेति विशेषः | यस्या वा प्रोष्तितः प्रिय इति | प्रोषितभर्तृकावस्थाष्वपि यदा प्रियोऽसन् दुर्लभः खि(ख)लो वेति हृदये(य)निहितो वेति तदा(न)नृत्तम् | तत्र हि करणानन्तरमेव परिसमाप्तिः | प्. १९८) (दूत्याश्रयं यदा तु स्यादृतुकालादिदर्शनम् | औत्सुक्यचिन्तासंबद्धं न नृत्तं तत्र योजयेत् ||) यस्मिन्नङ्गे प्रसादं तु गृह्णीयान्नायिका क्रमात् | ततःप्रभृति नृत्तं तु शेषेष्वङ्गेषु योजयेत् || ३१० || तथा विधेय(यं) यथा क्षरत्वात्तत्र तदेवाश्रयणीयम् | न तु द्विसङ्ख्यातं त्रिसङ्ख्यातं वेत्युक्तं भवति | व्यतिरेकलब्धेऽप्युदाहरणे प्रदर्शितोऽप्यर्थो नृत्तस्येह प्राधान्येनाभीष्टत्वान्न स्वेन कण्ठेनोच्यते | (३०९) यस्मिन्नङ्ग इति | प्रसादमिति | प्रसन्नहृदयत्वं येन प्रकारेण युवतिर्लभेतेति | तेन(न)खण्डिताविषयमेवैतदपि तु सर्वविषयं मन्तव्यम् | ततः प्रभृति शेषेष्वङ्गेष्वित्यस्यायं भावः | एतस्मिन्प्रकरणे नाट्यगतानि नाटकोदाहरणानि कैश्चिद्दत्तानि तान्ययुक्तानीति मन्तव्यम् | खण्डितादयो नायिका यत्र साक्षात्क्रियन्ते तत्र वलनावर्तनादिरूपनृत्तं न योज्यमिति यदुच्यते तदनवकाशमेव | तथाइ - चिन्तानिश्वासखेदेन हृद्दाहाभिनयेन च | सखीभिः सह संलापैरात्मावस्थावलोकनैः || ग्लानिदैन्याश्रुपातैश्च रोषस्याभिनयेन च | निर्भूषणामृजात्वेन दुःखेन रुदितेन च || खण्डिता विप्रलब्धा च कलहान्तरितापि च | तथा प्रोषितनाथा च भावानेतान्प्रयोजयेत् || (ना. शा. २२-२१४-२१६) इति सामान्याभिनये वक्ष्यते | विषण्णे मूर्च्छिते भीते जुगुप्साशोकपीडिते | ग्लाने सुप्ते विहस्ते च निश्चेष्टे तन्द्रिते तथा || मत्ते प्रमत्ते चोन्मत्ते चिन्तायां तपसि स्थिते | व्याधिते रुग्ज्वरार्ते च भयार्ते शीतविप्लुते || न हस्ताभिनयः कार्यः कार्यः सत्त्वसमाश्रयः (ना. शा. ९-१७६-१७८) प्. १९९) देवस्तुत्याश्रयकृतं यदङ्गं तु भवेदथ | माहेश्वरैरङ्गहारिअरुद्धतैरतत्प्रयोजयेत् || ३११ || यत्तु शृङ्गारसंबद्धं गानं स्त्रीपुरुषाश्रयम् | देवीक्र्तैरङ्गहारैर्ललितैस्तत्प्रयोजयेत् || ३१२ || चतुष्पदा नर्कुटके खञ्जके परिगीतके | विधानं सम्प्रवक्ष्यामि भाण्डवाद्यविधिं प्रति || ३१३ || खञ्जनर्कुटसंयुक्ता भवेद्या तु चतुष्पदा | पादान्ते सन्निपाते तु तस्या भाण्डग्रहो भवेत् || ३१४ || इत्याङ्गिकाभिनये वक्ष्यति | तदेवं स्थिते हस्ताभिनयस्यैवात्रावकाशो नास्तीति कस्तत्र तत्संमेलनात्मनो वलनावर्तनादेराशङ्कावकाशो यन्निषेधोऽत्र वचनीयः स्यात् | न चेह नाट्यं प्रकृतमित्यास्ताम् | एवं गीतकादेरन्ते च्छन्दकं पाणिकायास्तु लास्यगानस्वीकारिणी चतुष्पदा प्रयोज्या | इयता गीतकादि पूर्णं प्रयुक्तम् | एतदर्थमेव वीक्ष्य शङ्करम् | सुकुमारप्रयोगेण नृत्यन्तीं चैव पार्वतीम् | (ना. शा. ४-२४९) इत्युपक्रमात्प्रभृति द्विशाखत्वेनैव नृत्तस्वरूपमुपदर्शितम् | (३१०) तदत्र द्विविधे नृत्तविभागमाह श्लोकत्रयेण | देवस्तुत्याश्रयमिति | यदङ्गमिति | छन्दकसम्बन्धि | उद्धतैरिति | विद्युद्भ्रान्तगरुण्दप्लुतकादिप्रधानैः | अत्र हेतुर्यतस्ते महेश्वरप्रयुक्ताः | यत् द्वितीयचतुष्पदासंबन्धि | ललितैरिति | तलपुष्पपुटलीननितम्बाद्यारब्धैः | अत्र हेतुः यतस्ते देवीकृताः | (३१२) एवं नृत्तविधिश्चतुष्पदायां सलास्यगानस्वीकारिण्यामुक्तः | अधुना भाण्डविधिर्वक्तव्यः | तत्र चतुर्भिः पादैर्ध्रुवा क्रियते | ते च पादौ शुष्काक्षरैर्झण्टुमादिभिः (दिग्ल इत्यादिभिर्वा) यद् वक्ष्यते - आसनेषूपविष्टैर्यत्तन्त्रीगानसमन्वितम् | गायनैर्गीयते शुष्कं तद्गेयपदमुच्यते || (का. मा. ना. शा. १८-१८५) प्. २००) या ध्रुवा छन्दसा युक्ता समपादा समाक्षरा | तस्याः पादावसाने तु प्रदेशिन्या ग्रहो भवेत् || ३१५ || कृत्वैकं परिवर्तं तु गानस्याभिनस्य च | पुनः पादनिवृत्तिं तु भाण्डवाद्येन योजयेत् || ३१६ || इति | सार्थकपदैर्वा | तत्रापि वर्णवृत्तकृता पादा मात्रावृत्तकृता वा | ते समा अर्धसमाः विषमा वा | ते च प्राधान्येन खञ्जनर्कुटकवृत्तैर्योज्यन्ते | यद्वक्ष्यते ध्रुवाध्याये अष्टौ नर्कुटकानां तु | तिस्रः खञ्जकजातयः | (का. माणा.शा. ३२-२८०; ३०१) इत्युपक्रमय आभ्यो विनिस्सृताश्चान्या युग्मौजा विषमास्तथा | इति (ना. शा. ३२-३०८) एतद्विषयं भाण्डवाद्योपक्रमं | चतुष्पदा नर्कुटक इति | चतुष्पदापि सन्निधानाच्चतुष्पदायां परिगीतमपि ध्रुवाध्याये त्रिवृत्तकं यदि वा शुष्कगीतं तत्रैव | तदेतेषु त्रिषु प्रकारेषु भाण्डवाद्यस्य पुष्करवाद्यस्य विधिं वक्ष्यामि | खञ्जकजात्या नर्कुटकजात्या वा या चतुष्पदा ध्रुवा क्रियतेऽस्यां प्रथमपादस्य यावदुपा (न्त्या) (कला) तावच्च श्रीवंशान्वितं गानम् | अन्ये(न्या) तु या सन्निपाताख्या हस्तद्वयसमायोगशब्दपरिच्छेद्या कला तद्गानसमये भाण्डवाद्यमारम्भणीयम् | येषामर्ध (एषोऽर्ध)समविषमो(म)वृत्तात्मकं(को) नर्कुटकखञ्जकजात्यारब्धायां चतुष्पदायां विधिः | (३१४) वर्णवृत्तसमवृत्तात्मकतज्जात्यारब्धायां तु विधिमाह - या ध्रुवेति | समपादा चतुष्पादा | तदयमर्थः - या चतुष्पदा | छन्दसा युक्तेति | युक्ता जातिगतवर्ण वृत्तयोजिता | समाक्षरेति | तज्जातिकसमवृत्तमयी | तस्याः प्रथमे पादे परिसमाप्ते द्वितीयपादे या प्रदेशिनी तर्जनी तदुपलक्षिता या चातीतकलमप्र(चात्र त्रिकलप्र)भृति भाण्डवाद्यं योज्यम् | तत्र युग्मेन मानेन यदा चतुष्पदा भवति - यद्वक्ष्यते युग्मौजा वा प्रमाणतः | (ना. शा. ३१-२९३) इति त्रि(द्वि)कलश्च मार्गः तदा द्वितीयपादे सप्तमी | या निष्क्रामकला सा तर्जनीप्रयोज्यत्वार्तर्जनी | चतुष्कलमाने तु त्रयोदशी | प्. २०१) अङ्गवस्तुनिवृत्तौ तु वर्णान्तरनिवृत्तिषु | तथोपस्थापने चैव भाण्दवाद्यं प्रयोजयेत् || ३१७ || येऽपि चान्तरमार्गास्स्युः तन्त्रीवाक्करणैः कृताः | तेषु सूची प्रयोक्तव्या भाण्डेन सह ताण्डवे || ३१८ || आवापकालतर्जनी | यदा तु त्र्यश्रेण मानेन तदा द्विकले पञ्चमी | कनिष्ठा निष्क्रामकला तर्जनी | चतुष्कले तु नवमी | आवापकला तर्जनी | एतच्च तालाध्याये वक्ष्यते - कनिष्ठाङ्गुलिनिष्क्रामः इत्याद्युपक्रम्य तर्जनीकृतो निष्क्रामः (ना. शा. ३१-४१ ४२) इत्यादिना | दत्तिलाचार्येण तु संक्षिप्योक्तमेतत् - आद्यद्वितीयमध्यान्तात्पादभागाद्विदुः क्रमात् | कनिष्ठानामिकायुक्तो मध्यमादेशिनीकृतात् || अयुग्ममध्यहीनः स्यात् इति | एवं तर्जनीप्रयोज्यो योऽसौ द्वितीयपादे कलापातः त(तस्त)त्र भाण्डग्रहस्तदुपलक्षितश्च नर्तकीप्रवेश इत्युक्तं भवति | अन्ये त्वाकाशग्रहासु निश्शब्दकलातो ग्रहं मन्यमानाः सन्निपातप्रकरणात्सशब्दात्पातादेव ग्रह इहेति वदन्तः प्रदेशिनीशब्देन तदुपलक्षितपादभागगमनं सशब्दमेव पादग्रहावधिकेनाचक्षते | पञ्चपाणिप्रपाता ये पुष्कराध्याये वक्ष्यन्ते तन्मध्यात्प्रदेशिनीपातेन भाण्डग्रह इति व्याख्यानं सन्निपातोऽनुग्रहः इति र्पकरणेन तथा ध्रुवाध्याये वक्ष्यमाणेन चतुर्ग्रहा ध्रुवा इत्युपक्रम्य सन्निपातग्रहाः काश्चित्तथा काशग्रहाः पराः | प्रदेशिनीग्रहास्त्वन्यास्तथैवान्याः समग्रहाः || (ना. शा. ३२-४२३) इति विधिना विरुद्धमित्युपेक्षितं लक्ष्यवेदिभिः (३१५) नन्वेवं नर्तकी प्रविष्टा ततः प्रभृत्यभिनयं तावत्करोति | यस्त्वसावाद्यः पादस्ततोऽधिकोऽपि वा भागस्तत्र नर्तकी नैव प्रविष्टेति वा (का) तत्र वार्तेत्याशङ्क्याह - कृत्वैकमिति | योऽसौ शुद्धविभागः पूर्व गीतः स परावर्तनीयो भाण्डवाद्येन प्. २०२) महेश्वरस्य चरितं य इदं सम्प्रयोजयेत् | सर्वपापविशुद्धात्मा शिवलोकं स गच्छति || ३१९ || सहाभिनेतव्य इति पश्चादसौ प्रयोज्य इत्युक्तं भवति | पादग्रहणमुपलक्षणम् | तेन यावान्भागो भाण्डवाद्येन प्राङ्नियोजितोऽत एव नाभिनीतस्तावतो निवृत्तिः परावर्तनं कार्यमित्युक्तं भवति | (३१६) अथात्र चतुष्पदायां भाण्डवाद्यविशेषाभिधानव्याजेन नृत्तस्थानं दर्शयति - अङ्गवस्तुनिवृत्तौ त्विति | तुर्भिन्नक्रमोऽवधारणे | अङ्गस्यैकस्य वा वस्तुनो वा सर्वस्य ध्रुवाशरीरस्य स्थाययादिविशेषस्य वा प्रतिशाख न्यायेन तत्परावर्तनं यच्चोपस्थानमूहा(?)(पस्थापना)त्मकं तेषु प्रकर्षेण भाण्डवाद्यं वैचित्र्ययुक्तं योजयेत् | तद्वशाच्च तत्र नृत्ताङ्गहारयोजनां कुर्यादित्यर्थः | (३१७) अथ शुष्काक्षरायाश्चतुष्पदाया विधिर्वक्तव्यः | सा च पूर्वमेव प्रयुज्यते आसनेषुपविष्टेषु इत्युक्तत्वात् | अत एव गेये गातव्ये काव्ये पदमवगमयन्त इति तत्पीठबन्धरूपत्वं तस्याः | तथा चान्यत्वे षिद्गकेषु गातव्यात्पूर्वं तावतीति नाका(रे?) | अत एव गेये ध्रुवागीते गेयं गातव्यमिति ह्येकोऽर्थः | तं विधिमाह - येऽपि चान्तरमार्गा इति | अन्तरं परस्परवैलक्षण्यं मार्ग्यते येनोपायेन सोऽन्तरमार्गः | संवाद्यनुवादिन्या स स्वर उपलक्षणात्मकोऽर्थप्राधान्याभावाच्च तेनैव व्यपदेशः | अत एवाह तन्त्रीक्रियया वाक्क्रियया | तदे(ए)व निरर्थकतया योजितास्तेषु समग्रहत्वेनैव भाव(ण्ड)प्रयोगः | नर्तक्या रचहाद्वि(रचनाद्धि)लास्याङ्गगतकाव्यार्थानुसारिहस्ताभिनयशून्यः सात्त्विकाङ्गवलनादिमात्रेण सूच्याभिनयः | यद्वक्ष्यति - वाक्यार्थो वाक्यवस्त्वङ्गैर्योज्यते यदा पूर्वम् | इति | पश्चाद्वाचाऽभिनय इत्ययं त्वङ्ग इहोपलक्ष्यः | एतच्च गातव्यप्रयोगे त्रिप्रकारकृततावन्मात्रतालगानसूच्याऽभिनयनमद्यापि दृश्यते | एवं वर्धमानकप्रयोगो गीतकप्रयोगो वा छन्दकप्रयोगेन चतुष्पदाप्रयोगेन च सहेतुकः परिपूर्णो भवति | अत एव तालाध्याय इत्यु(एतदु)पक्रमानुसारेणैव वर्धमानासारितकगीतकच्छन्दकचतुष्पदा तदन्तर्भूतलास्यगानस्य विधेः क्रमेण निरूपणं भविष्यती- प्. २०३) एवमेष विधिः सृ(र्दृ.)ष्टस्ताण्डवस्य प्रयोगतः | भूयः किं कथ्यतामन्यन्नाट्यवेद्विधिं प्रति || ३२० || इति भारतीये नाट्यशास्त्रे ताण्डवलक्षणं नाम चतुर्थोऽध्यायः || तीयता गीतानां मद्रकादीनाम् (ना. शा. ५-१३) इति पूर्वरङ्गाध्याये श्लोको भविष्यति | तस्यार्थः पुरस्तादेव निर्णीतः | तेन तदपसारेणैतदप्यालोच्योदीरितोऽयमर्थोऽनुष्ठेयः | (३१८) नन्वत्र पूर्वरङ्गगतप्रधानफलेनैव किं फलवत्ता उत फलान्तरमप्यस्तीत्याशङ्क्याह - (महेश्वरस्येति) | पृथक्फलवत्त्वं च दर्शयन् स्वातन्त्र्येण प्रयोज्यमिदमिति दर्शयति - महेश्वरस्येति | चरितमिति चेष्टितम् | प्रयोजयेदिति स्वार्थे हेतुमति च तन्त्रेण णिचि | तेन प्रयोक्तुं(क्तुः) प्रेक्षाप्रवर्तयितुश्चार्थपतेः सामाजिकवर्गस्य च पापविशुद्धिः शिवलोकगतमनन्तफलं नृत्तस्येति नान्य(ट्य)दृष्टैकप्रयोजनाद्भिन्नप्रयोजनत्वमुक्तम् | स्वातन्त्र्येण प्रयोगे च छन्दकानां चतुष्पदायाश्च केवलत्वेनापि प्रयोगो ह्यनुज्ञातो भवति | तदङ्गानां च पुनः पुष्पाञ्जलिधरा भूत्वा इत्याद्यनुसारेण वर्णानां लोके प्रयोगः | तस्याः पादावसाने तु इत्याद्यनुसारेण धारापरिक्रमादेः यदा गीतवशात् (ना. शा. ४-३००) इत्यनुसारेण द्विगुणाद्यर्थ - गुणालकवारणकगुञ्जियकादेश्चतुरपसारकादिविधा च डोम्बिकादिषु क्रमेण नर्तकीवृद्धिराचार्यैराधेया(?) | तालानुसारेण च त्रिपाणिलयसंयुक्तम् इत्याद्यनुसारेण धारापरिक्रमादेः लयपरिष्वङ्कितलयतालपरिक्रमादेः | (३१९) तदेतत्सर्वमीश्वरपरितोषकार्येवेति तथैतदुपसंहारपूर्वकमध्यायान्तरावकाशं करोति - एवमेष इत्यादिना | एवं पूर्वोक्तेन प्रकारेण | प्रयोगत इति | प्रयोगं नाट्यात्मकमपेक्ष्य ततोऽन्यस्तद्विलक्षणो विधिः प्रकारो दृष्टः | तथा नाटकादिसा(दौ सा)माजिकवत्प्रयोक्तृतन्मयीभाववशेन नाट्यं संस्कारमपेक्ष्याभिनयादिविधिर्दृष्टो न तु साक्षात्कारकल्प्यनाट्यरूपताऽत्रास्ति | चतुर्विधाभिनययोगाभावाद्रसभावाप्राधान्याद्गीतवाद्यनृत्तानां यथेष्टं प्राधान्यं नर्तकीवृद्धेः | काव्ये वस्त्वपेक्षत्वान्नाट्यप्रस्तावनाप्राणप्रतिबिम्बात्मकता त्रिविधत्वान्मदमूर्च्छादौ तत्त्वापत्त्ययोगाद्गीतकादेश्च नियमादृष्टप्रयुक्तत्वाद्गीतादिप्राधान्येनैव प्रयोगात्कुलकाच्छेद्यात्मनः काव्यस्य गीत्याधारतानान्तरीयकत्वमात्रेण गमनपिण्डीबन्धप्रकारवैचित्र्यान्ते नृत्तमात्रविश्रान्तेः प्रयोक्तृप्रवर्तयितृगातृदृष्टफलप्राधान्याच्च तद्विलक्षणं नाट्यं तद्वृत्तिर्भिद्यत इति एवं शब्दस्यार्थ इत्युपाध्यायमतम् | प्. २०४) रसभावदृष्टिहस्तशिर आद्यं यद्यङ्गं पूर्णं वाऽपूर्णं वा कृ(कु)त एव नाट्यनृत्तयोर्भेदस्तुल्यानुकारत्वे इति हर्षवार्तिकम् | शिक्षार्हस्वेच्छान्यनृत्तकतिपयनाट्याङ्गकृतं नृत्तमभ्यासफलम् | इति भट्टयन्त्रः | समयमात्रमित्यादिमङ्गलवद्विवाहादौ इति भट्टलोल्लटः | दशरूपकभेदवल्लास्यताण्डवप्रयोगो नाट्यभेद एव | तत्र पूर्णानुकार - रूपत्वात् | तथाहि - प्रवेशेऽश्वत्थाम्नः सूचीविद्धोर्ध्वजान्वादि | पुरूरवसोऽलपल्लवसूची | गरुडस्य गरुडप्लुतकम् | रावणस्य पुष्करो वैशाखरेचितकः | वत्सराजस्याग्निसम्भ्रमोऽ(तिक्रा)न्तः | जटायुषो गृध्रावलीनकमेलकाक्रीडितं चेति चित्राभिनयेन बाल्ये(वान्ये)न करणप्रयोग एव | अभिनेयपदादीनां च नाट्येऽपि सक्ते(क्तते)ति नाट्यमेवेदमिति कीर्तिधराचार्यः | एतच्च (वञ्च) स्वमतानुसारेण एवं शब्दार्थमाहुः | युक्तायुक्ततां तत्र परीक्षका एव विदुरित्यलं बहुना | प्रसङ्गाङ्ग(ग)तया नृत्ततया (वार्तया) प्रसक्तानुप्रसक्तत्वेन नृत्तगतमेवान्यत्किञ्चित्प्रसिद्धिः(द्ध)प्रकृता(त)नाट्यगतानां(गतता मा) विच्छेदीत्यभिप्रायेणाह - नाट्येति | नाट्यमेव वेदस्तस्य यो विधिः प्रयोगस्तं प्रतीति शिवम् | (३२०) रविशशिहुतभुक्कल्पितनयनत्रयकिरणदलिततिमिरततिः | अभिनवगुप्तस्ताण्डवमेनं व्यवृणुत तत्(?)स्पष्टम् || इति माहेश्वराचार्याभिनवगुप्तविरचितायामभिनवभारत्यां नाट्यशास्त्रविवृतौ ताण्डवविधानाध्यायश्चतुर्थः || प्. २०५) श्रीः अथ पञ्चमोऽध्यायः | भरतस्य वचः श्रुत्वा नाट्यसन्तानकारणम् | पुनरेवाब्रुवन्वाक्यमृषयो हृष्टमानसाः || १ || यथा नाट्यस्य जन्मेदं जर्जरस्य च सम्भवः | विघ्नानां शमनं चैव देवतानां च पूजनम् || २ || तदस्माभिः श्रुतं सर्वं गृहीत्वा चावधारितम् | निखिलेन यथातत्त्वमिच्छामो वेदितुं पुनः || ३ || पूर्वरङ्गं महातेजः सर्वलक्षणसंयुतम् | यथा बुद्ध्यामहे ब्रह्मंस्तथा व्याख्यातुमर्हसि || ४ || संसारनाट्यनिर्माणे याऽवकाशविधानतः | पूर्वरङ्गायते व्योममूर्तिं तां शाङ्करीं नुमः || अध्यायसङ्गतिं कर्तुं पुराकल्पेनोपक्रमते - भरतस्येति | नाट्यसन्तानम् | नाट्यस्य सन्तानं नृत्तकथया विच्छेदाशङ्कानिरासेनाविच्छेदः | नाट्ये पृष्टे दैववशात् महाफलं नृत्तमपि तद्विवेकेन ज्ञातम् | तज्ज्ञानाच्च तद्विभक्तं नाट्यमपि सुष्ठु ज्ञातम् | तदनुरक्तं च नाट्यं हृदयावर्जकमिति हृष्टमानसत्वम् | स्वगत(त)त्त्वग्रहणधारणादिसामर्थ्यात्मकशिष्यसम्पद्दर्शनायत्त? गुरुप्रोत्साहनमित्यभिप्रायेणाहुः तथेति | पूजामध्य एव नृत्तं प्रविष्टमित्यध्यायचतुष्टयतात्पर्यं प्रत्यनुभाषितम् | ऊहापोहविज्ञानादिकमपि दर्शयति - गृहीत्वेति | चकारात् धारयित्वाऽवधारितं निश्चितम् | निखिलेन साकल्येनेति | प्. २०६) तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः | प्रत्युवाच पुनर्वाक्यं पूर्वरङ्गविधिं प्रति || ५ || पूर्वरङ्गं महाभागा गदतो मे निबोधत | पादभागाः कलाश्चैव परिवर्तास्तथैव च || ६ || यथातत्त्वमिति तत्त्वाभिनिवेशमाहुः | पूर्वरङ्गं वेदितुमिच्छाम इति जिज्ञासा दर्शिता | यथा सर्वलक्षणसंयुक्तं बुध्यामहे तथा व्याचक्ष्वेति व्यार्ख्याप्रकारविषयेऽप्याचार्यान्वेषणम् | महत्तेजो ज्ञानात्मकमस्य तत् | आमन्त्रणं गुरुप्रोत्साहनार्थम् | पूर्वरङ्गे कृते पूर्वं तत्रायं द्विजसत्तमाः || (ना. शा. ४-१०) इति जिज्ञासादर्शनपूर्वप्रयोज्यतया तथैव जिज्ञासा जाता | पूर्वरङ्गविधावस्मिंस्त्वया सम्यक्प्रयुज्यताम् || (ना. शा. ४-१४) इति | यस्त्वयं पूर्वरङ्गस्तु त्वया शुद्धः | (४-१५) इति परमेश्वरादरवचनेन सुष्ठुतरां दृढीकृता | तथैव तावदवश्योपासनीयेति तात्पर्यम् (१-५) | गदत इति शब्दमात्रेण तावन्निरूपयत इत्यर्थः | आश्रावणादिस्वरूपं हि गेयाधिकारे (ना. शा. २९) सम्यक् निर्णेष्यते | अनादरे षष्ठी | निगदितमनादृत्य स्वबुद्ध्या बुद्ध्यध्वम् | यद्यपि मयाऽत्र क्रमेण नैतदुक्तं गेयाधिकारस्यापि सुदूरत्वात् | तथापि यस्य येनार्थसम्बन्ध इत्यर्थक्रम आदर्तव्यो न खलु शाब्द इति गदनक्रमानादरणं गदितरि सङ्क्रमययोक्तम् | तत्र पूर्वरङ्गशब्दं निरुक्त्या तावद्व्याचष्टे - पादभागा इत्यादिना | इह बहिर्यवनिकाङ्गान्येव पूर्वरङ्गः | तानि च गीतकानीत्युत्थापनानि ध्रुवारूपाणि | तत् द्विकलचञ्चत्पुटचाचपुटतालेन विशिष्टगतिगतेनेति तदेव पूर्वरङ्ग इति तावत्तात्पर्यम् | तत्र मात्रायाः यः षोडशो भागः तदारब्धा मात्रा | तदारब्धं वस्तु | एवं वस्तुनिबन्धेषु गीयमानं तावत्स्वीकृतम् | भागश्च द्विकलचतुष्कलयोर्मार्गस्य चञ्चत्पुटादीनां सङ्गेन भवति | यथाऽक्षरेषु तु चञ्चत्पुटादिषु कलादिभागलग्ना इति यथाऽक्षरमार्गः कलाग्रहणेन सङ्गृहीतः | यथाक्षरद्विकलचतुष्कलतया सर्वमेव प्. २०७) यस्माद्रङ्गे प्रयोगोऽयं पूर्वमेव प्रयुज्यते | तस्मादयं पूर्वरङ्गो विज्ञेयो द्विजसत्तमाः || ७ || गीतकवर्धमानादि गानं गीयमानं मे(गे)यं रूपं सङ्गृहीतम् | कलाशब्देन च सप्तविधा तालकला निष्क्रामादिरुच्यते | तया समस्तो मानात्मकस्तालमार्गो गृहीतः | भिन्नार्थानामपि च सरूपाणामेकशेषः | पादा इत्यादि | एवं परिवर्तन्त इति परिवर्ताः | द्विसङ्ख्यातत्रिसङ्ख्यातादिषु परिवर्तैः सकलेतिकर्तव्यता परिगृहीता | चकारात्केवलं तन्त्र्यादि | एवकारेण केवलः प्रयोगः | तथाशब्देनाङ्गाङ्गिभावप्रयोगो यथायोगं दर्शितः | द्वितीयेनैवकारेण नाट्याङ्गता सूचिता | द्वितीयेन चकारेण च पाठ्यादि नृत्तं च | तेन गीततालवाद्यनृत्तपाठ्यं व्यस्तसमस्ततया प्रयुज्यमानं यन्नाट्याङ्गभूतं स पूर्वरङ्ग इत्युक्तं भवति | यस्माद्रङ्गे मण्डपे आधारे नाट्ये वा रङ्गे बुद्धिस्थे भविष्यति | युज्यत एव च पूर्वम् | प्रत्याहारादिकेन ह्यङ्गेन विना गायनादिसामग्र्यसम्पत्तेः कथं नाट्यप्रयोगः | न ह्यहो (ह्येव) किल तन्तुतुरीवेमादेः(विना) शक्यः पटः कर्तुम् | केवलं प्राङ्मुखान्नभोजनवन्नि(यमप्र)योजनत्वेऽपी(त्वमपी)ति वक्ष्यते | तेन पूर्वो रङ्ग इति पूर्वरङ्गः | सुप्सुपेति समासः | राजदन्तादित्वाद्वा परनिपातः | श्रीहर्षस्तु रङ्गशब्देन तौर्यत्रिकं ब्रुवन् नाट्याङ्गप्रयोगस्य तस्यैव पूर्वरङ्गतां मन्यमानः पूर्वश्चासौ रङ्गश्च इति समासममंस्त | यदाह - दृष्टा येऽवस्थार्थे नाट्ये रङ्गाय पादभागाः स्युः | पूर्वं तं एव तु यस्मिन् शुद्धः स्युः पूर्वरङ्गोऽसौ || इत्यादि | रङ्गस्य पूर्वो भाग इति त्वसत् | न ह्ययं मण्डपस्यैकदेशः | नापि नाट्यस्य | नह्यय. भावानुकीर्तनात्मकव्याख्यानानुकारस्वभावः | अपि तु शिक्षादिवत्पारमार्थिक एव प्रयोगसम्पत्त्युपकरणभूतो भोजनादितुल्यः प्रत्याहारादिरर्थः | नृत्तमप्यत्र वैचित्र्यकारित्वेन प्रविशत् नाट्यरूपगतं नृत्तम् इत्यङ्कुरसूचितनृत्तन्यायेनानुकारधुरारोहि | अपि तु देवतापरितोषणफलं सू(धू)पविलेपनादिदानवत् सत्यमेवेति पूर्वो रङ्गे इत्येष एव संन्या(समा)सः | (५-७) प्. २०८) अस्याङ्गानि तु कार्याणि यथावदनुपूर्वशः | तन्त्रीभाण्डसमायोगैः पाठ्ययोगकृतैस्तथा || ८ || प्रत्याहारोऽवतरणं तथा ह्यारम्भ एव च | आश्रावणा वक्त्रपाणिस्तथा च परिघट्टना || ९ || ननु प्रत्याहाराद्यङ्गसमूहः पूर्वरङ्गः | तत्कथमुक्तं गीतादिः पूर्वरङ्ग इत्याशङ्क्याह - अस्याङ्गानि त्वित्यादि पूर्वरङ्गे भवन्ति हीत्यन्तेन श्लोकसप्तकेन सार्धेन महावाक्यम् | अस्य इति | पूर्वरङ्गस्य | तुर्हेतौ | लक्षिष्यमाणानि प्रत्याहारादीन्यासारितान्तानि नव अन्तर्जवनिकं प्रयोज्यानि | ततोऽनन्तरं गीतकादीनि प्ररोचनान्तानि दश जवनिकाया बहिः प्रयोज्यानीत्यर्थः | यानि च यवनिकाया बहिर्गीतकप्रयोगादीइ प्ररोचनान्तानि दश तानि सर्वाण्य(ण्यपि) पादभागाद्युपलक्षितादिरूपस्योक्तस्य सम्बन्धित्वेन यस्मात्कार्याणि तस्मात् पादभागादिरेव पूर्वरङ्ग इति पूर्वेण सम्बन्धः | अङ्गानां न्यूनाधिकभावे हि भूयांसः पूर्वरङ्गभेदाः | ते च गेयाधिकारे (अ-२९)दर्शयिष्यन्ते | इह तु दृ(तूद्दि)श्यमानास्तन्त्रभावानभिज्ञानानां सम्प्रमोहफला एव | उक्तं च वार्तिके - नान्द्यादिषट्के च रङ्गभेदः | न तु प्रत्याहारावतरणे | आद्यो (द्यानि) रङ्गद्वारादीनि | पाश्चात्यानि न पादभागाद्यारब्धानि इति | सत्यम् | किन्तु समुदितत्वे नात्र रङ्गता रमणीयभावः सम्बन्धः | अपि तु सद्भावमात्रम् | तच्च सर्वत्रैव विद्यत इति वक्ष्यते | तदाह - यस्मादेतानि पूर्वरङ्गे संभवन्ति तस्मादस्य संबन्धित्वेन कार्याणि | तत्र यवनिका रङ्गपीठतच्छिरसोर्मध्ये | तस्या अन्तरागतैः प्रयोक्तृभिर्नटैः प्राधान्यात् यदि वा वैणिकादिभिरेव प्रयोक्तृभिः प्रयोज्यानि प्रत्याहारादीनि | गीतकपिण्ड्या(पाठ्या)दीनि तु यवनिकायामपसारितायाम् | गीतानामित्यादिना श्लोकेन गीतकवर्धमानान्यतरप्रयोग उक्तः | अन्ये तु अथापि स्थाने (ना. शा. ५-१३) अतोऽपीति पठन्त उभयप्रधानमनुजानते | तच्चान्त्यपदार्थेन विरुद्धम् | निर्देशविधौ चैकमेवाङ्गं भविष्यति | न तु द्वे | कीर्तनाद्देवतानां च ज्ञेयो गीतविधिस्तथा | (ना. शा. ५-२१) इति | प्. २०९) सङ्घोटना ततः कार्या मार्गासारितमेव च | ज्येष्ठमध्यकनिष्ठानि तथैवासारितानि च || १० || एतानि तु बहिर्गीतान्यन्तर्जवनिकागतैः | प्रयोक्तृभिः प्रयोज्यानि तन्त्रीभाण्डकृतानि तु || ११ || ततः सर्वैस्तु कुतपैः संयुक्तानीह कारयेत् | विघाट्य वै जवनिकां नृत्तपाठ्यकृतानि तु || १२ || गीतानां मद्रकादीनां योज्यमेकं तु गीतकम् | वर्धामनमथापीह ताण्डवं यत्र युज्यते || १३ || ततश्चोत्थापनं कार्यं परिवर्तनमेव च | नान्दी शुष्कावकृष्टा च रङ्गद्वारं तथैव च || १४ || चारी चैव ततः कार्या महाचारी तथैव च | त्रिकं प्ररोचना चापि पूर्वरङ्गे भवन्ति हि || १५ || एतान्यङ्गानि कार्याणि पूर्वरङ्गविधौ द्विजाः | एतेषां लक्षणमहं व्याख्यास्याम्यनुपूर्वशः || १६ || उभयात्मकं तावदेवैकमङ्गमस्तीति केचित् | अपिशब्दाद्यानि कानि | उद्देशावसर एव ताण्डवं यत्र इत्यभिधानमस्याङ्गस्य नृत्ते विनियोगं दर्शयति | तेन नाट्याद्यङ्गानि नृत्तशून्यान्यपि भवन्तीति दर्शयतीति तदैव च शुद्धत्वव्यवहारः | यद्वक्ष्यति शुद्धं चित्रमथापि च | इति (८-१५) एवं पूर्वरङ्गसामान्यलक्षणसमाना(सा)र्थेऽपि यानि प्रयोज्यान्यङ्गानि तेषामयमेवोद्देशो भवतीति दर्शयति - एतानीति | क्रमकथनेनैततत्सङ्ख्यान्येव चेत्यर्थः | प्. २१०) कुतपस्य तु विन्यासः प्रत्याहार इति स्मृतः | तथावतरणं प्रोक्तः गायिकानां निवेशनम् || १७ || यथोद्देशं लक्षण कर्तुमुपक्रमते - एतेषामिति | तत्क्रममाह - कुतपस्य त्विति | नेपथ्यगृहदारयोर्मध्ये पूर्वाभिमुखो मार्दङ्गिकः | तस्य पाणविकदार्दरिकौ वामतः | रङ्गपीठस्य दक्षिणतः उत्तराभिमुखो गायनः | अस्याग्रे उत्तरतो दक्षिणाभिमुखस्थितयो गायन्यः | अस्य वामे वैणिकः | अन्यत्र वंशवादकावित्येवं कुतं पाति कुं तपतीति शब्दविशेषपालकस्य नाट्यभूमिकोज्ज्वलताधायिनश्च वर्गस्य यो विचित्रो न्यासः स विप्रकीर्णानामेकत्र ढौकनात्मा प्रत्याहारः | यद्यपि कुतपस्य विन्यासमध्य एव च गायकस्याभिमुख्यो रङ्गपीठस्योत्तरतो गायिन्य इति गायिकानां विन्यासः तथापि त्ववतरणं नाम पृथगङ्गमुक्तमङ्गनागीतस्यावश्यंभावित्वं रञ्जकवर्गे ख्यापयितुम् | यदुक्तम् - यद्यपि पुरुषो गायति गीतविधानं तु लक्षणोपेतम् | स्त्रीविरहितः प्रयोगस्तथापि न सुखावहो भवति || (ना. शा. ३३-५-७) इति | यस्त्वाह - नारदाद्यैस्तु गन्धर्वैः (ना. शा. ५-३२) इति भाविश्लोके केवलं पुरुषाणां गातृत्वं वक्ष्यमाणमिहाशङ्क्य पृथगवतरणमुक्तम्(मिति) | तस्यैतदनवकाशम् | गन्धर्व्यश्च गन्धर्वाश्चेत्येकशेषेण स्त्रीगीतस्याप्यत्र संभावनात् | एवमवतरणान्तं वस्तुत एकमेवाङ्गम् | अत एव प्रयोग एक उभयत्र कृतो भवति | यद्वक्ष्यति पुष्कराध्याये (ना. शास्. ३४- १९८) आसनोपविष्टेषु मार्दङ्गिकादिषु इत्युपक्रम्य प्रथमं त्रिसाम | त्रिप्रकारं त्रिगुणितं तथैवात्राड्.इताश्रयम् | त्रिकलं षट्कलं चैव त्रिसामत्वात्त्रिसामसु || (काशी. मु. ना. शा. ३३-२०९) त्रिसामान्वितः | त्रिसामाक्षरविद्धस्तु गुरुलघ्वक्षरान्वितः | यकारश्च मकारश्च त्रिकैस्त्रिगुणितो भवेत् || (ना. शा. ३४-१५९) (काशी. - ३३-२१०) प्. २११) परिगीतक्रियारम्भ आरम्भ इति कीर्तितः | आतोद्यरञ्जनार्थं तु भवेदाश्रावणाविधिः || १८ || वाद्यवृत्तिविभागार्थं वक्त्रपाणिर्विधीयते | तन्त्र्योजःकरणार्थं तु भवेच्च परिघट्टना || १९ || यस्त्रिसामा स प्रत्याहारो यावदवतीर्णकोटीति | अवतरणकोटौ छन्दः सममक्षरसमं वा बहिर्गीतानुवर्ति वाद्यं स्त्रीबालमूर्खादिकुतूहलादिजननं प्रयोज्यम् | अन्ये मन्यन्ते निवेशनं स्थानस्वरादौ | न तूपवेशनमत्र | तथा च सप्तस्वरपरिग्रहोऽवतरणादाशुगत्या (र्णामेति जात्या) दिरूपाङ्गसप्तकेन शुद्धसप्तकेन शुद्धसप्तकगीतिज्ञपयोज्यमिति | एतद्धनतालविधौ (ना. शा. ३१) वितत्य विचारयिष्यते | (१६-१७) ननु च (यावत्) परिगीतक्रियाद्यारम्भो न कृतस्तावत् त्रिसामप्रयोगोऽपि कथम् | सत्यम् | किञ्चिद(किम)र्थमयं प्रयोगक्रम इत्यवधार्यताम् | इह दृष्टार्थान्येव तावदेतान्यङ्गानि | तथा हि - पूर्वं उपरञ्जकवर्गढौकन रूपमवगन्तव्यमित्यर्थः | गेयत्वेन गीतस्योपरञ्जकस्य प्राधान्यात् | तस्य बिम्बभूतशारीरस्वरमूलभूतत्वात् | तदनुसन्धानात्मालापाख्य आरम्भः | ततोऽपि मानरूपतालप्रधानसर्वातोद्यगर्भमनुसन्धानमासमन्ताच्छ्रावयतित्त् हाश्रावणा | ततोऽपि प्रतिबिम्बभूतवैणवस्वरस्वरूपानुसन्धानाय दक्षिणादिवृत्तिविभागानुसन्धानात्मा वक्त्रपाणिः | वक्त्रे प्रारम्भे हस्ताङ्गुलिव्यापारात् | दक्षिणादि इति | दक्षिणावृत्तिचित्राख्या वृत्तयः | तास्वयं विधिः | प्रधानं गीतमुभयं वाद्यं चेति यथाक्रमम् | गीतप्राधान्ये वाद्यगुणतायां दक्षिणा | गीतवाद्योभयप्राधान्ये वृत्तिः | वाद्यप्राधान्ये गीतगुणतायां चित्रेति | ततस्तु वृत्तिविभागगतशुष्कप्रयोगानुसन्धानात्मापरिघट्टना | घट्ट चलन इति पाठात् | शुष्कप्रयोग इति | निर्गीतं बहिर्गीतं शुष्कमित्युक्तम् | तत्रार्थप्रत्यायकपदरहितं यद् गीयते तन्निर्गीतम् | गीयमानेभ्यः सार्थकेभ्यःपदेभ्यो यद् बहिर्भूतं तद् बहिर्गीतम् | शुष्कैरक्षरैरनर्थकैः कंदुमाद्यैर्यत् प्रयुज्यते तत् शुष्कमित्यर्थः | पश्चाद्वीणावाद्योपजीवकत्वादवनद्धवाद्यस्यानुसन्धानं समपाण्यादिना प्रहारपञ्चकयोगेन क्रियत इति सङ्घोटना | घुट परिवर्तने | यतः पुष्कराध्यायेऽभिवक्ष्यते - पूर्वं शरीरदुद्भूता ततो गच्छति दारवीम् | ततः पुष्करजं च (ना. शा. ३४-३१) इति | (१८-१९) (समपाण्यादिना इति | अङ्गभूता हि तालस्य यतिपाणिलयाः स्मृताः इति पाणिस्तालस्याङ्गभूतः | स च त्रिविधः | तथा चाह | समपाणिश्च विज्ञेयो ह्यर्धपाणिस्तथैव च | तथैवोपरिपाणिश्च गीतवाद्यसमाश्रयः || लयेन यत् समं वाद्यं समपाणिः स कीर्त्यते | लयाद् यदर्धकृष्टं स्यात् सोऽर्धपाणिः प्रकीर्तितः | लयस्योपरि यद्वाद्यं पाणिः सोपरि कीर्त्यते || प्. २१२) तथा पाणिविभागार्थं भवेत्संघोटनाविधिः | तन्त्रीभाण्डसमायोगान्मार्गासारितमिष्यते || २० || कलापातविभागार्थं भवेदासारितक्रिया | कीर्तनाद्देवतानां च ज्ञेयो गीतविधिस्तथा || २१ || सोपरि इति | सोऽपि लोपे चेत् पादपूरणम् | स इत्येतस्य सोर्लोपो भवति लोपे चेत्पादपूरणम् | यदि लोपे सति पादः पूर्यते | प्रहारपञ्चक इति समप्राण्यर्धपाण्यर्द्धार्धपाणिपार्श्वपाणिप्रदेशिनीपाणिभिर्यत् प्रहारपञ्चकं तद्योगेनेत्यर्थः |) ततोऽपि प्रकृतिविकृतिमेयन्मानानुहार्यानुहर्तुरूपस्य वैणवपौष्करशब्दस्य परस्परसंमेलनं कार्यमिति मार्गासारितम् | मार्गे प्रकृत्यादिलक्षणे निजे गोचरे विकारादिरूपस्य पुष्करवाद्यस्यासमन्तात्सारणं गमनं यत्रेति | पश्चान्मेयमानस्वरूपे तु संहिते गेयवस्तुगततालस्वरूपोपक्षेपः | कलानामा(वा)पाद्यानां पातानां शम्यादीनां चानुसन्धिनेत्यासारितविधिः | एवं तावदन्तर्यवनिकाङ्गानां अदृष्टार्थ एव प्रयोगः | तान्यन्तरेण प्रयोगस्यैवासम्पत्तेः | तथा च भेज्जलनाम्ना कविना निजरूपक उक्तम् - मेघाशङ्किशिखण्डिताण्डवविधौ इत्यादि | एवं अदृष्टार्थे प्रयोगे पूर्वं कृते पश्चात् दृष्टार्थाङ्गानुसारेणैव बहिर्गीतविधिः | तदनुसारेण च तानि विशेषधातुवाद्ये (तन्निवेशगीतवाद्य)विधिः | तत्र प्रत्याहारावतरणयोस्त्रिसाम्ना प्रयोगः | रङ्गपीठस्य तिसृषु दिक्षु कुतपविन्यासात् | तालस्त्रिकलस्त्वादौ शम्यैककला कलाद्वये तालाः | वि(द्व)कला च पुनः शम्या तालो द्विकलस्तु कर्तव्यः || (ना. शा. २९-९५) द्विकलश्च सन्निपातः पुनः पिता पुत्रकश्च षट्पूर्वः | (ना. शा. २९-१००) चञ्चत्पुटस्तथा चेदारम्भे तालयोगस्तु | त्रिश्शम्योपरिपाणौ तालावित्येवमेककलः | समपाणौ द्वे शम्ये तालावप्येवमेवाथ || (ना. शा. २९-८९) भूयश्शम्या तालाववपाणावुत्तरस्तथा चैव | चञ्चत्पुटस्तथा स्यादेवं ह्याश्रावणातालः || (ना. शा. २९-९०) शङ्कुकस्तु पठति उत्तरस्तथा चैव इति स्थाने उत्तरस्तथा द्विकलः इति एककल इत्यत्र च स्थाने निर्दिष्ट इति | प्. २१३) अतः परं प्रवक्ष्यामि ह्युत्थापनविधिक्रियाम् |) यस्मादुत्थापयन्त्यत्र प्रयोगं नान्दिपाठकाः | पूर्वमेव तु रङ्गेऽस्मिंस्तस्मादुत्थापनं स्मृतम् || २२ || केचिच्चाष्टाविंशेऽध्याये (२९-८६) आश्रवणायाः पूर्वमभिधानादिह चारम्भस्य पूर्वपाठाद् ज्ञापकाद्विकल्पमिच्छन्ति | अतः सर्वातोद्यस्वरूपानुसन्धिनिर्गीतालापक्रिया चेति (निर्गीततालप्रक्रियाचेति?) | द्विकले मद्रके यत्तु शम्यातालादियोजनम् | तत्सर्वं वक्त्रपाणौ तु कार्यमष्टकले मुखे || तस्याधस्तात्पुनः कार्यं पञ्चपाणिचतुष्टयम् | वक्त्रपाणेरयं तालो मुखप्रतिमुखाश्रयः || (ना. शा. २९-९७) केचित्तु वक्त्रवार्ध(पाण्यर्ध)गतमिच्छन्ति | तैर्वस्तुक्रमो वृत्तिशब्दश्च न चर्चितः | संपिष्टकवच्चास्यास्ताल (ना. शा. २९-११२) इति परिघट्टनातालः | तत्र - सप्ताङ्गे द्वादशकलं द्वादशाङ्गे दशैव तु | निष्क्राममादितः कृत्वा शम्यास्तिस्रः प्रयोजयेत् || (ना. शा. ३१-२७८) तालत्रयं ततश्चैव शम्यातालौ ततः परम् | शम्यातालौ ततः कार्यौ सन्निपातोऽन्त्य एव च || (ना. शा. ३१-२७९) ओवेणके तु सप्ताङ्गे सम्पिष्टकमिदं मतम् | द्विशम्यातालयोगेन द्वादशाङ्गे कला दश || (ना. शा. ३१-२८०) शङ्कुकस्तु - सम्पक्वेष्टकवदस्याताल (ना. शा. २९-११२) इति पठति | तालादिस्त्र्यश्रभेदोऽन्यो ज्ञेयः पक्वेष्टको बुधैः | गुरुपञ्चाक्षराभ्यान्तु(द्यन्त)प्लुतमात्रासमन्वितः || (ना. शा. ३१-२१) इति अन्ये तु पठन्ति - गुरुपञ्चाक्षरेऽन्ते च प्लुतमात्राद्वयान्वितः || इति || तथा द्वौ | सम्पिष्टशब्देतुव(शब्दव)त्करणवाचकं शीर्षकवदितिवत्(?) | न हि तस्य प्. २१४) यस्माच्च लोकपालानां परिवृत्य चतुर्दिशम् | वन्दनानि प्रकुर्वन्ति तस्माच्च परिवर्तनम् || २३ || च तदानीमङ्गता | केवलप्रयोगात्प्रकरणं चात्र साक्षी | शीर्षकवद्वालासारितवदिति चानयोर्मध्ये पठितमेतत् | पक्वेष्टकस्य तथैव तालाद्य(प्लुत)द्वयेत्यर्थो ? न सङ्गतः | सङ्घोटनायां तालस्तु शीर्षवत्पञ्चपाणिना | (ना. शा. काशी २९-१४२) अनयोरप्यङ्गयोः पूर्ववत्केचित्क्रमविकल्पमिच्छन्ति | बालासारितवच्चैव तालोऽस्य परिकीर्तितः | (ना. शा. २९-११६) इति मार्गासारितस्य तालः | अभिसृतपरिसृतान्यप्यत्र मार्गासारितमध्य एव तत्स्थाने वा विकल्पने प्रयोक्तव्यानि | लीलाकृतं नाम यत्तत्ता(दा)तोद्यविधौ (ना. शा. २९-११७) वक्ष्यते तदिह न सङ्गृहीतम् | आसारितानां च त्रयाणां स्वत एकस्तालाध्याये (ना. शा. ३१-१४६-१७३) वितत्य वक्ष्यत इत्येवं प्रयोगक्रमः | अत एव पूर्वरङ्गे सद्भावमात्रेण सप्रत्याहारका(रादा)वपि सामान्यलक्षणमनुगतमेव | अत्र च शुष्काक्षरधातुवाद्यविधिरष्टाविंशेऽध्याये ततातोद्यविधौ भविष्यति त्रिमाम्नि पुष्कराध्याये (ना. शा. ३४) तत एवावधार्यमिति | विस्तरभयात्तु न लिखितम् | अत्र च वैचित्र्यार्थ समुचितमात्रमित्यादिप्रवृत्तिमपि भाविरूपकोचितं काव्यमपि पठ्यमानं केचिदिच्छन्ति | तथा हि सति पाठ्ययोगकृतैस्तथा (ना. शा. ५-८) इति न सङ्कोचितं भविष्यति | युक्तं चैतत् | यथा हि रमणीयात्यु(द्यु)पकरणभूतशयनविरचनादौ प्रतिपादुकस्तम्भधूपवस्त्रादिष्वपि तदुचितनायकयुगलादिप्रायविचित्राकृतियोगो युद्धोचितसन्नाहक(स)ङ्कटादौ च कातरजनभयभावनं नृसिंहगरुडादिरचनाकृतियोगस्तथैव ह्यतिरमणीये नाट्ये भविष्यन्ति (ति) यदुपरञ्जकवर्गढौकनादौ - एतदपि सुकुमारतदुक्तगीतपाठ्याभिनययोगेनैव कार्यम् | तच्चापसारितायामेव यवनिकायाम् | उत्थापनाङ्गमध्ये ह्यस्यैककलः पाठ्यसहितः प्रयोगः | तथा हि वक्ष्यति यस्मादुत्थापयन्ति इत्यादि | रङ्गे यः पूर्वं प्रयोगः कृतः प्रत्याहारादिस्तं यस्मादुत्थापयन्ति फलस्वरूपनिरूपकपाठ्यतदभिनयादिना स्फुटीकुर्वन्ति तस्मादित्यर्थः | पाठ्यावकाशदानार्थमेव चात्रेदं देवतास्तुतिगीतिफलविशेषाभिधानम् | अन्यथा देवतापरितोषायैतत्प्रयोज्यमिति सामान्येन वक्तव्यं स्यात् | विशेषोपदेशस्य प्रयोगे विफलत्वात् | प्. २१५) आशीर्वचनसंयुक्ता नित्यं यस्मात्प्रयुज्यते | देवद्विजनृपादीनां तस्मान्नान्दीति संज्ञिता || २४ || अन्ये तु प्रत्यङ्गं पश्चात्तत्प्रयोगमाहुः | तस्तु प्रयोक्तं कस्तदेति निरूप्यम् | अत्र त्विदमित्यर्थः | कृतमित्युक्तिभङ्ग्या पाठ्यं तद्गीतप्रयोगः पदयुक्तोऽपि केवलमन्तर्यवनिकागतप्रत्याहारादिविषयत्वात्पाठ्ययोगादीनामप्यन्तर्य वनिकार्थमुच्यते | एवं नवाङ्गान्युक्तानि | अथ विघाट्य वै यवनिकाम् (ना. शा. ५-१२) इत्यादिना यद्गीतकविध्याद्यङ्गदशकं दर्शितं तत्क्रमेण लक्षयति - कीर्तनादित्यादि | कीर्तनं स्तुतिः | तस्मात्पाठ्याद्धेतोः | ततः परं शुष्काक्षरनिर्वृतिःगीतविधिः इति गीतकानामन्यतमं वर्धमानं वा | तत्र च तालस्तालाध्याये (एक)त्रिंशे वक्ष्यते | (२१) यस्मादिति | तत्र प्रत्याहारीदीनि चेत् अत्र प्रयोज्यानि तत्पूर्वरङ्ग इत्यनुवादोऽयं स्यात् | क्रमस्य सिद्धत्वात् | नान्दिपाठका इति | तदुपलक्षितपूर्वरङ्गद्वारेणैव पुराणकवयो लिखन्ति स्म नान्द्यन्त सूत्रधारः इति | अहरहश्चैषा प्रयोगे प्रयोज्या | एषा च नित्यमेवंरूपैव | अन्यपाठ्यानामुत्थापनादीनां प्रयोगवशादन्यथात्वोपपत्तिर्दृश्यते | न तु नान्दीपाठस्येति नित्यशब्दस्याभिप्रायः | आदिग्रहणात्प्रेक्षापतिप्रभृतयः | एषैव च नान्दी भारत्यङ्गनिरूपणे प्ररोचनेति निर्देक्ष्यते - जयाभ्युदयिनी चैव मङ्गल्या (ना. शा. २०.२७) इत्यादिना | इह तु सा (या) प्ररोचना सा तत्र भविष्यति | अत्र नान्दीपदानामन्तरेषु चित्रे पूर्वरङ्गे वर्धमानं यत्प्रयोज्यं तत्पञ्चममङ्गं गणयति | नन्वेवं गीतकविधिः प्रथमाङ्गानन्तरमन्याङ्गमध्येऽपि च वर्धमानप्रयोगस्य चित्रेऽपि भावात्सङ्ख्याया अनवस्थानं न पदेऽपतदिति न पुनर्गणनार्हमिति न दोषः (इति) केचिदाहुः | (२४) शुष्कावकृष्टा तु भवेदितीह | शुष्कावकृष्टैवादिष्टा | इह च असावेव च लक्षिता | अवकृष्टायास्त्वनुवादद्वारेण लक्षणं मन्तव्यम् | अन्यथा वक्ष्यमाणं प्. २१६) अत्र शुष्काक्षरैरेव ह्यवकष्टा ध्रुवा यतः | तस्माच्छुष्कावकृष्टेयं जर्जरश्लोकदर्शिकाः || २५ || यस्मादभिनयस्त्वत्र प्रथमं ह्यवतार्यते | रङ्गद्वारमतो ज्ञेयं वागङ्गाभिनयात्मकम् || २६ || युक्तायामपकृष्टायां प्रीता नागा भवन्ति हि | तथा शुष्कावकृष्टायां प्रीतः पितृगणो भवेत् || (ना. शा. ५.५०) इति तन्निर्विषयं स्यात् | तत्रावकृष्टाया लक्षणं - मुखप्रतिमुखोपेता ह्यवकृष्टा विधीयते | (ना. शा. ३२-१२) इति तालविधिः | अन्यभावेषु कृष्टश्च (द्रव्यहेतुषु पठ्यते |) यस्मात्कारुण्यसंयुक्ता ह्य(वकृष्टा भवेततः |) (ना. शा. ३२.३४१) इति वाक्यार्थगानेतिकर्तव्यताविधिवृत्तस्वरूपं शम्यादेर्योजनं चाग्रेऽस्या वक्ष्यते | तदेतस्यां प्रयुक्तायां तदनन्तरं नाट्यम् | ईदृश्येव शुष्काक्षरैः प्रयोज्या | तत्रावकृष्टात्वसामान्यात् पृथक्कगवाते (थगवगते) क्रमपातै ?)र्जर्जरश्लोकदर्शिका यत्त(तस्त)दनन्तरम् | शुष्कावकृष्टेयमिति | असाववकृष्टे(ष्टा) ध्रुवा | सा तस्माच्छुष्कावकृष्टा | आह | हि यस्मात् | अत्रेति अस्याङ्गतायाम् | अवकृष्टस्य(ष्टा) समस्ततल्लक्षणोपेता केवलं शुष्कैरक्षरैरनर्थकैः झंठुमाद्यैः | अन्ये त्वेकस्यामेव ध्रुवायां शुष्कावकृष्टत्वधर्मद्वयविषयोऽयं युक्तायामपकृष्टायाम् इति श्लोको भविष्यतीति मन्यन्ते | उपाध्यायास्तु शुष्कायामवकृष्टायामेवान्तर्भूतं फलं वक्ष्यते | अत्र तु शुष्कैव लक्ष्यते | अनेन च लक्षणेनावकृष्टापि सूचिताऽत्रेति इयमिति च पदाभ्याम् | (२५) प्. २१७) शृङ्गारस्य प्रचरणाच्चारी सम्परिकीर्तिता | रौद्रप्रचरणाच्चापि महाचारीति कीर्तिता || २७ || विदूषकः सूत्रधारस्तथा वै पारिपार्श्वकः | यत्र कुर्वन्ति सञ्जल्पं तच्चापि त्रिगतं मतम् || २८ || उपक्षेपेण काव्यस्य हेतुयुक्तिसमाश्रया | सिद्धेनामन्त्रणा या तु विज्ञेया सा प्ररोचना || २९ || अभिनीयत इत्यभिनयो रूपकविशेषः | सोऽवतार्यते संक्षेपेण तस्यार्थप्रयोजनादिनिरूपणपाठ्यद्वारेण अभिनीयन्ते तथैव चाभिनयः क्रियते यत्र तद्रङ्गस्य भाविनो रूपकस्य द्वारमिव रङ्गद्वारादु(रमु)त्थापनाङ्गे सामान्येन नाट्यमुत्थापितम् | इह तु रूपकविशेषेणेति भेदः | (२६) शृङ्गारस्येति | शृङ्गारप्रधानं भगवतो महादेव्या सह यत्र चरितं वर्ण्यते काव्ये च तत्स्तुतिप्रधाने तदेव यत्राङ्गहारचार्यादिना प्रदर्श्यते प्रयुज्यते सा चारी | भगवतस्त्रिपुरमर्दनादीव गीतं रौद्ररसभूयिष्ठं यत्र काव्ये वर्ण्यते स्तुतिरूपेण तद्यत्र तदुचितैरेवोद्धतैर्मण्डलाङ्गहारैः प्रयुज्यते सा महाचारी | विदूषक इति | पारिपार्श्विकयोरन्यतरो विदूषकवेषभाषाचारो विदूषकः | यत्र इति नागानन्दादौ नाटके सञ्जल्पो भविष्यन्नाटकादिविशेषविषयो हास्यमिश्रः | यद्यप्युक्तः तथापि तद्विशेषो नागानन्दादिभिः विवक्षित इत्यपौन्रुक्त्यम् | स एव काव्योपक्षेपस्त्रिषु समायत्तत्वात्त्रिगतशब्देनोक्तः | तेन काव्योपक्षेपेण हेतुभूतेन तद्विषये सामाजिकानां या आमन्त्रणा निमन्त्रणं सिद्धेन सिद्ध्योपलक्षितमित्यर्थः | यस्मात्खल्वतः प्रीतिव्युत्पत्तिर्भविष्यतः तस्मादवलोक्यतामेतदिति सा प्ररोचना प्रकृष्टरुचिहेतुभूतत्वात् | न च तद्वचनात्प्रवृत्तिर्भविष्यतीत्याह - हेतुयुक्तीति | हेतोर्या युक्तिर्योजना संक्षेपेणाभिधानं तन्निमित्तमस्या इति | एवमेतानि बहिर्यवनिकाङ्गान्यपि दश दृष्टफलान्येव | तथा हि गीतकवर्धमानान्युपजीव्य ध्रुवागानं नाट्यम(मि)ति प्रकृतेरुपजीव्यत्वादवश्यं प्रथमं बुद्धौ कति (कर्तव्यम् ?) | .... प्. २१८) अतः परं प्रवक्ष्यामि ह्याश्रावणविधिक्रियाम् | बहिर्गीतविधौ सम्यगुत्पत्ति कारणं तथा || ३० || चित्रदक्षिणवृत्तौ तु सप्तरूपे प्रवर्तिते | सोपोहने सनिर्गीते देवस्तुत्यभिनन्दिते || ३१ || ततोऽपि यदारभ्यते तदा बुद्धौ निवेश्यं तावत्सामान्ये | ततः सदाचारपालनाय देवतावन्दनम् | ततः परमाशीर्वादनमभिमुखीकरणार्थम् | ततोऽपि शङ्क्यमानविघ्नशान्त्युपकरणभूतस्योत्तेजनम् | पुराकल्पद्वारेण ततोऽपि विशेषेण प्रयोक्तव्यानुसन्धानम् | ततोऽपि शृङ्गारवीरयोः सर्वत्र रञ्जकपरमपुमर्थताप्रकर्षादुपक्षेपः | तदपि नाट्यविनेयसुकुमारजने स्वच्छन्दता(कर)सर्वरञ्जकहास्यप्राधान्येन काव्यविशेषे भवदभिधेयानुसन्धानम् | तस्यापि प्रयोजननिरूपणम् | एवं यथा शास्त्रं कुर्वतामादिवाक्यपरिग्रहो लौकिकस्य वा कर्तव्यविषयमनुसन्धानं तथैव नाट्यारम्भे गीतकपिण्ड्यादिप्ररोचनान्तं लौकिकानुसार्येव | नात्र कस्यचिदङ्गस्य सामर्थ्यलक्ष्यत्वादि चोदनीयम् | सुकुमारजनविषयत्वादस्य प्रयोगस्य | तस्मान्नालौकिकं किञ्चिदेतत् | केवलं नाट्यस्य रचनाप्राधान्याद्वैचित्र्येण योजनीमदृष्टसम्पत्तये चेति मन्तव्यमित्यलं बहुना | (२७-२९) ननु भवत्ये(त्वे)वम् | किञ्चारम्भाश्रावणादौ वेगगी(बहिर्गी)तशब्दस्वरूपम् | (पदार्थः) (तदर्थः)कोऽत्र पदार्थः | आश्रावणविधिक्रियाम् | तदयमर्थः - तेषामाश्रावणादीनां विधौ क्रियां प्रयोगरक्षात्मिकां बहिर्गीतशब्दस्य च वाचकत्वेन विधाने उत्पत्तिं बहिर्गीतस्य च विधौ प्रयोगे कारणं प्रयोजनं वक्ष्यामि | (३०) तत्पुराकल्पद्वारेणाह - चित्रेत्यादिना श्लोकैकादशकेन बहिर्गीतमिति स्मृतम् | इत्यन्तेन (५-४१) | गीतवाद्यगीतोभयप्रधानाः क्रमेण चित्रादयो वृत्तिमार्गाः | चितदक्षिणसहिता वृत्तिरिति मध्यमपदलोपी समासः | तद्विषयं यद्गीतकं सहोपोहनप्रत्युपोहनैः वर्धमाननिर्गीतेन च आश्रावणा तथारम्भः इत्यादिना अष्टाविंशे (ना. शा. २९-८२) (एकोनत्रिंशे)ऽध्याये वक्ष्यमाणेन सहितं देवस्तुत्या च वाच्यभूतयाऽभिनन्दितं समृद्धं ऋद्धम् | तस्मिन्प्रवर्तिते प्रयुक्ते सति तद्गानं गीयमानं प्. २१९) नारदाद्यैस्तु गन्धर्वैः सभायां देवदानवाः | निर्गीतं श्राविताः सम्यग्लयतालसमन्वितम् || ३२ || तच्छ्रत्वा तु सुखं गानं देवस्तुत्यभिनन्दितम् | अभवन्क्षुभिताः सर्वे मात्सर्याद्दैत्यराक्षसाः || ३३ || सम्प्रधार्य च तेऽन्योन्यमित्यवोचन्नवस्थिताः | निर्गीतं तु सवादित्रमिदं गृह्णीमहे वयम् || ३४ || सप्तरूपेण सन्तुष्टा देवाः कर्मानुकीर्तनात् | वयं गृह्णीम निर्गीतं तुष्यामोऽत्रैव सर्वदा || ३५ || ते तत्र तुष्टा दैत्यास्तु साधयन्ति पुनः पुनः | रुष्टाश्चापि ततो देवाः प्रत्यभाषन्त नारदम् || ३६ || सुखजनकमपि श्रुत्वा दैत्याः क्षुभिताः | कुतः | मात्सर्यात् | तदपि कुतः | आह - देवैरहो रम्यं साधु साध्वित्यादिभिः | स्तुतिभिरभिनन्द्यमानं यतः | तुरप्यर्थः | केन वा प्रवर्तितं तदित्याह - नारदाद्यैरिति तदधिष्ठितैरित्यर्थः | तदिति सप्तरूपम् | (ना. शा. ३१. का मा. पु. ५२१) | लयो द्रुतादिः | तालाः शम्यादिविशिष्टाः त्र्यश्रश्चतुरश्रो मिश्रश्चेति | सम्प्रधार्येत्यनेन परितोष्टव्यमन्यैस्त्वत्रेति | स्थितिं कृत्वावस्थिताः (अमित्रा.?) | इति शब्दसूचितमुच्यमानं निर्दिशति - त्वमिति (निर्गीतमिति |) वादित्रं तद्गतं शुष्काख्यं वीणावाद्यम् | ननु किं तस्य ग्रहणे निमित्तमित्याह - तुष्याम इति | स्तुतिकीर्तनाभावेऽप्याभिमानिकेन परितोषेणेत्यर्थः | दृष्टो ह्यभिमानकृतःप्रीतिविशेषो यथा राजाकर्णनेऽपि | तत्रेति निर्गीते | साधयन्ति | साधनं सिद्धिं ब्रुवते | (धातुवाद्याश्रयकृतमिति) धातवस्तन्त्रीविशेषाङ्गुलिविशेषसंयोगजा वैणवस्वराः | रञ्जनया अदृष्तविशेषस्य क्रमेण चतुष्टयपृथक्कृता विस्तारव्यञ्जनाविद्धकरणसंज्ञा | प्. २२०) एते तुष्यन्ति निर्गीते दानवाः सह राक्षसैः | प्रणश्यतु प्रयोगोऽयं कथं वा मन्यते भवान् || ३७ || देवानां वचनं श्रुत्वा नारदो वाक्यमब्रवीत् | धातुवाद्याश्रयकृतं निर्गीतं मा प्रणश्यतु || ३८ || किन्तूपोहनसंयुक्तं धातुवाद्यविभूषितम् | भविष्यतीदं निर्गीतं सप्तरूपविधानतः || ३९ || निर्गीतेनावबद्धाश्च दैत्यदानवराक्षसाः | न क्षोभं न विघातं च करिष्यन्तीह तोषिताः || ४० || एवं निर्गीतमेतत्तु दैत्यानां स्पर्धया द्विजाः | देवानां बहुमानेन बहिर्गीतमिति स्मृतम् || ४१ || धातुभिश्चित्रवीणायां गुरुलघवक्षरान्वितम् | वर्णालङ्कारसंयुक्तं प्रयोक्तव्यं बुधैरथ || ४२ || धातुवाद्यं सप्तभेदलक्षणम् | तस्य यदाश्रयणं तेन हेतुना कृतमिति चितम् | तत्तादृशेनादृष्ट(ष्टेन) को गुणो न त्वन(दृ)ष्टे स्तुतिनिरूपणेषु यद्विधानं तेन हि पूर्वमध्यान्तेषु प्रयुज्यमानेन वीणावाद्यवैचित्र्यावकाशदायिना | हृद्यतागतिकादिकन्यायादिगुणान्तरमप्याह - निर्गीतेनेति | अपदावखेलने अयत्नेन बालहेवाकपोषणन्यायेन बद्धाः | स्वीकृता इत्यर्थः | एवमविनाशकारणं प्रतिपाद्य संज्ञानिर्वचनं निरूपयति - एवमिति निर्गीतमिति तावदाद्यं नाम | निरर्थकं गीतमिति | तत्तु गन्धर्वैबहिर्गीतमिति स्मृतम् | कुतो दैत्यानां स्पर्धयेति | तत्कृतोऽयं स्वीकारः | ततो हेतोः | ननु यदि तैः स्वीकृतं ततः किमित्येषा संज्ञा कृता | अत आह - देवानामिति | देवकर्मकं यद्बहुतयोत्कृष्टतय मननं तेन प्रयोजनभूतेन | वयं देवान्दानवेभ्यो बहुत्वेन मन्यामहे | तथा चेदं नाभ्यन्तरं बाह्यगीतमस्माभिर्गीयत इति तैरेवं वेदितव्यमित्यर्थः | (३१-४१) प्. २२१) निर्गीतं गीयते यस्मादपदं वर्णयोजनात् | असूयया च देवानां बहिर्गीतमिदं स्मृतम् || ४३ || निर्गीतं यन्मया प्रोक्तं सप्तरूपसमन्वितम् | उत्थापनादिकं यच्च तस्य कारणमुच्यते || ४४ || आश्रावणायां युक्तायां दैत्यास्तुष्यन्ति नित्यशः | वक्त्रपाणौ कृते चैव नित्यं तुष्यन्ति दानवाः || ४५ || ननु सप्तरूप एव किमिदं प्रयोज्यम् | नेत्याह - धातुभिरिति | चित्रा नाट्योपरञ्जनार्था या वीणा तस्यामपेयतद्धातुभिरुक्तस्वरूपैः करतलनिष्कोटितादिभिः उपलक्षितं प्रयोज्यम् | कथम् | भाण्डवाद्ये गत्यर्थे यानि गुरूणि घृत् भृङ् इत्यादिकानि लघूनि मट कट इत्यादिकानि | तत्रान्वितं कृत्वा | अनेन भाण्डवाद्योपरञ्जकत्वमुक्तम् | तथा ध्रुवागाने ये स्थाययादयो वर्णा ये च प्रसन्नादिप्रभृतयोऽलङ्कारास्तत्र सम्यगन्वितं संबद्धं कृत्वा | अनेन गानोपरञ्जकत्वं दर्शितम् | अथ शब्दोऽप्यर्थे | प्रयोज्यं कुशलैरथेति (वा) पाठः | ननु निर्गीतसंज्ञाऽस्य वा पुराणी तत्र किन्निमित्तमित्याशङ्क्याह - निर्गीतमिति | पदमित्यर्थप्रत्यायकमित्यर्थः | वर्णा झंटुमादयः स्थाययादयश्च | ननु लक्षणाभ्यन्तर एव तदिति कथं बाह्यमित्याशङ्क्याह - असूयया चेति | तैर्यतोऽसूयितं बलादेवाविष्कृतबहुमानैः अतस्तदीयह्र्दयग्रहणायैवं व्याहृतम् | न च सर्वथा निर्निबन्धनमेवेदमिति दर्शयितुं चकारेणान्वर्थताप्यस्तीति सूचयति | गीयमानेभ्य सार्थकेभ्यः पदेभ्यो बहिर्गीतमिति | एवमविनाशकारणं संज्ञानियोजननिमित्तं च तैनैव क्रमेणाभिधाय प्रतिजानीते - निर्गीतमित्यादिना | आश्रावणादि निर्गीतं सप्तरूपसमन्वितम् | इति गीतकविधिः | उत्थापनादिकमित्यवशिष्टं बहिर्यवनिकाङ्गम् | तस्य कारणं प्रयोजनम् | (४२-४४) | प्. २२२) परिघट्टनायां तुष्टा युक्तायां रक्षसां गणः | सङ्घोटनाक्रियायां च तुष्यन्त्यपि च गुह्यकाः || ४६ || मार्गासारितमासाद्य प्रीता यक्षा भवन्ति हि | गीतकेषु प्रयुक्तेषु देवास्तुष्यन्ति नित्यशः || ४७ || वर्धमाने प्रयुक्ते तु रुद्रस्तुष्यति सानुगः | तथा चोत्थापने युक्ते ब्रह्मा तुष्टो भवेदिह || ४८ || तुष्यन्ति लोकपालाश्च प्रयुक्ते परिवर्तने | नान्दीप्रयोगेऽथ क्र्ते प्रीतो भवति चन्द्रमाः || ४९ || युक्तायामवकृष्टायां प्रीता नागा भवन्ति हि | तथा शुष्कावकृष्टायां प्रीतः पितृगणो भवेत् || ५० || रङ्गद्वारे प्रयुक्ते तु विष्णुः प्रीतो भवेदिह | जर्जरस्य प्रयोगे तु तुष्टा विघ्नविनायकाः || ५१ || तद्दर्शयति - आश्रावणायामित्यादिना भूतगणो भवेदित्यन्तेन श्लोकाष्टकेन | प्रत्याहाराद्याश्रावणायामेवान्तर्भूतम् | अवधित्वादस्याः | क्वचित्पुस्तके - प्रत्याहारे यातुधानाः प्रीयन्ते सह पन्नगैः | तुष्यन्त्यप्सरसस्तत्र कृतेऽवतरणे द्विजाः || तुष्यन्त्यपि च गन्धर्वा आरम्भे सम्प्रयोजिते | इति सार्धश्लोको दृश्यते | यादृच्छिकसम्प्रधारितपरिग्रहबहुमानकृतः परितोषो विशिष्टविषयो मन्तव्यः | मार्गासारितमिति | मार्गश्च आसारितं च मार्गासारितम् | समाहारद्वन्द्वः | मार्ग इत्येकदेशेन मार्गासारितमुच्यते | आसारितशब्देनासारितमित्यङ्गद्वयमुक्तम् | सर्वमङ्गं लक्षितम् | आसारितशब्देनासारितविधिरिति समाहारद्वन्द्वेन द्वयोरङ्गयोः फलमेतन्निरूपितम् | देवाः | रुद्र इति | तदीयकर्मस्तुतेः | एतच्च गीतकवर्धमानयोरन्यतरप्रयोगे वैकल्पिकं फलद्वयम् | ब्रह्मेति | ब्राह्मादिप्रथमसृष्टिः प्. २२३) तथा चार्या प्रयुक्तायामुमा तुष्टा भवेदिह | महाचार्या प्रयुक्तायां तुष्टो भूतगणो भवेत् || ५२ || आश्रावणादिचार्यन्तमेतद्दैवतपूजनम् | पूर्वरङ्गे मया ख्यातं तथा चाङ्गविकल्पनम् || ५३ || देवस्तुष्यति यो येन यस्य यन्मनसः प्रियम् | तत्तथा पूर्वरङ्गे तु मया प्रोक्तं द्विजोत्तमाः || ५४ || व्यापारः तत्र नाट्यविषयः | स चात्र पुष्पाञ्जलिना पुज्यते (सुच्यते) | चन्द्रमा इति | जितं सोमेन इति (ना. शा. ५-११०) नान्द्यां पाठात् | नागा इत्यवकृष्टगतिः | जर्जरस्येति | शुष्कावकृष्टालक्षणस्यैवाङ्गस्य शेषभूतो जर्जरस्तुतिप्रदर्शकः श्लोको वक्ष्यते ततः श्लोकं पठेदेकम् (ना. शा. ५-११८) इति | तस्येदं प्रयोजनं - विघ्नानां यो विनायको निवारयिता स तुष्टो भवति | तन्निवारणोपकरणसमुत्तेजनाद्विघ्नविनायका विरूपाक्षादयः | ते विघातं न कुर्वन्तीति | सैव फलसाम्यात्तुष्टिरेषामिति केचित् | उमेति | तस्या एव स्वरूपकीर्तनात् | (४५-५२) एतत्सर्वमुपसंहर्तुमाह - आश्रावणादीत्यादि कृतानि त्वित्यन्तं श्लोकचतुष्टयम् | प्रत्याहारादीनामाश्रावणायामन्तर्भावः | चारीशब्देनेह महाचारी परिगृह्यते | त्रिगतप्ररोचनयोर्दृष्टैकं प्रयोजनत्वमिति तात्पर्यम् | पूर्वरङ्ग इति | तदुपश्लिष्टमित्यर्थः | ख्यातमित्युद्देशेन अङ्गविकल्पनम् | अङ्गानां चैषां विकल्पनं लक्षणमित्यर्थः | देवस्तुष्यतीत्यादिना प्रयोजनोपसंहारः | यस्य यन्मनसः प्रियमित्यभिमानिकपरिग्रहबलादित्यर्थः | प्रशंसामस्य दर्शयति - सर्वैर्दैवतैः पूजार्हं प्रशंसनीयम् | अत्र हेतुः - यतो दैवतान्यनेन पूज्यन्ते | अत एव प्रेक्षापतिप्रयोक्तृप्रभृतीनामेव तत् | धनेषु यशस्यायुषि तत्साधु | तत्कारित्वात् | नह्यत्र कश्चिदपि (कस्यचिदपि) विरक्तिरिति | दैत्यदानवेति निर्गीतं दैत्यादिकस्य तुष्टिकृत् | गीतकादि च देवानाम् | (५३-५६) प्. २२४) सर्वदैवतपूजार्हं सर्वदैवतपूजनम् | धन्यं यशस्यमायुष्यं पूर्वरङ्गप्रवर्तनम् || ५५ || दैत्यदानवतुष्ट्यर्थं सर्वेषां च दिवौकसाम् | निर्गीतानि सगीतानि पूर्वरङ्गकृतानि तु || ५६ || (या विद्या यानि शिल्पानि या गतिर्यच्च चेष्टितम् | लोकालोकस्य जगस्तदस्मिन्नाटकाश्रये ||) निर्गीतानां सगीतानां वर्धमानस्य चैव हि | ध्रुवाविधाने वक्ष्यामि लक्षणं कर्म चैव हि || ५७ || प्रयुज्य गीतकविधिं वर्धमानमथापि च | गीतकान्ते ततश्चापि कार्या ह्युत्थापनी ध्रुवा || ५८ || आदौ द्वे च चतुर्थं चाप्यष्टमैकादशे तथा | गुर्वक्षराणि जानीयात्पादे ह्येकादशाक्षरे || ५९ || नन्वस्य लक्षणं कुतो ज्ञेयम् | यत इह तावन्नोक्तम् | न चाङ्गप्रसङ्गतः लक्षणमस्य पश्यामो वयम् | इत्याशङ्क्य प्रसङ्गादत्र(दन्यत्र)लक्षणं वक्ष्यामिति प्रसङ्गावकाशं दर्शयितुमाह - निर्गीतानामिति | तेषा लक्षणं तथा रुन्द्रे ति (यथा ऋदुम् इति) लक्ष्यमुदाहरणं वक्ष्यामि | कर्म लक्ष्यम् | ध्रुवाणां विधाने (ना. शा. ३१-१२२) कर्तव्ये सतीत्यर्थः | न तु ध्रुवाविधाने ध्रुवाध्याये | एतदुक्तं भवति - ध्रुवागानस्येहोपरञ्जकज्येष्ठतया | तस्य वक्तव्यप्रकृतिभूतं गान्धर्वं ज्ञातुं यत्तल्लक्षणं वक्ष्यते तत्रैतत्ततातोद्यविधाने तालाध्याये च वक्ष्यामि (इति) | एतदविदितत्व (दविदित्वा य) द्ध्रुवाशब्दोऽत्र छन्दोनिबद्धनिमित्ता(त्त ?)निर्गीतत्वे वर्तत इत्याहुः तदसत् | अनुक्तसमत्वादस्य | तद्विधाने तल्लक्षणं वक्ष्यामीति न किञ्चित् | अनार्षोऽयं श्लोकं इति तु महत्साहसम् | (५७) अथोत्थापनादीनां लक्षणशेषः पूरयितव्यः | तत्रोत्थापनस्यानुवादपूर्वकं ध्रुवालक्षणं तत्प्रयोगद्वारेण पूरणं कर्तुमाह - प्रयुज्येत्यादि योजयेदित्यन्तं श्लोकचतुष्टयम् | तत्र प्. २२५) चतुष्पदा भवेत्सा तु चरश्रा तथैव च | चतुर्भिस्सन्निपातैश्च त्रिलया त्रियतिस्तथा || ६० || परिवर्ताश्च चत्वारः पाणयस्त्रय एव च | जात्या चैव हि विश्लोका तां च तालेन योजयेत् || ६१ || शम्या तु द्विकला कार्या तालो द्विकल एव च | पुनश्चैककला शम्या सन्निपातः कलात्रयम् || ६२ || प्रथमः श्लोकोऽनुवादकः | गीतकवर्धमानयोरन्यतरत्प्रयुज्यते | गीतकान्ते | ततो वर्धमानादनन्तरम् | उत्थापनी ध्रुवा कार्येत्यनुवादः | चो भिन्नक्रमो वार्थे | अन्ये तु समुच्चये | निपातसमुदायं युगप्द्गीतकवर्धमानप्रयोगाशयेनाहुः | ध्रुवाया लक्षणम् - आदौ द्वे चेति | शेषाणि तु लघूनि | एवम्भूताश्चत्वारोऽस्याः पादाः | तालश्चास्याश्चञ्चत्पुटः द्विकलः | भाविविधिना तल्लाभेऽपि चतुरश्रग्रहणाद् द्विकलचञ्चत्पुटपादभागविषयो वक्ष्यमाणाङ्गुलिनयमोपजीवनार्थः | सर्वपादान्ते यतोऽस्याः सन्निपातस्तेन चतुस्सन्निपाता | द्रुतादयो लयाः | स्त्रोतोगतादयो यतयः | परिवर्ता गानक्रियाभ्यावृत्तयः | ते चत्वारः | समपाणिरपरपाणिरुपरिपाणिश्चेति त्रयः पाणयोऽस्यां कार्या इति शेषः | किमियं ध्रुवा वृत्तजातिमध्ये न गणितेत्याशङ्क्याह - विश्लोकाऽख्यवृत्तजातिरित्यम् - आद्यां(द्ये) चतुर्थमपि चाष्टमकं सैकादशं यदि भवेच्च गुरु | सा त्रैष्टुभे भवति पादविधौ विश्लोकजातिरवकृष्टकृता || (ना. शा. ३२-१४९) (५८-६१) चतुरश्रेति तालेन योजयेदिति च यदुक्तं तत्स्पष्टयति - शम्या त्वित्यादि | द्विकलचञ्चत्पुटस्य शम्यादेः स्वरूपमनेन दर्शितम् | सापि सशब्दपातगतहस्तनिर्वर्त्यैव | पूर्वादिशब्दात् द्विकलेति दर्शयति - द्विकलेत्यादिना | तेन निष्क्रामशम्ये प्. २२६) एवमष्टकलः कार्यः सन्निपातो विचक्षणैः | चत्वारः सन्निपाताश्च परिवर्तः स उच्यते || ६३ || पूर्वं स्थितलयह् कार्यः परिवर्तो विचक्षणैः | तृतीये सन्निपाते तु तस्य भाण्डग्रहो भवेत् || ६४ || एकस्मिन्परिवर्ते तु गते प्राप्ते द्वितीयके | कार्य मध्यलये तज्ज्ञैः सूत्रधारप्रवेशनम् || ६५ || पुष्पाञ्जलिं समादाय रक्षामङ्गलसंस्कृताः | शुद्धवस्त्राः सुमनसस्तथा चाद्भुतदृष्टयः || ६६ || दक्षिणेन | पुनः निष्क्रामतालौ वामेन | ततो दक्षिणेन शम्या | ततो द्वाभ्यां प्रवेशनिष्क्रामसन्निपाताः | तत्र - आवापसंज्ञकं ज्ञेयमुत्तानाङ्गुलिकुञ्चनम् | अधस्तलेन हस्तेन निष्क्रामोऽन्त्य(ल्प ?)प्रसारणम् || भूयश्चाकुञ्चनं ज्ञेयं प्रवेशाख्यमधस्तलम् | (ना. शा. ३१-३३-३४) शम्या दक्षिणपातस्तु तालो वामेन कीर्तितः | उभयोः सन्निपातः स सन्निपात इति स्मृतः || चत्वारः सन्निपाता इति पादचतुष्टयस्यापि परिवर्तनमाह | स्थितलयो विलम्बितलय उक्तः | तृतीय इत्यन्त्यकलावर्जितपादत्रयं तन्त्रीगानसमन्वितं प्रयुज्य तृतीयपादान्त्यकला | ततः प्रभृति पुष्करवाद्यप्रयोगो यावत्तुर्यपादसमाप्ति | पुनर्मध्यलयेन गानम् | तत्समये सूत्रधारप्रवेशः | तस्येति - प्रथमपरिवर्तस्य | प्रथममपि च गानमन्यद्वितीया - दिसाहचर्यात्परिअर्तशब्देनोच्यते | अन्यत् द्विः पचतीति त्रयः पाकाः स्युः | सकृत्पचतीति द्वौ स्याताम् | सूत्रधारप्रवेशनमिति | सूत्रधारशब्देन तत्साहचर्यात्पारिपार्श्विकावपि | (६२-६५) तेषां प्रवेशे इतिकर्तव्यतामाह - पुष्पाञ्जलिमित्यादिना | पूर्वं पुष्पाञ्जलिः सूत्रधारस्यैव | इतरयो प्. २२७) स्थानन्तु वैष्णवं कृत्वा सौष्ठवाङ्गपुरस्कृतम् | दीक्षिताः शुचयश्चैव प्रविशेयुः समं त्रयः || ६७ || भृङ्गारजर्जरधरौ भवेतां पारिपार्श्विकौ | मध्ये तु सूत्रभृत्ताभ्यां वृत्तः पञ्चपदीं व्रजेत् || ६८ || पदानि पञ्च गच्छेयुर्ब्रह्मणो यजनेच्छया | पदानाञ्चापि विक्षेपं व्याख्यास्याप्यनुपूर्वशः || ६९ || र्भृङ्गारजर्जरधरत्वेन वक्ष्यमाणत्वात् | शुद्धं शुक्लम् | सुमनसः शोभनं सविस्मयं मनः येषाम् | विस्मयश्च ये श्रुत्यादिभिः दुर्विनेयास्तेऽस्माभिः सुखेन विनीयन्त इति | या चाकुञ्चितपक्ष्माग्रा साश्चर्योद्वृत्ततारका | सौम्या विकसैतान्ता च साद्भुता दृष्टिरद्भुते || (ना. शा. ८-५१) सौष्ठवेत्यादिना लक्षणैकदेशेन वैष्णवमेव स्फुटयति | अन्यथा विष्णुत्वादावपि कस्यचित्सम्भावना भवेदन्वर्थतया | द्वौ तालावर्धतालश्च पादयोरन्तरं भवेत् | तयोः समस्थितश्चैकः त्र्यश्रः पक्षगतोऽपरः || (ना. शा. १०-५२) किञ्चिदञ्चितजङ्घंच् अ सौष्ठवाङ्गपुरस्कृतम् | वैष्णवं स्थानमेतद्धि | (ना. शा. १०-५३) दीक्षिता इति कृतोपवासाः || (६६-६७) भृङ्गारः शौचाय | जर्जरो विघ्नशान्त्यै | परिपार्श्वं भवौ पारिपार्श्विकौ | अत एव सूत्रधारो मध्ये द्वाभ्यां वृत्तस्सन्निति त्रयोऽपि पञ्चपदीं व्रजेयुरित्यर्थः | तत्प्रयोजनमाह - पदानीति | त्रयस्ताला अन्तरं मानं यस्य तादृशो विष्कम्भः ऊर्ध्वगमने परिमाणं यस्य चरणस्य तं पार्श्वोत्थानेन न तु स्पष्टतरोर्ध्वतयोत्थितं चरणं मध्ये द्वयोः पादयोः पातयेत् | गमनस्य प्रक्रान्तत्वात् | किञ्चित्पुरत इत्थमेवान्यानि चत्वारि पदानि | (६८-७०) प्. २२८) त्रितालान्तरविष्कम्भमुत्क्षिपेच्चरणं शनैः | पार्श्वोत्थानोत्थितं चैव तन्मध्ये पातयेत्पुनः || ७० || एवं पञ्चपदीं गत्वा सूत्रधारः सहेतरः | सूची वामपदे दद्याद्विक्षेपं दक्षिणेन च || ७१ || पुष्पाञ्जल्यपवर्गश्च कार्यो ब्राह्मेऽथ मण्डले | रङ्गपीठस्य मध्ये तु स्वयं ब्रह्मा प्रतिष्ठितः || ७२ || ततः सललितैर्हस्तैरभिवन्द्य पितामहम् | अभिवादानि कार्याणि त्रीणि हस्तेन भूतले || ७३ || कालप्रकर्षहेतोश्च पादानां प्रविभागतः | सूत्रधारप्रवेशाद्यो वन्दनाभिनयान्तकः || ७४ || द्वितीयः परिवर्तस्तु कार्यो मध्यलयाश्रितः | ततः परं तृतीये तु मण्डलस्य प्रदक्षिणम् || ७५ || अथ यदर्थं पञ्चपदविक्षेपः कृतस्तं पुष्पाञ्जलिविमोक्षं सेतिकर्तव्यताकमाह - सूचीमित्यादि | कुञ्चितं पादमुत्क्षिप्य जानूर्ध्वं सम्प्रसारयेत् | पातयेच्चाग्रयोगेन सा सूची परिकीर्तिता || (ना. शा. १०-३४) पृष्ठदेश इति शेषः तस्य पादस्य बहिः क्षेपः मण्डलं स्थानम् | किन्तत् | ब्राह्ममित्याह | रङ्गपीठस्येति | अभिवादनानीत्यर्थः | त्रीणीति | प्रत्येकं कथं वन्दनं कार्यमित्याह | कालस्य यः प्रकर्षो बहुतरत्वं तत्र | यो हेतुः नृत्तहस्तकरणप्रयोगात्मा तमवलम्ब्य | ननु कथमसौ कालप्रकर्षः इत्याशङ्क्य आह - पादानामिति | तदुपलक्षितानां कलानां यः प्रविभागः कालपरिमाणान्तरमाश्रित्य | ननु तासामिति को विधिरित्याह - सूत्रधारप्रवेशाद्य इति | प्. २२९) भवेदाचमनं चैव जर्जरग्रहणं तथा | उत्थाय मण्डलात्तूर्णं दक्षिणं पादमुद्धरेत् || ७६ || वेधं तेनैव कुर्वीत विक्षेपं वामकेन च | पुनश्च दक्षिणं पादं पार्श्वसंस्थं समुद्धरेत् || ७७ || ततश्च वामवेधस्तु विक्षेपो दक्षिणस्य च | इत्येनन विधानेन सम्यक्कृत्वा प्रदक्षिणम् || ७८ || भृङ्गारभृतमाहूय शौचं चापि समाचरेत् | यथान्यायं तु कर्तव्या तेन ह्याचमनक्रिया || ७९ || आत्मप्रोक्षणमेवाद्भिः कर्तव्यं तु यथाक्रमम् | प्रयत्नकृतशौचेन सूत्रधारेण यत्नतः || ८० || एतदुक्तं भवति - द्वात्रिंशत्कलानां मध्ये प्रवेशः पञ्चपदीगमनं पुष्पत्यागोऽभिवादनत्रयं चेति निर्वर्तनीयम् | तत्र यावतीषु कलासु पञ्चपदीगमनान्तं कर्म सम्पन्नं ततो या अवशिष्यन्ते कलास्तदभिवादनयोग्यं व्यावर्तितपरिवर्तितादिकरणमुद्वृत्तनलिनीपद्मकोशादिनृत्तहस्तजातं वाऽवलम्ब्य सललितमभिवादनत्रयं कार्यम् | एवं द्वितीये परिवर्ते कर्मत्रयं प्रदर्श्य तृतीयपरिवर्ते द्रुतलये कर्मकलापमुपदिशति - ततः परमिति | मण्डलस्येति | ब्रह्मस्थानस्य | तत्कर्मत्रयं क्रमेण लक्षयन्प्रथमस्य लक्षणमाह - उत्थायेति | अभिवादने हि जानुशिरोविनमितं भूश्लेषपर्यन्तं कृतम् | उद्धरेदिति | कुञ्चितं पादम् | (ना. शा. १०-३४) इत्यादिसूचीं सूचयति | वेधमिति द्वितीयपादपार्ष्णिपृष्ठे पातनम् | पार्श्वसंस्थमिति पार्श्वक्रान्तां (ना. शा. १०-३२) चारीमाह | एतत्कर्मोपसंहरन्द्वितीयं शौचाख्यं लक्षयति - इत्यनेनेति | आहूयेति वचनाद्भृङ्गारधारिणः प्रदक्षिणभ्रमणे तूष्णींभावेन स्थितिरिति लक्ष्यते | शौचे प्रयोजनं वक्ष्यते | यतोऽभिवादने श्लिष्टं शिर इत्यादिन्यायस्मृत्यादितः प्राङ्मुख उपविश्याबहिर्जानिरित्यादिक्रमः | (७१-७९) प्. २३०) सन्निपातसमं ग्राह्यो जर्जरो विघ्नजर्जरः | प्रदक्षिणाद्यो विज्ञेयो जर्जरग्रहणान्तकः || ८१ || तृतीयः परिवर्तस्तु विज्ञेयो वै द्रुते लये | गृहीत्वा जर्जरं त्वष्टौ कला जप्यं प्रयोजयेत् || ८२ || वामवेधं ततः कुर्याद्विक्षेपं दक्षिणस्य च | ततः पञ्चपदीं चैव गच्छेत्तु कुतपोन्मुखः || ८३ || वामवेधस्तु तत्रापि विक्षेपो दक्षिणस्य तु | जर्जरग्रहणाद्योऽयं कुतपाभिमुखान्तकः || ८४ || चतुर्थः परिवर्तस्तु कार्यो द्रुतलये पुनः | करपादनिपातास्तु भवन्त्यत्र तु षोडश || ८५ || तृतीयं कर्म दर्शयति - प्रयत्नेति | कस्मिन् सन्निपाते तद्ग्रहणमित्याशङ्कामपाकर्तुमाह - प्रदक्षिणाद्य इति | तेन तुर्यपादासन्निपातकाले तदग्रहणमित्युक्तं भवति | अथ द्रुतलय एव चतुर्थे परिवर्ते कर्मद्वयं दर्शयति - गृहीत्वेति | ग्रहणं धारणम् | इहाष्टौ कला इति | प्रथमपादपातपर्यन्तमित्यर्थः | जप्यं जपनीयं तृतीयाध्यायोक्तम् | अत्र विघ्नविनाशार्थम् (ना. शा. ३-७८) इत्यादिश्लोकचतुष्टयं प्रतिकलमर्धश्लोक इत्यनेनावसानप्रकर्षेण योजयेदुच्चारयेदिति यावत् | (८०-८२) ननु पञ्चप्द्यां कियान् विक्षेपकाल इत्याशङ्क्याह - जर्जरग्रहणाद्य इति | इहापि ग्रहणं धारणम् | तेन चतुर्विंशत्या कलानां कुतपगमनं कुर्यादिति तात्पर्यम् | षोडशेति | कलाद्वयेनैकं पतनमिति यावत् | (८३-८५) प्. २३१) त्र्यश्रे द्वादश पातास्तु भवन्ति करपादयोः | वन्दनान्यथ कार्याणि त्रीणि हस्तेन भूतले || ८६ || आत्मप्रोक्षणमद्भिश्च त्र्यश्रे नैव विधीयते | एवमुत्थापनं कार्यं ततस्तु परिवर्तनम् || ८७ || चतुरश्रं लये मध्ये सन्निपातैरथाष्टभिः | यस्या लघूनि सर्वाणि केवलं नैधनं गुरु || ८८ || भवेदतिजगत्यान्तु सा ध्रुवा परिवर्तनी | वार्तिकेन तु मार्गेण वाद्येनानुगतेन च || ८९ || ललितैः पादविन्यासैर्वन्द्या देवा यथादिशम् | द्विकलं पादपतनं पादचार्या गतं भवेत् || ९० || एकैकस्यां विधि तथा सन्निपातद्वयं भवेत् | वामपादेन वेधस्तु कर्तव्यो नृत्तयोक्तृभिः | द्वितालान्तरविष्कम्भो विक्षेपो दक्षिणस्य च || ९१ || त्र्यश्र इति | प्रसङ्गादेतदुक्तम् | न चैतावत्प्रयोगत्मकमेतदङ्गमिति दर्शयितुमाह - एवमित्यादि | एवम्भूतायामिहेतिकर्तव्यतायां कृतायां यस्मादुत्थापयन्त्यत्र प्रयोगं नान्दिपाठकाः | पूर्वमेव तु रङ्गेऽस्मिन् इति (ना. शा. ५-२२) श्लोकलक्षितं प्रत्याहारादीनां गीतकविध्यन्तानां प्रयोगस्य च नाट्यस्योत्थापनं व्याख्यातरूपं कार्यम् | चशब्दस्तुशब्दस्यार्थे | ततस्तु परिवर्तनम् | न तु ध्रुवाप्रयोगानन्तरमेव | प्. २३२) ततः पञ्चपदीं गच्छेदतिक्रान्तैः पदैरथ | ततोऽभिवादनं कुर्याद्देवतानां यथादिशम् || ९२ || वन्देत प्रथमं पूर्वां दिशं शक्राधिदैवताम् | द्वितीयां दक्षिणामाशां वन्देत यमदैवताम् || ९३ || वन्देत पश्चिमामाशां ततो वरुणदैवताम् | चतुर्थीमुत्तरामाशां वन्देत धनदाश्रयाम् || ९४ || ये तूपसंहारग्रन्थत्वेनैतद्व्याचक्षते तस्मादुत्थापयन्ति इति न (तैः) किञ्चिदनुस्मृ(सृ)तं स्यात् | न हि ब्रह्माभिवादनजर्जराभिमन्त्रणमात्रेण किञ्चिदप्युत्थापितं भवति | विघ्नशमनोपयोगित्वेनोत्थापकत्वं परिवर्तनादावपि स्यात् | उत्थापनीत्यन्वर्थत्वात् | नाट्यायितेन च प्रयोगोत्थापनान्तस्य च ध्रुवाभिनयरूपतयोचितार्थाक्षेपात् | यत्तु काव्येन नोक्तं स्याद्गीतेन इति | तथा गीतं प्राणाः प्रयोगस्य इति परिक्रमेण रङ्गस्य तथैवार्थवशेन च | परिवर्तास्तु इति वचनेन गान्धर्व इव ध्रुवागाने परिवर्तानामदृष्टार्थेतिकर्तव्यतारूपा(पत्वा)भावात् | स्फुटश्चैषामुपाये निर्दिष्टेनोचितेनार्थचतुष्टयेन युक्तेयं सुकविना ध्रुवा कार्येति वृद्धाः | ततश्चेति | चतुरश्रतालयुक्तध्रुवायोगात्परिवर्तनं चतुरश्रम् | पादैर्गीयत इति सन्निपाताच्च पादचतुष्टयोगात् | सन्निपाताष्टकमत्र लक्षयति - यस्या इति | अतिजगती त्रयोदशसाक्षरा | तेन परिवर्तनचतुष्टयम् | गुरुः वार्तिकमार्गो यत्र चतुर्मात्रा कला | गीतं यदनुगच्छत्यनुगतमेतद्भवेद्वाद्यम् | पादचार्या भौम्यामाकाशिक्यां वा कर्तव्यायां पादपतनं द्वे कले व्याप्नोति | एकस्यामुत्क्षेपोऽन्यस्यां पतनमिति यावत् | अन्ये तु शोभार्थं कलायां द्वौ पादपातौ वार्तिकमार्गे वर्णयन्त इत्थं व्याचक्षते - द्वित्वं वर्तयत्येको योऽ(न्यो)भिवर्तते | न विद्यते कले यस्य पादपतनस्य तद्विकलमिति | एवं च वदन्तः पूर्वोक्त उक्तेत्यर्थः (उक्त इत्यर्थः) (पूर्वोत्तरविरुद्धतानभिज्ञाः?) | (८६-९२) प्. २३३) दिशां तु वन्दनं कृत्वा वामवेधं प्रयोजयेत् | दक्षिणेन च कर्तव्यं विक्षेपपरिवर्तनम् || ९५ || प्राङ्मुखस्तु ततः कुर्यात्पुरुषस्त्रीनपुंसकैः | त्रिपद्या सूत्रभृद्रुद्रब्रह्मोपेन्द्राभिवादनम् || ९६ || दक्षिणं तु पदं पुंसो वामं स्त्रीणां प्रकीर्तितम् | पुनर्दक्षिणमेव स्यान्नात्युत्क्षिप्तं नपुंसकम् || ९७ || वन्देत पौरुषेणेश स्त्रीपदेन जनार्दनम् | नपुंसकपदेनापि तथैवाम्बुजसम्भवम् || ९८ || परिवर्तनमेवं स्यात्तस्यान्ते प्रविशेत्ततः | चतुर्थकारः पुष्पाणि प्रगृह्य विधिपूर्वकम् || ९९ || शक्रोऽधिष्ठात्री देवता अस्या इति तां पूर्वा यजेतेति (वन्देतेति) | विशेष्येण वा विशेषेण वेदं बध्नातीति (विशेषणेन वा संबध्नातीति) सविशेषं वन्द्यमानत्वं शक्रस्य गम्यते | विक्षेपपूर्वकं परिवर्तनम् | येनोत्तराभिमुखं स्थितः परिवृत्य पूर्वाभिमुखो भवति | तत्र किं कुर्यादित्याह - प्राङ्मुखस्त्विति | त्रिपदीं दर्शयति - दक्षिणन्त्विति(त्ये)तया त्रिपद्या | अभिवादनं दर्शयति - वन्देतेति | एवं दिग्देवतावन्दनं परिवर्तिन्या ध्रुवया विद्यु(ध्यु)द्गीयमानपदया कार्यम् | तस्यान्त इत्यादि | तस्येति परिवर्तस्य | सूत्रधारस्य पारिपार्श्विकयोश्च तिस्रः क्रियाः | तद्व्यतिरिक्तञ्चतुर्थं कर्म करोतीति चतुर्थकारः | विधिः स्थानन्तु वैष्णवम् इत्यादि (ना. शा. ५-६७) सूत्रधारोक्तः | पुष्पाणां प्रयोजनमाह - यथावदिति | तृतीयेऽध्याये पुष्कराध्याये (३४) च निरूपितदेवतापूजाक्रमेण (९३-१००) | प्. २३४) यथावत्तेन कर्तव्यं पूजनं जर्जरस्य तु | कुतपस्य च सर्वस्य सूत्रधारस्य चैव हि || १०० || तस्य भाण्डसमः कार्यस्तज्ज्ञैर्गतिपरिक्रमः | न तत्र गानं कर्तव्यं तत्र स्तोभक्रिया भवेत् || १०१ || चतुर्थकारः पूजां तु स कृत्वान्तर्हितो भवेत् | ततो गेयावकृष्टा तु चतुरश्रा स्थिता ध्रुवा || १०२ || गुरुप्राया तु सा कार्या तथा चैवावपाणिका | स्थायिवर्णाश्रयोपेता कलाष्टकविनिर्मिता || १०३ || (चतुर्थं पञ्चमं चैव सप्तमं चाष्टमं तथा | लघूनि पादे पङ्क्त्यान्तु सावकृष्टा ध्रुवा स्मृता ||) सूत्रधारः पठेत्तत्र मध्यमं स्वरमाश्रितः | नान्दीं पदैर्द्वादशभिरष्टभिर्वाऽप्यलङ्कृताम् || १०४ || भाण्डेनैव सम इति | पुष्करवाद्यमेवास्य गत्यर्थे परितः क्रमेण कार्यम् | गीयत इति गानमर्थवद्वाक्यम् | स्तोभानां शुष्काक्षराणाम् | क्रिया गानमित्यर्थः | स्थितेति | विलम्बितलया | गुरुप्रायेति | नव गुर्वक्षराण्यादौ इति (ना. शा. ५-१११) यच्छुष्कावकृष्टाया लक्षणं भविष्यति तदेवास्यामिति यावत् | स्थिताः स्वराः समा यत्र स्थायी वर्णः स उच्यते (ना. शा. २९-१९) | तमाश्रिता येऽलङ्कारा वक्ष्यन्ते तैरुपेताः | कलाष्टकं द्विकलचञ्चत्पुट उक्तपूर्वः (५-६२) (१०१-१०३) एवं पूर्वामितिकर्तव्यतामभिधाय नान्दीमाह - सूत्रधार इति | तत्रेत्यवकृष्टायां गीतायामित्यर्थः | तद्ध्रुवागानगतेन मध्यमस्वरेण पाठ इत्यतस्तस्या ध्रुवाया मध्यमांशको प्. २३५) नमोऽस्तु सर्वदेवेभ्यो द्विजातिभ्यः शुभं तथा | जितं सोमेन वै राज्ञा शिवं गोब्राह्मणाय च || १०५ || ब्रह्मोत्तरं तथैवास्तु हता ब्रह्मद्विषस्तथा | प्रशास्त्विमां महाराजः पृथिवीं च ससागराम् || १०६ || राष्ट्रं प्रवर्धतां चैव रङ्गस्याशा समृद्ध्यतु | प्रेक्षाकर्तुर्महान्धर्मो भवतु ब्रह्मभाषितः || १०७ || काव्यकर्तुर्यशशचास्तु धर्मश्चापि प्रवर्धताम् | इज्यया चानया नित्यं प्रीयन्तां देवता इति || १०८ || नान्दीपदान्तरेष्वेषु ह्येवमार्येति नित्यशः | वदेतां सम्यगुक्ताभिर्वाग्भिस्तौ पारिपार्श्विकौ || १०९ || जात्यंशको गृहीत इत्युक्तं भवति | एतदुपजीवनेनोक्तं कश्यपाचार्येण पूर्वरङ्गे तु षाडबः इति | नान्दीं पठति - नमोऽस्त्वित्यादि देवता इत्यन्तम् | पदमत्रावान्तरवाक्यम् | तदन्तेष्वेवमार्येति | अन्तरशब्दो विशेषे | नान्दीपदविशेष उक्त इत्यर्थः | मध्यवाचीइत्य(चिन्य)न्तरशब्दो(ब्दे)ऽन्त्यं पदं न स्व(स्वी)कृतम् | वाग्रहणादपिशब्दाच्चतुष्.षोडशपदत्वं चतुरश्रे पूर्वरङ्गे | त्र्यश्रे तु षट्पञ्च (त्रिषट्पद) - त्वमपि लभ्यते | एतच्च प्रथमाध्याय एवास्माभिरुक्तम् (पु. २५-२६) | रङ्गस्येति | नटकुशिलववर्गस्य | धर्म इति | य इमं पूर्वरङ्गम् इति (ना. शा. ५-१७०) वक्ष्यमाणः | (१०४-१०९) एवमिति चतुर्थकारप्रवेशादितिकर्तव्यतेयमित्यर्थः | प्. २३६) एवं नान्दी विधातव्या यथावल्लक्षणान्विता | ततश्शुष्कावकृष्टा स्याज्जर्जरश्लोकदर्शिका || ११० || नवगुर्वक्षराण्यादौ षड्लघूनि गुरुत्रयम् | शुष्कावकृष्टा तु भवेत्कला ह्यष्टौ प्रमाणतः || १११ || यथा - दिग्ले दिग्ले दिग्ले दिग्ले जम्बुकपलितकते तेचाम् | कृत्वा शुष्कावकृष्टां तु यथावद्द्विजसत्तमाः || ११२ || ततः श्लोकं पठेदेकं गम्भीरस्वरसंयुतम् | देवस्तोत्रं पुरस्कृत्य यस्य पूजा प्रवर्तते || ११३ || राज्ञो वा यत्र भक्तिः स्यादथ वा ब्रह्मणस्स्तवम् | गदित्वा जर्जरश्लोकं रङ्गद्वारे च यत्स्मृतम् || ११४ || एवं नान्दीं लक्षणतः पूरयित्वा शुष्कावकृष्टाख्यमङ्गं पूरयति - ततश्शुष्कावकृष्टेत्यादिना | (ततः) एतत्प्रयोगानन्तरम् | जर्जरस्तुतिश्लोको यतः सूत्रधारेण पठ्यतेऽतो जयते तद्दर्शिका तत्पुरस्सरीत्यर्थः | शुष्कावकृष्टामात्राः | नव गुर्वक्षराणीति | उदाहरणं पठतीदं दिग्ले इत्यादि | यथावदित्यनेन तदनन्तरं जर्जरश्लोकपाठं सूचयति | तद्दर्शनेन तस्या उक्तत्वात् | ततः श्लोकमित्यनेन रङ्गद्वारमङ्गं निरूपयति | देवस्य विष्णोः स्तोत्रं पूर्वं कृत्वा या देवतामुद्दिश्योत्सवादौ नाट्यं कृतं सा तत्र स्तोतव्या | अथवा एवमेव | राज्ञः नाट्यप्रवर्तकस्य तत्प्रेक्षापतेराराध्यदेवता | स चेदुदासीनस्तर्हि ब्रह्मणः अयमसौ | रङ्गद्वारमुपसंहरश्चार्याख्यमङ्गं पूरयितुं तत्र पूर्वेतिकर्तव्यतामाह - गदित्वेति | जर्जरश्लोकं गदित्वा यो रङ्गद्वारे श्लोकस्तं च गदित्वा जर्जरोऽपि नाम्यते | वक्ष्यमाणतुलाधृतरूपतया येन श्लोकेन संपाद्यते तादृशमन्यं श्लोकं पठेत् | अत्र विघ्नविनाशार्थम् प्. २३७) पठेदन्यं पुनः श्लोकं जर्जरस्य विनाशनम् | जर्जरं नमयित्वा तु ततश्चारी प्रयोजयेत् || ११५ || पारिपार्श्विकयोश्च स्यात्पश्चिमेनापसर्पणम् | अड्डिता चात्र कर्तव्या ध्रुवा मध्यलयान्विता || ११६ || चतुर्भिः सन्निपातैश्च चतुरश्रा प्रमाणतः | आद्यमन्त्यं चतुर्थं च पञ्चमं च तथा गुरु || ११७ || यस्यां ह्रस्वानि शेषाणि सा ज्ञेया त्वड्डिता बुधैः | अस्याः प्रयोगं वक्ष्यामि यथा पूर्वं महेश्वरः || ११८ || (ना. शा. ३-७८) इत्युक्तश्लोका व्यतिरिक्तनाम्नाऽर्थाभिधायिनं श्लोकं चार्यङ्गभूतं पठेदिति यावत् | अन्ये तु शुष्कावकृष्टानन्तरं देवतास्तोत्रमिति श्लोकः | ततो जर्जरश्लोकः | ततो विष्णुस्तुतिकृद्रङ्गद्वारश्लोकः | ततो जर्जरश्लोक इत्याहुः (११०-११५) | पश्चिमेनेति | प्राङ्मुखावेव पृष्ठनिवृत्तिभिः पदैः पारिपार्श्विकावपसर्पेतामित्यनेन केवलसूत्रधारप्रयोज्यमानाश्चारीमहाचार्यः सूचिताः ध्रुवामाह - अड्डिता चात्रेति | रङ्गद्वारे चार्यां चेति केचित् | अन्ये तु सन्निधानाद्रङ्गद्वारेऽवकृष्टैवेत्याहुः | अध्रुवमेव रङ्गद्वारमित्येके | चतुरश्रा इति | प्रस्ताराञ्चित एव चञ्चत्पुटे स्यात् (ना. शा. ३१- पु. ५२२. कां मा.) इह छन्दोविशेषाभिधानेऽपि नियमो वक्ष्यते उष्णिगनुष्टुब्बृहती पङ्क्तिश्चेति | (ना. शा. ३२-३६) अड्डिता जातिरिति | अन्ये तु पठन्ति - आद्यं चतुर्थं दशममष्टमैकादशे तथा | गुरूणि दोधके या स्यादड्डिता नाम सा स्मृता || इति | प्. २३८) सहोमया क्रीडितवान्नानाभावविचेष्टितैः | कृत्वाऽवहित्थं स्थानं तु वामं चाधोमुखं भुजम् || ११९ || चतुरश्रमुरः कार्यमञ्चितश्चापि मस्तकः | नाभिप्रदेशे विन्यस्य जर्जरं च तुलाधृतम् || १२० || वामपल्लवहस्तेन पादैस्तालान्तरोत्थितैः | गच्छेत्पञ्चपदीं चैव सविलासाङ्गचेष्टितैः || १२१ || वामवेधस्तु कर्तव्यो विक्षेपो दक्षिणस्य च | शृङ्गाररससंयुक्तां पठेदार्यां विचक्षणः || १२२ || आद्यमन्त्यं चतुर्थं च पञ्चमं च तथा गुरु | इत्यन्ये || अस्या इति | चार्याः | सहोमयेति | शृङ्गारस्य प्रचरणात् | (ना. शा. ५-२७) उमा तुष्टा (ना. शा. ५-५२) इति प्रोक्तत्वादिति भावः | क्रीडितवानिति | स्त्रिचेष्टितेनेति भावः | कृत्वावहित्थं स्थानन्त्विति | अवहित्थं स्त्रीणां स्थानकम् - पूर्वो विरचितस्त्यश्रस्तदन्योऽपसृतः समः | पादस्तालान्तरन्यस्तस्त्रिकमीषत्समुन्नतम् || (ना. शा. १२-१६८) पाणिर्लताख्यो यत्रैकस्तदन्यस्तु नितम्बगः | अवहित्थं समाख्यातम् (ना. शा. १२-१६९) इति | जर्जरमिति | खटकामुखमध्ये स्त्रीगतौ हि वक्ष्यते - नाभिप्रदेशे विन्यस्य सव्यं च खटकामुखम् | इति (ना. शा. १२-१७९) | वामपल्लवहस्तेनेति | वामपल्लवः - मणिबन्धनमुक्तौ तु पताकौ पल्लवौ इति (ना. शा. ९-१९६) पञ्चपदीं पूर्वोक्तामेव स्मारयति | वामवेधस्त्विति | आर्यामिति | यत्र देव्या सह भगवतः पार्वतीप्रियस्य प्रणयकोपादि वर्ण्यते तेनेति | श्लोक आर्यैवात्र (११६-१२२) प्. २३९) चारीश्लोकं गदित्वा तु कृत्वा च परिवर्तनम् | तैरेव च पदैः कार्यं पशिमेनापसर्पणम् || १२३ || पारिपार्श्विकहस्ते तु न्यस्य जर्जरमुत्तमम् | महाचारीं ततश्चैव प्रयुञ्जीत यथाविधि || १२४ || चतुरश्रा ध्रुवा तत्र तथा द्रुतलयान्विता | चतुर्भिस्सनिपातैश्च कला ह्यष्टौ प्रमाणतः || १२५ || आद्यं चतुर्थमन्त्यं च सप्तमं दशमं गुरु | लघु शेषं ध्रुवापादे चतुर्विंशतिके भवेत् || १२६ || (यथा-) पादतलाहतिपातितशैलं क्षोभितभूतसमग्रसमुद्रम् | ताण्डवनृत्तमिदं प्रलयान्ते पातु जगत्सुखदायि हरस्य || १२७ || भाण्डोन्मुखेन कर्तव्यं पादविक्षेपणं ततः | सूचीं कृत्वा पुनः कुर्याद्विक्षेपपरिवर्तनम् || १२८ || अथ महाचारीप्रयोगमवतारयति - पारिपार्श्विकहस्ते त्विति | तत्र ध्रुवामाह - चतुरश्रेति | द्विकलेनोक्तेन चञ्चत्पुटेन | आद्यं चतुर्थमिति ध्रुवालक्षणम् | अस्याः प्रयोगमाह - भाण्डोन्मुखेनेति | पश्चिमाभिमुखेन | महेश्वरत्वं यस्य न्यस्यात्मनि तस्यात्मनीच्छता ऊनचतुस्तालता तच्चेष्टितानुसरणाच्च मध्यत्वेऽपि तद्द्वितालतेत्यौचित्यात्तालान्तरत्वमुक्तम् | (१२४-१३१) प्. २४०) अतिक्रान्तैः सललितैः पादैर्द्रुतलयान्वितैः | त्रितालान्तरमुत्क्षेपैर्गच्छेत्पञ्चपदीं ततः || १२९ || ततापि वामवेधस्तु विक्षेपो दक्षिणस्य च | तैरेव च पदैः कार्यं प्राङ्मुखेनापसर्पणम् || १३० || पुनः पदानि त्रीण्येव गच्छेत्प्राङ्मुख एव तु | ततश्च वामवेधः स्याद्विक्षेपो दक्षिणस्य च || १३१ || ततो रौद्ररसं श्लोकं पादसंहरणं पठेत् | तस्यान्ते तु त्रिपद्याथ व्याहरेत्पारिपार्श्विकौ || १३२ || तयोरागमने कार्यं गानं नर्कुटकं बुधैः | तथा च भारतीभेदे त्रिगतं सम्प्रयोजयेत् || १३३ || विदूषकस्त्वेकपदां सूत्रधारस्मितावहाम् असम्बद्धकथाप्रायां कुर्यात्कथनिकां ततः || १३४ || अथ महाचारी सूचयति - ततो रौद्ररसमिति | रुद्रस्यायं रौद्रप्रायः स रसः | यत्र पादानां च संहरणं समासयोजनयैक्यं यत्रेत्योजःप्रधानत्वं दर्शितम् | तस्येति | पाठस्यान्ते | त्रिपद्येति | पारिपार्श्विकावामुखरूपया | अत्र च ध्रुवाया अनुक्तत्वात्पूर्वोक्तैवाड्डिता संश्रयणीया | अथ त्रिगतमङ्गं दर्शयति - तयोरित्यादिना | तयोः पारिपार्श्विकयोः | नर्कुटकध्रुवा वक्ष्यते | प्. २४१) (वितण्डां गण्डसंयुक्तां तालिकाञ्च प्रयोजयेत् | कस्तिष्ठति जितं केनेत्यादिकाव्यप्ररूपिणीम् || पारिपार्श्विकसञ्जल्पो विदूषकविरूपितः | स्थापितः सूत्रधारेण त्रिगतं सम्प्रयुज्यते ||) प्ररोचना च कर्तव्या सिद्धेनोपनिमन्त्रणम् | रङ्गसिद्धौ पुनः कार्यं काव्यवस्तुनिरूपणम् || १३५ || सर्वमेव विधिं कृत्वा सूचीवेधकृतैरथ | पादैरनाविद्धगतैर्निष्क्रामेष्युः समं त्रयः || १३६ || एवमेष प्रयोक्तव्यः पूर्वरङ्गो यथाविधि | चतुरश्रो द्विजश्रेष्ठास्त्र्यश्रं चापि निबोधत || १३७ || अयमेव प्रयोगः स्यादङ्गान्येतानि चैव हि | तालप्रमाणं सङ्क्षिप्तं केवलं तु विशेषकृत् || १३८ || शम्या तु द्विकला कार्या तालो ह्येककलस्तथा | पुनश्चैककला शम्या सन्निपातः कलाद्वयम् || १३९ || अष्टौ नर्कुटकानां तु विज्ञेया मूलजातयः | रथोद्धता बुद्बुदकम् इत्यादि (ना. शा. ३२-२८०) तदन्यतमध्रुवोपलक्षितं गानं नर्कुटकम् | भारतीभेद इति | भारतीवृत्त्यङ्गमुपसंहरत्येवमेष इति | चतुरश्रस्त्र्यश्रश्शुद्धश्चित इति चतुर्धा पूर्वरङ्गः | यद्वक्ष्यति - प्. २४२) अनेन हि प्रमाणेन कलाताललयान्वितः | कर्तव्यः पूर्वरङ्गस्तु त्र्यशोऽप्युत्थपनादिकः || १४० || आद्यं चतुर्थं दशममष्टमं नैधनं गुरु | यस्यास्तु जागते पादे सा त्र्यशोत्थापिनी ध्रुवा || १४१ || वाद्यं गतिप्रचारश्च ध्रुवा तालस्तथैव च | संक्षिप्तान्येव कार्याणि त्र्यश्रे नृत्तप्रवेदिभिः || १४२ || वाद्यगीतप्रमाणेन कुर्यादङ्गविचेष्टितम् | विस्तीर्णमथ सङ्क्षिप्तं द्विप्रमाणविनिर्मितम् || १४३ || हस्तपादप्रचारस्तु द्विकलः परिकीर्तितः | चतुरश्रे परिक्रान्ते पाताः स्युः षोडशैव तु || १४४ || त्र्यश्रे द्वादश पातास्तु भवन्ति करपादयोः | एतत्प्रमाणं विज्ञेयमुभयोः पूर्वरङ्गयोः || १४५ || केवलं परिवर्ते तु गमने त्रिपदी भवेत् | दिग्वन्दने पञ्चपदी चतुरश्रे विधीयते || १४६ || आचार्यबुद्ध्या कर्तव्यस्त्र्यश्रस्तालप्रमाणतः | तस्मान्न लक्षणं प्रोक्तं पुनरुक्तं भवेद्यतः || १४७ || एवमेष प्रयोक्तव्यः पूर्वरङ्गो द्विजोत्तमाः | त्र्यश्रश्च चतुरश्रश्च शुद्धो भारत्युपाश्रयः || १४८ || प्. २४३) एवं तावदयं शुद्धः पूर्वरङ्गो मयोदितः | चित्रत्वमस्य वक्ष्यामि यथाकार्यं प्रयोक्तृभिः || १४९ || वृत्ते ह्युत्थापने विप्राः कृते च परिवर्तने | चतुर्थकारदत्ताभिः सुमनोभिरलङ्कृते || १५० || उदात्तगानैर्गन्धर्वैः परिगीते प्रमाणतः | देवदुन्दुभयश्चैव निनदेयुर्भृशं ततः || १५१ || सिद्धाः कुसुममालाभिर्विकिरेयुः समन्ततः | अङ्गहारैश्च देव्यस्ता उपनृत्येयुरग्रतः || १५२ || यस्ताण्डवविधिः प्रोक्तो नृत्ते पिण्डीसमन्वितः | रेचकिरङ्गहारैश्च न्यासोपन्याससंयुतः || १५३ || नान्दीपदानां मध्ये तु एकैकस्मिन्पृथक्पृथक् | प्रयोक्तव्यो बुधैः सम्यक्चित्रभावमभीप्सुभिः || १५४ || त्र्यश्रं वा चतुरश्रं वा शुद्धं चित्रमथापि वा | इति चित्र एव विशेषाञ्चितो भवति | तदा गमनकाले | ततोऽनन्तरम् | निष्क्रान्तासु नर्तकीषु ततः परं शुष्कावकृष्टादि यदङ्गजातं प्ररोचनान्तं तैरेव सूत्रधारादिभिस्तद(तः)परं कृत्वा ततः शुद्धादुत्कृष्टं चित्रं कृत्वाऽङ्गहारव्यामिश्रेण प्रयोक्तव्यम् | नान्य(अन्ये) च नास्ति पुरुषस्य नृत्तम् इत्याशयेन सर्वास्वित्यत्र नान्दीपदवैचित्र्याय याः प्रविष्टास्तासामेव निष्क्रामणमत्र पूर्वासां चतसृणाम् | तेन तत्कृतमेव गानं तेषु चित्रत्वमिति मन्यन्ते | (१३२-१५७) प्. २४४) एवं कृत्वा यथान्यायं शुद्धं चित्रं प्रयत्नतः | ततः परं प्रयुञ्जीत नाटकं लक्षणान्वितम् || १५५ || ततस्त्वन्तर्हिताः सर्वा भवेयुर्दिव्ययोषितः | निष्क्रान्तासु च सर्वासु नर्तकीषु ततः परम् || १५६ || पूर्वरङ्गे प्रयोक्तव्यमङ्गजातमतः परम् | एवं शुद्धो भवेच्चित्रः पूर्वरङ्गो विधानतः || १५७ || कार्यो नातिप्रसङ्गोऽत्र नृत्तगीतविधिः प्रति | गीते वाद्ये च नृत्ते च प्रवृत्तऽतिप्रसङ्गतः || १५८ || खेदो भवेत्प्रयोक्तॄणां प्रेक्षकाणां तथैव च | खिन्नानां रसभावेषु स्पष्टता नोपजायते || १५९ || कार्यो नातिप्रसङ्ग इति | तत्रैकाङ्गहारप्रयोग एव कार्य इत्यर्थः | अत एवा(ङ्गा)न्तरगणनया षोडशैवाङ्गहाराः | तथा चोत्थापनं परिवर्तनमवकृष्टागानं नाट्यं नान्दीपाठः शुष्कावकृष्टजर्जरश्लोकाः ध्रुवा रङ्गद्वारमड्डिता आर्यापाठो ध्रुवा रौद्रश्लोकपाठो नर्कुटकं त्रिगतं प्ररोचना चेत्येते | अङ्गहारषोडशकमेव त्र्यश्रेऽपीति नान्दीपादान्तरेषु बहुतरं नृत्तम् | अन्ये तु तत्रैव नृत्तमिच्छन्ति मार्गान्तरेषु(नाङ्गान्तरेषु) | तच्चासङ्गतम् | एवं च सति वृत्ते ह्युत्थापन इत्यादि तथा निष्क्रान्तासु च सर्वासु इत्यादि चानुपात्तसममेव स्यात् | न चैकाङ्गा(ङ्गहार)विचित्रत्वाद्विमिश्रचित्रव्यपदेशे दृष्टान्तं(न्तो) ह्येकस्य तन्तोर्वर्णस्य (क)लावैचित्र्यं(त्र्ये) पटेऽपि स्यात् तथा व्यपदेशः | एतद्विमिश्र इति चोक्तं प्राक् | (ना. शा. ४-१६) तदलमनेन | प्रेक्षकाणामित्यनेन सामाजिकानां पूर्वरङ्गे स्फुटैव नटबुद्धिर्भवतीति दर्शयति | तत्संस्कारसंस्कृतत्वात्तु धीः भ्रान्त्यादिबुद्धिश्च नाट्यधीर्भवतीति सूचयति | यदि हि तेषु नाट्यबुद्धिरेवोत्पादनीया स्यात्प्रत्युत प्रयत्नेन नटबुद्धिसम्पादकं पूर्वरङ्गप्रस्तावनादि प्. २४५) ततः शेषप्रयोगस्तु न रागजनको भवेत् | (लक्षणेन विना बाह्यलक्षणाद्विस्तृतं भवेत् | लोकशास्त्रानुसारेण तस्मान्नाट्यं प्रवर्तते ||) त्र्यश्रं वा चतुरश्रं वा शुद्धं चित्रमथापि वा || १६० || प्रयुज्य रङ्गान्निष्क्रामेत्सूत्रधारः सहानुगः | (देवपार्थिवरङ्गानामाशीर्वचनसंयुताम् || कवेर्नामगुणोपेतां वस्तूपक्षेपरूपिकाम् | लघुवर्णपदोपेतां वृत्तैश्चित्रैरलङ्कृताम् || अन्तर्यवनिकासंस्थः कुर्यादाश्रावणां ततः | आश्रावणावसाने च नान्दीं कृत्वा स सूत्रधृत् || पुनः प्रविश्य रङ्गं तु कुर्यात्प्रस्तावनां ततः |) प्रयुज्य विधिनैवं तु पूर्वरङ्गं प्रयोगतः || १६१ || तान्प्रति गोपनीयं स्यात् | दर्शितं चैतदस्माभिः प्रथमाध्याये (पु. ३) | प्रयोक्तारः करणादेः प्रयोगे यतः खिन्नाः प्रेक्षकाश्चादौ ततः शेषः प्रयोगः प्रीतिं न कुर्यात् | तत्प्रधानं चेदं नाट्यं व्यत्पत्तिप्रदमित्युक्तम् | शुद्धमिति | यत्र गीतकवर्धमानविधावेव नृत्तं न तु सर्वथा शुद्धमधुना प्रयोगार्हम् | (१५८-१६०) एवं प्ररोचनान्तमङ्गजातमुक्त्वा यत्पूर्वमुक्तं - रङ्गसिद्धौ पुनः कार्यं काव्यवस्तुनिरूपणम् | इति (ना. शा. ५-१३५) तद्वितत्य निरूपयति - प्रयोज्येति | प्रयोगेण प्रयोगतः | स्थापयति समस्तं रूपकवृत्तिमिति स्थापकः | सूत्रधारस्य गुणः सौमनस्यविस्मययोगाद्भुतदृष्टित्वशिक्षादयः | आकृतिश्च प्. २४६) स्थापकः प्रविशेत्तत्र सूत्रधारगुणाकृतिः | स्थानं तु वैष्णवं कृत्वा सौष्ठवाङ्गपुरस्कृतम् || १६२ || प्रविश्य रङ्गं तैरेव सूत्रधारपदैर्व्रजेत् | स्थापकस्य प्रवेशे तु कर्तव्याऽर्थानुगा ध्रुवा || १६३ || त्र्यश्रा वा चतुरश्रा वा तज्ज्ञैर्मध्यलयान्विता | कुर्यादनन्तरं चारीं देवब्राह्मणशंसिनीम् || १६४ || सुवाक्यमधुरैः श्लोकैर्नानाभावरसान्वितैः | प्रसाद्य रङ्गं विधिवत्कवेर्नाम् च कीर्तयेत् || १६५ || वैष्णवादिरित्येतत्स्थापकभूमिं गतस्यापि भवति तदेव स्पष्टयति - स्थानन्त्वित्यादिना | सूत्रधार एव स्थापक इति सूत्रधारः पूर्वरङ्गं प्रयुज्य स्थापकः सन् प्रविशेदिति न भिन्नकर्तृकता | अर्थानुगेति | सारसचक्राह्वाद्युपमानक्रमेण तत्र प्रावेशिकी | तदर्थमप्येवमुत्थापन्यादि कार्यम् | मध्यलयान्विता इत्यद्यतनानामिष्टत्वात् | शोकाद्याविष्टे हि विलम्बितलया रोषाद्याविष्टे च द्रुतलया प्रावेशिकी | ततः प्रभृति हि सामाजिकानां हृदयं समुचितास्वादनयोग्यतां (योग्यम् |) यैः संस्क(स्तु कः)र्तव्यमिति त्रिभिर्लयैर्न्याययम् | अन्यत्वे सर्वप्रावेशिकीगानं स्वातन्त्र्याभिप्रायेण (इति) तदविचारितबाण(भाण)प्रसिद्धिमात्रमिति मन्तव्यम् | कुर्यादनन्तरं चारीमिति | महाचारीगतौ श्लोकौ वक्ष्येते | तेन शृङ्गारसप्रधानं वीरादिरसप्रधानं वा देवद्विजस्तोत्रोद्देशश्लोकं पठेदित्यर्थः | अन्तरचारीमित्यन्ये पठन्ति | व्याचक्षते च - स्वस्थानादन्यचारी अनन्तरप्रतिहारासनिकादिवत् | तत्र पुनः प्ररोचनया जयाशीर्वादादिक्रमेण रङ्गस्थसामाजिकवर्गप्रसादनं देवद्विजस्तोत्रोद्देशेन श्लोकं पठेत् (इति) | (प्रासादनं) हृदयनिर्मलीकरणं रसास्वादोचितसंस्कारात् ग्रहणयोग्यताधानार्थं कुर्यात् | ततः कविनाम कीर्तयेत् | चशब्दात्तद्गुणादिकम् | येन प्रसिद्धादरणीयत्वं भवति (१६१-१६५) प्. २४७) प्रस्तावनां ततः कुर्यात्काव्यप्रख्यापनाश्रयाम् | उद्घात्यकादि कर्तव्यं काव्योपक्षेपणाश्रयम् || १६६ || दिव्ये दिव्याश्रयो भूत्वा मानुषे मानुषाश्रयः | दिव्यमानुषसंयोगे दिव्यो वा मानुषोऽपि वा || १६७ || मुखबीजानुसदृशं नानामार्गसमाश्रयम् | नानाविधैरुपक्षेपैः काव्योपक्षेपणं भवेत् || १६८ || प्रस्ताव्यैवं तु निष्क्रामेत्काव्यप्रस्तावकस्ततः | एवमेष प्रयोक्तव्यः पूर्वरङ्गो यथाविधि || १६९ || ततो रूपकविशेषप्रख्यापनमाश्रित्येति तत्प्रख्यापनव्याजेन भाविरूपकार्थस्य प्रस्तावनामुपक्रमोपक्षेपपर्यायां कुर्यात् | येन प्रथमत एतत्प्रभृति सामाजिकाः संक्षेपेण संस्कारवन्तो भवन्ति | साधारणलोकवृत्तभिधानसंस्कारवन्तश्च | तथा हि दिव्ये काव्यार्थे डिमादौ तत्सदृशवस्तूपक्षेपः | दिव्यमानुषो रामादिः | वाग्रहणं समुच्चये | ननूपक्षेपात्मा प्रस्तावना मुखसन्ध्यङ्गादुपक्षेपाद्बीजलक्षणाया अर्थप्रकृतेश्च कथं भिद्यत इत्याशङ्क्याह - मुखबीजानुसदृशमिति | मुखं मुखसन्ध्यङ्गः | बीजवत् बीजः स्वल्पोद्दिष्टः कार्यहेतुः | मुखाङ्गे ह्युपक्षेपे तदेवोपक्षिप्यते | बीजे च तदेव स्वल्पमात्रम् | इह तु तत्समम् | तथा हि - नटीविदूषकपारिपर्श्विकैः समन्तादिति विचित्रभेदेन स्वकार्यनिरूपणव्याजेन ये नानाविधा उपक्षेपाः उपांशुच्छन्नत्वेन रूपकार्थबीजस्य सामाजिकहृदयभूमौ प्रक्षेपास्तैः काव्यं प्रस्ताव्य प्रस्तावकस्थापको निष्क्रामेत् | नन्विह पूर्वरङ्गशेषभूता चेत्प्रस्तावना तर्हि भारत्यङ्गभूतत्वेन पुनः किमित्यामुखं प्ररोचना चाभिधास्यते (ना. शा. २०-२७) | उच्यते | द्विविधा प्रस्तावना भवति - पूर्वरङ्गस्याङ्गभूताऽन्यस्य वा (वृत्तिभेदस्य = भारत्याः) | तत्र पूर्वरङ्गाङ्गेऽस्यां प्रस्तावनायां कविरुदासीनः | (अस्याः पूर्वरङ्गाङ्गभूतायाः प्रस्तावनायाः) स्थापक एव स्वतन्त्रो निर्माता त्वन्यो वा कविः ध्रुवागानादावपि एवम् | यदाह श्रीहर्षः - अत एव हा(भा?)सा नामा (कविः) कस्मिंश्चिन्नाटके? दिवं यातश्चित्तज्वरेणोत्क इत प्. २४८) य इमं पूर्वरङ्गं तु विधिनैव प्रयोजयेत् | नाशुभं प्राप्नुयात्किञ्चित्स्वर्गलोकं च गच्छति || १७० || यश्चापि विधिमुत्सृज्य यथेष्टं संप्रयोजयेत् | प्राप्नोत्यपचयं घोरं तिर्यग्योनिं च गच्छति || १७१ || न तथाऽग्निः प्रदहति प्रभञ्जनसमीरितः | यथा ह्यपप्रयोगस्तु प्रयुक्तो दहति क्षणात् || १७२ || इत्येवावन्तिपाञ्चालदाक्षिणात्यौढ्रमागधैः | कर्तव्यः पूर्वरङ्गस्तु द्विप्रामणविनिर्मितः || १७३ || एष वः कथितो विप्राः पूर्वरङ्गाश्रितो विधिः | भूयः किं कथ्यतां सम्यङ्नाट्यवेदविधिं प्रति || १७४ || इति भारतीये नाट्यशास्त्रे पूर्वरङ्गप्रयोगो नाम पञ्चमोऽध्यायः || एवाभिवर्तते | अशक्यमस्य पुरतोऽवस्थातुम् इत्यादि | सा द्वितीया सा(या) वृत्तिभेदमध्ये पठिता | एवं प्ररोचनादावपि मन्तव्यम् | यदाह - तत्र काचित्काव्याभिमुखं नीयते पूर्वरङ्गविधिः | (द्विविधत्वम्) तदभिमुखं वा काव्यारम्भः तद्भवति सा द्विविधा इत्यादि | एतच्च वृत्त्यध्याये व्याख्यास्यते नटी विदूषको वापि (ना. शा. २०-३०) इत्यादौ | शास्त्रत्यागे मनागपि न वर्तितव्यमिति दर्शयितुमेवमेष इति | (१६६-१६९) यथाविधि प्रयोगेऽभ्युदयः स्यदित्याह-य इममिति | अन्यथा च प्रयोगे प्रत्यवायमाह - यश्चापीति | नाशुभमित्यादिना | शुभमिति दृष्टेऽभ्युदयः | स्वर्गमिति अदृष्टे | अपचयमिति | दृष्टे प्रत्यवाय इति | तिर्यग्योनिं च्त्यदृष्टे | दृष्टप्रत्यवायभीरुर्बाहुल्येन लोक इति | तमेवाधिकमवश्यंभावित्वेन दर्शयति - न तथाग्निरिति | ननु पाठ्यादियोजना च वेषाचारयोजना चात्र पूर्वरङ्गे नोक्तेत्याशङ्क्य तामनुवादद्वारेणाभिधातुं शुद्धश्चान्यत्वेन योज्य इत्याख्यातुं समुचितमुपसंहारं करोति - प्. २४९) (पुनश्चित्रे तथा मिश्रे शुद्धे चैव ब्रवीम्यहम् | यथा योज्या ध्रुवाः पञ्च तथा वक्ष्यामि तत्त्वतः || आदावुत्थापनी कार्या परिवर्तस्तथा भवेत् | अवकृष्टाड्डिता चैव विक्षिप्ता चैव पञ्चमी || एवं पञ्च ध्रुवा ज्ञेया उपोहनसमन्विताः | कर्तव्यास्तु प्रयत्नेन पूर्वरङ्गे प्रयोक्तृभिः || अतः परं प्रवक्ष्यामि ह्यपोहनविधिक्रियाम् | उत्थापनस्याष्टकलं परिवर्तस्य षट्कलम् || अवकृष्टं पुनः कार्यं कलाभिः पञ्चभिर्युतम् | ध्रुवायामड्डितायां च चतुष्कलमथापि च || क्षिप्तायां चैव विज्ञेयं कलात्रयसमन्वितम् | एवं ह्युपोहनानां तु प्रमाणं समुदाहृतम् || गुरुलाघवसंयुक्तं कलातालसमन्वितम् | पूर्वरङ्गं सदा ज्ञेयं चित्रमार्गे ह्युपोहनम् || चित्रे चैत्राः कला ज्ञेया मिश्रे वार्तिकमाश्रिताः | शुद्धे दक्षिणमार्गेण प्रयोक्तव्याः प्रयोक्तृभिः || चतस्रो गीतयः कार्या मागधी ह्यर्धमागधी | संभाविता तथा चैव पृथुला च प्रकीर्तिता || इत्येवावन्तिपाञ्चालेत्यादि | यादृक्प्रवृत्तिविशेषे नियतो रूपकनायको भविष्यति तादृक्प्रवृत्तिसमुचितवेषभाषाचाराभिनयादिकमनुवर्तमानैः सूत्रधारादिभिः स्थापकान्तैः | पूर्वरङ्गो द्विविधस्त्र्यश्रश्चतुरश्रश्च | एष इत्यनन्तरोक्तस्वभाव एव कर्तव्यो न शुद्धः | अन्ये मन्यन्ते आवन्त्या सात्त्विकीकैशिकीमिश्रेति | सा सूत्रधारस्य पाञ्चालमध्यमा भू | ............................................................................................................ (१७०-१७४) इति महामाहेश्वराचार्याभिनवगुप्तविरचितायां नाट्यवेदविवृत्तौ पूर्वरङ्गविधानं नाम पञ्चमोऽध्यायः || प्. २५०) मागधी त्वथ कर्तव्या त्वथवा त्वर्धमागधी | पूर्वरङ्गे भवेच्चित्रे चित्रमार्गसमाश्रिता || यथा मिश्रस्तु योक्तव्यः पूर्वरङ्गे भवेदिह | मिश्रे सम्भाविता कार्या तदा वार्तिकमाश्रिता || शुद्धे च पृथुला कार्या दक्षिणं मार्गमाश्रिता | अतः परं प्रवक्ष्यामि गुरुलाघवतः क्रियाम् || उपोहनक्रियायां तु यथायोज्यं प्रयोक्तृभिः | दिग्ले दिग्ले पुनः कार्यमन्ते झण्टुं सदा बुधैः || मध्ये लघ्वक्षराणि स्युः षोडशैव तु नित्यशः | एवं ह्युपोहनं कृत्वा तथा वस्तु समाचरेत् || उत्थापन्यां प्रयोगेऽस्मिन्कलाकालसमन्वितम् | अक्षराणां कलायास्तु गुरुलाघवमेव च || पूर्वं तु कथितं यस्मात्तस्मानाभिहितं भवेत् | यथा - देवं विभुं त्रिभुवनाधिपतिं कैलासपर्वतगुहाभिरतम् | शैलेन्द्रराजतनयादयितं मूर्ध्ना नतोऽस्मि पुरनाशकरम् || एवमुत्थापनी कार्या पूर्वरङ्गप्रयोक्तृभिः | अतोऽन्यत्परिवर्ताया लक्षणं संविधीयते || अस्यास्तूपोहनं कार्यं षट्कलं परिसङ्ख्यया | आदौ दिग्ले द्विरुक्तस्तु अन्ते झण्टुं सदा भवेत् || मध्ये लघ्वक्षराण्येव द्वादशैव प्रयोजयेत् | वस्तुनोऽत्र प्रवक्ष्यामि गुरुलघ्वक्षरक्रमम् || द्वे चादौ च चतुर्थं च अष्टमं दशमं तथा | चतुर्दशं पञ्चदशं पादे गुर्वक्षराणि तु || प्. २५१) सा ध्रुवा परिवर्ताख्या त्रिलया त्रियतिस्तथा | परिवर्तास्तु चत्वारः पाणयस्त्रय एव च || चतुर्भिस्सन्निपातैस्तु द्वात्रिंशत्कलिकान्विता | पूर्वरङ्गे प्रयोक्तव्यः परिवर्तः प्रयोक्तृभिः || यथा - चन्द्रार्धभूषणजटं वरं वृषभकेतुं कैलासपर्वतनिवासिनं सुरवरिष्ठम् | शैलाधिराजतनयाप्रियं प्रमथनाथं मूर्ध्ना नतोऽस्मि त्रिपुरान्तकं परमयोगिनम् || अवकृष्टामिदानीं तु कथ्यमानां निबोधत | अस्यास्तूपोहनं कार्यं कलाभिः पञ्चभिर्युतम् || दिग्ले दिग्ले पुनश्चान्ते झण्टुमस्य प्रयोजयेत् | अष्टावेव तु कार्याणि मध्ये लघ्वक्षराणि तु || तृतीयं चैव षष्ठं तु नवमैकादशे तथा | पादे पञ्चदशं चैव षोडशं च भवेद्गुरु || अष्टषष्टिगणैः पादैरवकृष्टविधिर्बुधाः | चतुर्भिः सन्निपातैश्च पाणिभिस्त्रिभिरेव च || प्. २५२) यथा- वरदं सगणं त्रिपुरान्तकं वृषभकेतुम् | गजचर्मपटं विषमेक्षणं भुवननाथम् | भुजगाभरणं जगतां हितं भुवनयोनिम् | प्रणतोऽस्मि भवन्तमुमापतिं त्वसितकण्ठम् || तृतीयं चैव षष्ठं च गुरुपादे त्रयोदशम् | चतुर्गुणसमायुक्ता सा कार्या त्वड्डिता ध्रुवा || तत्राप्युपोहनं कार्यं चतुष्कलसमन्वितम् | अड्डितायाः प्रयोगज्ञैरन्ते झण्टुविभूषितम् || दिग्ले दिग्ले ततश्चैव कार्यमन्ते सदा बुधैः | चत्वर्येव तु कार्याणि मध्ये लघ्वक्षराणि तु || यथा प्रवरं वरदं प्रणमत सततम् | गजचर्मपटं मुनिजनसहितम् | उमया सहितं भुजगवलयिनम् | प्रणतोऽस्मि शिवं त्रिभुवनसहितम् || प्रयोज्या त्वड्डिता ह्येवं पूर्वरङ्गे यथार्थतः | अतःपरं प्रवक्ष्यामि विक्षिप्तायास्तु लक्षणम् || तृतीयं चैव षष्ठं च नवमं दशमं तथा | गुर्वक्षराणि पादे तु यस्यां विक्षिप्तका तु सा || प्. २५३) दिग्ले त्रिभिर्गुणैर्युक्ताः पातास्तस्य भवन्ति हि | त्रिकलं चापि निर्दिष्टमुपोहनमतः परम् || दिग्ले दिग्ले पुनः कार्यमन्ते झण्टु प्रयोक्तृभिः | लघ्वक्षरैर्विहीनं तु विक्षिप्तोपोहनं भवेत् || यथा - त्रिपुरान्तकरं बहुलीलमुमया सहितं बहुरूपम् | भुजगाभरणं त्रिपुरान्तकं प्रणमामि सदा परमीशम् || एवं सर्वा ध्रुवाः कार्या युग्मौजकृतगीतकाः | आचार्यबुद्ध्या कर्तव्याः पूर्वरङ्गे यथाविधि || एवं वः कथितं सम्यक्पूर्वरङ्गं त्रिधा मया | किमन्यत्सम्प्रवक्ष्यामि भूयोऽभीष्टं द्विजोत्तमाः || इति भारतीये नाटशास्त्रे पूर्वरङ्गविधानं नाम पञ्चमोऽध्यायः ||) प्. २५४) श्रीः अथ षष्ठोऽध्यायः पूर्वरङ्गविधिं श्रुत्वा पुनराहुर्महत्तमाः | भरतं मुनयः सर्वे प्रश्नान्पञ्चाभिधत्स्व नः || १ || ..... ..... ..... ..... ..... ..... ..... ..... ..... ..... ..... ..... ..... ..... ..... ..... ..... ..... (पूर्वरङ्गविधिं श्रुत्वेति | पञ्च प्रश्नानिति | रसानां केन रसत्वमित्येकः प्रश्नः |) ..... ..... ..... ..... ..... ..... ..... ..... ..... ..... ..... ..... ..... ..... ..... ..... ..... ..... तथापि नाट्यतत्त्वे सम्यङ्निर्ज्ञाते निर्णीतं भवति | न वचनमात्रात् | अनेनैवाभिप्रायेण दशरूपकनिरूपणे प्रथमप्रश्नार्थो निगमयिष्यते - भविष्यति युगे प्रायो भविष्यन्त्यबुधा नराः | (ना. शा. १९-१५०) इत्यादि | तथा - बुद्धयः कर्मशिल्पानि वैचक्षण्यं कलासु च || (ना. शा. १९-१५१) इत्यादि | सिद्ध्यध्याये च द्वितीयप्रश्नार्थविषयो निर्णेष्यते | तुष्यन्ति तरुणाः कामे (ना. शा. १९-१५१) इत्यादि | सिद्ध्यध्याये च द्वितीयप्रश्नार्थविषयो निर्णेष्यते | तुष्यन्ति तरुणाः कामे (ना. शा. २७-५८) इत्यादिना | एवमन्यत्रापि तत्र तत्रेति | एतच्च तद्व्याख्यानप्रसङ्ग एव दर्शयिष्यामः | तेन पूर्वप्रश्नितवस्तुतत्त्वनिर्णय एव क्रियतामिति तात्पर्यम् | प्रश्नान् पञ्चेति | ये रसा इत्यादि तु यत्प्रश्नत्रयं तत्रायं भावः - इहाङ्गगणानायां जग्राह पाठ्यम् (ना. शा. १-१७) इत्यादौ पाठ्यगीतयोस्तावत्सुप्रसिद्धं रूपम् | अभिनयानामपि महागीतेषु चैवार्थान्सम्यगेवाभिनेष्यसि इति (ना. शा. ४-१५) प्. २५५) ये रसा इति पठ्यन्ते नाट्ये नाट्यविचक्षणैः | रसत्वं केन वै तेषामेतदाख्यातुमर्हसि || २ || भावाश्चैव कथं प्रोक्ताः किं वा ते भावयन्त्यपि | संग्रहं कारिकां चैव निरुक्तं चैव तत्त्वतः || ३ || तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः | प्रत्युवाच पुनर्वाक्यं रसभावविकल्पनम् || ४ || यदा प्राप्त्यर्थमर्थानां तज्ज्ञैरभिनयः कृतः (ना. शा. ४-२६१) इत्यादिवचनबलाच्च स्वरूपं तावन्नातीव हृदयङ्गमम् | ये तु रसानाथर्वणात् (ना. शा. १-१७) इति रसा उक्तास्ते तावत्प्रसिद्धाः षाडवादयः | न प्रकृतौ न विकृतौ युक्ताः | ये त्वन्ये शृङ्गारादयः केचन रसशब्देन सह प्रयुक्ताः शृङ्गाररसम्भवः (ना. शा. ४-२६९) इति ततो रौद्ररसं श्लोकम् (ना. शा. ५-१३२) इति तत्रापि शृङ्गारादिषु कथं रसशब्दावाच्यत्वम् | वैशब्दोऽक्षर(क्षमायाम्) | रसनेन्द्रियग्राह्ये हि रसशब्दः प्रसिद्धः | न चायमनादरस्थानभूतोऽर्थो येनाविचारित एवोपेक्ष्यते खिन्नानां रसभावेषु (ना. शा. ५-१५९) इत्यादावादरातिशयप्रतीतेः | अत एव शब्दप्रादुर्भाव इति शब्दो रसा इति पठ्यन्त इति | तेन प्राधान्यादङ्गाभिनयप्रश्नान्तर्भूतमप्येतत्पुनः प्रश्नितमित्यर्थः | पुनः प्रश्नाभिप्रायेणैवाख्यातुमर्हसीत्युपपन्नम् | पूर्वाख्यानेषु तु पुनरुक्तमभिधत्स्वेत्युक्तत्वात् | भावाश्चेति चशब्दस्तुशब्दार्थे | भावास्त्वपठिता अपि कथं प्रोक्ताः | अथ पाठ्यादय एव भावाः | तत्किमेषां रूपम् | तेनादरविषयत्वाद्रसे प्रश्नान्तरम् | (अ ?) भूतावृत्त्या विस्मयस्थानत्वाद्भावेषु प्रश्नचतुष्कम् | तथा हि - रससहभावेन भावाः केचन प्रोक्ताः खिन्नानाम् इत्यत्र | ते च केन प्रकारेणोक्ताः | जग्राह इत्यादौ हि तेषां नामापि न श्रुतम् | अथैतेष्वेव भावशब्दः प्रवर्तितः | तत्रापि भवन्तीति प्. २५६) अहं वः कथयिष्यामि निखिलेन तपोधनाः | संग्रहं कारिअकं चैव निरुक्तं च यथाक्रमम् || ५ || न शक्यमस्य नाट्यस्य गन्तुमन्तं कथञ्चन | कस्माद्बहुत्वाज्ज्ञानानां शिल्पानां वाप्यनन्ततः || ६ || व्युत्पत्तिः | भावयन्तीति किमेतत् | किमुत्पादयन्ति | अथ व्याप्नुवन्ति | द्वयोः कर्म किं स्यादिति वाशब्देन चशब्देनापिशब्देन च चत्वारो भावेषु प्रश्नाः | एवं प्राधान्यात्प्रश्नपञ्चकान्तरम् | वस्तुतः पुनः पञ्चप्रश्नी पूर्वोक्तैवेयं विष्फार्यते | सङ्गर्हादिति चा(दि चा)भिधत्स्व | ननु तैरिह किं प्रयोजनम् | आह - तत्त्वत इति | (१-३) तुशब्दो हेतौ | तदित्याख्यानं परामृष्टम् | यतस्तदाख्यानमत एवा(वै)भ्यः सङ्गहादिभ्य उद्देशलक्षणपरीक्षादिषु प्राधान्यात्तदुपक्रममेव सर्वमभिधेयम् | तदाह | निखिलेन सङ्ग्राहालक्षणीयनिर्वचनीयात्मनोपलक्षितं सऽऽग्रहादित्रयमेव वक्ष्यामीति त्रय (त्रि)प्रकाररूपेभ्यः सदुपायेभ्यः | तस्मान्नोऽभिधत्स्वेति | पुनश्शब्दो भिन्नक्रमः | भरतमुनिः पुनः रसभावा विकल्प्यन्ते निश्चीयन्तेऽनेन (येन वचनेन) तादृग्वाक्यमुवाच न तु तदीयं वचनमुक्तमुत्तरदानेन समादृतमिति पुनश्शब्दार्थः | मुनेश्चायं भावो रसादिषु समुच्चयार्थश्चः | तदभिधानेऽन्यन्न किंचिदभिधेयमवशिष्यत इत्येवशब्दः | यथाक्रममिति | पूर्वं (प्राप्त)सङ्ग्रहः | उद्देशप्रकारत्वादित्यादिक्रमेण स (स्व)बुद्धिविषयं बहुमानं गृह्णताममीषामित्यभिप्रायेण भवद्भिर्युक्तमेतदुक्तम् | सङ्ग्रहमित्यादि | तान्निदर्शयन्मुनिराह - न शक्यमस्येति | शक्यमिति सामान्योपक्रमात् माध्यस्थ्यविवक्षा | गन्तुमिति प्राप्तुम् | अन्तो निश्चयः | कथञ्चनेति | अमुं सङ्ग्रहादिप्रकारं वर्जयित्वाऽन्येन प्रतिपदनिरूपणादिनेत्यर्थः | यत्किल प्रतिपदं निरूपयितुं न शक्यं तल्लक्षणद्वारेणोच्यते | लक्षणस्यैवाङ्गमुद्देशपरीक्षे | तस्य विषयप्रदर्शने परिशुद्धो च तयोर्व्यापारात् | न चात्र प्रतिपदं निरूपणं युक्तमिति | प्. २५७) एकस्यापि न वै शक्यस्त्वन्तो ज्ञानार्णवस्य हि | गन्तुं किं पुनरन्येषां ज्ञानानामर्थतत्त्वतः || ७ || किन्त्वल्पसूत्रग्रन्थार्थमनुमानप्रसाधकम् | नाट्यस्यास्य प्रवक्ष्यामि रसभावादिसङ्ग्रहम् || ८ || विस्तरेणोपदिष्टानामर्थानां सूत्रभाष्ययोः | निबन्धो यः समासेन सङ्ग्रहं तं विदुर्बुधाः || ९ || रसा भावा ह्यभिनयाः धर्मी वृत्तिप्रवृत्तयः | सिद्धिः स्वरास्तथातोद्यं गानं रङ्गश्च सङ्ग्रहः || १० || अत्र हेतुमाह - बहुत्वादिति | ज्ञानाख्यानि व्याकरणादीनि शास्त्राणि | शिल्पानि चित्रपुस्तादिकर्माणि | तेषामनन्ता(न्तत्वा)दन्ताभावात् | (४-६) एतदेवोद्बलयत्येकस्येति | नाट्याङ्गभूतस्य कस्यचिदिति शेषः | अर्थस्याभिधेयस्य तत्त्वतः | तननं विस्तारः | तेन | अन्येषामिति | अङ्गभूतस्यापि यान्यङ्गत्वेनायान्तीत्यर्थः | सङ्ग्रहादयस्त्वत्र सदुपाया इति दर्शयति - किन्त्विति | ना.यस्य नाट्यविषयस्यार्थस्य सङ्ग्रहं संक्षिप्य गृह्यतेऽनेनेति तमुद्देशं वक्ष्यामीति | कथं रसभावादि कृत्वा प्राधान्यात्तदुपक्रममित्यर्थः | किं तेनेत्याह | अनुमानप्रसाधकं लक्षणं तद्धि केवलव्यतिरेकिहेतुरूपम् | तस्य चोद्देशो धर्मिणः प्रकृष्टः साधकः आश्रयासिद्धश्च | शङ्काशमनेन पक्षधर्मत्वमूलाङ्गपोषकत्वात् | तस्य सङ्ग्रहस्य स्वरूपमाह - सूत्रग्रन्थयोर्लक्षणपरीक्षयोर्योऽर्थो लक्ष्यपरीक्षितस्य लक्षणस्तस्य संक्षेपः सोऽल्पः सङ्कुचितो नाममात्रेणोद्देश्यतया यत्र | अन्येऽप्येवमेव मन्यत इति दर्शयति - विस्तरेणेति | सूत्रं लक्षणम् | भाष्यं तद्व्यक्तीकरणरूपा परीक्षा | अल्पौ सूत्रग्रन्थौ यत्रार्थे सोऽर्थो यत्रेति तु व्याख्यानमनेन श्लोकेन न संवदते | (७-९) प्. २५८) अल्पाभिधानेनार्थो यः समासेनोच्यते बुधैः | सुत्रतः साऽनुमन्तव्या (नु पठिता) कारिकार्थप्रदर्शिनी || ११ || सङ्ग्रहं दर्शयति - रसा भावा इत्यादिना | चशब्द इतिशब्दार्थे | अभिनयत्रयं गीतातोद्ये चेति पञ्चाङ्गं नाट्यम् | नटस्य हि रसभावयोगे मरणादौ तत्त्वावेशो लयाभिभङ्गश्च स्यात् | दृष्टस्तु तत्प्रत्ययो नटे भ्रमः | अनेन तु श्लोकेन कोहलमतेनैकादशाङ्गत्वमुच्यते | न तु भरते | तत्सङ्गृहीतस्यापि पुनरत्रोद्देशात् | निर्देशे चैतत्क्रमव्यत्यासनादित्यौद्भटाः | नैतदिति भट्टलोल्लटः | रसभावानामपि वासनावेशवशेन नटे सम्भवादनुसन्धिबलाच्च लयाद्यनुसरणादन्तर्भूतस्यापि प्रयोजनवशेन पुनरुद्देशदर्शनात् क्रमस्य चाविवक्षितत्वादिति | वयञ्चात्र तत्त्वमग्रे वितनिष्याम इत्यास्तां तावत् | अथ कारिकां लक्षयति - अल्पाभिधानेनेति | अनेनार्थस्य कारिकात्वं लक्षणरूपस्य दर्शयति | तद्वाचकस्य सूत्रस्य तत्संक्षिप्ताथविवरणात्मकस्य च श्लोकस्य | अनेन लक्षणवाक्यं द्विधेति तात्पर्यम् | योऽर्थोऽल्पैः शब्दैः समासेन बहुतरलक्ष्यसङ्ग्रहेण सूत्रं वाचकमाश्रित्योच्यते सोऽर्थः कारिका | ज्ञप्तिसाधकत्वात्तदर्थिनी कारिका | सूत्रतः सूत्रेण | तेन सूत्रमपि कारिका | तत्सूत्रमपेक्ष्य या अनु पश्चात्पठिता श्लोकरूपा सापि कारिका | तथा हि - सूचनात्मकत्वात्सूत्राल्लब्धो योऽर्थो लक्षणात्मकः स एव सम्यगिति श्रयय(सम्यगतिश्रव्य)तया वर्णान्यनेनेति (वर्णनात्मनेति) वृत्तबन्धेनोच्यमानोऽल्पैश्च शब्दैनिरूप्यमाणोअऋथस्य लक्षणीयस्य प्रकर्ष धर्म्यन्तराद्व्यवच्छेदं दर्शयन् धर्म कारिका | क्रियतेऽनेन ज्ञप्तिरिति कारिका | लक्षणमिति यावत् | तदर्थप्रकाशकत्वात् श्लोकोऽप्युपचारात्कारिका | एतदुक्तं भवति - उद्दिष्टस्य धर्म्यन्तरव्यवच्छेदकं लक्षणं वक्तव्यम् | तच्च पूर्वसूत्रेण | ततोऽप्यकृताक्षेपोत्तरप्रपञ्चेन तद्विवरणमात्ररूपेण सुखग्राह्येण श्लोकेन | उभयोरपि हि लक्षणमेव प्रतिपद्यम् | तदेव कारिकोच्यते | सूत्रश्लोकावुपधारादिति | (१०-११) अथ परीक्षात्मकं निरुक्तं लक्षयति श्लोकद्वयेन - नानानामेत्यादिना | समासेन संक्षेपेणानेकव्यक्तिभेदभिन्नस्यार्थस्य लक्षणीयस्य य सूचकोऽर्थो लक्षणात्मकः स प्. २५९) नानानामाश्रयोत्पन्नं निघण्टुनिगमान्वितम् | धात्वर्थहेतुसंयुक्तं नानासिद्धान्तसाधितम् || १२ || यत्राक्षेपप्रतिसमाधानलक्षणे वस्तुनि सति स्थापितो भवतीति तत्परीक्षारूपनिरुक्तम् | नचैवं परिभाषा | किन्त्वर्थमेतं विर्भज्याक्षेपप्रतिसमाधानाभ्यां लक्षणस्य वचनमिति | एतदाह - धात्वर्थवचनेनेति | कथं तल्लक्षणं स्थाप्यत इत्याशङ्क्य क्रियाविशेषणाभिधानद्वारेणाक्षेपप्रतिसमाधानप्रकारं दर्शयति - नानानामेत्यादिना | नानाप्रकाराणि यानि नामानि लक्षणवाक्येऽर्थप्रतिपादकाः सुबन्ताः शब्दास्तानाश्रित्योत्पन्न उत्पाद आक्सेपप्रतिसमाधानयोर्यत्र | ननु नामपदेषु कथमाक्षेपप्रतिसमाधाने | आह - निघण्टुनाऽभिधानकोशेन रूढिषु | अन्येषु प्रकृतिप्रत्ययविभागनिगमनया | अन्वितभन्वयो यत्रेति | एतत्पदद्वयं क्रियाविशेषणम् | यानि च लक्षणवाक्ये तिडन्तानि पदानि तेषु प्रकारमाह - यात्वर्थस्य क्रिअयाया हेतूनां च क्रियानिमित्तानां कारकाणां संयोजन विचारो यत्र स्थापने | एतदपि क्रिअयविशेषणम् | इयता लक्षणवाक्ये पूर्व शब्दपरीक्षा दर्शिता | अयं शब्दः कथमत्रार्थे वर्तत इत्याक्षेपः | इत्थमिति च प्रतिसमाधानम् | एतत् प्रदर्शितवस्तुप्रणीतमेव | अर्थपरीक्षामपि दर्शयति - नानाप्रकारैः सर्वतन्त्रप्रतितन्त्रादिभिः सिद्धान्तैः | प्रमाणमूलैरर्थैः साधितमाक्षेपोतरयोः साधनं यत्र स्थापने | एवं परीक्षाऽनेन दर्शिता | तन्त्रादिन्यायास्तु तदङ्गम् | निरुक्तमपि | तच्चतुर्धा - नाम्ना धातुना नामधातुभ्यां समयेन चेति | तत्र नाम्ना यथा - ऊर्ध्वे खमस्योलूखल | धातुना यथा - रस्यत इति रसः | द्वाभ्यां - पिशितमश्नातीति पिशाचः | समय - सोऽपि त्रिधा - लौकिकः वैदिकः प्रतिशास्त्रपार्शदश्चेति | तत्र लौकिको यथा - भू सत्तायाम् | वैदिको यथा - दीधीङ् दीप्तिदेवनयोः वेवीड्वेतिना तुल्ये | प्रतिशास्त्रपार्षदो यथा - गान्धर्ववेदे गीतकविशेषे वैणकादिशब्दः | तदेतदुकं नानानामेत्यादिना | निरुक्तस्य तु प्रयोजनं संक्षेपेणार्ह्तावधारणम् | तदुक्तं स्थापित इति | (१२-१३) प्. २६०) स्थापितोऽर्थो भवेद्यत्र समासेनार्थसूचकः | धात्वर्थवचनेनेह निरुक्तं तत्प्रचक्षते || १३ || सङ्ग्रहो यो मया प्रोक्तः समासेन द्विजोत्तमाः | विस्तरं तस्य वक्ष्यामि सनिरुक्तं सकारिकम् || १४ || शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः | बीभत्साद्भुतसंज्ञो चेत्यष्टौ नाट्ये रसाः स्मृताः || १५ || अथोद्दिष्टानां विभागं सूचयति - सङ्ग्रहो यो मयेति | तस्येति सङ्ग्रहस्य | सङ्ग्रह एव विस्तारितो विभाग इत्यर्थः | किं तदुक्तावेव सर्वं सम्पन्नम् | सनिरुक्तं परीक्षापर्यन्तमित्यर्थः | अन्तवचनेना(?)व्ययीभावः | न चालक्षितस्य परीक्षेत्याह - सकारिकं कारिकासम्पदोपेतम् | सम्पत्तौ समासः | तत्र विभागं तावदाह - शृङ्गारहास्येत्यादिना नाट्यसङ्ग्रह (६-३१) इत्यन्तेन | तत्र नाट्यं नाम नटगताभिनयप्रभावसाक्षात्कारायमाणैकघनमानसनिश्चलाध्यवसे यः समस्तनाटकाद्यन्तमकाव्यविशेषावद्योतनीयोऽर्थः | स च यद्यप्यनन्तविभावाद्यात्मा तथापि सर्वेषां जडानां संविदि तस्याश्च भोक्तारि भोक्तृवर्गस्य च प्रधाने भोक्तरि पर्यवसानान्नायकाभिधानभोक्तृविशेषस्थायिचित्तवृत्तिस्वभावः | सा चैकचित्तवृत्तिः स्वपरकीयमिति (परमिति प्रतीय)मानानन्तचित्तवृत्त्यन्तरशतविशेषिता लौकिकगीतगेयपदादिलास्याङ्गदशकोपजीवनस्वीकृतलक्षणगुणा अलङ्कारगीतातोद्यादिसम्यक्सुन्दरीभूतकाव्यमहिमप्रयोगमालाऽभ्यासवि शेषाश्रयत्वात् प्रच्याविता अत एव साधारणीभूततया सामाजिकानपि स्वात्मसद्भावेन समावेशयन्ती तादात्म्या - देव चानुमानागमयोगिप्रत्यक्षादिकरणकतटस्थप्रमातृप्रमेयपरकीयलौकिक चित्त प्. २६१) एते ह्यष्टौ रसाः प्रोक्ता द्रुहिणेन महात्मना | पुनश्च भावान्वक्ष्यामि स्थायिसञ्चारिसत्त्वजान् || १६ || रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा | जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्तिताः || १७ || वृत्तिविलक्षणतया निर्भासमाना परिमितस्वत्मन्याश्रयतानिर्भासनाविरहाच्च लौकिकप्रमादिजनितनिजरतिशोकादिवत् षड्ज(तज्ज)हानादिचित्तवृत्त्यन्तरजननाक्षमा तत एव निर्विघ्नस्वसंवेदनात्मक(हर्ष)विश्रान्तिलक्षणेन रसनापरपर्यायेण व्यापारेण गृह्यमाणत्वाद्रसशब्देनाभिधीयते | तेन रस एव नाट्यम् | यस्य व्युत्पत्तिः फलमित्युच्यते | तथा च रसादृत (ना. शा. ६-३१) इत्यत्रैकवचनोपपत्तिः | ततश्च मुख्यभूतात् महारसात् स्फोटदृशीवासत्यानि वा अन्विताभिधानदृशीवोभयात्मकानि सत्यानि वा अभिहितान्वयदृशीवतत्समुदायिरूपाणि वा रसान्तराणि भागा(वा)भिनिवेशदृशा निरूप्यन्ते | तद्वक्ष्यन्ते काव्यार्थान् भावयन्ति इति | (रसस्य प्राधान्यात् प्रथमनिर्देशः) तेन प्रथमं रसाः | ते च नव | शान्तापलापिनस्त्वष्टाविति तत्र पठन्ति | तत्र कामस्य सकलजातिसुलभतयाऽत्यन्तपरिचितत्वेन सर्वान्प्रतिहत्येति (हृद्यतेति) पूर्वं शृङ्गारः | तदनुगामी च हास्यः | निरपेक्षभावत्वात् तद्विपरीतस्ततः करुणः | ततस्तन्निमित्तमर्थप्रधानो रौद्रः | स चामर्षप्रधानः | ततः कामार्थयोर्धर्ममूलत्वाद्वीरः | स हि धर्मप्रधानः | तस्य च भीताभयप्रदानसारत्वात् | तदनन्तरं भयानकः | तद्विभावसाधारण्यसंभावनात् ततो बीभत्सः | इति इयद्वीरेणाक्षिप्तम् | वीरस्य पर्यन्तेऽद्भुतः फलमित्यनन्तरं तदुपादानम् | तथा च वक्ष्यते पर्यन्ते कर्तव्यो नित्यं हि रसोऽद्भुतः | (ना. शा. १८-४३) इति | ततस्त्रिवर्गात्मकप्रवृत्त(त्ति)-धर्मविपरीतनिवृत्त(त्ति)धर्मात्मको मोक्षफलः शान्तः | तत्र स्वात्मावेशेन रसचर्वणेत्युक्तम् | स च विभावादिबलादिति भावा वक्तव्याः | तत्र नाज्ञातलौकिकरत्यादिचित्तवृत्तेः कवेर्नटस्य वा तद्विषयविशिष्टविभावाद्याहरणं शक्यमिति स्थायिन उद्दिष्टाः | तत्र शान्तस्य प्. २६२) निर्वेदग्लानिशङ्काख्यास्तथासूया मदः श्रमः | आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः || १८ || व्रीडा चपलता हर्ष आवेगो जडता तथा | गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च || १९ || सुप्तं विबोधोऽमर्षश्चाप्यवहित्थमथोग्रता | मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च || २० || त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः | त्रयस्त्रिंशदमी भावाः समाख्यातास्तु नामतः || २१ || स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः | वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः || २२ || आङ्गिको वाचिकश्चैव ह्याहार्यः सात्त्विकस्तथा | चत्वारोऽभिनया ह्येते विज्ञेया नाट्यसंश्रयाः || २३ || स्थायी विस्मयशमा इति कैश्चित्पठितः | उत्साह एवास्य स्थायीत्यन्ये | जुगुप्सेति केचित् | सर्व इत्येके | तत्त्वज्ञानजो निर्वेदोऽस्य स्थायी | एतदर्थमेवोभयधर्मोपजीवित्वख्यापनायामङ्गलभूतोऽप्यसौ पूर्वं निर्दिष्टो व्यभिचारित्वा (षु | अ)भिनयत्वो(स्यो)पजीवका इति (तदनन्तरं) सात्त्विकाः | स्थायिषु अ सङ्ख्या नोक्तेत्यपरे | अत एव स्थायिन एते तु व्यभिचारिणोऽपि भवन्ति | एतच्चाग्रे वितनिष्यामः | व्यधिचारिण एत इत्युभयतो नियमार्थं सङ्क्योपादानम् | सात्त्विका व्यभिचारिवृत्तमभिनयवृत्तं चोपजीवन्तीति पृथगभिनयादिभ्यो गणिताः | चत्वार इति | आहार्यस्यापि धनुःप्रतिशीर्षकमुकुटादेः प्रत्यक्षबुद्धावुपयोगे प्. २६३) लोकधर्मी नाट्यधर्मी धर्मीति द्विविधः स्मृतः | भारती सात्वती चैव कैशिक्यारभटी तथा || २४ || चतस्रो वृत्तयो ह्येता यासु नाट्यं प्रतिष्ठितम् | आवन्ती दाक्षिणात्या च तथा चैवोढ्रमागधी || २५ || पाञ्चालमध्यमा चेति विज्ञेयास्तु प्रवृत्तयः | दैविकी मानुषी चैव सिद्धिः स्याद्द्विविधैव तु || २६ || शारीराश्चैव वैणाश्च सप्त षड्जादयः स्वराः | (निषादर्षभगान्धारमध्यपञ्चमधैवताः ||) ततं चैवावनद्धं च घनं सुषिरमेव च || २७ || ऽन्तरङ्गत्वं सूचयति | नाट्यसंश्रया इति | लोके तु कदाचिन्न भवत्यपि गृहीतत्वात् | नाट्ये तु त एव जीवितम् | अत एव रसभावानन्तरमभिनया उद्दिष्टाः | (१४-२३) अभिनयाश्च लौकिकं धर्मं तन्मूलमेव तदुपजीविनं सामयिकं वानुवर्तन्त इत्यतस्तदनन्तरं धर्मी | न चाभिनयोऽभिनेतव्यमन्तरेणास्तीति दशरूपकयोगद्वारेण तदुपकारिण्यो वृत्तयः | द्वे तिस्रः पञ्चेति निराकरणाय चतस्र इत्युक्तम् | ता अपि देशवशादद्भूयसा भवन्तीति तदनन्तरं प्रवृत्तयः | सर्वमेतत्सिद्धिपर्यवसानमिति ततो द्विविधा सिद्धिः | स्वराः पाठ्यं गानसंगृहीता अपि पृथगुपात्ताः | केअलानामपि प्रयोगोपरञ्जकत्वं यल्लक्ष्ये दृश्यते | यत्रान्तरालाप इति प्रसिद्धिस्तदभ्युपगमार्थम् | लक्षणान्वितमिति | अन्यत्तु मल्लकपटफलकज्वालामुखपक्षवाद्यादि लौकिकं नैतत्सङ्गृहीतम् बाध्यत्वादित्यर्थः | प्. २६४) चतुर्विध च विज्ञेयमातोद्यं लक्षणान्वितम् | ततं तन्त्रीगतं ज्ञेयमवनद्धं तु पौष्करम् || २८ || घनस्तु तालो विज्ञेयः सुषिरो वंश एव च | प्रवेशाक्षेपनिष्क्रामप्रासादिकमथान्तरम् || २९ || गानं पञ्चविधं ज्ञेयं ध्रुवायोगसमन्वितम् | चतुरश्रो विकृष्टश्च रङ्गस्त्र्यश्रश्च कीर्तितः || ३० || एतच्चान्ते लक्ष्यते | यदपि चतुर्विधं न सर्वमिदं बहुलचर्मकारादिवाद्यमपि च वक्ष्यमाणलक्षणान्वितम् | आतूद्यतेऽभिहन्यत इत्यर्थः | पुष्करशब्दश्रवणादागतं पुष्करवर्तकदेवताधिष्ठितं पद्मपत्राकारं चर्मपुटभाषं चेति पौष्करम् | हन्यते कलासाम्यार्थमिति घनः | अत एव तालैकप्रमाणत्वात्स्वरवर्णसम्भवात्ताल इत्युक्तः | कांस्यतालादिः | एवकारः काहलादिव्युदासाय | पात्रस्य प्रवेशे भावप्रकृत्यवस्थानादिसूचकं यद्गीयते तत्प्रवेशगानम् | प्रविष्टस्यान्तर्गतां चित्तवृत्तिं सामाजिकान्प्रति प्रसादयितुं प्रथयितुं प्रसादगानम् रसान्तरोपक्षेपार्थमाक्षेपगानम् | आन्तरमिति गतिपरिक्रमणनिरूपणादिरवसरः तत्र | यद्गीयते तदान्तरं गानम् | पात्रस्य निष्क्रमणे तु निष्क्रामगानम् | प्रवेशादय उपचाराद्गाने | प्रसादोऽस्य प्रयोजनं प्रासादिकम् | अन्ये तु समासान्मत्वर्थीयं ठनं कृत्वा प्रसादिकमिति | ध्रुवा गीत्याधारो नियतः पदसमूहः | तत्र योगेन युज्यमानतया समन्वितं तदर्थप्राधान्येन नियतरूपत्वादिति गानस्य गान्धर्वाद्भेदः सूचितः | कक्ष्याविभागेन गत्युपकारेण सर्वाभिनयानुभावोपकारी गानातोद्योपकारी च मण्डपः यथोक्तम् यश्चाप्यास्यगतो भाव (ना. शा. २- २०) इति तथा गम्भीरस्वरता येन कुतपस्य इत्यादि (ना. शा. २-८२) | रङ्गेणैव च कक्ष्याविभागः सङ्गृहीत इति नानुदृ(द्दि)ष्टत्वं कक्ष्यायाः | (२४-३०) प्. २६५) एवमेषोऽल्पसूत्रार्थो निर्दिष्टो नाट्यसंग्रहः | अतः परं प्रवक्ष्यामि सूत्रग्रन्थविकल्पनम् || ३१ || एतदुपसंहरत्येवमित्यादिना | एवमुद्देशविभागभेदेन द्विधा सङ्ग्रहमभिधाय लक्षणपरीक्षे वक्तुं प्रतिजानीते - अतःपरमिति | सूत्रग्रन्थविकल्पनमिति पाठः | सूत्रं सूत्रकं लक्षणं वक्ष्यामि | तेनैव च कारिका सङ्गृहीता | ग्रन्थो भाष्यम् | तत्कृतं च विकल्पनमाक्षेपप्रतिसमाधानात्मकमिति परीक्षा निरुक्तशब्दवाच्या प्रतिज्ञाता | सूत्रविवरणस्वभावा तु कारिका सूत्रमपि प्रकाशयन्ती बहुतराक्षेपसमाधान - व्याकुलशिष्यजन(नं)स्थित(र)पक्षनिरूपणेनोपकरोतीति भाष्यस्य पश्चादस्याः पाठः | एवं सूत्रं भाष्यं परीक्षां च प्रवक्ष्यामीति प्रतिज्ञाय रसविषयमेव सूत्रप्रभृति प्रथममेव वक्तव्यमित्यत्र परिकरबन्धं घटयितुमाह - तत्रेति | तेषां रसादीनां मध्ये | एवकारोऽवधारणे | तावदिति क्रमे | अभितः आदितः सूत्रग्रन्थपरीक्षाक्रमेण विभज्य व्याख्यास्यामः | उद्देशक्रमस्यैव पर्यनुयोज्यतामाशङ्क्यापरं क्रमहेतुमाह - न हीति | हि यस्मात् रसं विना विभावादिरर्थो बुद्धौ व्याख्येयतया च प्रवर्तते यतश्च तं विनाऽर्थः प्रयोजनं च प्रीतिपुरस्सरं व्युत्पत्तिमयं न प्रवर्तते यतश्च रसं प्रत्यादृते रसनात्मकप्रतीत्येकघनविश्रान्ते सामाजिकलोकेऽन्यो भावादिरर्थः प्रविभागेन बुद्धौ न वर्तते | सर्वस्य जडस्य चित्तवृत्त्यन्तरोपकृतप्रधानस्थायिनामधेयचित्तवृत्तिमग्नत्वेन विभावानुभावादिवर्गस्यावभासात् | अतो व्याख्यातृनटसामाजिकाभिप्रायेण तस्यैव प्राधान्यमिति रस एव तावत्पूर्वमुद्दिष्ट इति तस्यैव लक्षणादि कर्तव्यमिति तात्पर्यम् | पूर्वत्र बहुवचनमत्र चैकवचनं प्रयुञ्जानस्यायमाशयः - एक एव तावत्परमार्थतो रसः सूत्रस्थानीयत्वेन रूपके प्रतिभाति | तस्यैव पुनर्भागदृशा विभागः | सोऽपि च न तदेकमुखप्रेक्षितामतिवर्तते | एतच्चोद्देश एवास्माभिरभिहितचरम् | अभिधास्यते चाग्रे | प्. २६६) तत्र रसानेव तावदादावभिव्याख्यास्यामः | ह हि रसादृते कश्चिदर्थः प्रवर्तते | तत्र विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः | एवं क्रमहेतुमभिधाय रसविषयं लक्षणसूत्रमाह - विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः | अत्र भट्टलोल्लटप्रभृतयस्तावदेवं व्याचख्युः - विभावादिभिः संयोगोऽर्थात् स्थायिनस्ततो रसनिष्पत्तिः | तत्र विभावश्चित्तवृत्तेः स्थाययात्मिकाया उत्पत्तौ कारणम् | अनुभावाश्च न रसजन्या अत्र विवक्षिताः | तेषां रसकारणत्वेन गणनानर्हत्वात् | अपि तु भावानामेव | ननु येऽनुभावाः व्यभिचारिणश्च चित्तवृत्त्यात्मकत्वात् यद्यपि न सहभाविनः स्थायिना तथापि वासनात्मनेह तस्य विवक्षिताः | दृष्टान्तेऽपि अभिव्यञ्जनादिमध्ये कस्यचिद्वसनात्मकता स्थायिवत् अन्यस्य तूद्भूतता व्यभिचारिवत् | तेन स्थाययेव विभावानुभावादिभिरुपचितो रसः स्थायी भवत्यनुपचितः | स चोभयोरपि मुख्यया वृत्त्या रामादौ अनुकार्येऽनुकर्तर्यपि चानुसन्धानबलात् - इति | चिरन्तनानां चायमेव पक्षः | तथा हि दण्डिना स्व(काव्या?)लङ्कारलक्षणेऽभ्यधायि | रतिः शृङ्गारतां गता | रूपबाहुल्ययोगेन इति (काव्यादर्शे २-२८१) | अधिरुह्य परां कोटिं कोपो रौद्रात्मतां गतः | (२-२८३) इत्यादि च | एतन्नेति श्रीशङ्कुकः | विभावाद्ययोगे स्थायिनो लिङ्गाभावेनावगत्यनुपपत्तेर्भावानां पूर्वमभिधेयताप्रसङ्गात् स्फीतदशायां लक्षणान्तरवैयर्थ्यात् मन्दतर्तममाध्यस्थ्याद्यानन्त्यापत्तेः हास्यरसे षोढात्वाभावप्राप्तेः कामावस्थासु दशस्वसङ्ख्यरसभावादिप्रसङ्गात् शोकस्य प्रथमं तीव्रत्वं कालात्तु मान्द्यदर्शनं क्रोधोत्साहरतीनाममर्षस्थैर्यसेवाविपर्यये ह्रासदर्शनमिति विपर्ययस्य दृश्यमानत्वाच्च | तस्माद्धेतुभिर्विभावाख्यैः कार्यैश्चानुभावात्मभिः सहचारिरूपैश्च व्यभिचारिभिः प्रयत्नार्जिततया कृत्रिमैरपि तथानभिमन्यमानैरनुकर्तृस्थत्वेन लिङ्गबलतः प्रतीयमानः स्थायी भावो मुख्यरामादिगतस्थाययनुकरणरूपः | अनुकरणरूपत्वादेव च नामान्तरेण व्यपदिष्टो रसः | विभावा हि काव्यबलानुसन्धेयाः | अनुभावाः शिक्षातः | व्यभिचारिणः कृत्रिम- प्. २६७) निजानुभावार्जनबलात् | स्थायी तु काव्यबलादपि नानुसन्धेयः | रतिःशोक इत्यादयो हि शब्दा रत्यादिकमभिधेयीकुर्वन्त्यभिधानत्वेन | न तु वाचिकाभिनयरूपतयाऽवगमयन्ति | न हि वागेव वाचिकम् | अपि तु तया निर्वृत्तम् | अङ्गैरिवाङ्गिकम् | तेन - (विवृद्धात्माऽप्यगाधोऽपि दुरन्तोऽपि महानपि |) वाडवेनेव जलधिः शोकः क्रोधेन पीयते || इति | तथा - शोकेन कृतः स्तम्भः तथा स्थितो योऽनवश्तिताक्रन्दैः | (हृदयस्फुटनभयार्तै रोदितुमभ्यर्थ्यते सचिवैः ||) (तापसवत्सराजनाटके विनीतदेवोक्तिः) इत्येवमादौ न शोकोऽभिनेयः | अपि त्वभिधेयः | भाति पतितो लिखन्त्याः (तस्या बाष्पाम्बुशीकरकणौघः | स्वेदोद्गम इव करतलसंस्पर्शादेव मे वपुषि ||) (रत्ना २-११) इत्यनेन तु वाक्येन स्वार्थमभिदधता उदयनगतः सुखात्मा रतिः स्थायीभावोऽभिनीयते न तूच्यते अवगमनशक्तिर्ह्यभिनयनं वाचकत्वादन्या | अत एव स्थायिपदं सूत्रे भिन्नविभक्तिकमपि नोपात्तम् | तेन रतिरनुक्रियमाणा शृङ्गार इति तदात्मकत्वं तत्प्रभवत्वं च युक्तम् | अर्थक्रियापि मिथ्याज्ञानाददृष्टा यथा - (मणिप्रदीपप्रभयोर्मणिबुद्ध्याभिधावतोः | मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति || इति |) (प्रमाणवार्तिके प्रत्यक्षपरिच्छेदे ७७) न चात्र नर्तक एव सुखीति प्रतिपत्तिः | नाप्ययमेव राम इति | न चाप्ययं न सुखीति | नापि रामः स्याद्वा न वायमिति | न चापि तत्सदृश इति | किन्तु (सम्यङ्मिथ्यासंशयसादृश्यप्रतीतिभ्यो विलक्षणा चित्रतुरगादिन्यायेन) यः सुखी रामः असावयमिति र्पतीतिरस्तीति | यदाह - प्रतिभाति न सन्देहो न तत्त्वं न विपर्ययः | धीरसावयमित्यस्ति नासावेवायमित्यपि || विरुद्धबुद्ध्यसम्भेदादविवेचितसंप्लवः | युक्त्या पर्यनुयुज्येत स्फुरन्ननुभवः कया || इति | प्. २६८) तदिदमप्यन्तस्तत्त्वशून्यं न विमर्दक्षममित्युपाध्यायः | तथा हि - अनुकरणरूपो रस इति यदुच्यते तत्किं सामाजिकप्रतीत्यभिप्रायेण उत नटाभिप्रायेण किं वा वस्तुवृतविवेअकव्याख्यातृबुद्धिममवलम्बनेन यथाहुर्व्याख्यातारः खल्वेवं विवेचयन्ति (प्रमाणवार्तिके स्ववृत्तिः पृ ३९ ङ्न्दिश् एद्न्.) इति | अथ भरतमुनिवचनानुसारेण तत्राद्यः पक्षोऽसङ्गतः | किञ्चिद्धि प्रमाणेनोपलब्धं तदनुकरणमिति शक्यं वक्तुम् | यथा- एवमसौ सुरां पिबति इति सुरापानानुकरणत्वेन पयःपानं प्रत्यक्षावलोकितं प्रतिभाति | इह च नटगतं किं तदुपलब्धं यद्रत्यानुकरणतया भातीति चिन्त्यम् | तच्छरीरं तन्निष्ठं प्रतिशीर्षकादि रोमाञ्चकगद्गदिकादिभुजाक्षेपवलनप्रभृति भ्रूक्षेपकटाक्षादिकं च न रतेश्चित्तवृत्तिरूपा यानुकारत्वेन कस्यचित्प्रतिभाति | जडत्वेन भिन्नेन्द्रियग्राह्यत्वेन भिन्नाधिकरणत्वेन च ततोऽतिवैलक्षण्यात् | (मुख्याव)लोकने च तदनुकरणप्रतिभासः | न च रामगतां रतिमुपलब्धपूर्विणः केचित् | एतेन रामानुकारी नट इत्यपि निरस्तः प्रवादः | अथ नटगता चित्तवृत्तिरेव प्रतिपन्ना सती रत्यनुकारः शृङ्गार इत्युच्यते तत्रापि किमात्मकत्वेन सा प्रतीयत इति चिन्त्यम् | ननु प्रमदादिभिः कारणैः कटाक्षादिभिः कार्यैः धृत्यादिभिश्च सहचारिभिर्लिङ्गभूतैर्या लौकिकी कार्यरूपा कारणरूपा सहचारिरूपा च चित्तवृत्तिः प्रतीतियोग्या तदात्मकत्वेन नटचित्तवृत्तिः प्रतिभाति | हन्त तर्हि रत्याकारेणैव सा प्रतिपन्नेति दूरे रत्यनुकरणतावाचोयुक्तिः | ननु ते विभावादयोऽनुकार्ये पारमार्थिकाः इह त्वनुकर्तरि न तथेति विशेषः | अस्त्वेवम् | किन्तु ते हि विभावादयोऽतत्कारणातत्कार्यातत्सहचाररूपा अपि काव्यशिक्षादिबलोपकल्पिताः कृत्रिमाः सन्तः किं कृत्रिमत्वेन सामाजिकैः गृह्यन्ते न वा ? यदि गृह्यन्ते तदा तैः कथं रतेरवगतिः ? नन्वत एव तत्प्रतीयमानं रत्यनुकरणं मुग्धबुद्धेः कारणम् | कारणान्तरप्रभवे हि कार्ये (सु)शिक्षितेन वा तथा ज्ञाते वस्त्वन्तरस्यानुमानं तावद्युक्तम् | असुशिक्षितेन तु तस्यैव प्रसिद्धस्य कारणस्य | यथा वृश्चिकविशेषाद्गोमयस्यैवानुमानम् | वृश्चिकस्यैव वा तत्परं मिथ्याज्ञानम् | यत्रापि लिङ्गज्ञानं मिथ्या तत्रापि वा तदाभासानुमानमयुक्तम् | न हि बाष्पाद्धूमत्वेन ज्ञातादग्न्यनुकारानुमानम् | तदनुकारत्वेन प्रतिभासमानादपि लिङ्गात्तदनुकारानुमानं न युक्तम् | धूमानुकारत्वेन हि ज्ञायमानान्नीहारान्नाग्न्यनुकारजपापुष्पप्रतीतिर्दृष्टा | प्. २६९) नन्वक्रुद्धोऽपि नटः क्रुद्ध इव भाति | सत्यम् | क्रुद्धेन सदृशः | सादृश्यं च भ्रुकुट्यादिभिः | गोरिव गवयेन मुखादिभिरिति नैतावताऽनुकारः कश्चित् | न चापि सामाजिकानां सादृश्यमतिरस्ति | सामाजिकानां च न भावशून्या नर्तके प्रतिपत्तिरित्युच्यते | अथ च तदनुकारप्रतिभास इति रिक्ता वाचोयुक्तिः | यच्चोक्तं रामोऽयमित्यस्ति प्रतिपत्तिः तदपि यदि तदात्वे निश्चितं तदुत्तरकालभाविबाधकवैधुर्याभावे कथं न तत्वज्ञानं स्यात् ? बाधकसद्भावे वा कथं न मिथ्याज्ञानम् ? वास्तवेन च वृत्तेन बाधकानुदयेऽपि मिथ्याज्ञानमेव स्यात् | तेन विरुद्धबुद्ध्यसंभेदादित्यसत् | नर्तकान्तरेऽपि च राओऽयमिति प्रतिपत्तिरस्ति | ततश्च रामत्वं सामान्यरूपमित्यायातम् | यच्चोच्यते विभावाः काव्यादनुसन्धीयन्ते (इति) तदपि न विद्मः | नहि ममेयं सीता काचित् इति स्वात्मीयत्वेन प्रतिपत्तिर्नटस्य | अथ सामाजिकस्य तथा प्रतीतियोग्याः क्रियन्त इत्येतावदेवानुसन्धानमुच्यते तर्हि स्थायिनि सुतरामनुसन्धानं स्यात् | तस्यैव हि मुख्यत्वेन अस्मिन्नयम् इति सामाजिकानां प्रतिपत्तिः | यस्तु वाग्वाचिकम् इत्यादिना भेदाभिधानसंरम्भगर्भमहीयानभिनयरूपताविवेकः कृतः स उत्तरत्र स्वावसरे (ना. शा. अ -१४) चर्चयिष्यते | तस्मात्सामाजिकप्रतीत्यनुसारेण स्थाययनुकरणं रस इत्यसत् | न चापि नटस्येत्थं प्रतिपत्तिः रामं तच्चित्तवृत्तिं वाऽनुकारोमि इति | सदृशकरणं हि तावदनुकरणमनुपलब्धप्रकृतिना न शक्यं कर्तुम् | अथ पश्चात्करणमनुकरणं तल्लोकेऽप्यनुकरणात्मतातिप्रसक्ता | अथ न नियतस्य कस्यचिदनुकारः अपि तूत्तमप्रकृतेः शोकमनुकरोमीति | तर्हि केनेति चिन्त्यम् | न तावच्छोकेन तस्य तदभावात् | न चाश्रुपातादिना शोकस्यानुकारः तद्वैलक्षण्यादित्युक्तम् | इयत्तु स्यात् - उत्तमप्रकृतेर्ये शोकानुभावाः ताननुकरोमीति | तत्रापि कस्योत्तमप्रकृतेः | यस्य कस्यचिदिति चेत्सोऽपि विशिष्टतां विना कथं बुद्धावारोपयितुं शक्यः | य एवं रोदितीति चेत् स्वात्मापि मध्ये नटस्यानुप्रविष्ट इति गलितोऽनुकार्यानुकर्तृभावः | किञ्च नटः शिक्षावशात्स्वविभावस्मरणाच्चित्तवृत्तिसाधारणीभावेन हृदयसंवादात्केवलमनुभावान्प्रदर्शयन् काव्यमुपचितकाकुप्रभृत्युपस्कारेण पठंश्चेष्टत इत्येतावन्मात्रेऽस्य प्रतीतिर्नत्वनुकारं वेदयते | प्. २७०) कान्तवेषानुकारवृद्धि न रामचेष्टितस्यानुकारः | एतच्च प्रथमाध्यायेऽपि दर्शितमस्माभिः | नापि वस्तुवृत्तानुसारेण तदनुकारत्वम् | अनुसंवेद्यमानस्य वस्तुवृत्तत्वानुपपत्तेः | यच्च वस्तुवृत्तं तद्दर्शयिष्यामः | न च मुनिवचनमेवविधमस्ति क्वचित्स्थाययनुकरणं रसा इति | नापि लिङ्गमत्रार्थे मुनेरुपलभ्यते | प्रत्युत ध्रुवागानतालवैचित्र्यलास्याङ्गोपजीवनं(न)निरूपणादि विपर्यये लिङ्गमिति सन्ध्यङ्गाध्यायान्ते वितनिष्यामः | सप्तद्वीपानुकरणम् (ना. शा. १-११७) इत्यादि त्वन्यथापि शक्यगमनिकमिति | तदनुकारेऽपि च क्व नामान्तरं कान्तवेषगत्यकरणादौ | यच्चोच्यते वर्णकैर्हरितालादिभिः संयुज्यमान एव गौरित्यादि | तत्र यद्यभिव्यज्यमान इत्यर्थोऽभिप्रेत तदसत् | न हि सिन्दूरादिभिः पारमार्थिको गौरभिव्यज्यते प्रदीपादिभिरिव | किन्तु तत्सदृशः समूहविशेषो निर्वर्त्यते | त एव हि सिन्दूरादयो गवावयवसन्निवेशसदृशेन सन्निवेशविशेषेणावस्थिता गोसदृगिति प्रतिभासस्य विषयः नैवं विभावादिसमूहो रतिसदृशताप्रतिपत्तिग्राह्यः | तस्माद्भावानुकरणं रसा इत्यसत् | येन त्वभ्यधायि सुखदुःखजननशक्तियुक्ता विषयसामग्री बाह्यैव साङ्ख्यदृशा सुखदुःखस्वभावा रसः | तस्यां च सामग्र्या दलस्थानीया विभावाः संस्कारकाः अनुभावव्यभिचारिणः | स्थायिनस्तु तत्सामग्रीजन्या आन्तराः सुखदुःखस्वभावा इति | तेन स्थायिभावान् रसत्व (मुपनेष्याम) इत्यादावुपचारमङ्गीकुर्वता ग्रन्थविरोधं स्वयमेव बुध्यमानेन दूषणाविष्करणमौखर्यात् प्रामाणिको जनः परिरक्षित इति किमस्योच्यते | यत्त्वन्यतन्त्रप्रतीतिवैषम्यप्रसङ्गादि तत्कियदत्रोच्यताम् | भट्टनायकस्त्वाह - रसो न प्रतीयते नोत्पद्यते नाभिव्यज्यते | स्वगतत्वेन हि प्रतीतौ करुणे दुःखित्वं स्यात् | न च सा प्रतीतिर्युक्ता सीतादेरविभावत्वात् स्वकान्तास्मृत्यसंवेदनात् देवतादौ साधारणीकरणायोग्यत्वात् समुद्रलङ्घनादेरसाधारण्यात् | न च तद्वतो रामस्य स्मृतिः अनुपलब्धत्वात् न च शब्दानुमानादिभ्यः तत्प्रतीतौ लोकस्य सरसता युक्ता प्रत्यक्षादिव नायकयुगलकावभासे हि प्रत्युत लज्जाजुगुप्सास्पृहादिस्वोचितचित्तवृत्त्यन्तरोदयव्यग्रतया का सरसत्वकथापि स्यात् | परगतत्वेन प्रतीतौ ताटस्थ्यमेव भवेत् तत्र प्रतीतिरनुभवस्मृत्यादिरूपा रसस्य युक्ता | उत्त्पत्तावपि तुल्यमेतद्दुषणम् | शक्तिरूपत्वेन पूर्वं स्थितस्य पश्चादभिव्यक्तौ विषयार्जनतारतम्यापत्तिः | स्वगतत्वपरगतत्वादि च पूर्ववद्विकल्प्यम् | प्. २७१) तस्मात्काव्ये दोषाभावगुणालङ्कारमयत्वलक्षणेन नाट्ये चतुर्विधाभिनयरूपेण निबिडनिजमोहसङ्कटतानिवारणकारिणा विभावादिसाधारणीकरणात्मनाऽभिधातो द्वितीयेनांशेन भावकत्वव्यापारेण भाव्यमानो रसोऽनुभवस्मृत्यादिविलक्षणेन रजस्तमोऽनुवेधवैचित्र्यबलाद्द्रुतिविस्तारविकासलक्षणेन सत्त्वोद्रेकप्रकाशानन्दमयनिजसंविद्विश्रान्तिलक्षणेन परब्रह्मास्वादसविधेन भोगेन परं भुज्यत इति | (अभिधा भावना चान्या तद्भोगीकृतमेव च | अभिधाधामतां याते शब्दार्थालङ्कृती ततः ||) भावनाभाव्य एषोऽपि शृङ्गारादिगणो हि यत् | (तद्भोगीकृतिरूपेण व्याप्यते सिद्धिमान्नरः ||) तत्र पूर्वपक्षोऽयं भट्टलोल्लटपक्षानभ्युपगमादेव नाभ्युपगत इति तद्दुषणमनुत्थानोपहतमेव | प्रतीत्यादिव्यतिरिक्तश्च संसारे को भोग इति न विद्मः | रसनेति चेत् सापि प्रतिपत्तिरेव | केवलमुपायवैलक्षण्यान्नामान्तरं प्रतिपद्यतां दर्शनानुमिति - श्रुत्युपमितिप्रतिभानादिनामान्तरवत् | निष्पादनाभिव्यक्तिद्वयानभ्युपगमे च नित्यो वा असद्वा रस इति न तृतीया गतिः स्यात् न चाप्रतीतं वस्त्वस्तिताव्यवहारे योग्यम् | अथोच्यते - प्रतीतिरिति रसस्य भोगीकरणम् | तच्च द्रुत्यादिस्वरूपम् | तदस्तु तथापि न तावन्मात्रम् | यावन्तो हि रसास्तावत्य एव रसनात्मानः प्रतीतयो भोगीकरणस्वभावाः | (सत्त्वादि)गुणानां चाङ्गाङ्गिवैचित्र्यमनन्तं कल्प्यमिति कात्रित्वेनेयत्ता - इति तु यत् काव्येन भाव्यन्ते रसाः इत्युच्यते तत्र विभावादिजनितचर्वणात्मकास्वादरूपप्रत्ययगोचरतापादनमेव यदि भावनं तदभ्युपगम्यत एव | यत्तूक्तम् - भावसंयोजना व्यङ्ग्यपरसंवित्तिगोचरः | आस्वादनात्माऽनुभवो रसः काव्यार्थ उच्यते || इति | (संसर्गादिर्यथाशास्त्र एकत्वात् फलयोगतः | वाक्यार्थस्तद्वदेवात्र शृङ्गारादि रसो मतः ||) तत्र व्यज्यमानतया व्यङ्ग्यो लक्ष्यते | अनुभवेन च तद्विषय इति मन्तव्यम् | नन्वेवं कथं रसतत्त्वमास्ताम् | प्. २७२) किं कुर्मः | आम्नायसिद्धे किमपूर्वमेत - त्संविद्विकासेऽधिगनागमित्वम् | इत्थं स्वयंग्राह्यमहार्हहेतु- द्वन्द्वेन किं दूषयिता न लोकः || ऊर्ध्वोर्ध्वमारुह्य यदर्थतत्त्वं धीः पश्यति श्रान्तिमवेदयन्ती | फलं तदाद्यैः परिकल्पितानां विवेकसोपानपरम्पराणाम् || चित्रं निरालम्बनमेव मन्ये प्रमेयसिद्धौ प्रथमावतारम् | सन्मार्गलाभे सति सेतुबन्ध- पुरप्रतिष्ठादि न विस्मयाय || तस्मात्सतामत्र न दूषितानि मतानि तान्येव तु शोधितानि | पूर्वप्रतिष्ठापितयोजनासु मूलप्रतिष्ठाफलमामनन्ति || तर्ह्युच्यतां परिशुद्धतत्त्वम् | उक्तमेव मुनिना न त्वपूर्वं किञ्चित् | तथाह्याह - काव्यार्थान् भावयतीति भावाः इति (ना. शा. अ -७) तत्काव्यार्थो रसः | यथा हि रात्रिमासत | तामग्नौ प्रादात् इत्यादावर्थितादिलक्षितस्याधिकारिणः प्रतिपत्तिमात्रादितिवृत्तप्ररोचितात्प्रथमप्रवृत्तादनन्तरमधिकैवोपात्तकालतिर् अस्कारेणैवास्ते संप्रददानीत्यादिरूपा संक्रमणादिस्वाभावा | यथादर्शनं प्रतिभाभावनाविध्युद्योगादिभाषाभिर्व्यवहृता प्रतिपत्तिस्तथैव काव्यात्मकादपि शब्दादधिकारिणोऽधिकाऽस्ति प्रतिपत्तिः | प्. २७३) अधिकारि चात्र विमलप्रतिभानशालिहृदयः | तस्य च ग्रीवाभङ्गाभिरामम् | इति (शाकु - अ. १) उमापि नीलालक इति (कुमा-३-६२) हरस्तु किञ्चित् (कुमा. ३.६७) इत्यादिवाक्येभ्यो वाक्यार्थप्रतिपत्तेरनन्तरं मानसी साक्षात्कारात्मिकाऽपहस्तिततत्तद्वाक्योपात्तकालादिविभागा तावत्प्रतीतिरुपजायते | तस्यां च यो मृगपोतकादिर्भाति तस्य विशेषरूपत्वाभावाद्भीत इति त्रासकस्यापारमार्थिकत्वाद्भयमेव परं देशकालाद्यनालिङ्गितम् तत एव भीतोऽहं भीतोऽयं शत्रुर्वयस्यो मध्यस्थो वा इत्यादिप्रत्ययेभ्यो दुःखसुखादिकृतहानादिबुध्यन्तरोदयनियमवत्तया विघ्नबहुलेभ्यो विलक्षणं निर्विघ्नप्रतीतिनिग्राह्यं साक्षादिव हृदये निधीयमानं चक्षुषोरिव विपरिवर्तमानं भयानको रसः | तथाविधे हि भये नात्माऽत्यन्ततिरस्कृतो न विशेषत उल्लिखितः | एवं परोऽपि | तत एव न परिमितमेव साधारण्यम् अपि तु विततम् | व्याप्तिग्रह इव धूमाग्न्योः भयकम्पयोरेव वा तदत्र साक्षात्कारायमाणत्वे परिपोषिका नटादिसामग्री | यस्यां वस्तुसतां काव्यार्पितानां च देशकालप्रमात्रादीनां नियमहेतूनामन्योन्यप्रतिबन्धबलादत्यन्तमपसरणे स एव साधारणीभावः सुतरां पुष्यति | अत एव सर्वसामाजिकानामेकघनतैव प्रतिपत्तेः सुतरां रसपरिपोषाय | सर्वेषामनादिवासनाचित्रीकृतचेतसां वासनासंवादात् | सा चाविघ्ना संविच्चमत्कारः | तज्जो हिकम्पपुलकोल्लुकसनादिर्विकारः | चमत्कारो यथा- अज्ज वि हरि चमक्क-ई कहकहविण मंदरेण दलि-आ-इं | चंदकलाकंदलसच्छहा-इं लच्छी-ए अंगा-ई || तथा हि - स चातृप्तिव्यतिरेकेणाविच्छिन्नो भोगावेश इत्युच्यते | भुञ्जानस्याद्भुतभोगस्पन्दाविष्टस्य च मनःकरणं चमत्कार इति | स च साक्षात्कारस्वभावो मानसोऽध्यवसायो वा सङ्कल्पो वा स्मृतिर्वा तथात्वेन स्फुरन्नस्तु | यदाह - रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान् - पर्यत्सुको भवति यत्सुखितोऽपि जन्तुः | तच्चेतसा सम्रति नूनमबोधपूर्वं भावस्थिराणि जननान्तरसौहृदानि || (शाकु ५-) इत्यादि | प्. २७४) अत्र हि स्मरतीति या स्मृतिरुपदर्शिता सा न तार्किकप्रसिद्धा पूर्वमेतस्यार्थस्याननुभूतत्वात् | अपि तु प्रतिभानापरपर्यायसाक्षात्कारस्वभावेयमिति |) सर्वथा तावदेषास्ति प्रतीतिरास्वादात्मा यस्यां रतिरेव भाति | तत एव विशेषान्तरानुपहितत्वात्सा रसनीया सती न लौकिकी न मिथ्या नानिर्वाच्या न लौकिकतुल्या न तदारोपादिरूपा | एषैव चोपचयावस्थासु देशाद्यनियन्त्रणादनुकारोऽप्यस्तु भावानुगामितया करणात् | विषयसामग्र्यपि भवतु विज्ञानवादावलम्बनात् | सर्वथा रसनात्मकवीतविघ्नप्रतीतिग्राह्यो भाव एव रसः | तत्र विघ्नापसारका विभावप्रभृतयः | तथा हि - लोके सकलविघ्नविनिर्मुक्ता संवित्तिरेव चमत्कारनिर्वेशरसनास्वादनभोगसमापत्तिलयविश्रान्त्यादिशब्दैरभिधीय अते | विघ्नाश्चास्यां सप्त | प्रतिपत्तावयोग्यता संभावनाविरहरूपा | (१) स्वगतत्वपरगतत्वनियमेन देशकालविशेषावेशः (२) निजसुखादिविवशीभावः (३) प्रतीत्युपायवैकल्यं (४) स्फुटत्वाभावो (५) अप्रधानता (६) संशययोगश्च (७) | तथाहि - संवेद्यमसंभावयमानः संवेद्ये संविदं विनिवेशयितुमेव न शक्नोति | का तत्र विश्रान्तिरिति प्रथमो विघ्नः | तदपसारणे हृदयसंवादो लोकसामान्यवस्तुविषयः | अलोकसामान्येषु तु चेष्टितेष्वखण्डितप्रसिद्धिजनितगाढारूढप्रत्ययप्रसरकारी प्रख्यातरामादिनामधेयपरिग्रहः | अत एव निस्सामान्योत्कर्षोपदेशव्युत्पत्तिप्रयोजने नाटकादौ प्रख्यातवस्तुविषयत्वादि नियमेन निरूपयिष्यते न तु प्रहसनादौ एतच्च स्वावसर एव वक्ष्याम् इत्यास्तां तावत् | स्वैकगतानां च सुखदुःखसंविदामास्वादे यथासंभवं तदपगमभीरुतया वा तत्परिरक्षाव्यग्रतया वा तत्सदृशार्जिजीषया वा तज्जिहासया वा तत्प्रचिख्यापयिषया वा तद्गोपनेच्छया वा प्रकारान्तरेण वा संवेदनान्तरसमुद्गम एव परमो विघ्नः | परगतत्वनियमभाजामपि सुखदुःखानां संवेदने नियमेन स्वात्मनि सुखदुःखमोहमाध्यस्थ्यादिसंविदन्तरोद्गमनसंभावनादवश्यंभ् आवी विघ्नः | तदपसारणे कार्यो नातिप्रसङ्गोऽत्र(ना.शा. ५-१५८) इत्यादिना (पूर्वरङ्गविधिं प्रतीति) पूर्वरङ्गानिगूहनेन (नटी विदूषको वापि इति लक्षित)प्रस्तावनावलोकनेन च यो नटरूपताधिगमस्तत्पुरस्सरः प्रतिशीर्षकादिना तत्प्रच्छादनप्रकारोऽभ्युपायः अलौकिकभाषादिभेदलास्याङ्गरङ्गपीठ- प्. २७५) मण्डपगतकक्ष्यादिपरिग्रहनाट्यधर्मिसहितः | तसिन् हि सति अस्यैवात्रैवैतर्ह्यैव च सुखं दुःखं वा इति न भवति प्रतीतिः स्वरूपस्य निह्रवात् रूपान्तरस्य चारोपितस्य प्रतिभासविश्रान्तिवैकल्येन स्वरूपे विश्रान्त्यभावात् | सत्यतदीयरूपनिह्रवमात्र एव पर्यवसानात् | तथा हि - आसीनपाठ्यपुष्पगन्धिकादि लोके न दृष्टम् | न च तन्न किञ्चित् | कथञ्चित्संभाव्यत्वात् इति ष सर्वो मुनिना साधारणीभावसिद्ध्या रसचर्वणोपयोगित्वेन परिकरबन्धः समाश्रितः इति तत्रैव स्फुटीभविष्यतीति तदिह तावन्नोद्यमनीयम् | ततः स एष स्वपरनियतताविघ्नापसरणप्रकारो व्याख्यातः | तथा निजसुखादिविवशीभूतश्च कथं वस्त्वन्तरे संविदं विश्रमयेदिति तत्प्रत्यूहव्यपोहनाय प्रतिपदार्थनिष्ठैः साधारण्यमहिम्ना सकलभोग्यत्वसहिष्णुभिः शब्दादिविषयमयैरातोद्यगानविचित्रमण्डपपदविदग्धगणिकादिभि- रुपरञ्जनं समाश्रितम् | येनाहृदयोऽपि हृदयवैमल्यप्राप्त्या सहृदयीक्रियते | उक्तं हि दृश्यं श्रव्यं च (ना. शा. १-११) इति | किञ्च प्रतीत्युपायानामभावे कथं प्रतीतिः? अस्फुटप्रतीतिकारिशब्दलिङ्गसम्भवेऽपि न प्रतीर्विश्राम्यति | स्फुटप्रतीतिरूपप्रत्यक्षोचितप्रत्ययसाकाङ्क्षत्वात् | यथाऽहुः सर्वा चेयं प्रमितिः प्रत्यक्षपरा (न्यायसू. भा. १-१-१३ इति | स्वसाक्षात्कृते आगमानुमानशतैरप्यनन्यथाभावस्य स्वसंवेदनात् | अलातचक्रादौ साक्षात्कारान्तरेणैव बलवता तप्तमित्यपसारणादिति लौकिकस्तावदयं क्रमः | तस्मात्तदुभयविघ्नविघातेऽभिनया लोकधर्मिवृत्तिप्रवृत्त्युपस्कृताः समभिषिच्यन्ते | अभिनयनं हि सशब्दलिङ्गव्यापारविसदृशमेव प्रत्यक्षव्यापारकल्पमिति निश्चेष्यामः | अप्रधाने च वस्तुनि कस्य संविद्विश्राम्यति ? तस्यैव प्रत्येयस्य प्रधानान्तरं प्रत्यनुधावतः स्वात्मन्यविश्रान्तत्वात् | अतोऽप्रधानत्वं जडे विभावानुभाववर्गे व्यभिचारिनिचये च संविदात्मकेऽपि नियमेनान्यमुखप्रेक्षिणि संभवतीति तदतिरिक्तः स्थाययेव तथा चर्वणापात्रम् | प्. २७६) तत्र पुरुषार्थनिष्ठाः काश्चित्संविद इति प्रधानम् | तद्यथा - रतिः कामः तदनुषङ्गिधर्मार्थनिष्ठा क्रोधस्तत्प्रधानेष्वर्थनिष्ठ कामधर्मपर्यवसितोऽप्युत्साहः समस्तधर्मादिपर्यवसितः शाश्च तत्त्वज्ञानजनितनिर्वेदप्रायोऽपि भावो मोक्षोपाय इति तावदेषां प्राधान्यम् | यद्यपि चैषामप्यन्योन्यं गुणभावोऽस्ति तथापि तत्तत्प्रधाने रूपके तत्तत्प्रधानं भवतीति रूपकभेदपर्यायेण सर्वेषं प्राधान्यमेषां लक्ष्यते | अदूरभागाभिनिविष्टदृशात्वेकस्मिन्नपि रूपके पृथक्प्राधान्यम् | तत्र सर्वेऽमी सुखप्रधानाः स्वसंविच्चर्वणरूपस्यैकघनस्य प्रकाशस्यानन्दसारत्वात् | तथा हि - एकघनशोकसंविच्चर्वणेऽपि लोकेऽस्ति स्त्रीलोकस्य हृदयविश्रान्तिरन्तरायशून्यविश्रान्तिशरीरत्वात् | अविश्रान्तिरूपतैव दुःखम् | तत एव कापिलैर्दुःखस्य चाञ्चल्यमेव प्राणत्वेनोक्तं रजोवृत्तितां वदद्भिरित्यानन्दरूपता सर्वरसानाम् | किन्तूपरञ्जकविषयवशात्केषामपि कटु किम्ना अस्ति | स्पर्शो वीरस्येव | स हि क्लेशं सहिष्णुतादिप्राण एव | एवं रत्यादीनां प्राधान्यम् | हासादीनां तु सातिशयं सकललोकसुलभविभावतयोपरञ्जकत्वमिति प्राधान्यम् | अत एवानुत्तमप्रकृतिषु बाहुल्येन हासादयो भवन्ति | पामरप्रायः सर्वोऽपि हसति शोचति बिभेति परनिन्दामाद्रियते अल्पसु भाषितत्वेन च सर्वत्र विस्मयते | रत्याद्यङ्गतया तु पुमर्थोपयोगित्वमपि स्यादेषाम् | एतद्गुणप्रधानभावकृत एव च दशरूपकादिभेद इति वक्ष्यामः | स्थायित्वं चैतावतामेव | जात एव हि जन्तुरियतीभिः संविद्भिः परीतो भवति | तथा हि - दुःखसंश्लेषविद्वेषी सुखास्वादनसादरः | इति न्यायेन सर्वो रिरंसया व्याप्तः स्वात्मन्युत्कर्षमानितया परौपहसन्नभीष्टवियोगसंतप्तसतद्धेतुषु कोपपरवशोऽशक्ततया च ततो भीरुः किञ्चिदार्जिजीषुरप्यपरिचितवस्तुविषयवैमुख्यात्मकतयाक्रान्तः किञ्चिदनभीष्ततयाऽभिमन्यमानस्तत्तत्स्वकर्तव्यदर्शनसमुदितविस्मयः किञ्चिच्च जिहासुरेव जायते | न ह्येतच्चित्तवृत्तिवासनाशून्यः प्राणी भवति | केवलं कस्यचित्काचिदधिका चित्तवृत्तिः प्. २७७) काचिदूना कस्यचिदुचितविषयनियन्त्रिता कस्यचिदन्यथा | तत्काचिदेव पुमर्थोपयोगिनीत्युपदेश्या | तद्विभागकृतश्चोत्तमप्रकृत्यादिव्यवहारः | ये पुनरमी ग्लानिशङ्काप्रभृतयश्चित्तवृत्तिविशेषास्ते समुचितविभावाज्जगन्मध्येऽपि न भवन्त्येव | तथा हि - रसायनमुपयुक्तवतो मुनेर्ग्लान्यालस्यश्रमप्रभृतयो नोत्तिष्ठान्ति | यस्यापि वा भवन्ति विभावबलात्तस्यापि हेतुप्रक्षये क्षीयमाणाः संस्कारशेषतां तावत् नावश्यमनुबध्नन्ति | उत्साहादयस्तु संपादितस्वकर्तव्यतया प्रलीनकल्पा अपि संस्कारशेषतां नातिवर्तन्ते कर्तव्यान्तरविस्ऽयस्योत्साहादेरखण्डनात् | यथाह पतञ्जलिः - न हि चैत्र एकस्यां स्त्रियां रक्त इत्यन्यासु विरक्तः | (पातञ्जल. व्यास. भा. २.४) इत्यादि | तस्मात्स्थायिरूपचित्तवृत्तिसूत्रस्यूता एवामी व्यभिचारिणः स्वात्मानमुदयास्तमयवैचित्र्यशतसहस्रधर्माणं प्रतिलभमाना रक्तनीलादिसूत्रस्यूतविरलभावो(गो)पलम्भनसम्भावितभङ्गीसहस्रगर्भ स्फटिककाचाभ्रकपद्मरागमरकतमहानीलादिमयगोलकवत्तस्मिन् सूत्रे स्वसंस्कारवैचित्र्यमनिवेशयन्तोऽपि तत्सूत्रकृतमुपकारसन्दर्भं बिभ्रतः स्वयं च विचित्रार्थस्थायिसूत्रं च विचित्रयन्तोऽन्तरान्तरा शुद्धमपि स्थायिसूत्रं प्रतिभासावकाशमुपनयन्तोऽपि पूर्वापरव्यभिचारिरत्नच्छायाशबलिमानमवश्यमानयन्तः प्रतिभासन्त इति व्यभिचारिण उच्यन्ते | तथा हि - ग्लानोऽयमित्युक्ते कुत इति हेतुप्रश्नेनास्थायितास्य सूच्यते न तु राम उत्साहशक्तिमानित्यत्र हेतुप्रश्नमाहुः | अत एव विभावास्तत्रोद्बोधकाः सन्तः स्वरूपोपरञ्जकत्वं विदधाना रत्युत्साहादेरुचितानुचितत्वमात्रमावहन्ति | न तु तदभावे सर्वथैव ते निरुपाख्याः वासनात्मना सर्वजन्तूनां तन्मयत्वेनोक्तत्वात् | व्यभिचारिणां तु स्वविभावाभावे नामापि नास्तीति वितनिष्यते चैतद्यथायोगं व्याख्यावसरे | एवमप्रधानत्वनिरासः स्थायिनिरुपणायां स्थायिभावान् रसत्वम् (ना. शा. अ. ६) इत्यनया सामान्यलक्षणशेषभूतया विशेषलक्षणनिष्थया च कृतः | प्. २७८) तत्रानुभावानां विभावानां व्यभिचारिणां च पृथक्स्थायिनि नियमों नास्ति बाष्पादेरानन्दाक्षिरोगादिजत्वदर्शनात् व्याघ्रादेश्च क्रोधभयादिहेतुत्वात् श्रमचिन्तादेरुत्साहभयाद्यनेकसहचरत्वावलोकनात् | सामग्री तु न व्यभिचारिणी | तथा हि - बन्धुविनाशो यत्र विभावः परिदेविताश्रुपातादिस्त्वनुभावः चिन्ताश्च दैन्यादि व्यभिचारी सोऽवश्यं शोक एवत्येवं संशयोदये शङ्क्तात्मकविघ्नशमनाय संयोग उपातः | तत्र लोकव्यवहारे कार्यकारणसहचारात्मकलिङ्गदर्शने स्थाययात्मपरचित्तवृत्त्यनुमानाभ्यासपाटवादधुना तैरेवोद्यानकटाक्षवीक्षादिभिर्लौकिकीं कारणत्वादिभुवमतिक्रान्तैर्विभावनानुभावनासमुपरञ्जकत्वमात्र- प्राणैः अत एवालौकिकविभावादिव्यपदेशभाग्भिः प्राच्यकारणादिरूपसंस्कारोपजीवनख्यापनाय विभावादिनामधेयव्यपदेश्यैर्भावाध्यायेऽपि वक्ष्यमाणस्वरूपभेदैर्गुणप्रधानतापर्यायेण सामाजिकधियि सम्यग्योगं सम्बन्धमैकाग्र्यं वाऽसादितवद्भिरलौकिकनिर्विघ्नसंवेदनात्मकचर्वणागोचरतां नीतोऽर्थश्चर्वमाणतैकसारो न तु सिद्धस्वभावः तात्कालिक एव न तु चर्वणातिरिक्तकालावलम्बी स्थायिविलक्षण एव रसः | न तु यथा शङ्कुकादिभिरभ्यधीयत स्थाययेव विभावादिप्रत्याययो रस्यमानत्वाद्रस उच्यते | इति एवं हि लोकेऽपि किं न रसः | असतोऽपि हि यत्र रसनीयता स्यात्तत्र वस्तुसतः कथं न भविष्यति ? तेन स्थायिप्रतीतिरनुमितिरूपा वाच्या | न रसः | अत एव सूत्रे मुनिना स्थायिग्रहणं न कृतम् | तत्प्रत्युत शल्यभूतं स्यात् | केवलमौचित्यादेवमुच्यते स्थायी रसीभूत इति | औचित्यं तु तत्स्थायिगतत्वेन कारणादितया प्रसिद्धानामधुना चर्वणोपयोगितया विभावादित्वावलम्बनात् | तथा हि लौकिकचित्तवृत्त्यनुमाने का रसता ? तेनालौकिकचमत्कारात्मा रसास्वादः स्मृत्यनुमानलौकिकसंवेदनविलक्षण एव | तथाहि - लौकिकेनानुमानेन संस्कृतः प्रमदादि न ताटस्थ्येन प्रतिपद्यते | अपि तु हृदयसंवादात्मकसहृदयत्वबलात्पूर्णीभविष्यद्रसास्वादाङ्कुरी- भावेनानुमानस्मृत्यादिसोपानमनारुह्यैव तन्मयीभावोचितचर्वणाप्राणतया | न च सा चर्वणा प्राङ्मानान्तरात् (जाता) प्. २७९) येनाधुना स्मृतिः स्यात् | न चात्र लौकिकप्रत्यक्षादिप्रमाणव्यापारः | किन्त्वलौकिकविभावादिसंयोगबलोपनतैवेयं चर्वणा | सा च प्रत्यक्षानुमानागमोपमानादिलौकिकप्रमाणजनितरत्याद्यवबोधतः तथा योगिप्रत्यक्षजनितटस्थपरसंवित्तिज्ञानात्सकलवैषयिकोपरागशून्यशुद्ध परयोगिगतस्वानन्दैकघनानुभवाच्च विशिष्यते | एतेषां यथायोगमर्जनादिविघ्नान्तरोदयात्ताटस्थ्यहेतुकेनास्फुटत्वेन विषयावेशवैवश्येन च सौन्दर्यविरहात् | अत्र तु स्वात्मैकगतत्वनियमासंभवात् न विषया-वेशवैवश्यम् स्वानुप्रवेशात्परगतत्वनियमाभावात् न ताटस्थ्य(हेतुका)स्फुटत्वं तद्विभावादिसाधारण्यवशसंप्रबुद्धोचितनिजरत्यादिवासनावेशवशाच्च न विघ्नान्तरादीनां सम्भव इत्यवोचाम बहुशः | अत एव विभावादयो न निष्पत्तिहेतवओ रसस्य तद्बोधापगमेऽपि रससंभवप्रसङ्गात् | नापि ज्ञप्तिहेतवः येन प्रमाणमध्ये पतेयुः | सिद्धस्य कस्यचित्प्रमेयभूतस्य रसस्याभावात् | तर्हि किमतद्विभावादय इति | अलौकिक एवायं चर्वणोपयोगी विभावादिव्यवहारः | क्वान्यत्रेत्थं दृष्टमिति चेद्भूषणमेतदस्माकमलौकिकत्वसिद्धौ | पानकररसास्वादोऽपि किं गुडमरीचादिषु दृष्ट इति समानमेतत् | नन्वेवं रसोऽप्रमेयः स्यात् | एवं युक्तं भवितुमर्हति - रस्यतैकप्राणो ह्यसौ न प्रमेयादिस्वभावः | तर्हि सूत्रे निष्पत्तिरिति कथम् ? नेयं रसस्य अपि तु तद्विषयरसनायाः | तन्निष्पत्त्या तु यदि तदेकायत्तजीवितस्य रसस्य निष्पत्तिरुच्यते तन्न कश्चिदत्र दोषः | सा च रसना न प्रमाणव्यापारो न कारकव्यापारः | स्वयं तु नाप्रामाणिकी | स्वसंवेदनसिद्धत्वात् | रसना च बोधरूपैव किन्तु बोधान्तरेभ्यो लौकिकेभ्यो विलक्षणैव उपायानां विभावादीनां लौकिकवैलक्षण्यात् | तेन विभावादिसंयोगाद्रसना यतो निष्पद्यतेऽतस्तथाविधरसनागोचरो लोकोत्तरोऽर्थो रस इति तात्पर्य सूत्रस्य | अयमत्र संक्षेपः | मुकुटप्रतिशीर्षकादिना तावन्नटबुद्धिराच्छाद्यते | गाढप्राक्तनसंवित्संस्काराच्च काव्यबलानीयमानापि न तत्र रामधीर्विश्राम्यति | अत एवोभयदेशकालत्यागः | रोमाञ्चादयश्च भूयसा रतिप्रतीतिकारितया दृष्टास्तत्रापि लौकिका (त्रावलोकिता) देशकालानियमेन तत्र रतिं गमयन्ति | यस्यां स्वात्माऽपि तद्वासनावत्त्वादनुप्रविष्टः | अत एव न तटस्थतया रत्यवगमः | न च नियतकारणतया येनार्जनाभिषङ्गादिसम्भावना | न च नियतपरात्मैकगततया | येन दुःखद्वेषाद्युदयः | प्. २८०) तेन साधारणीभूता सन्तानवृत्तेरेकस्या एव वा संविदो गोचरीभूता रतिः शृङ्गारः | साधारणी भावना च विभावादिभिरिति | तत्र विभावप्राधान्यस्य धामणिमया (प्राधान्येन साधारणीभावो यथा-) केलीकन्दलितस्य विभ्रममधो(ः)धुर्यं वपुस्ते दृशो- र्ब्भङ्गी भङ्गुरकामकार्मुकमिदं भ्रूर्नर्मकर्मक्रमः | आपाते(घ्रातो)ऽपि विकारकारणमहो वक्त्राम्बुजन्माऽसवः सत्यं सुन्दरि वेधसस्त्रिजगतीसारं त्वमेका कृतिः || अत्र च विभावकृतं तत्सौन्दर्यं प्राधान्येन भाति | तदनुगतत्वेन केलीविभ्रमभङ्गुरनर्मादिपदमहिम्ना चानुभाववर्गो भङ्गीक्रमविकारादिशब्दबलाच्च व्यभिचारिवर्गः प्रतिभातीत्यत एव नास्फुटत्वाशङ्काऽत्र रत्यास्वादमये शृङ्गारे विधेया | अनुभावप्राधान्यं यथा - शुद्धसारस्वतप्रवाहपवित्रसकलवाङ्मयमहार्णवपूर्णभावसंपाद नद्विजराजस्येन्दुराजस्य यद्विश्रम्य विलोकितेषु बहुशो निस्थेमनी लोचने यद्गात्राणि दरिद्रति प्रतिदिनं लूनाब्जिनीनालवत् | दूर्वाकाण्डविडम्बकश्च निबिडो यत्पाण्डिमा गण्डयोः कृष्णे यूनि सयौवनासु वनितास्वेषैव वेषस्थितिः || अत्र विश्रम्येति बहुश इति प्रतिदिनमिति च पदसमर्पितो(ऽभिलाषचिन्तौत्सुक्यनिद्राधृतिग्लान्यालस्यश्रमस्मृतिवितर्कादि) व्यभिचारिगणः कृष्ण इति पदार्पितश्च विभावो गुणत्वेन प्रतिभासते | विश्रान्तिलक्षणस्तम्भविलोकनवैचित्र्यगात्रतानवतारतम्यपुलकवैवर्ण्य- प्रभृतिस्त्वनुभावसञ्चयः प्रधानतया (प्रतिभासते) व्यभिचारिणां तु प्राधान्यं तद्विभावानुभावप्राधान्यकृतम् | तत्राद्यम् | यथा- आत्तमात्तमधिकान्तमुक्षितुं कातरा शफरशङ्किनी जहौ | अञ्जलौ जलमधीरलोचना लोचनप्रतिशरीरलाञ्छितम् || इत्यत्र सुकुमारमुग्धप्रमदाजनभूषणभूतस्य व्यभिचारिवर्गस्य वितर्कत्रासशङ्कादेः प्राधान्यं तद्विभावानां सौन्दर्यातिशयकृतां प्राधान्यात् | आत्तमित्याद्यर्पितानुभाअवर्गस्तु तदनुयायी | प्. २८१) को दृष्टान्तः | अत्राह - यथा हि नानाव्यञ्जनौषधिद्रव्यसंयोगाद्रसनिष्पत्तिः तथा नानाभावोपगमाद्रसनिष्पत्तिः | यथा हि - गुडादिभिर्द्रव्यैर्व्यञ्जनैरौषधिभिश्च षाडवादयो रसा निर्वर्त्यन्ते तथा एवं द्वयप्राधान्ये सर्वप्राधान्ये च चोदाहार्यम् | किन्तु समप्राधान्य एव रसास्वादस्योत्कर्षः | तच्च प्रबन्ध एव भवति | वस्तुतस्तु दशरूपक एव | यदाह वामनः - सन्दर्भेषु दशरूपकं श्रेयः | तद्विचित्रं चित्रपटवद्विशेषसाकल्यात् (काव्यालं- सू. १.३.३०-३१) इति | तद्रूपसमर्पणया तु प्रबन्धे भाषावेषप्रवृत्त्यौचित्यादिकल्पनात् | तदुपजीवनेन मुक्तके | तथा च तत्र सहृदयाः पूर्वापरमुचितं परिकल्प्य ईदृगत्र वक्ताऽस्मिन्नवसरे इत्यादि बहुतरं पीठबन्धरूपं विदधते | तेन ये काव्याभ्यासप्राक्तनपुण्यादिहेतुबलादिति(भिः) सहृदयास्तेषां परिमितविभावाद्युन्मीलनेऽपि परिस्फुट एव साक्षात्कारकल्पः काव्यार्थः स्फुरति | अत एव तेषां काव्यमेव प्रीतिव्युत्पत्तिकृदनपेक्षितनाट्यमपि | तेषामपि तु नाट्यं निपतिताः स्फुरिताः शशिरश्मयः इति न्यायेन सुतरां निर्मलीकरणम् | अहृदयानां च तदेव नैर्मल्याधायि | यत्र पति(प्रती)ता गीतवाद्यगणिकादयो न व्यसनितायै पर्यवस्यन्ति नाट्योपलक्षणात् | तत्र च नटो ध्यायिनामिवेदं ध्यानपदम् | न हि तत्रयमेव सिन्दूरादिमयो वासुदेवः स्मरणीय इति प्रतिपत्तिः | अपि तु तदुपायद्वारेणातिस्फुटीभूतसङ्कल्पगोचरो देवताविशेषो ध्यायिनां फलकृत् | तद्वन्नटप्रक्रियाद्वारोदितातिस्फुटाध्यवसायविषयीकृतो नियतदेशकालाद्यस्पृष्टोअत इदं फलम् इति विधिस्थानीयोऽर्थो व्युत्पत्तिं वितरति | युते (यत्र) दृश्या(दृश्येऽ)न्यनियमादौ चित्तवृत्त्यादौ वा न बाधकोदयः सम्यग्ज्ञानभूतं ह्येवेदं पूर्णम् | तेन राम इत्येव प्रतीतिर्न त्वयं (यं न) रामोऽन्योऽयमिति | स्फुटीकरिष्यते चैतदग्रतः | तत्रालौकिकोऽयमर्थो न दृष्टान्तमन्तरेण हृदयङ्गमो भवेदित्याशयेनाह - को दृष्टान्त इति | बहुनां संयोगादपूर्वो रस उत्पद्यमानः क्व दृष्ट इत्यर्थः | प्. २८२) नानाभावोपगता अपि स्थायिनो भावा रसत्वमाप्नुवन्तीति | अत्राह - रस इति कः पदार्थः | उच्यते - आसाद्यत्वात् | कथमास्वाद्यते रसः | यथा हि नानाव्यञ्जनसंस्कृतमन्नं भुञ्जाना रसानास्वादयन्ति सुमनसः पुरुषा हर्षादींश्चाधिगच्छान्ति तथा नानाभावाभि- अत्र प्रश्ने भाष्येण प्रतिवचनमाह - यथेत्यादिना आप्नुवन्तीत्यन्तेन | व्यञ्जनमुपसेचनद्रव्यम् | तच्च नानातप्रम(नानातिक्तम)धुरचुक्रादिभेदादधिकाञ्जिकादि | ओषधयश्चिञ्चागोधूमदलहरिद्रादयः | द्रव्यं गुडादि | एषां पाकक्रमेण सम्यग्योजनारूपात्कुशलसम्पाद्यात्संयोगात् | षाडवादय इति लोकप्रसिद्धेभ्यः परस्परविविक्तेभ्यो मधुरतिक्ताम्ललवणकटुकषायेभ्यो मिश्रेभ्यश्च विलक्षणः षाडवशब्दवाच्यः | तत्प्रधाना बहुतरा रसनयोग्याः क्रियन्ते | तथैव नानाभूतैर्विभावादिभिरुप समीपं प्रत्यक्षकल्पतां गता लोकापेक्षया ये स्थायिनो भावास्ते रस्यमानतकजीविनं रसत्वं तत्र प्रतिपद्यन्ते | एतदुक्तं भवति - पाकरूपया सम्यग्योजनया तावदलौकिको रसो जायते | तत्र च प्रधानत्वेन जलस्य रसाभिव्यञ्जकत्वमिति व्यञ्जनं विभावस्थानीयम् | चिञ्चाहरिद्राद्यनुभावप्रायम् | द्रव्याणि तु गुडा(दीनि) तदीयचुक्रादिरसविलक्षणमधुरादियोगाद्व्यभिचारिकल्पम् | स्वात्मनि तदुपजीवनेन च परत्र च स्वरससङ्क्रमणया वैचित्र्याधायकत्वात् | अत्र तु स्थायिकल्पस्तन्मिश्रणासमयभावी रसविशेषो विभावकल्पव्यञ्जनजनितो मन्तव्यः | स हि लौकिकः | अयन्तु कुशलैकनिर्वर्त्यस्तद्विदां रसनीयो भवति | तेनाद(दनीय)स्येत्यध्याहारो न युक्तः | यथा हि दार्ष्टान्तिकसूत्रे स्थायिग्रहणं शल्यकल्पमिति त्रयमेवोपात्तं तथा दृष्टान्तेऽपि त्रयस्यैवोपादानं युक्तम् | एवं सूत्रं व्याख्याय लक्षणपदं परीक्षितुमाक्षिपति - रस इति क इत्यादिना | मधुरादौ पारदे विषे सारे जलसंस्कारेऽभिनिवेशे क्वाथे देहधातोर्नि(तौ नि)र्यासे वाऽयं प्रसिद्धो न त्वन्यत्र | तेन रस इति पदस्य शृङ्गारादिषु प्रवर्तितस्य कोऽर्थः | कि प्रवृत्तिनिमित्तं कथ्यते स्वाभिधेयनियमाय शब्देन यदि वा तत्प्रयोक्तृप्रतिपत्तृभिरिति | अर्थः प्. २८३) नयव्यञ्जितान् वागङ्गसत्त्वोपेतान् स्थायिभावानास्वादयन्ति सुमनसः प्रेक्षकाः हर्स्.आदींश्चाधिगच्छन्ति | तस्मान्नाट्यरसा इत्यभिव्याख्याताः | अत्रानुवंश्यौ श्लोकौ भवतः - प्रवृत्तिनिमित्तम् | अत्रोत्तरम् | आस्वाद्यत्वात् | प्रवृत्तिहेतोर्यतः प्रश्नस्तेनोत्तरं हेतुविभक्त्यैव दत्तम् | तेन क्रिया प्रवृत्तिनिमित्तमस्येत्युक्तं भवति | यस्तु भङ्क्त्वा व्याचष्टे - रस इति योऽयं (कोऽयं) शब्दः | तत्रोत्तरम् | पदार्थः | उच्यत इति | तस्यानेनेत्यध्याहारं विना प्रकृतपदार्थवाचकोऽयं शब्द इति (न)तात्पर्यकल्पनं विना नातीव सङ्गतमुत्तरम् | प्रश्नमन्तरेण चास्वाद्यत्वादित्यल्पपदप्रायमित्यास्तामेतत् | अथ प्रवृत्तिनिमित्तं व्याक्षिपति - कथमास्वाद्यत इति | आस्वादनं हि रसनेन्द्रियजज्ञानं प्रसिद्धमिति भावः | अत्रोपचरितक्रियाश्रयेणोत्तरमाह - यथा नानेत्यादिना | यथातथाशब्दाभ्यां सादृश्यमत्रोपचारे निमित्तमिति दर्शयति | तत्र भोग्यस्य भोक्तुः फलस्य च साम्यं दर्शयति | यथा हि व्यञ्जनसंस्कृतेऽन्ने आस्वाद्यता | अकाग्रमनसि च भोक्तर्या स्वादयितृता | अन्यचित्तस्य भुञ्जानस्याप्यास्वादाभिमानाभावात् | प्रहर्ष(प्यायजीवन)पुष्टिबलारोग्याणां चास्वादफलता | तथाभिनयव्यञ्जिते स्थायिशब्दव्यपदेश्ये रसे आस्वाद्यता | एकाग्रमनसि च सामाजिके तन्मयीभूत आस्वादयितृता | हर्षप्रधानानां धर्मादिव्युत्पत्तिवैदग्ध्यादीनामास्वादफलत्वमिति कर्मकर्तृफलसादृश्याद्विभावादिजः प्रतीतिविशेषो रसनाक्रियेति व्यपदिष्ट इति तात्पर्यम् | येन सुमनसो भुञ्जाना हर्षादींश्च यान्ति तेन रसानास्वादयन्तीत्यनेन शब्देन | अभितः सर्वत्र | विशेषेण अन्यभोक्तृविलक्षणतया | आ समन्तात् | ख्याताः प्रसिद्धाः | यथा चैते तथा प्रेक्षका अपि | तेन तेऽपि स्थायिनः आस्वादयन्तीति आभिमुख्येन सादृश्ये व्याख्याता अस्माभिर्व्यवहृताः | अत्रोपसंहारः | तस्मान्नाट्यरसाः | अन्ये वादिशब्देन शोकादीनामत्र सङ्ग्रहः | स च न युक्तः | सामाजिकानां हि हर्षैकफलं नाट्यं न शोकादिफलम् | तथात्वे निमित्ताभावात्तत्परिहारप्रसङ्गाच्चेति मन्यमाना हर्षाश्चाधिगच्छन्तीति पठन्ति | प्. २८४) यथा बहुद्रव्ययुतैर्व्यञ्जनैर्बहुभिर्युतम् | आस्वादयन्ति भुञ्जाना भक्तं भक्तविदो जनाः || ३२ || भावाभिनयसंबद्धान्स्थायिभावांस्तथा बुधाः | आस्वादयन्ति मनसा तस्मानाट्यरसाः स्मृताः || ३३ || एवं ग्रन्थयोजनायां स्पष्टायां यत् कैश्चिदत्र चोदितं दृष्टान्ते आत्मा रसना मनश्चेति त्रयम् | प्रकृते तु रसनैवेति | परिहृतं चात्मन एवात्र स्थानान्तरसङ्क्रान्तस्य मनःस्थानीयता | मनसश्च रसनास्थानीयतेति | तत्सर्वं वृथा नाट्यमात्रम् | उपचारबीजस्य सादृश्यस्यात्र प्राधान्येन प्रतिपिपादयिषितत्वादित्यास्ताम् | एवं रसत्वं केन तेषामिति यत्प्रश्नितं तत्प्रतिसमाहितम् | अत्रेति भाष्ये | अनुवंशे भवौ शिष्याचार्यपरम्परासु वर्तमानौ श्लोकाख्यौ वृत्तविशेषौ सूत्रार्थसंक्षेपप्रकटीकरणेन कारिकाशब्दवाच्यौ भवतः | तौ पठति - यथेत्यादि | मधुरादिभेदाद्बहूनि द्रव्याणि गुडादीनि | बहुभिरिति दधिकाञ्जिकादिभिः | अनेन विभावभेदं रसभेदे हेतुत्वेन सूचयति | भुञ्जाना आस्वादयन्तीति | रसनाव्यापाराद्भोजनादधिको यो मानसो व्यापारः स एवास्वादनमिति दर्शयति | एतदुक्तं भवति - न रसनाव्यापार आस्वादनम् | अपि तु मानस एव | स चात्राविकलोऽस्ति | केवलं लोके रसनाव्यापारानन्तरभावी स प्रसिद्ध इत्युपचार इह दर्शित इति | (शुद्धतत्स्वरूपज्ञानस्वभावा) अत्र भावा विभावव्यभिचारिणः | अभिनया अनुभावा एव | (इयं (द.) पृथग्वचनं प्राधान्यात् | तैर्ये सम्यग्बद्धा हृदयसंवादक्रमेण तन्मयीभावापन्नप्रमातृभूम्यभेदमुपसम्प्राप्ता अचिन्त्याः स्थायिनः तान् आ समन्तात्साधारणीभावेन निर्विघ्नप्रतिपत्तिवशात् | मनसा इन्द्रियान्तरविघ्नसंभावनाशून्येन स्वादयन्ति स्वपरविवेकशून्यस्वादचमत्कारपरवशतया लौकिकात्प्रत्ययादुपार्जनादिविघ्नबहुलाद्योगिप्रत्ययाच्च विषयास्वादशून्यतापरुषाद्विलक्षणाकारसुखदुःखादिविचित्रवासनानुवे धोपनतहृद्यतातिशयसंविच्चर्वणात्मना भुञ्जते | बुधा इति पूर्वो (र्णो)पयोगो लौकिकानां प्रत्यक्षादीनामत्र दर्शितः | एतदुपसंहरति - तस्मादिति | नाट्यात्समुदायरूपाद्रसाः | यदि वा नाट्यमेव रसाः | रससमुदायो हि नाट्यम् | (न)नाट्य एव च रसाः | काव्येऽपि नाट्यायमान एव रसः | काव्यार्थविषये हि प्रत्यक्षकल्पसंवेदनोदये रसोदय इत्युपाध्यायाः | प्. २८५) यदाहुः काव्यकौतुके - प्रयोगत्वमनापन्ने काव्ये नास्वादसम्भवः | इति | वर्णनोत्कलिताभोगप्रौढोक्त्या सम्यगर्पिताः | उद्यानकान्ताचन्द्राद्या भावाः प्रत्यक्षवत्स्फुटाः || इति | अन्ये तु काव्येऽपि गुणालङ्कारसौन्दर्यातिशयकृतं रसचर्वणमाहुः | वयं तु ब्रूमः - काव्यं तावन्मुख्यतो दशरूपकात्मकमेव | तत्र ह्युचितैर्भाषावृत्तिकाकुनैपथ्यप्रभृतिभिः पूर्यते रसवत्ता | सर्वबन्धादौ हि नायिकाया अपि संस्कृतैवोक्तिरित्यादि बहुतरमनुचितं केवलं शक्तिरहितत्वाद्व्यावर्ण्यते | तावतीव हृद्यमिति न्यायेनानौचित्यं न प्रतिहारि (न प्रतिभाति) | तत एवोच्यते सन्दर्भेषु दशरूपकम् (वामन.का.) इति | तेन तदंश(दङ्ग)सन्ध्यादिसङ्घटनमुद्धृत्य सर्गबन्धादि यावन्मुक्तं(वतकम्) | यत्तु दशरूपकं तस्य योऽर्थस्तदेव नाट्यम् | यद्वक्ष्यते नाट्यस्यैषा तनूः (ना. शा. १४.२) इति तस्य हृदयसंवादतारतम्यापेक्षया श्रोतृप्रतिपत्तृस्फुरणं स्फुटास्फुटत्वेनातिविचित्रम् | तत्र ये स्वभावतो निर्मलमुकुरहृदयास्तत एव संसारोचितक्रोधमोहाभिलाषपरवशमनसो न भवन्ति तेषां तथाविधदशरूपकाकर्णनसमये साधारणरसनात्मकचर्वणग्राह्यो रससञ्चयो नाट्यलक्षणः स्फुट एव | ये त्वतथाभूतास्तेषां प्रत्यक्षोचिततथाविधचर्वणालाभाय नटादिप्रक्रिया | स्वगतक्रोधशोकादिसङ्कटहृदयग्रन्थिभञ्जनाय गीतादिप्रक्रिया च मुनिना विरचिता | सर्वानुग्राहकं हि शास्त्रमिति न्यायात् | तेन नाट्य एव रसा न लोक इत्यर्थः | काव्यञ्च नाट्यमेव | अत एव च नटे न रसः | कुत्र तर्हि | विस्मृतिशीलो न बोध्यते | उक्तं हि देशकालप्रमातृभेदानियन्त्रितो रस इति केयमाशङ्का | नटे तर्हि किम् | आस्वादनोप्रायः | अत एव च पात्रमित्युच्यते | न हि पात्रे मद्यास्वादः | अपि तु तदुपायकः तेन | प्रमुखमात्रे नटोपयोग इत्यलम् | चित्रपुस्ताद्यपि च नाट्यस्यैवार्थभागाभिष्यन्दो यथा सर्गबन्धादि शब्दभागाभिष्यन्दः | एतच्च योऽर्थो हृदयसंवादी | (ना. शा. ७. १०) इत्यत्र वितत्य वक्ष्यामः | अन्ये त्वभिनयादिसामग्रीमयं बहिर्दृश्यमानं नाट्यं नटधर्मः कर्म रूपमित्याशयेन नाट्याद्रसा इत्याहुः | स्मृता इति सम्प्रदायाविच्छेदं दर्शयति | ये तु रत्याद्यनुकरणरूपं रसमाहुः अथ चोदयन्ति शोकः कथं सुखहेतुरिति | परिहरन्ति च अस्ति कोऽपि नाट्यगतानां विशेष इति | तत्र चोद्यं तावदसत् | शोको हि प्रतीयमानः किं स्वात्मनि प्रत्येतुर्दुःखं वितनोतीति नियमः | शत्रुदुःखे प्रहर्षात् | अन्यत्र च मध्यस्थत्वात् | उत्तरं तु भावानां वस्तु स्वभावमात्रेणे(तत्रे)ति न किञ्चिदत्र तत्त्वम् | प्. २८६) अत्राह - किं रसेभ्यो भावानामभिनिर्वृत्तिरुताहो भावेभ्यो रसनामिति | केषाञ्चिन्मतं परस्परसम्बन्धादेषामभिनिर्वृत्तिरिति | तन्न | कस्मात् | दृश्यते हि भावेभ्यो रसानामभिनिर्वृत्तिर्न तु रसेभ्यो भावानामभिनिर्वृत्तिरिति | भवन्ति चात्र श्लोका - अस्मन्मते संवेदनमेवानन्दघनमास्वाद्यते | तत्र का दुःखाशङ्का | केवलं तस्यैव चित्रताकरणे रतिशोकादिवासनाव्यापारः | तदुद्बोधने चाभिनयादिव्यापारः | (३३) यदेतदुक्तं रसतत्त्वं तदेवोपशोधयितुमुपक्रमते - अत्राहेत्यादिना चोद्यमुखेन | नर्तकगतेभ्यो रसेभ्यो भावाः सामाजिके | यथा करुणाच्छोकः | ततो विभावाद्युपचितसामजिके करुण इति रसाद्भावो भावाद्रस इति सन्देहः | अत एव परस्परमपि जन्म कालभेदेनेति तृतीयः पक्षः | यदि वा नट एव राम एव वा पूर्वं भावः तत उपचये रसः | रतोऽप्यपचये भाव इत्येवं पक्षत्रयोत्थानम् | इदं चासत् | एवम्भूतस्य रसस्वरूपस्य निराकृतत्वात् | श्रीशङ्कुकस्त्वाह - अनुकर्तरि रसानास्वादयतोऽनुकार्ये भावप्रतीतिः प्रयोगे | लोके प्रकृति(तिः)रसं निष्पादयतीति | द्वितीयपक्षो नाट्याचार्याभिप्रेतशिक्षानुसारेण | अत एव च तृतीयोऽपि संभवतीति | एतदप्यसत् | न हि सामाजिकोऽनुकार्यानुकर्तृविभागमवैति | दूषितः (स्वा(दूषितश्चा)नुकरणवादः | तस्मादित्थमेतत् - किं रसेभ्यो भावा उत विपर्ययः आहो अन्योन्यजनकतेति त्रयः प्रश्नाः | आहोशब्दो भिन्नक्रमः | विभावादिभ्यस्तावद्रसनिष्पत्तिरुक्ता | स एव द्वितीयः पक्षोऽभ्युपगतपूर्वमे (गतः पूर्वम् | ए)तच्च कथम् ? न हि लोके विभावानुभावादयः केचन भवन्ति | हेतुकार्यावस्थामात्रत्वाल्लोके तेषाम् | अथ त एव रसनोपयोगित्वे विभावादिरूपतां प्रतिपद्यन्ते | तर्हि रसप्रसादाद्भावा विभावादयः | अथोच्यते विभावादिप्रसादाद्रसो यथोक्तं प्राक् | रसप्रसादाच्च विभावादिरूपत्वम् | तर्हि परस्पराश्रयत्वम् | इतरेतराश्रयाणि च (कार्याणि) न प्रकल्पन्त (महाभाष्ये ई १.३) इत्याक्षेपः | अत्र सिद्धान्तमाह - दृश्यते हीति | प्रमदादयः प्रतीताः सन्तो रसास्वादं विदधते यथोक्तं प्राक् | अतो न रसेभ्यो भावाः | भावशब्दार्थपर्यालोचनया चैतदेवोपपन्नमिति प्. २८७) नानाभिनयसम्बद्धान्भावयन्ति रसानिमान् | यस्मात्तस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः || ३४ || नानाद्रव्यैर्बहुविधैर्व्यञ्जनं भाव्यते यथा | एवं भावा भावयन्ति रसानभिनयैः सह || ३५ || न भावहीनोऽस्ति रसो न भावो रसवर्जितः | परस्परकृता सिद्धिस्तयोरभिनये भवेत् || ३६ || व्यञ्जनौषधिसंयोगो यथाऽन्नं स्वादुतां नयेत् | एवं भावा रसाश्चैव भावयन्ति परस्परम् || ३७ || श्लोकनाह - नानाभिनयैः सम्यग्बद्धान् हृदयं गतान् भावयन्ति सम्पादयन्ति रसांस्तस्माद्भावाः | (३४) नन्वेतद्भावशब्दप्रवृत्तिनिमित्तम् | न तत्प्रकृतं किञ्चिदुक्तमित्याशङ्क्य प्रकृते योजयितुमाह - नानाद्रव्यैरिति | व्यज्यत इति व्यञ्जनञ्चानुपानादि रसोऽत्राभिप्रेतः | बहुविधैरिति व्यञ्जनस्योपलक्षणम् | अभिनयैरित्यस्य वा विशेषणम् | एवं स्थितपक्षमुपसंहरति - न भावहीनोऽस्ति रस इति | अत्र चोद्यवादी स्वाशयमुन्मीलयति - न भावो रसवर्जित इति | लोके हि न कश्चिद्विभावादिव्यवहार इति भावः | अथोत्तरमाह - परस्परकृता सिद्धिस्तयोरभिनये भवेत् | अभिनये साक्षात्कारे संपन्ने तदुपयोगितया विभावादिव्यपदेश इत्यतो या परस्परकृता सिद्धिः सा (भद्रं) भवेदिति संभाव्यते | एवम्भूतमितरेतराश्रयजं न दूषणमित्यर्थः | अत्रैव दृष्टान्तमाह - व्यञ्जनौषधिसंयोग इति | व्यञ्जनौषधिसंयोगोऽन्नं च कर्तृ यथा परस्परमन्योन्यं कर्मभूतं स्वादुतां नयेत् तथा भावा रसाश्चान्योन्यं भावयन्ति | भावा रसान्भावयन्ति निष्पादयन्ति | रसास्तु भावान् भावयन्ति | भावान्कुर्वन्ति | (वि)भावादिव्यपदेश्यान्कुर्वन्तीत्यर्थः | एतदुक्तं भवति - एकत्रैकदा क्रियायामन्योन्याश्रयत्वं दोषो न तु क्रियाभेदे | यथा व्यन्जनादिसंयोगेनान्नस्याह्लादिरसवत्ता क्रियते | अन्नेन वाश्रयरूपेण सता व्यञ्जनसुखभोग्यता कियते | एवं भावै रस्यमानता | रसैश्च विभावदिव्यपदेश्यता प्. २८८) यथा बीजाद्भवेद्वृक्षो वृक्षात्पुष्पं फलं यथा | तथा मूलं रसाः सर्वे तेभ्यो भावा व्यवस्थिताः || ३८ || तदेषां रसानामुत्पत्तिवर्णदैवतनिदर्शनान्यभिव्याख्यास्यामः | कारणादीनाम् | यथा पटापेक्षया तन्तवः पटकारणमिति व्यपदेश्याः | तन्त्वपेक्षया पटः कार्यः | न चेत(रेत)राश्रयं(यत्वं) तथा प्रकृतेऽपीति | (३७) ननु यदि भावेभ्यो रसास्तर्हि कथमुक्तं न हि रसादृते कश्चिदप्यर्थः प्रवर्तते इति | तेन पूर्वं त एवोद्देश्याः इत्याशंक्याह - यथेत्यादिना | बीजं यथा वृक्षमूलत्वेन स्थितं तथा रसाः | तन्मूलादि(हि) प्रीतिपूर्विका व्युत्पत्तिरिति ततरे(त एव) च व्याख्यानार्हात् कविगतसाधारणीभूतसंविन्मूलश्च काव्यपुरस्सरो नटव्यापारः | सैव च संवित्परमार्थतो रसः | सामाजिकस्य च तत्प्रतीत्या वशीकृतस्य पश्चादपोद्धारबुद्ध्या विभावादिप्रतीतिरिति प्रयोजने(ज्ये) नाट्ये काव्ये सामाजिकधियि च | तदेवं मूलबीजस्थानीयात्क (यः क) विगतो रसः कविर्हि सामाजिकतुल्य एव | तत एवोक्तं शृङ्गारी चेत्कविः | (ध्वन्यालो. ३-४२) इत्याद्यानन्दवर्धनाचार्येण | ततो वृक्षस्थानीयं काव्यम् | तत्र पुष्पादिस्थानीयोऽभिनयादिनटव्यापारः | तत्र फलस्थानीयः सामाजिकरसास्वादः | तेन रसमयमेव विश्वम् | अत्र च विज्ञानवादो द्विधाभिधानं (स्फोटतत्त्वं) सत्कार्यवाद एकत्वदर्शनमित्यादि च द्रष्टव्यम् (इति केचित्) | वयं तु प्रकृतानुपयोगिश्रुतलवसन्दर्शनमिथ्याप्रयाससंश्रयमशिक्षितपूर्विण इत्यास्ताम् | अन्ये तु बीजादिव भावाद्रसवृक्षस्ततोऽप्यभिनयकुसुमसुन्दरात्फलमिव भावः प्रतीत्या भुज्यत इति व्याचक्षते | तैः प्रकृतविरुद्धं सर्वं व्याख्यातम् | एवं हि भावस्यैवोपक्रमपर्यवसानवर्तित्वमुक्तं स्यादित्यास्तां चैतत् | एवं त्रयोऽपि पक्षाः कथञ्चिदुपगता अभिप्रायवैचित्र्येणेति तात्पर्यम् | एवमुद्दिष्टानां विभक्तानां च रसानां सामान्यलक्षणं परीक्षापरिशुद्धमभिधाय तदनुवादपूर्वकं विशेषलक्षणं वक्तुं पीठबन्धं दर्शयति - तदेषामित्यादिना | यतः सामान्यलक्षणमेतेषां कृतं तस्माद्विशेषलक्षणांशपूरकाण्युत्पत्त्यादीनि व्याख्यास्यामः | तत्रोत्पत्तिरुत्पादकानामुत्पाद्यानां च विशेषलक्षणम् | अन्योन्यतो व्यवच्छेदात् | प्. २८९) तेषामुत्पत्तिहेतवश्चत्वारो रसाः | तद्यथा - शृङ्गारो रौद्रौ वीरो बिभत्स इति | अत्र - शृङ्गाराद्धि भवेद्धास्यो रौद्राच्च करुणो रसः | वीराच्चैवाद्भुतोत्पत्तिर्बीभत्साच्च भयानकः || ३९ || शृङ्गारानुकृतिर्या तु स हास्यस्तु प्रकीर्तितः | रौद्रस्यैव च यत्कर्म स ज्ञेयः करुणो रसः || ४० || उत्पादकानामप्येतदुत्पादकत्वमुत्पादकान्तराद्वैलक्षण्यमुत्पाद्य कृतम् एवमुत्पाद्यानामुत्पादकमृतमिति परस्परलक्षणत्वम् | वर्णः श्वेतादि तु(स्तु) सुस्पष्टं वि(शेष)लक्षणादि | एवं निदर्शनं तु शृङ्गारो नामेत्यादिना विभावादिविशेषसंयोगः | उत्पत्तिलक्षणा(णे) ह्यन्योन्याश्रयशङ्का वर्णदेवतयोस्त्वागमानुविद्धत्वमिति स्फुटं निश्चयदर्शनोपायत्वमुत्पत्यादीनां न संभवति | विभावादिविशेषसंयोगस्तु तद्वैलक्षण्यान्निदर्शनमित्युक्तम् | (३८) तत्रोत्पत्तिं तावदाह - तेषामित्यादिना | तेषां रसानामुत्पत्तौ हेतवः सूचकाश्चत्वारः | रसानामुत्पाद्योत्पादकप्रकारो यावान् सम्भवति स चतुर्भिरेव सूचित इति यावत् | तथा हि - तदाभासत्वेन तदनुकाररूपतया हेतुत्वं शृङ्गारेण सूचितम् | यतो विभावाभासादनुभावाभासाद्व्यभिचार्याभासाद्रत्याभासे प्रतीते चर्वणाभाससारः शृङ्गाराभासः | कामना अभिलाषमात्ररूपा हि रतिरत्र व्यभिचारिभावो न स्थायी | तस्य तु स्थायिकल्पत्वेनाभाति | तद्वशाद्विभावाद्याभासता | अतश्च स्थाययाभासत्वं रतेः | यतो रावणस्य सीता द्विष्टा मययुपेक्षिका वेति हृदयं नैव स्पृशतीति | तत्स्पर्शे ह्यभिमानोऽस्यापि लीयेतैव | मयीयमनुरक्ता इति तु निश्चयो ह्यनुपयोगी | कामजमोहसारत्वात् | शुक्तौ रूप्याभासवत् | यद्यपि - दूराकर्षणमोहमन्त्र इव मे तन्नाम्नि याते श्रुतिं (चेतः कालकलामपि प्रसहते नावस्थितिं तां विना | एतैराकुलितस्य विक्षतरतेरङ्गैरनङ्गातुरैः सम्पद्येत कथं तदाप्तिसुखमित्येतन्न वेद्मि स्फुटम् ||) प्. २९०) इत्यादौ रावणवाक्ये तावति रत्याभासतैव | न तु हासः स्फुरति | तथापि सीताविभावल(विल)क्षणं रावणवयःप्रकृतिविरुद्धश्च चिन्तादैन्यमोहादिकव्यभिचारिगणम(णोऽ) श्रुपातपरिदेवितादि चानुभावजातमनौचित्यात्तदाभासरूपं सद्धास्यविभावरूपम् | तद्वक्ष्यते - विकृतपरवेषालङ्कारेत्यादि | एवं तदाभासतया(तायाः) प्रकारः शृङ्गारेण सूचितः | तेन करुणाद्याभसेष्वपि हास्यत्वं सर्वेषु मन्तव्यम् | अनौचित्यप्रवृत्तिकृतमेव हि हास्यविभावत्वम् | तच्चा(त्रा)नौचित्यं सर्वरसानां विभावानुभावादौ सम्भाव्यते | तेन व्यभिचारिणामप्येषैव वार्ता | अत एव संवित्सतत्त्वनिपुणैश्चिरन्तनै रसभावतदाभासव्यवहारस्तत्र तत्र क्रियते | अमोक्षहेतावपि तदाभासतायां शान्ताभासो हास्य एव | प्रहसनरूपकेण अनौ(स्वानौ)चित्यत्यागः सर्वपुरुषार्थेषु व्युत्पाद्यः(राजपुत्रादीनाम्?) | एतच्च लक्षणे वक्ष्यते | तत्र हास्याभासो यथाऽस्मत्पितृव्यस्य वामन्गुप्तस्य | लोकोत्तराणि चरितानि न लोक एष सम्मन्यते यदि किमङ्ग वदाम नाम | यत्त्वत्र हासमुखरत्वममुष्य तेन पार्श्वोपपीडमिह को न विजाहसीति || एवं यो यस्य न बन्धुस्तच्छोके करुणोऽपि हास्य एवेति सर्वत्र योज्यम् | एतदेवोदाहरणम् | एवमन्यत्तेनानुमेयमिति मुनिना यथाग्रहणं कृतम् | यदीयफलानन्तरं द्वितीयरसोऽवश्यंभावी तस्योदाहरणं रौद्रः | रौद्रस्य हि फलं वधबन्धादि | तद्विभावकेनावश्यं करुणेन भाव्यम् | यथा वेणीसंहारे - अद्यैवावां रणमुपगतौ तातमम्बां च दृष्ट्वा घ्रातस्ताभ्यां शिरसि विनतोऽहं च दुश्शासनश्च | तस्मिन्बाले प्रसभमरिणा प्रापिते तामवस्थां पित्रोः पार्श्वं व्यपगतघृणः किं नु वक्ष्यामि गत्वा || एवं रौद्रानन्तरं नियमेन भयानकः | शृङ्गारानन्तरं नियमेन (करुणं(णः) | व्याप्रियते त्वसौ तज्जन्मनि यथा तापसवत्सराजे वासवदत्तादाहाद्वत्सराजस्य | ननु तत्रा(त्र)रतेरवि(तेर्वि)च्छेदाद्बधुताकृतः शोकः | नैतत् | करुणोत्पत्तिकालेऽपि हि क्रोधस्य विच्छेद एव | यदाह निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः | (वेणी. अ-१-७) इति | न च बन्धुमा(तामा)त्रं हेतुः | एवं हि सति - प्. २९१) (उत्कम्पिनी भयपरिस्खलितांशुकान्ता) ते लोचने प्रतिदिशं विधुरे क्षिपन्ती | क्रूरेण दारुणतया सहसैव दग्धा धूमान्वितेन दहनेन न वीक्षिताऽसि ||) (तापसवत्सराजे २-१६) इत्यादौ ते इति प्राणभूतं (पदं) निरुपयोगतां गमितं स्यात् | रतिप्रलापेषु च शृङ्गार एव करुणस्य जीवितम्- हृदये वससीति (मत्प्रियं यदवोचस्तदवैमि कैतवम् | उपचारपदं न चेदिदं त्वमनङ्गः कथमक्षता रतिः || (कुमार. ४-९) इत्याद्युक्तिषु | एवं वीराद्भयानकोत्पत्तिः | यथा कर्णस्यात्मजमग्रतः शमयतो भीतं जगत् फाल्गुनात् (वेणी. ५.५) यत्त्वत्र श्रीशङ्कुकेनोक्तम् - नात्रोत्साहस्य व्यापार इति | तदसत् | एवं हि निर्विषय एवोत्साहः स्यात् | कर्तव्याननुसन्धानात् | युद्धवीरे च परपराजयजनितः प्रतापापरपर्यायः शत्रुहृदयदाहदायी तद्वनितादिषु भयानक एव जीवितम् | यथा - स पातु वो यस्य हतावशेषास्तत्तुल्यवर्णाञ्जनरञ्जितेषु | लावण्ययुक्तेष्वपि वित्रसन्ति दैत्याः स्वकान्तानयनोत्पलेषु || नियमेन तु भवतीति वक्तव्यम् | नियमश्चकारेणोक्तो रौद्रादित्यानन्तर्यसूचकपञ्चम्यनन्तरं प्रयुक्तेन | यस्तु रसो रसान्तरं फलत्वेनाभिसन्धाय प्रवर्तते तस्योदाहरणं वीरः | महापुरुषोत्साहो हि जगद्विस्मयफलाभिसन्धानेनैव | यथा- दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यत (महावीर २- ५४) इत्यादि | रौद्रस्तु परविनाशनं फलत्वेनाभिसन्धाय प्रवर्तते न करुणमिति शे(विशे)षः | विदूषकहासतु नायकाहासं फलत्वेनाभिसन्धत्त इति मन्तव्यम् | यस्तु रसस्तुल्यविभावत्वान्नियमेन रसान्तरं हि परमाक्षिपति तस्योदाहरणं बीभत्सः | तस्य हि ये विभावा रुधिरप्रभृतयस्तेऽवश्यं भयहेतवः | तथा तद्व्यभिचारिणो मरणमोहापस्माराद्याः | तदनुभावास्तु मुखविकूणनादयः | यथा वेणीसंहारे - संस्तभ्यन्तां निहतदुश्शासनपीतशेषशोणितपी(तस्नपि)तबीभत्सवृकोदरदर्शनवैक्लव्यस्क् हलितप्रहरणानि रणाद्विद्रवन्ति बलानि इति (वेणी. ४.) प्. २९२) वीरस्यापि च यत्कर्म सोऽद्भुतः परिकीर्तितः | बीभत्सदर्शनं यच्च ज्ञेयः स तु भयानकः || ४१ || एवं तदाभासतद्द्वा(तदनु)रेण रसान्तराक्षेपकत्वे शृङ्गार उदाहरणम् | तेन शृङ्गारानुकृतिरित्यत्र तुशब्दो वीप्सायाम् | द्वितीयो हेतौ | तेनैवं योजना - या अनुकृतिः स हास्यो यतः प्रकीर्तितः(अतः) एवंविभावको हास्य इति शेषः | तद्यथा शृङ्गारा अर्श आद्यच् | शृङ्गारवत्यनुकृतिरित्यर्थः | यत्त्वत्र शृङ्गाराद्भुतोत्पत्तेराशङ्का दृशः प्रथुतरीकृता (रत्ना २-१५) इत्यादौ (तत्)निर्मूलमेव | उदयने हि शृङ्गारः | ब्रह्मणि विस्मयसम्भावना | सा च न तात्कालिकत्वेन नोत्तरकालिकत्वेन | किन्तु पूर्वतरमेवेति न किञ्चिदेतत् | परस्पर(रम्परा)फलत्वेन रसान्तराक्षेपे रौद्र उदाहरणम् | रौद्रस्य यत्कर्म फलात्मकं वधादि चकारात्तस्य यत्कर्म फलरूपं स एव करणः | एवकारेणात्यन्तव्यवहितां परम्परां पराकरोति | (४०) समनन्तरफलत्वेन रसान्तराक्षेपे (वीरस्यापि उदाहरणम् | चस्सन्नियोगे वीरस्य सम्यङ्निकटं यत्फलं सोऽद्भुतः परितः समन्ताद्या कीर्तिः यशः प्रतापरूपा ततो हेतोः | अपिशब्दाच्छृङ्गारोऽपि वीरस्यानन्तरं फलं द्रौपदीस्वयंवरादौ | सहभावेन रसान्तराक्षेपे बिभत्स उदाहरणम् | यदेव बिभत्सस्य दर्शनं विभावादिरूपं स एव भयानकः | तद्विभावत्वादुपचारस्य | सहभावप्रतीतः(तिः) फलम् | तमेव चशब्दो द्योतयति | तुः पूर्वतो विशेषमाह | अयमेव चाक्षेपप्रकारश्चतुर्धैव संभाव्यते न त्वधिक इति | सा त्वस्यापि सन्न नोक्तः | ये चात्रोत्पत्तिहेतव उक्तास्ते यथा स्वयं पुरुषार्थचतुष्कव्याप्ताः | तद्धि तत्सौन्दर्यातिशयजननरूपम् | रञ्जका भा(हा)सादयस्तदनुगामित्वेन रूपकेषु निबन्धनीयाः | एतावन्त एव च रसा इत्युक्तं पूर्वम् | तेनानन्त्येऽपि पार्षदप्रसिद्ध्यैतावतां प्रयोज्यत्वमिति यद्भट्टलोल्लटेन निरूपितं तदवलेपेनापरामृश्येत्यलम् | (४१) वर्णाभिधानं पूजादौ ध्यान उपयोगि | मुखरागेऽपीत्यन्ये | स्वच्छपीतौ शमाद्भुताविति शान्तवादिनां पाठः | तत्तद्रससिद्धौ सा सा देवता पूज्येति देवतानिरूपणम् | विष्णुः कामदेवः | प्रमथा भगवतो गणाः क्रीडापराः | रुद्रस्त्रैलोक्यसंहारकर्ता | अत एव चोदयतीति निय(च यमयतीति य)मेन वधादिके प्. २९३) अथ वर्णाः - श्यामो भवति शृङ्गारः सितो हास्यः प्रकीर्तितः | कपोतः करुणश्चैव रक्तो रौद्रः प्रकीर्तितः || ४२ || गौरो वीरस्तु विज्ञेयः कृष्णश्चैव भयानकः | नीलवर्णस्तु बीभत्सः पीतश्चैवाद्भुतः स्मृतः || ४३ || अथ दैवतानि शृङ्गारो विष्णुदैवत्यो हास्यः प्रमथदैवतः | रौद्रो रुद्राधिदैवत्यः करुणो यमदैवतः || ४४ || बीभत्सस्य महाकालः कालदेवो भयानकः | वीरो महेन्द्रदेवः स्याद्भुतो ब्रह्मदैवतः || ४५ || एवमेतेषां रसानामुत्पत्तिवर्णदैवतान्यभिव्याख्यातानि | इदानीमनुभावविभावव्यभिचारिसंयुक्तानां लक्षणनिदर्शनान्यभिव्याख्यास्यामः | स्थायिभावांश्च रसत्वमुपनेष्यामः | सम्पादिते करुणः | महाकालोऽधिदैवतमिति शेषः | स हि तद्विभावं कङ्कालं श्मशानादि सेवते | महेन्द्रस्त्रैलोक्यराजः | ब्रह्मा अचिन्त्याद्भुतस्रष्टा | (४५) बुद्धः शान्तेऽब्जजोऽद्भुते इति शान्तवादिनः केचित्पठन्ति | बुद्धो जिनः परोपकारिअकपरः प्रबुद्धो वा | तत्रोत्पत्तिलक्षणमन्योन्याश्रयत्वान्न निश्चयकारि | वर्णदैवतात्मकमप्यागमसिद्धत्वादित्येकप्रघट्टकेनोपसंहरत्येव- मित्यादिना | एतेषामिति सर्वेषामित्यर्थः | अथ विशषलक्षणानि वक्तुमासूत्रयतीदानीमित्यादिना | विशेषलक्षणं सजातीयाद्व्यवच्छेदकम् | न विजातीयाद्व्यवच्छेदं विना सजातीयत्वम् | न चासौ सामान्यलक्षणं विनेति तत्पृष्ठे विशेषलक्षणमिति दर्शयितुं सामान्यलक्षणमनुवदत्यनुभावेत्यादिना | लक्षणानि च तानि निदर्शनानि च विशेषात्मकानि | तेन प्रत्येकं लक्षणविशेषा उच्यन्त प्. २९४) तत्र शृङ्गारो नाम रतिस्थायिभावप्रभवः | उज्ज्वलवेषात्मकः | यत्किञ्चिल्लोके शुचि मेध्यमुज्ज्वलं दर्शनीयं वा तच्छृङ्गारेणोपमीयते | इत्यर्थः | विशेषलक्षणानि वा सामान्यलक्षणस्य निदर्शनानि | येषु सामान्यलक्षणं योज्यते उदाह्रियते च | तदिना तस्योदाहर्तुमशक्यत्वात् | चकारो लोकोत्तरतयाऽदरं सूचयति | ये स्थायिनो भावा लोके चित्तवृत्त्यात्मानो बहुप्रकारपरिश्रमप्रसवनिबन्धनकर्तव्यताप्रबन्धाभिधायिनस्तानपि नाम रसत्वं विश्रान्त्येकायतनत्वेपदेशदिशा नेष्यामः | विभावान् यथायोगमुपहरद्भिः कविनटैर्हि रसतां नीयन्ते | यदाह - या व्यापारवती रसान्रसयितुं काचित्कवीनां नवा (दृष्टिर्या परिनिष्ठितार्थविषयोन्मेषा च वैपश्चिती | ते द्वे अप्यवलम्ब्य विश्वमनिशं निर्वर्णयन्तो वयं श्रान्ता नैव च लब्धमब्धिशयन त्वद्भिक्तितुल्यं सुख ||) इति | (ध्वन्या. ३.४३) नटानां तु तदुपजीवितत्वान्न नवा दृक्पश्यति न रस्यत्यतो नवेति | तस्माद्रसनोपयोगिविभावाद्यौचित्यमस्माभिरुपदिशद्भिः स्थायिनो रसतां नीता भवन्तीत्यनेन लक्षणरूपस्य फलं दर्शयति | (अथ शृङ्गाररसप्रकरणम्) | तत्र कामस्य फलत्वादशेषहृदयसंवादित्वाच्च तत्प्रधानं शृङ्गारं लक्षयति - तत्रेत्यादिनोज्ज्वलवेषात्मक इत्यन्तेन सूत्रेण | तत्रेति क्रमनिर्धारणे | एवं सतीत्यर्थे वा | एतत्सूत्रभाष्येण व्यक्तम् | यल्लक्ष्यपदं नामेति | व्याचष्टे यत्किञ्चिदित्यादिना | हस्तपृष्थतादि(हारादि)मण्डितः शृङ्गारवान् | तेन शुचिमेध्याद्युपमीयते | तेनोज्ज्वलवेषात्मके शृङ्गारशब्दः | न चातिप्रसङ्गः | आप्तोपदेशस्य नियामकत्वादिति चिरन्तनाः | तदनुपपन्नम् | उपमानोपमेययोर्विशेषविषयविभागानवभासात्तथा | तस्मदयमत्रार्थः | रतिरेवास्वाद्यमानो मुख्यः शृङ्गारः | रतिमास्वादयद्भिस्तद्बहुमानपरः शृङ्गारीत्युच्यते | यस्तु सज्जनादिप(दिः अप)र एव तद्यूसनिता (तु व्यसनी) | सा रसनास्वाददशा लोके भवन्त्यपि न चिरमवतिष्ठे | तदास्वादे चोपयोगि यथास्वविभावादि प्. २९५) यस्तावदुज्ज्वलवेषः स शृङ्गारवानित्युच्यते | यथा च गोत्रकुलाचारोत्पन्नान्याप्तोपदेशसिद्धानि पुंसां नामानि भवन्ति तथैवैषां रसानां भावानां च नाट्याश्रितानां चार्थानामाचारोत्पन्नान्याप्तोपदेशसिद्धानि नामानि | एवमेष आचारसिद्धो हृद्योज्ज्वलवेषात्मकत्वाच्छृङ्गारो रसः | स च स्त्रीपुरुषहेतुक उत्तमयुवप्रकृतिः | तथा शास्त्र(स्त्रा)निषिद्धमजुगुप्सितं संस्फुटं(यत् स्फुटं)मनोहरं च तदुपचाराच्छृङ्गारशब्दवाच्यम् | तदाह - उपमीयते | तदुपयोगितया तथा मीयते लक्ष्यत इति यावत् | क्व य (त)थेति दर्शयति - यस्तावदिति | तवद्ग्रहणेनावधारणवाचिना शृङ्गारवाच्यो मुख्योऽर्थस्तत्र नास्तीति दर्शयति - स शृङ्गारवानिति | तदनु(दु)ज्ज्वलवेषे शृङ्गारशब्द उपचरित इत्याह | ननु मुख्यतया रत्यास्वादे शृङ्गारशब्दस्य प्रवृत्तौ किं निबन्धनमित्याशङ्क्याह - यथा चेत्यादि | गोत्रं पितृसन्तानादि | कुलं मातृसन्तानं सूचयति | आचारो व्यवहारः | तत उत्पन्नानि लोके प्ररूढानि | मूले तु न | आद्याप्तोपदेशेन नामकरणलक्षणेन समयेन सिद्धानि | पुंसामिति मनुष्यजातेर्नराणां नारीणां च | नराणां हि पितृसन्तानानुसारि नाम विष्णुशर्मेत्यादि | स्त्रीणां तु मातृवंशानुसारि कनकप्रभा चन्द्रप्रभेति | एवं रसादीनां तच्छास्त्रवेदिवृद्धव्यवहारतो निरूढानि प्राक्तनब्रह्माद्याप्तप्रणीतानि नामानि | तदेवोपसंहरति - एवं शृङ्गारो रसः | स आचारव्यवहाराल्लोकेऽपि सिद्धः | कुतो हेतोः | हृद्यादिवेषात्मकत्वात् | एतदुक्तं भवति - प्रतिशास्त्रसमयानुसारिणोऽपि शब्दास्तद्वृद्धव्यवहारपरम्परया लोके प्रसिद्धा उपचारतोऽन्यत्रापि व्यवह्रियन्ते | यथा - साङ्ख्यपुरुषोऽयं न किञ्चित्करोति | पूर्वरङ्गोऽत्र तेन मे विरचितः | अत्र महत(त्ता)न्योन्यमस्य इति | तद्वदमी शृङ्गारादिशब्दा इहैव विषये रसेषु मुख्याः | लोके तु (औपचारिकाः) साङ्ख्यपुरुषादिशब्दवत् | यस्तु शृङ्गारशब्दस्यान्मीयेन(स्य मत्वर्थीयेन) व्युत्पत्तिमाह तस्य रूपमपि विस्मृतम् | आरकन् हि प्रत्ययोऽत आरब्धः | (शृङ्गवृन्दाभ्यामारकन्) (वार्तिक. ५.२-१२१) वृन्दारक इति यथा | अत एवोणादिषु निपातितोऽयं शब्दः | (शृङ्गारभृङ्गारौ | उ. सू.)| प्. २९६) यस्तु पृथग्भावेन गोत्रादिनामानि व्याचष्टे व्यावर्त्याभावात् तत्तदीक्षितानि | तस्य प्रकृते न किञ्चिदियमु(दप्यु)पयुज्यते | न च गोत्राचारोत्पन्ने नामनि नियामक आप्तोपदेशो लोके इत्यास्तामेतत् | अथ रतिः स्थायीति सूत्रभागं भाष्येण स्पष्टयति - स चेत्यादिना | स्त्रीपुरुषशब्देन परस्पराभिलाषसंभोगलक्षणया लौकिक्या अस्येयं स्त्री इति या (धिया) | तेनाभिलाषमात्रसारायाः कामावस्थानुवर्तिन्या व्यभिचारिरूपाणीति या विलक्षणैव इयं स्थायिरूपा प्रारम्भादिफलप्राप्तिपर्यन्ता व्यापिनी परिपूर्णसुखैकफला रतिश(रु)क्ता भवति हेतुरस्य | कविर्हि लौकिकरतिवासनानुविद्धस्तथा विभावादीनाहरति नाट्यं चा(नटश्चा)नुभावान् यथा रत्यास्वादः शृङ्गारो भवतीति | आस्वादयितुरपि प्राक्कक्ष्यायां रत्यवगम उपयोगीत्युक्तं प्राक् | एतदुक्तं भवति - रतिक्रीडासार्धं च (रतिः क्रीडा | सा च) परमार्थतः कामिनोरेव | तत्रैव सुखस्य धाराविश्रान्तेः | अपरस्य तु माल्यादिविषयसौन्दर्यस्य कविना कृतस्य संकल्पत्वात् | संवेदनद्वितयान्योन्यनिमज्जनात्मकमीलनाख्यो हि परमो भोगः | संविद एव प्रधानत्वात् | अन्यत्र तु जडस्य भोग्यत्वात् | अत एवाह - श्वासायासविडम्बनैव वपुषि प्राणाः पुनर्जानकी इति | अत एव यत्कैश्चिदचोद्यत - रतेराधारभेदेन भेदात्कथमेको रस इति तदनभिज्ञतया | एकैव ह्यसौ तावती रतिः | यत्रान्योन्यसंविदा एकवियोगो न भवति | अत एवोत्तमयुवप्रकृतिः | उत्तमश्चोत्तमा चोत्तमौ | एवं युवानौ | तत्रोत्तमयुवशब्देन तत्संविदुच्यते | न तु कायः | चैतन्यस्यैव हि परमार्थत उत्तमयुवत्वं विशेषः | स (सा) चावस्थावान् तत्र तत्र (स्था यत्र तत्र) व्यवहारस्य (सं)भूतत्वा तत्प्रकृतिः | सा संविदास्वादयोग्यत्वात् शृङ्गाररसीभवतीति | अनुत्तमत्वे तु (न) दार्ढ्यमयुक्त्वे चेति न सा रतिसंवित् | वियोगस्य संभावनात् | अवियुक्तसंवित्प्राणस्तु शृङ्गारः | यथा - वारिसिणिच्चरिहि अदि हिलग्गणाहुकंहवि-एक्व | हुहिमुलजलमरणिम अलहुतीतिहविपस्सि || इति | व्याख्याता(तः) परस्परं जीवितसर्वस्वाभिमानरूपा(पः) | वेषयति व्यापयति प्. २९७) तस्य द्वे अधिष्ठाने सम्भोगो विप्रलम्भश्च | तत्र सम्भोगस्तावत् . र्तुमाल्यानुलेपनालङ्कारेष्टजनविषयवरभवनोपभोगोपवनगमन् आनुभवनश्रवणदर्शनक्रीडालीलादिभिर्विभावैरुत्पद्यते | चित्तवृत्तिमन्यत्र ज्ञापनया संक्रमयतीति वेषो विभावानुभावात्मा | वेषयति(न्ति) व्याप्नुवन्ति स्थायिनमिति व्यभिचारिणः | ते चोज्ज्वला उत्कृष्टा यस्मिंस्तथाभूत आत्मा यस्येति | सूत्रे संक्षिप्य यद्विभावादि निरूपितं तद्विभागेन व्याख्येयमित्याशयेन शृङ्गारस्यावस्थाभेदमाह - तस्य द्वे इत्यादिना | अधिष्ठाने अवस्थे इत्यर्थः | अधिष्ठीयतेऽवस्थात्र(त्रा) शृङ्गाररूपेण | तेन न शृङ्गारस्येमौ भेदौ | गोत्वस्येव शाबलेयत्वबाहुलेयत्वे | अपि तु तद्दशाद्वयेऽप्यनुयायिनी या रतिरास्थाबन्धात्मिका तस्याश्चास्वाद्यमानं रूपं शृङ्गारः | यदाहु - (एतस्मान्मां कुशलिनमभिज्ञानदानाद्विदित्वा मा कौलीनादसितनयने मययविश्वासिनी भूः |) स्नेहानाहुः किमपि विरहह्रासिनस्तेऽप्यभोगा- दिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति || इति || (मेघ. २.४५) अत एव सम्भोगे विप्रलम्भसम्भावनाभीरुत्वं विप्रलम्भेऽपि सम्भोगमनोराज्या(रथा)नुवेध इति इयच्छृङ्गारस्य वपुः | अभिलाषेर्ष्याप्रवासादिदशास्त्वत्रिवान्तर्भूताः सत्यामास्थाबन्धात्मिकायां रतौ | तेन सम्भोगशृङ्गार इत्यादिव्यपदेशोऽभोगेऽप्युपचारात् | अत एतद्दशाद्वयमेलन एव सत्यतः सातिशयचमत्कारः | यथा - एकस्मिन् शयने पराङ्मुखतया वीतोत्तरं ताम्यतो- रन्योन्यं हृदयस्थितेऽप्यनुनये संरक्षतोर्गौरवम् | दम्पत्योः शनकिरपाङ्गवलनान्मिश्रीभवच्चक्षुषो- र्भग्नो मानकलिः सहासरभसव्यासक्तकण्ठग्रहम् || (अमरुक-२३.) तत्र हीर्ष्याविप्रलम्भसम्भोगमेलनात्मिकैवैकप्राणीभूतोभयगतविभावानुब् हावव्यभिचारिकृता सातिशया रसानुभूतिः | तेन यच्चोदितं श्रीशङ्कुकेन पुरूरवस उन्मादे वत्सराजस्य तापसत्वे चानुज्ज्वलवेषत्वं (कथं) विप्रलम्भशृङ्गारेऽपि (इति) तदनवकाशमेव | भोगस्य प्. २९८) रसत्वाभावात् स्नानाद्यवस्थानमिव | यत्त्वत्रोत्तरं तावद्दतं स्थैर्यादुज्ज्वलवेषाभावेऽपि रतिमुत्तमा न विजहतीति तद्यक्षभाषितम् | प्रकृतचोद्यापरिहारात् | न हि(नु) चोदितमनुज्ज्वलवेषे कथं शृङ्गार इति | तदेवास्तु चोद्यमिति चेत् - न वचनस्यातिभारोऽस्ति | न तु मुनिनैवमुक्तं सत्युज्ज्वलवेषे शृङ्गार इति | अपि तु विपर्यय इत्यास्तामेतत् | तत्रेति | द्वयोरवस्थयोर्मध्ये सम्भोगावस्था तावदुच्यते | तत्रेह वस्तुतः स्त्रीपुंसौ परस्परं विभावौ | तयोरुत्तमत्वे चोपयोगीनि ऋत्वादीनि | उत्तमस्यानवसरे रत्यभावात् | ऋतुर्वसन्तादिः | माल्यं कुसुमादि | अनुलेपनं समालम्भनं यद्यत्कामस्योद्दिपकम् | अलङ्कारः कटकादि | इष्टजनः विदूषकादिः | एतदुभयमुत्तमत्वसूचकम् | यदाह - असमाप्तजिगीषस्य स्त्रीचिन्ता का मनस्विनः | अनाक्रम्य जगत्कृत्सं किं सन्ध्यां भजते रविः || इति || (राज. तर. ४.४४२.) विषया गीतादयः | तदन्तर्भूतमपि माल्यादि प्राधान्यात्पृथगुक्तम् | वरभवनं हर्म्यादि | एतद्देशविशेषोपलक्षणम् | एषामुपभोगः | उपवनस्योद्यानस्यानुभवनं श्रवणं वा प(व)रभवनस्थस्यापि | एतत्सङ्कल्पादेरप्युपलक्षणम् | क्रीडा जलावगाहनादिका | लीला इष्टजनस्यानुकृतिः | अनु(आदि)ग्रहणादन्यदपि हृद्यं हंसयुगलकचित्रपुस्तदर्शनादि | एतच्च समस्तमेव शृङ्गारविभावत्वेन मन्तव्यम् | यावान्कश्चिदयं विषयसम्भारो हृद्यतमस्तत्पूर्णतायां सत्यामुत्तमस्य रत्युदयः | अत एव रत्नावल्यां हर्म्यवर्णनमुद्यानगमनं कामदेवपूजा वसन्त इत्यादि सर्वमेवात्र संगृहीतं राज्यं निर्जितशत्रु योग्यसचिवे न्यस्तः इत्यादिना | एवञ्च सर्व एव समुदितो विभाव इति काल्पनिकमालम्बनविभाव उद्दीपनविभाव इति | अत एव मुनिना नायं क्वचिद्विभाग उक्तः सूचितो वा | युक्तञ्चैतत् | यथैकत्रैव रूपके उद्यानर्तुमाल्यादीनां सर्वेषां दर्शनादेको रसः स्यात् | विभावाभेदात् | ननु प्रथमं (प्रमदामात्र)दर्शने नोद्यानभवनादिसम्भवः | क एवमाह ? ऐश्वर्यपूर्णस्य हि तावदात्मीयसमृद्धिसम्भारसंस्कारानव(राव)गमात् पूर्णतैव विभाववर्गस्य | तत्प्रधानं हि रूपकं तत्र तत्रोदाहरणम् | तेन पृथक्पृथगुदाहरणदानमनुपपन्नम् | या तु मुक्तकादौ पृथक्तया भावेऽपि रससंवित् तापसस्तत्रानुसन्धानाच्चमत्कार इति | इयांस्त्वनुत्तमादिविषयेऽपरिपूर्णोद्दीपनत्वे न चमत्कारो दृश्यते - प्. २९९) तस्य नयनचातुर्यभ्रूक्षेपकटाक्षसञ्चारललितमधुराङ्गहारवाक्या दिभिरनुभावैरभिनयः प्रयोक्तव्यः | यथा हि दीवडि तैल्लु नाहि पलु द्रस्मि गमिट्ठा | लावण्णुज्जलङ्गु घरि ढोप्लु प-इट्ठा || (छाया - दीपके तैलं नास्ति पलं द्रम्मं गवेषितम् | लावण्योज्ज्वलाङ्गो गृहे प्रियतमः प्रविष्टः ||) इति तथा - मासपसू-अं छम्मासगब्भिणिं एक्कदि-अहजरि-अं च | रंगुत्तिण्णं च पि-अं पुत्त-अ कामंत-ओ होहि || छायाः - (मासप्रसूतां षण्मासगर्भिणीमेकदिवसज्वरितां च | रङ्गत्तीर्णां च प्रियां पुत्रक कामयमानो भव ||) इत्यादि (?) | तत्रैकाङ्गस्य सौभाग्यस्य प्राधान्याच्चमत्कारोदय इति तात्पर्यम् | न तु तदभावकृता चमत्कृतिः | एतैः कविनोपनिबद्धैर्नटेन च साक्षात्कारकल्पतामानीतैः सम्यगित्यविघ्नभोगात्मकसम्भोगो रस उत्पद्यते झटित्येव | न हि गमनक्रियावत् पर्यन्ते रसनाक्रिया निष्पद्यते | अपि तु प्रथम एवावसरे | स च विभावसाक्षात्कारात्मक एव | तस्य तु प्रथमकक्ष्यायामेव रसनागोचरत्वाभिमतस्य नयनचातुर्यादिभी रसै(सो) रसनाद्याभिमुख्यं नीयते | अत एव तेऽभिनया अनुभावाश्च | आभिमुख्यनयनमनुभावनं च | तद्रसास्वादे समर्थाचरणमुद्दीपनम् | अत एव तदभावे विभावादिवर्णनप्रधानेऽपि काव्ये न चमत्कारः | रसनायास्तत्राभावात् | यथा विन्दो(कवीन्दो)र्भट्टेन्दुराजस्य - उपपरिसरं गोदावर्याः परित्यजताध्वगाः सरणिमपरो मार्गस्तावद्भवद्भिरवेक्ष्यताम् | इह हि विहितो रक्ताशोकः कयापि हताशया चरणनलिनन्यासोदञ्चन्नवाङ्कुरकञ्चुकः || इति | एवमन्यत्राप्युपपद्यत इति तस्याभिनयादिर(दि यो)जनीयम् | ननु विभावानां साधारण्यं कथम् | नियमेनैवं हि न नाट्ये | इयांश्चात्र कविप्रयत्नसमर्प्यमाणः तेन तद्भावात्प्रयोजकधर्मोद्रेकप्रकाशविशिष्टसमबलात्प्रमुख एव विशेषविश्रान्ततां याति | तथा हा प्रिये जनकराजपुत्रीति इत्ययं श्रुत एव न रतिव्यतिरेकेण भावान्तरविभावता शङ्क्या | एतेन कुणपं(पे) कामिनी इत्यादिसम्भावनं प्रत्युक्तम् | तत्र नयनचातुर्यादिना कान्ता दृष्टिर्लक्ष्यते | यत्तु भ्रुवोर्मूलसमुत्क्षेपश्चतुरमिति(ना.शा. ८-४७) वक्ष्यते | सभ्रूक्षेपेण चोक्तम् - विवर्तनं कटाक्ष (ना. शा. ८-१००) इति ताराकर्म | एवं च योजना - नयनानां चातुर्येण प्. ३००) व्यभिचारिणश्चास्यालस्यौग्र्यजुगुप्सावर्ज्या | विप्रलम्भकृतस्तु निर्वेदग्लानिशङ्कासूयाश्रमचिन्तौत्सुक्यनिद्रास्वप्नविबोधव्याध्युन् मादापस्मारजाड्यमरणादिभिरनुभावैरभिनेतव्यः | सभ्रूक्षेपेण कटाक्षेण च यद्यत्सञ्चारणं ललितं मन्थरं मधुरं नयनाभिरामं कृत्वा यान्यङ्गानां हरणानि स्वकर्तव्यकाले ललितानि सुकुमाराभिधेयानि मधुराणि च श्रवणसुखकराणि यानि वाक्यानीत्युपाङ्गाभिनय आङ्गिको वाचिकश्च लक्षितः | अत एव सामान्याभिनयाध्याय(ना. शा. अ-२२) वक्ष्यमाणाशेषचेष्टालङ्कारलाभ इति ललितमधुरशब्दौ तदर्थावित्यसत् | आदिग्रहणात्सात्त्विको मुखरागपुलकादिर्गृह्यते | अनुभावकत्वेन ताटस्थ्यपरिहारः | आभिमुख्यनयनेन स्वात्मैकविश्रान्तिशङ्कानिरासः | एवमुत्तरत्रापि | एवं विभावसमय एव रसनीयस्यानुभावावसरेऽवस्थावेशवैरस्यास्पदस्य पश्चाद्व्यभिचारिणः स्वामेव रसनीयतां चित्रयन्तः सातिशयं पुष्यन्तीति पश्चात्ते निरूप्यन्ते - व्यभिचारिणश्चास्येति | आलस्यौग्र्यजुगुप्सा वर्ज्यमाना येभ्यस्ते सर्वे व्यभिचारिणः | अस्येति दशाद्वयमयस्येत्यर्थः | जुगुप्सा स्थायिन्यपीह निषिद्धा न्यायसिद्धं स्थायिनामपि व्यभिचारित्वमनुज्ञापयति | आलस्यादि च स्वविभावप्रमा(म)दादिविषयमेव निषिद्धम् | तेन वपुरलसलसद्बाहु लक्ष्म्याः (वेणी. १-२) इति तथा कतिचिदहानि वपुरभूत् केवलमलसेक्षणं तस्याः (विक्र. ५-८) इत्यादि न विरूपकं मन्तव्यम् | एवं प्रयोगे काव्ये च विभावादीनां क्रम एव समाश्रयणीयः | उत्पूर्वस्य (उद्भूतस्य) लब्धप्रतिष्ठता | तथाभूतस्य परिवारसंघटनमिति हि प्रतीतिक्रमः | ननु निर्वेदादयः सम्भोगे न व्यभिचारिण इत्याशङ्क्याह - विप्रलम्भकृतस्त्विति | तुशब्दो विशेषं द्योतयति | वाक्यैकवाक्यतया दुःखप्रायनिर्वेदादि मुक्त्वा आलस्यादिव्यतिरिक्ताश्च सुखमया एव धृत्यादयोऽत्र व्यभिचारित्वेन सम्भोग उपन्यस्ता इति प्रकटयति | परस्पराशोपजीवनं प्. ३०१) चात्र जीवितमिति दर्शयितुमस्येत्यनुद्भिन्नमेवोक्तम् | तत एव च भगवदनुग्रहपवित्रवाचा कालिदासेन रघुवंशे सम्भोगविप्रलम्भात्मकव्यामिश्ररसनासम्पत्तये प्रत्यनीकोद्देशेन रामभद्रस्य स्वकर्म पूर्वावस्थावर्णनेनादृतम् | सुप्तान्तर्भूतोऽपि स्वप्नः प्राधान्यादुपात्तः | क्व नीलकण्ठ व्रजसि इति (कुमा-५-५४) | सिविण अखणसुत्तुटि आ ए पुणरुत्तदसणमणा ए | बाला ए णिमीलि अलो अणा ए दिवसो वि वोलीणो || तथा आहूतोऽपि सहायैः इत्यादौ हि स एव प्राणः | सम्भोगदशायां तु विभावसान्निध्ये निद्राद्यभावाद्विबोधोऽपि व्यभिचारी | सम्भोगेऽपि रतिश्रमकृतनिद्रादि यद्यप्यस्ति तथाऽपि न रतौ तच्चित्रतामाधत्ते | विप्रलम्भे तु तद्रतिभावना परम्परोदितमेव | निद्रादिबाहुल्यापेक्षं चेत्थमभिधानम् | उन्मादापस्मारव्याधीनां या नात्यन्तं कुत्सिता दशा सा काव्ये प्रयोगे च दर्शनीया | कुत्सिता तु सम्भवेऽपि नेति वृद्धाः | वयं तु ब्रूमः | तादृश्यां दशायां स्वजीवितनिन्दात्मिकायां तद्देहोपभोगसाररत्यात्मकास्थाबन्धोऽपि विच्छिद्यत एवेति असम्भव एव | मरणमचिरकालप्रत्यापत्तिमयमत्र मन्तव्यम् | येन शोकोऽवस्थानमेव न लभते | यथा - तीर्थे तोयव्यतिर्करभवे जह्नुकन्यासरयवो - र्देहवस्थाधिकचतुरया सङ्गतः कान्तयाऽसौ लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु || (रघु. ८-९५) अत एव सुकविना वाक्यभेदेनापि मरणं नाख्यातम् | (तस्य) प्रतीतिविश्रान्तिस्थानत्वपरिहाराय तृतीयपादेन विभावानुसन्धानकं दर्शनम् | पुनर्ग्रहणेन स एवार्थः सुतरां द्योतितः | अन्ये त्वाहुः मरणमिति न जीवितवियोग उच्यते | अपि तु चैतन्यावस्थैव प्राणत्यागकर्तृतात्मिका पाशबन्धाद्यवसरगता मन्तव्या व्यभिचारिभावेनेति सुलभोदाहरणमेतदिति | आदिशब्देन दैन्यमोहादयः | एते व्यभिचारिणोऽपि स्वानुभावैरनुभाविता विप्रलम्भमनुभावयन्ति | तस्मादनुभावैरित्युक्तम् | प्. ३०२) अत्राह - यद्यहं रतिप्रभवः शृङ्गारः कथमस्य करुणाश्रयिणो भावा भवन्ति | अत्रोच्यते - पूर्वमेवाभिहितं सम्भोगविप्रलम्भकृतः शृङ्गार अन्ये त्वादिशब्दं करुणवाचिनमाश्रित्य तदीयानुभावान्प्राधान्येन दर्शयन्ति | एकशेषेण द्वयमप्यन्ये | विप्रलम्भो विडम्बनं प्रसिद्धमिह तूपचारात्तदीयं फलं विरहात्मकं गृह्यते | तेन हि परस्परं रतिमतोरत्रविडम्म्बनमस्ति | तेन विरहेण कृतः सुष्ठुतमां पोषित इति दर्शयन्मुनिरनेन विना शृङ्गारो अ प्रयोगे न काव्ये हृद्यतामवलम्बत इति दर्शयति | तथा हि - सम्भोगेऽप्येकघनशर्करास्वादस्थानीयतापरिहाराय वैषम्यं गोत्रस्खलितं स्पर्ह्दामन्यद्वा कलहविप्रलम्भहेतुभूतं कवयो निबध्नन्ति | वामो हि कामः (काम. शा. २-७-१) इति वात्स्यायनादिभिरभिहितम् | मुनिनापि वक्ष्यते | यद्वामाभिनिवेशित्वम् इति (ना. शा. २२-२०७) | एते च व्यभिचारिणो विद्युदुन्मेषनिमेषयुक्त्यैव स्थायिसूत्रमध्ये प्रकटयन्तस्तिरोदधतश्च तद्वैचित्र्यमावहन्ति | न तु स्थिराः | यद्यपि स्थाययपि न स्थिरः तथाऽपि संस्काररूपतया धारावाहिसजातीयप्रवाहरूपतया च स्थिर एव | व्यभिचारिणस्तु नैवं क्षणमपि भवन्ति | संस्कारमपि स्वकं स्थायिसंस्कार एव प्रौढयन्ति | तथैव स्मरणाच्च | तेन व्यभिचारिषु पृथक्पृथग्यैः क(थग्यत्कै)श्चिदुदाहृतं तन्न तन्त्रन्यायानुपाति | तथा हि - धृतौ यदुदाहृतं असम्भाव्यं देवात् इत्यादि तत्रापि हर्षविस्मयगर्वमतिप्रभृतीनां च ते इति माम् इति वलित इत्यादिसूचितानां सम्भार एव | किमपरं त्रैलोक्यम् इत्यादौ चावान्तरवाक्यारम्भे स्मृतिप्रभृतिभिः सर्वत्र भाव्यम् | अन्यथा हि धृत्येकवचनत्वे सर्वत्र श्लोकार्थे दृष्टिरेकैव चित्रन्यस्तेव भवेत् | अस्यास्सर्गविधौ (विक्रमोर्व. १.१०) इत्यत्राप्यवान्तरवाक्यसमाप्तौ धृतिहर्षविस्मयादयो भवन्त्येव | अत एव विच्छिद्य वितर्कान्तरं समुदेति | न तु व्यभिचारी क्षणमप्यवतिष्ठते | चलं हि गुणवृत्तमिति हि तत्रभवन्तः | अत एव प्रयोगवैचित्र्यम् | अन्यथाऽवैचित्र्यात्स एव प्रयोगः स्यात् | मध्येऽन्ते चाश्रयाः स्फुटाः | ते च विस्मयधृतिप्रभृतीत्यास्तामेतत् | प्. ३०३) इति | वैशिकशास्त्रकारैश्च दशावस्थोऽभिहितः | ताश्च सामान्याभिनये वक्ष्यामः | करुणस्तु शापक्लेशविनिपतितेष्टजनविभवनाशवधबन्धसमुत्थो निरपेक्षभावः | औत्सुक्यचिन्तासमुत्थः सापेक्षभावो विप्रलम्भकृतः | वाक्यैकवाक्यत्वेनावस्थाद्वयस्यूतस्य शृङ्गारस्य यत्स्वरूपमुक्तमेतदेव परिशोधयितुं पूर्वपक्षयति - अत्राहेति | करुणविषये आश्रयणं विद्यते येषां भूम्ना | अत एव कर्मधारयमत्वर्थीयाभ्यामितीह नाश्रितम् | भूम्ना वहति ह्यत्र (वहतीत्यत्र) पूर्वपक्षस्य प्राणितम् | ननु तव्योक्तमसदेवास्त्वित्याशङ्क्याह - वैशिक्ये(के)त्यादि | वेशो वेश्यावर्गः | करणं च सम्भोगात्मकम् | तत्प्रयोजनं शास्त्रं कामसूत्रं ये कृतवन्तस्तैः | शृङ्गारो दशभिरभिलषितादिभिर्मरणान्ताभिरवस्थाभिर्युक्तो दर्शितः | अवस्थाग्रहणेन च तावन्तो बहवो विप्रलम्भा इत्याशङ्कां निराकरोति | तेन चिन्तादयोऽपि व्यभिचारित्वेन रतेस्तैरनुज्ञाता इति तात्पर्यम् | चकारेणेदमाह - परस्परास्थाबन्धात्मकत्वे रतिरूपे स्थिते सति तदङ्गभूता दशावस्था विप्रलम्भाङ्गम् | यथोदयनस्य चित्रफलकावलोकनतः प्रभृति | ननु तत्रापि (न) रतिः क्व | अ(त)स्य विषयस्यानवगमात् | न हि चित्रमात्रम् | नलिनीसंस्तरादेः साक्षिणो विद्यमानत्वात् | आकृत्या च काम्यमानतौचित्यस्य लाभात् | यदि परं नाम तज्ज्ञास्त(न ज्ञातं त)त्कुत्रोपयोगीति | यदा तु विप्रलम्भाङ्गता न भवति तदा स्वातन्त्र्यं - यथा रावणस्यापि | तदुक्तमस्मदुपाध्यायभट्टतोतेन - स्वातन्त्र्येण प्रवृत्तौ तु सर्वप्राणिषु सम्भवः | इति | प्. ३०४) एवमन्यः करुणोऽन्यश्च विप्रलम्भ इति | एवमेष सर्वभावसंयुक्तः शृङ्गारो भवति | अपि च सुखप्रायेषु सम्पन्नः ऋतुमाल्यादिसेवकः | पुरुषः प्रमदायुक्तः शृङ्गार इति संज्ञितः || ४६ || नन्वेवं व्यभिचर्यभेदात्करुणः कथं विप्रलम्भाद्भिद्यत इत्याशङ्क्याह - करुणस्त्विति | अधमप्रकृतेस्तावन्न विप्रलम्भः | स्थाययभावात् | तदभावो विभावसामग्रीवैकल्यादिति | तत्र तावत्करुणः पृथक् लब्धप्रतिष्ठः | एवमुत्तमप्रकृतावपि रतिविपरीतः शोकः करुणे स्थायी | अत एवाह निरपेक्षः | बन्धुजनादिविषये याऽपेक्षा रताविवालम्बनम् | यथोक्तम् - आशाबन्धः कुसुमसदृशं प्रायश इति (मेघ. १-१०) | ततो निष्क्रान्तो भावः शोकाख्यो यस्मिन् | शापक्लेशे विनिपतितस्येष्टजनस्य यो विभवनाशो वधो बन्धो वा ततः समुत्थानं यस्य | शापग्रहणेनाप्रतिकार्यत्वे सत्युत्तमप्रकृतेः शोकोदयस्थानमेतदिति दर्शयति | अन्यथोत्साहक्रोधादिविभावत्वं स्यात् | शोकत्वमेव च पराकर्तुं कविकुलचक्रवर्तिना पुरूरवस ऊर्वशीशापप्राप्तिरनुरूप(रनुप)लक्षितत्वेन निबद्धा | एवं विभावस्थायिविभेदो दर्शितः | येऽपि चैते निर्वेदाद्यास्तेऽपि वस्तुतो रत्यननुगृहीता निअपेक्षाच्छोकाद्भवन्त्यऽन्योन्य(न्तोऽन्य) एव | ततोऽप्याह निरपेक्षभाव इति | एवं प्रसङ्गात्करुणस्य स्वरूपमभिधाय प्रकृते योजयति - औत्सुक्यचिन्तेति | चिन्ताशब्दोऽशेषनिर्वेदाद्युपलक्षणम् | औत्सुक्यप्रधाना ये चिन्तादयस्तेभ्यः सम्यगुत्थानं विजृम्भो यस्य | अत एव सापेक्षो यत्र रत्याख्यो भावः | ते च सापेक्षाद्रत्याख्याद्भवन्ति | न हि विप्रलम्भे विभावः स्थायी च सम्भोगाद्भिद्यते | एक एवासाविति हि बहुश उक्तम् | एतदुक्तं भवति | औत्सुक्यं विषयौन्मुख्यम् | तच्च नष्टे विषये न सम्भवति | प्. ३०५) अपि चात्र सूत्रार्थानुविद्धे आर्ये भवतः | ऋतुमाल्यालङ्कारैः प्रियजनगान्धर्वकाव्यसेवाभिः | उपवनगमनविहारैः शृङ्गाररसः समुद्भवति || ४७ || नयनवदनप्रसादैः स्मितमधुरवचोधृतिप्रमोदैश्च | मधुरैश्चाङ्गविहारैस्तस्याभिनयः प्रयोक्तव्यः || ४८ || एवं परीक्ष्य परीक्षाफलमुपसंहरति - एवमेष इति | शृङ्गार इत्येकवचनेनैक एव शृङ्गार इत्युपसंहृतम् | एवं सूत्रार्थे परीक्ष्य स्थापिते तदर्थस्य सुखग्रहणार्थं सूत्रार्थविवरणरूपत्वात्सूत्रसमीपेऽप्युपचितपाठात्कारिकामधुना पठति - अपि चेति | न केवलं सूत्रं परीक्षाऽपि यावदियं कारिकेति समुच्चयार्थः | एवं सर्वत्र मन्तव्यम् | तामेव कारिकां पठति - सुखेति | पुरुष इति भोक्ता संवेदनात्मकोऽभिप्रेतः | भोक्तैव च स्थायिसंविद्रूपः | व्यभिचारिणस्तु भोगस्वभावाः | तेन रतिरेव पुरुषः | तथा चोक्तम् - श्रद्धामयोऽयं पुरुष इति | एवं प्रमदाऽपि | तत्र भोक्तृत्वे पुरुषस्य प्राधान्यम् | प्रमदायास्तु भोग्यत्वम् | प्राधान्यादेव च तस्य भोग्येनापरतन्त्रीकरणमिति नायिकान्तरयोगेऽपि न शृङ्गारहानिः | भोग्यस्य तु पारतन्त्र्यादेवान्यसम्मीलने शृङ्गारभङ्ग इति दर्शितम् | अत एव न स्थायिभेदः शङ्कनीयः | सुखप्रायेषु सम्पन्न इत्यादिपुरुषविशेषणत्वेन समुदितस्य विभावत्वं दर्शयति | विभावादयो (न रसोदयं विनाऽस्वादैश्च भोक्तरीति निमग्नत्वे भोक्तृप्रधानत्वं च दर्शयन्ति | विषयसम्भारपूर्णताभिताभिमानजैव रतिरुचिता | एतदर्थमेव जस्स अहं तादेण दिण्णेति ईरिसस्सकण्वार अणस्स अवस्सं एव्व इरिसे वरे अहिलासेण होदव्वं (रत्नावली ईई) इति (?) च | एतत्सर्वसम्पन्नत्वमेव नायिकायाः प्रदर्शितम् | अन्यथा नोत्तमत्वं स्यात् | निजजातिकुलानुरूपसम्पदभावे तु रतिः पुरुषार्थरूपत्वा(भावाद)नुपदेश्या | अत एव तत्र सर्वस्य प्रतीतिवैर(स्य)स्यानन्तरसंभावनमिति श्लोकस्य तात्पर्यार्थः | प्. ३०६) अथ हास्यो नाम हासस्थायिभावात्मकः | स च विकृतपरवेषालङ्कारधार्ष्ट्यलौल्यकुहकासत्प्रलापव्यङ्गदर्शन दोषोदाहरणादि- विषयसामग्रीसम्पूर्णो रस इति ये मन्यन्ते तेषामभ्रान्तिकारणमयं श्लोकः | स चेत्थं व्याख्यातो न भ्रान्तिजनकः | संश्रीयत (संज्ञित) इत्यनेनान्वर्थतां पराकरोति | तथा हि - उणादिषु (अव्युत्पन्नः) शृङ्गारशब्दो निपातित इति | (शृङ्गारभृङ्गारौ इत्युणादिसूत्रम् ४१६) न केवलं श्लोकवृत्तमिदं सूत्रार्थनुविद्धे यावदार्ये अपीत्यपि चेत्यस्य भिन्नक्रमस्यार्थः | प्रियो जनो विदूषकादिः | गान्धर्वशब्दो गीतादिहृद्यविषयोपलक्षणम् | काव्यसेवाशब्देन विषयसङ्कल्पं विभावत्वेन लक्षयति | यस्त्वाह काव्यार्थीभूताद्रसात्काव्यार्थविदो भावान्तरं प्रादुर्भवति | अतः सुखजनकत्वात्काव्यार्थो रस इति | स प्रत्युक्तः | न हि विषयसामग्री रस इति पूर्वं दर्शितम् | धृतिप्रमोदशब्देन व्यभिचारिणो लक्षयति | एक एव च परमार्थतः शृङ्गार इत्यभिप्रायेणादाववस्थोपलक्षणद्वारेण सर्व एवोपसंहृतो मन्तव्यः || इति शृङ्गाररसप्रकरणम् || अथ हास्यरसप्रकरणम् || अथ हास्यं लक्षयितुमाह - अथेति | आत्मशब्देनेदमाह - रतिरास्वादनाख्यां प्रतीतिं विदधाना न तां रतिरूपामेव विधत्ते | प्रमुखे विभावादौ साधारण्यात् | हासे तु य आस्वादः सोऽपि विकृतवेषादीनां सामाजिकान्प्रति लोकवृत्तेन हासहेतुतेति विभावसाधारण्यद्वारेण तदेकस्वभाव एवेति हासात्मकरसनाख्यचर्वणाचर्वणीयत्वाच्चास्य रतिशोकावेव परमतज्जातीयसंविदास्वादौ धारारूढसुखदुःखरूपत्वेन निस्साधारणात्मीयंत्वनियमग्रहगृहीतहेतुबलादेवोत्पद्येते यतः अतोऽनयोर्मुनिना प्रभवग्रहणं कृतम् | अन्येषु तु विभावे साधारण्यसम्भावनात्तदात्मकग्रहणम् | नयविनयादेरन्यायकारिणः समानं कालादेरपूर्ववस्तुनश्च सर्वान्प्रत्युत्साहक्रोध- भयजुगुप्साविस्मयहेतुत्वेन साधारण्यविभावत्वादित्यलं बहुना | प्. ३०७) भिर्विभावैरुत्पद्यते | तस्योष्ठनासाकपोलस्पन्दनदृष्टिव्याकोशाकुञ्चनस्वेदास्यरागपार्ऽऽ स्वग्रहणादिभिरनुभावैरभिनयः प्रयोक्तव्यः | व्यभिचारिणश्चास्यावहित्थालस्यतन्द्रानिद्रास्वप्नप्रबोधासूयादय ः | द्विविधश्चायमात्मस्थः परस्थश्च | यदा स्वयं हसति तदाऽत्मस्थः | यदा तु परं हासयति तदा परस्थः | तत्र वेषः केशादिरचना | अलङ्कारः कटकादिः | स चोभयोऽपि विकृतो देशकालप्रकृतिवयोऽवस्थाविपरीतो हास्यस्य विभावः | एतेन सर्वे रसा हास्येऽन्तर्भूता इति दर्शितम् | अथ विदूषकोऽपि तद्वेषं विदधद्धास्याभासं प्रथयतीत्येतच्च प्रागेवोक्तम् | परस्य सम्बन्धी परः | एवंभूतो देवदत्तस्य वेषोऽयमलङ्कारो वा इत्युद्घट्टक (ना. शा. ४-१८७) भाण्डनृत्तादौ दर्श्यमानो हासं करोति | वेषालङ्कारौ गतागतिकादेरप्युपलक्षणम् | धाष्टर्यं निर्लज्जता | लौल्यं विषयेष्वनियतता | कुहकं कक्षग्रीवादिस्पर्शनं विस्मापनविधिप्रसिद्धं बालानाम् | अङ्गविगमो विखुनादि व्यङ्गम् | एषां दर्शनमिति समासः | दोषा अतत्प्रकृतेरपि भयादयः अकार्यकरणादयश्च विकृतवेषादय एव वा | तेषामुदाहरणं वर्णनम् | आदिग्रहणात्सङ्कल्पस्मृत्यादि | ओष्ठादेः स्पन्दनशब्देन संबन्धः | व्याकोशनं विकासो निमीलनं च | आकुञ्चनं त्वीषत् | एतद्दृष्ट्या योज्यम् | आस्यरागो मुखरागः | पार्श्वयोर्ग्रहणं पीडनम् | तन्द्राशब्देन मोहः | एते च विभावा अनुभावा व्यभिचारिणश्च प्रकृतित्रयभेदेन ये स्मितादिभेदा वक्ष्यन्ते तेषु यथायोगं योजनीयाः | द्विविधश्चायमिति | आत्मस्थैर्विभावैर्विकृतवेषादिभिर्विदूषकः स्वयं हसति स तस्यात्मस्थः | देवीं च हासयतीति तस्याः परस्थः - तदिदमसत् | एवं हि विभावाना- प्. ३०८) अत्रानुवश्य आर्ये भवतः | विपरीतालङ्कारैर्विकृताचाराभिधानवेषैश्च | विकृतैरर्थविशेषैर्हसतीति रसः स्मृतो हास्यः || ४९ || विकृताचारैर्वाक्यैरङ्गविकारैश्च विकृतवेषैश्च | हासयति जनं यस्मात्तस्माज्ज्ञेयो रसो हास्यः || ५० || स्त्रीनीचप्रकृतावेष भूयिष्ठं दृश्यते रसः | षड्भेदाश्चास्य विज्ञेयास्तांश्च वक्ष्याम्यहं पुनः || ५१ || स्मितमथ हसितं विहसितमुपहसितं चापहसितमतिहसितम् | द्वौ द्वौ भेदौ स्यातामुत्तममध्याधमप्रकृतौ || ५२ || तत्र स्मितहसिते ज्येष्ठानां मध्यानां विहसितोपहसिते च | अधमानामपहसितं ह्यतिहसितं चापि विज्ञेयम् || ५३ || मात्मस्थत्वविभागह् स्यात् | न हासस्य | किञ्च स्वामिनः शोकोऽनुजीविषु शोकं करोतीति परस्थता सर्वत्र स्यात् | स्वयंभूर्हि परत्र देव्यादौ व्यक्तः परस्थ इति चेद्गम्भीरस्य प्रभोरनुजीविगतानुभावव्यक्तः क्रोधोऽपि परस्थो भवेत् | तद्विभाव आत्मस्थोऽतो(न्य)विभावकस्त्वन्य इत्यप्यसत् | परहासोऽपि तद्धासे विभावः स्यात् | एतच्च रत्यादिषु सर्वेष्वप्यस्ति | तस्मादयमत्रार्थः - परं हसन्तं दृष्ट्वा स्वयं विभावानपश्यन्नपि हसन्लोके दृष्टः | तथा विभावादिदर्शनेऽपि गाम्भीर्यादनुदितहासोऽपि परकीयहासावलोकने तत्क्षणं हासविवशः सम्पद्यत एवेति स्वभावः | यथाऽम्लदाडिमादिरसास्वादः सङ्क्रमणस्वाभावो- प्. ३०९) अत्र श्लोका - ईषद्विकसितैर्गण्डैः कटाक्षैः सौष्ठवान्वितैः | अलक्षितद्विजं धीरमुत्तमानां स्मितं भवेत् || ५४ || उत्फुल्लानननेत्रं तु गण्डैर्विकसितैरथ | किञ्चिल्लक्षितदन्तं च हसितं तद्विधीयते || ५५ || अथ मध्यमानाम् - आकुञ्चिताक्षिगण्डं यत्सस्वनं मधुरं तथा | कालागतं सास्यरागं तद्वै विहसितं भवेत् || ५६ || ऽन्यत्रापि दन्तोदकविकारानुरूपसङ्क्रमदर्शनादेव सङ्क्रामति एवं हासः स्वभावतः सङ्क्रमशील इति काष्ठकाऽस्य भूयिष्ठता | नानाभेदा इत्याह - षड्भेदाश्चेति | द्वौ द्वाविति | यथाक्रमं विभावतारतम्यमित्यादीति केचित् | तत्त्वसत् | भेदान्तराणामपि प्रसङ्गात् | तस्मात्सङ्क्रमणाभिप्रायेणैतत् | स्मितं हि यदुत्तमप्रकृतौ तत्सङ्क्रान्तं हसितं सम्पद्यते | अत एव व्यवस्थो हास इति वक्ष्यते | षडवस्थो ह्यन्यथा स्यात् | स्मितस्येषत्तायां व्यपगतायां हसितं ततो विशेषेण ततोऽपि परस्य समीपं गतम् अन्यदपहसितमतिशयेन चेत्युपसर्गभेदादर्थभेदः | (५३) सौष्ठवमनुल्बणता | द्विजा दन्ताः धीरमिति मन्थरं कृत्वा ईषत्त्वं निवार्याह विकसितैरिति | अथेति | स्मितानन्तरं संक्रमणकाल इत्यर्थः | तदिति | स्मितमेव संक्रान्तं सदेवंरूपतामेतीत्यर्थः | प्. ३१०) उत्फुल्लनासिकं यत्तु जिह्मदृष्टिनिरीक्षितम् | निकुञ्चिताङ्गकशिरस्तच्चोपहसितं भवेत् || ५७ || अथाधमानाम् - अस्थानहसितं यत्तु साश्रुनेत्रं तथैव च | उत्कम्पितांसकशिरस्तच्चापहसितं भवेत् || ५८ || संरब्धसाश्रुनेत्र च विकृष्टस्वरमुद्धतम् | करोपगूढपार्श्वं च तच्चातिहसितं भवेत् || ५९ || हास्यस्थानानि यानि स्युः कार्योत्पन्नानि नाटके | उत्तमाधममध्यानामेवं तानि प्रयोजयेत् || ६० || इत्येष स्वसमुत्थस्तथा परसमुत्थश्च विज्ञेयः | द्विविधस्त्रिप्रकृतिगतस्त्र्यवस्थभावो रसो हास्यः || ६१ || जिह्माख्याया भाविन्या दृष्ट्या निरीक्षणं यत्र काल उचितं तेन संस्थानादौ | (५७) अस्थान इत्यकाले शोकाद्यवसरे | विकृष्टं श्रवणकटु | नाटक इति | नाटकशब्दो रूपकमात्रवृत्तिः | स्वसमुत्थ इत्यसंक्रान्तस्मितविहसितापहसितलक्षणः परसमुत्थः संक्रान्तो हसितोपहसितातिहसितरूपः | हसितादिरूपसंक्रमणयो(मेवो)त्कृष्टप्रकृतौ स्मितादिरूपम् | रतिक्रोधशोकादेस्तु न संक्रमणं भवतीत्युक्तमेव | तत्र हि युगपदेव वा स एव विभावस्तच्चित्तवृत्तिमान्वा पुरुषो विभावतामेति | न तु त एव विभावास्तस्य चित्तवृत्तिं प्रस्तूय संक्रमयाद्यस्य (मयन्त्यन्यस्य) प्रतुवतः | हासमिव)स एव) सर्वेषामात्मस्थपरस्थभेदोपलक्षणमेतदित्यन्ये | एतच्चासत् | अनुभवसिद्धमेव हीदं हासः संक्रामतीति | प्. ३११) अथ करुणो नाम शोकस्थायिभावप्रभवः | स च शापक्लेशविनिपतितेष्टजनविप्रयोगविभवनाशवधबन्धविद्रवोपघ अतव्यसनस.योगादिभिर्विभावैः समुपजायते | तस्याश्रुपातपरिदेवनमुखशोषणवैवर्ण्यस्रस्तगात्रतानिश्श्वासस् मृतिलोपादिभिरनुभावैरभिनयः प्रयोक्तव्यः | व्यभिचारिणश्चास्य निर्वेदग्लानिचिन्तौत्सुक्यावेगभ्रममोहश्रमभयविषाददैन्यव्याधिज् अडतोन्मादापस्मारत्रासालस्यमरणस्तम्भवेपथुवैवर्ण्याश्रुस्वर् अभेदादयः | अन्यस्त्वाह - तिसृषु प्रकृतिषु त्र्यवस्थो विभावतारतम्यात् द्विरूपः | पुनरात्मपरस्थत्वेन द्विधेति द्वादशभेदोऽयमिति कारिकातात्पर्यमिति | अत्र च पृथग्विभावनमपि भवति | तत्त्वतिप्रसङ्गावहं तन्मतमिति नोदाहृतम् | (६१) इति हास्यरसप्रकरणम् || अथ करुणरसप्रकरणम् || इदानीमवसरायातं करुणं लक्षयति - अथ करुणो नामेति | अथेति क्रमे | तत्र चायं क्रमः - सम्भोगेन हास्योऽङ्गत्वेनापेक्षितः | विप्रलम्भेन च समानव्यभिचारिकत्वात्करुण इति टीकाकारः | एतच्च पूर्वापरविरुद्धम् | अस्माभिस्तूद्देशविभाग एव क्रमो दर्शितः | तस्याभिनयः प्रयोज्यो यस्यास्वाद्यमानस्य करुण इति व्यपदेशः | सदयहृदयता हि करुणा लोके प्रसिद्धा | सा च लिङ्गैरनुकर्तरि शोकं प्रतीयतां सामाजिकानामिति करुणव्यपदेशः इति श्रीशङ्कुकः | एतच्च पूर्वापरविस्मरणविजृम्भितमस्य | यतः शोकप्रतिकृतिस्तस्य करुणा | दया च नाम परित्राणेच्छा | सा कथं शोकानुकरणम् | किं प्रति च तेषां दयेति न विद्मः | प्. ३१२) अत्रार्ये भवतः - इष्टवधदर्शनाद्वा विप्रियवचनस्य संश्रवाद्वापि | एभिर्भावविशेषैः करुणरसो नाम संभवति || ६२ || सस्वनरुदितैर्मोहागमैश्च परिदेवितैर्विलपितैश्च | अभिनेयः करुणरसो देहायासाभिघातैश्च || ६३ || तस्मात् करुण इति शोकस्य सर्वसाधारणत्वेन प्राग्युक्त्या आस्वाद्यमानस्य संज्ञा | तदर्थमेव नामशब्दः | तत्प्रभवत्वं शृङ्गारवद्व्याख्येयम् | अशक्यप्रतीकारहेतूपलक्षणं शापग्रहणम् | शापक्लेशे पतितस्येष्टजनस्य ये विप्रयोगादयः | तत्र विप्रयोगोऽयं सङ्गमः (योगोऽसङ्गमः) विभवनाशादि प्रसिद्धम् | विद्रवो देशादुच्चाटनम् | तच्च विप्रयोगेऽपीति विशेषः | उपघातः पुत्रादिमरणम् | अग्न्यादिकृतो विद्रवः चोरादिकृत उपघात इति त्वसत् | विभवनाशेन गतत्वात् | व्यसनेन मृगयाक्षादिनाऽनर्थजनकेन संयोगः | विभवनाशादयोऽपि स्वात्मगता नोत्तमप्रकृतेः शोकं कुर्युः | मध्यमाधमप्रकृतीनां तु कुर्युरेवेत्यादिग्रहणम् | परिदेवनमात्मानो दैवस्यान्यस्य चोपालम्भः | निश्वासशब्देन तदनन्तरभावी उच्छ्वासोऽप्यूर्ध्वश्वसनरूपो लक्ष्यते | स्मृतिलोपेन स्तम्भप्रलयौ लक्ष्येते | वैवर्ण्याश्रुस्वरभेदा अत्र बहिरुद्भिन्नस्वभावाश्चित्तवृत्त्यात्मानो गृह्यन्ते | तथा हि वक्तारो भवन्ति अश्रुणा पूर्णोऽस्य कण्ठो न च नयनजलं दृष्टम् इति | एते ह्यश्रुप्रभृतयो व्यभिचारित्वाभिनेयत्वोपजीवनायैव मध्ये निर्दिष्टा इत्यवोचाम वक्ष्यामश्च | तेन न पौनरुक्त्यम् | एवमन्यत्रापि | व्याधेरुन्मादापस्मारौ भेदेन वक्ष्यामः | वधशब्दो बन्धादेरप्युपलक्षणम् | विप्रियमिष्टजनवधादि येन वाक्येनोच्यते तस्य श्रवणात् | तेन चेष्टजनस्य विभवनाशादि दृश्यमानं श्रूयमाणं वा कविभिः करुणविभावत्वेनोपनिबन्धनीयमिति तात्पर्यम् | एभिरित्येवंप्रकारैः | भावशब्दोऽत्रार्यायां विभाववाची | अनुभावांस्तद्द्वारेण च व्यभिचारिणोऽप्युपलक्षयितुमार्यान्तरं सस्वनेत्यादि | बहुवचनं प्रकृतिदेशकालदशाहेत्वादिभेदेनानेकप्रकारत्वज्ञापनार्थम् | मोहो जडता | प्. ३१३) अथ रौद्रो नाम क्रोधस्थायिभावात्मकः रक्षोदानवोद्धतमनुष्यप्रकृतिः संग्रामहेतुकः | स च क्रोधाधर्षणाधिक्षेपानृतवचनोपघातवाक्पारुष्याभिद्रोहमात्स र्यादिभिर्विभावैरुत्पद्यते | तस्य च ताडनपाटनपीडनच्छेदनभेदनप्रहरणाहरणशस्त्रसम्पातस म्प्रहाररुधिराकर्षणा- तेनान्ये व्यभिचारिण उपलक्ष्यन्ते | देहस्यायासनं पातनवेष्टनादि | अभिघात उरस्ताडनादिः | एते चानुभावाः प्रकृतिभेदेन यथायोगं विभजनीयाः करुणो रौद्रादित्युक्तम् | स की(ही)दृग्रौद्र इति क्रमं केचिदाहुः || (६३) इति करुणासप्रकरणम् || अथ रौद्ररसप्रकरणम् || अधुना रौद्ररसं लक्षयति - अथ रौद्रो नामेति | आत्मग्रहणस्यायमाशयः | अन्यायकारिता प्राधान्येन क्रोधस्य विषयः | तादृशि च जने सर्वो (र्वे)ऽपि मनोरथैरपि रुधिरपानमपि नामाद्रियन्ते | तथा चाह लोकः - तादृशो यदि लभ्यते तत्तदीयं रुधिरमपि पीत्वा न तृप्यते | महाकविना भासेनापि स्वप्रबन्ध उक्तम् - त्रेतायुगं तद्धि न मैथिली सा रामस्य रागपदवी मृदु चास्य चेतः | लब्धा जनस्तु यदि रावणमस्य कायं प्रोत्कृत्य तन्न तिलशो न वितृप्तिगामी || इति | तेन हास्यवत्साधारणविभावत्वाच्चर्वणापि क्रोधमययेवेति तद्रसनाचरणौ (चर्वणो) रौद्रः क्रोधात्मक एव | उद्रिक्तं हन्तृत्वं येषां त उद्धताः | तद्वेषधारिणो ये नटास्ते प्रकृतिश्चर्वणोदयहेतुरस्य | अत्र व्याचक्षते - युद्धहेतुक उद्धतमौष्येषु भीमसेनादिषु रुधिरपानादिलक्षणः | रक्षोदानवास्तु स्वभावरौद्रा इति | तदसत् | भीमस्य रुधिरपानं न युद्धहेतुकम् | अपि तु विपर्ययेण | उद्धतस्वभावत्वादेव ह्यसौ क्रोधपरवशः प्. ३१४) द्यानि कर्माणि | पुनश्च रक्तनयनभ्रुकुटीकरणदन्तोष्ठपीडनगण्डस्फुरणहस्ताग्रनिष्पे. सादिभिरनुभावैरभिनयः प्रयोक्तव्यः | सन्ननुचितमपि प्रतिज्ञातवान् | तन्निर्वाहायैव च राक्षसाधिष्ठानमस्य कविना वेणीसंहारे वर्णितम् | तस्मात्सर्व एवैते स्वभावात् क्रोधनाः | तदनुकारिणि नटे रौद्र आस्वाद्यत इति स तस्य प्रकृतिः | सङ्ग्रामहेतुक इति चायमर्थः - युद्धस्य कविनटप्रदर्श्यमानो हेतुकः कुस्तितहेतुः वीरो हि तस्योचितो हेतुर्न क्रोधः | तथा च प्राधान्येन युद्धेन वीर एव व्यपदेक्ष्यते | नन्वेते स्वभावक्रोधना अपि किमुद्दिपनमेक्षन्ते | ओमित्याह - स चेति | क्रोधादि परकर्तृकम् | आधर्षणं दारादिखलीकरणम् | अविक्षेपो देशजात्यभिजनविद्याकर्मनिन्दा | अनृतस्य कस्याप्यपसत्यस्य वचनम् | उपघातो गृहभृत्याद्युपमर्दनम् | वाक्पारुष्यं वधाद्युपन्यासेन तर्जनम् | अभिद्रोहो जिघांसा | मात्सर्य गुणेष्वसूया | आदिग्रहणाद्राज्यापहरणादि | एतैरुत्पद्यते कविना विभावत्वेन वर्ण्यमानैः | अस्य ताडनादीनि कर्माणि रक्तनयनादयोऽनुभावा इति पृथङ्निरूपणं तुल्येऽप्यनुभावत्वे विशेषख्यापनार्थम् | विशेषस्तु पूर्वेषां वचनमात्रेण व्यावर्णनम् | रङ्गे प्रत्यक्षतोऽप्रदर्शनीयत्वात् | यद्वक्ष्यते - युद्धं राज्यभ्रंशो मरणं नगरोपरोधनं चैव | अप्रत्यक्षकृतानि प्रवेशकैः संविधेयानि || इति || (ना. शा. १८-३८) रक्तनयनादि रङ्गे प्रत्यक्षेण कृतम् | प्रहरणाहरणं तु पूर्वत्र प्रमादपठितमिति केचित् | इदं तु पृथगभिधाने तुच्छं प्रयोजनम् | अयं चात्राशयः - रक्षोदानवोद्धतमनुष्या उद्दीपनहेतुभिर्विनाऽपि चेष्टितमात्रं यदपि कुर्वते नर्मगोष्ट्याद्यपि च तत्र ताडनादि प्रधानम् | तद्वक्ष्यति - यच्च किञ्चिदारभन्ते इति | उद्दिपनारम्भते ताडनादिग्रस्त एव रक्तनयनाद्यधिकीभवति | अत एव पुनश्शब्दः | तत्र ताडनं तलाद्यभिघातः | पाटनं द्विधाकरणम् | पीडनं मर्दनम् | (छेदनं) कर्तनम् | भेदनं परस्परं मित्रादि वियोजनम् | भावे ल्युङन्ता | प्रहरणानामासमन्ताद्धरणम् | प्. ३१५) भावाश्चास्यासम्मोहोत्साहावेगामर्षचपलतौग्र्यगर्वस्वेदवेपथुरो माञ्चगद्गदादयः | अत्राह - यदभिहितं रक्षोदानवादीनां रौद्रो रसः | किमन्येषां नास्ति | उच्यते - अस्त्यन्येषामपि रौद्रो रसः | किन्त्वधिकारोऽत्र गृह्यते | ते हि स्वभावत एव रौद्राः | कस्मात् | बहुबाहवो बहुमुखाः शस्त्रस्य सम्पातनमविदारयतोऽपि | सम्प्रहरणं विदारयतः पातनम् | तेन रुधिरस्याकर्षणम् | रक्षःप्रभृतयो हि नर्मणाऽपि प्रहरन्ति | किन्तु रुधिरागमनमात्रफलं न त्वधिकम् | रक्ते च ते नयने | भ्रुओर्मूलसमुत्क्षेपो भ्रुकुटी | दन्तोष्ठस्य यथायोगं पीडनम् | हस्ताग्रयोरन्योन्यनिष्पेषः सङ्घर्षणम् | भावा इति व्यभिचारिणः | असंमोहः सम्मोहविपरीतः | विरोधे नञ् | तत्रावृत्तिसङ्गृहीतः सम्यग्बोधः | उत्साहोऽत्र व्यभिचारी | क्रोधस्य प्राधान्येन रसनीयत्वात् | स्वेदादयो बाह्याः | आभ्यन्तर - सात्त्विकाभावेऽपि विषस्पर्शज्वरादिना भवन्ति | ततोऽनैकान्तिकाः | आन्तरा अनुद्रिक्ता व्यजनग्रहणादिभिः उद्रिक्ता बाह्यैः स्वेदादिभिर्व्यक्ता व्यभिचारिरूपाः पठिताः | एष्वेव रौद्ररस इत्यभिप्रायं गृहीत्वा चोदक आह - यदभिहितमिति | सिद्धान्ती त्वेषु रौद्रो भवत्येवेत्यभिप्रायेणाह - अस्त्यन्येषामिति | अन्येषां कविनटाभ्यां प्रयुज्यमानानां सम्बन्धी जन्यत्वेन | अधिकारोऽनुवृत्तिः | अत्रेति - राक्षादिषु | एतदेव व्यनक्ति - ते हीति | स्वभावशब्दानन्तरमेवकारेण भवन्त्येवेत्ययोगव्यवच्छेद एव सूचितः | स्वयं तेषां भवनं तत इत्यर्थः | तेनाङ्गरौद्रोपन्यासोऽप्यविरुद्धः | अन्यथा स्वभावरौद्र एव रक्ताक्षादिभिरभिधेयः स्यात् | न बहुबाहुमुखादि | तत्र राक्षादयोऽपि न परिजने सदा क्रुद्धा इति प्रतीयन्त इत्याशयेनाह कस्मादिति | प्. ३१६) प्रोद्धूतविकीर्णपिङ्गलशिरोजाः रक्तोद्वृत्तविलोचना भीमासितरूपिणश्चैव | यच्च किञ्चित्समारभन्ते स्वभावचेष्टितं वागङ्गादिकं तत्सर्वं रौद्रमेवैतेषाम् | शृङ्गारश्च तैः प्रायशः प्रसभं सेव्यते | तेषां चानुकारिणो ये पुरुषास्तेषामपि सङ्ग्रामसम्प्रहारकृतो रौद्रो रसोऽनुमन्तव्यः | अत्रानुवंश्ये आर्ये भवतः - अत्रोत्तरं बहुबाहवः इति | लोकप्रसिद्धाकारविपरीतो हि तेषामाकारः | तत्र च परविनाशनाभिसन्धिजनितं तपश्चर्यादिकं दृष्टं वा कर्म तेषां व्याप्रियते | अतस्तादृशेष्वदृ(सुदृ)ष्टेषु स एव क्रोधात्मकोऽभिसन्धिर्गम्यत इति सामाजिकानां नान्तर्दृ(कानान्तर्दृ)श्यते रौद्रास्वादः | तेन च रागादिव यत्क्रोधकाले दृष्टं तत्सदैव तेषामुद्वृत्तं तारकयोः रक्तविलोचनम् | अत एव भीममसितं कृष्णं सदैव रूपं येषाम् | नित्ययोग इनिः | अत एव च न बहुव्रीहिरत्र कृतः | (भीमासितरूपाः इति बहुव्रीहिपदप्रयोगह् न कृतः इत्यर्थः|) न केवलं कायस्तदीय इत्थं यावच्चेष्टितमपि तदीयं दृश्यमानं रौद्रास्वादजनकमेवेति दर्शयति - यच्चेति | स्वभावेनेति (वेति) | चित्तस्याविकारेऽपि यच्चेष्टितं वाचिकं कायिकं वा तदेषां ताडनादिप्रधानमिति दृश्यमानं काव्ये प्रयोगे च रौद्रास्वादहेतुः | वागङ्गे आदिकरणे यस्य | मानसं तु चेष्टितमप्रत्यक्षत्वान्नोक्तम् | सर्वमिति यदुक्तं तत्स्फुटयति - शृङ्गारश्चेति | शृङ्गारशब्देनात्र तद्विभावः प्रमदोद्यानादिः | सोऽपि तैः प्रसभमिति क्रूराकारतया सेव्यते | यत्रौग्र्यस्य वर्जनमुक्तं किं पुनरन्यदिति चशब्दस्यार्थः | तथा आ | सीते पतिगर्वविभ्रमह(भ)रभ्राम्यद्भ्रूः (उदात्तराघवनाटके) इत्याद्युदाहरणम् | तथा नानादेवसेवापि गाढाम्रेडं मलयमरुतः शृङ्खलादाम दत्त (बाल. रामा. ५-५१) इति रौद्ररसत्वेन कदाचिदनुनयेनापीति दर्शयति - प्रायश इति | प्. ३१७) युद्धप्रहारघातनविकृतच्छेदनविदारणैश्चैव | सङ्ग्रामसम्भ्रमाद्यैरेभिः सञ्जायते रौद्रः || ६४ || नानाप्रहरणमोक्षैः शिरःकबन्धभुजकर्तनैश्चैव | एभिश्चार्थविशेषैरस्याभिनयः प्रयोक्तव्यः || ६५ || इति रौद्ररसो दृष्टो रौद्रवागङ्गचेष्टितः | शस्त्रप्रहारभूयिष्ठ उग्रकर्मक्रियात्मकः || ६६ || ननूद्धतमनुष्येषु तर्हि कथं रौद्रादिविकारः | न हि ते बहुबाहुत्वादियुक्ता इत्याशङ्क्याह - तेषां चेति | राक्षसादीनाम् | अनुकारिण इति | तामसप्रकृतितया तत्सदृशा अनुगामित्वेन मन्तव्या इत्यर्थः | कथमित्याह- सङ्ग्रामेतिसम्प्रहारग्रहणेन पूर्वोक्तं ताडनपाटनादि गृह्यते | तेन बहुबाहुत्वाद्यभावेऽप्युद्धतमनुष्या वागङ्गचेष्टितेन क्रोधोचितेन रौद्रप्रकृतय इति लक्ष्यन्ते | एवं रक्षोदानवेत्यादावयोगव्यवच्छेदो निश्चितः | अन्येऽपि तु वीरप्रधाना अश्वत्थामजामदग्न्यादयः | तेषु कारणमहिम्ना भवत्येव क्रोधो रौद्रास्वादयोग्यः | राक्षसादीनामपि च हासशोकादिः स्वकारणोदितोऽभिभूतक्रोधः | हास्यकरुणादेश्चेह योगो भवत्येव | तेनैषां न रौद्र एव रसः | ननु सामाजिकानां तथाभूतराक्षसादिदर्शने कथं क्रोधात्मक आस्वादः ? उच्यते - हृदयसंवाद आस्वादः | क्रोधे च हृदयसंवादस्तामसप्रकृतीनामेव सामाजिकानामिति दानवादिसदृशास्तन्मयीभूता एवान्यायकारिविषयं क्रोधमास्वादयन्तीति न किञ्चिदवद्यम् | विकृतं यच्छेदनं व्यङ्गादिकरणम् | युद्धादीति परेण क्रियमाणौचित्यम् | तेन युद्धाद्यनुमितस्य परक्रोधादेर्विभावत्वमुक्तम् | सङ्ग्रामाय सम्भ्रमः | शस्त्राहरणे त्वरा | अनुभावानाह - नानेति | मारणप्राधान्यं नानाप्रहरणेन दर्शयति | शिरःकर्तनादिमृतशरीरस्यापि क्रोधातिशयं सूचयन्वीराद्भेदमाह | युद्धवीरेऽपि हि तन्नास्ति | इह तु प्. ३१८) अथ वीरो नामोत्तमप्रकृतिरुत्साहात्मकः | स चासंमोहाध्यवसायनयविनयबलपराक्रमशक्तिप्रतापप्रभावा दि-भिर्विभावैरुत्पद्यते | तस्य स्थैर्यधैर्यशौर्यत्यागवैशारद्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः | भावाश्चास्य धृतिमतिगर्वावेगौग्र्यामर्षस्मृतिरोमाञ्चादयः | अत्रार्ये रसविचारमुखे - वक्ष्यते - उग्रकर्मेति | उग्राण्यौग्र्यप्रधानानि यानि शिरःकर्तनादीनि तेषां या क्रिया अपनीतिः सा आत्मा प्रधानं यस्येति | भरतमुनिस्त्वेकेन श्लोकेनोपसंहरति - इति रौद्ररस इति || (६६) इति रौद्रसप्रकरणं समाप्तम् | अथ वीररसप्रकरणम् | क्रमप्राप्तं वीरं लक्षयति - (अथ वीरेति) संग्रामसम्प्रहारयोगो रौद्रेऽपीति वीरेऽजिघांसेति | आनन्तर्यमथशब्देनाह | उत्तमानां प्रकृतिः स्वभावो यत उत्साहोऽतो वीररसोऽपि तथा | यदि वा काव्ये नाट्ये च प्रयुज्यमान उत्तमप्रकृतिर्हेतुर्यस्य | उत्तमवर्णानां हि सर्वत्रोत्साह आस्वाद्यो भवति | अत एव चतुर्ष्वपि नायकेषु वीरत्वमनुयायित्वेन वक्ष्यते धीरोदात्त इत्यादि | यद्यपि सर्वो जन उत्साहवानेव | तथापि तदुत्साहस्याविषयप्रवृत्तत्वात्तदीयं चरितं काव्यनाट्ययोर्नोपदेश्यम् | यदीयं तु चरितमुपदेशार्हं तेषामुचित एवावसरे उत्साहाभिव्यक्तिः | उचितत्वं चावसरस्यासंमोहादिसम्पत्तिरिति सैव विभावत्वेनोपदिष्टा | असंमोहेनाध्यवसायो हि वस्तुतत्त्वनिश्चय इति मन्त्रशक्तिर्दर्शिता | असद्वस्त्वभिनिवेशोऽसंमोहो रावणादिगत उत्साहकारीत्यसत् | अशब्दार्थत्वात् | तत्रापि च पराक्रमनयादिरेव विभावः | सन्ध्यादिगुणानां सम्यक्प्रयोगो नयः | इन्द्रियजयो विनयः | बलं हस्त्यश्वरथपादातम् | प्. ३१९) उत्साहा(होऽ)ध्यवसायादविषादित्वादविस्मयामोहात् | विविधादर्थविशेषाद्वीररसो नाम सम्भवति || ६७ || स्थितिधैर्यवीर्यगर्वैरुत्साहपराक्रमप्रभावैश्च | वाक्यैश्चाक्षेपकृतैर्वीररसः सम्यगभिनेयः || ६८ || पराक्रमः परकीयमण्डलाद्याक्रमेणावस्कन्दः | युद्धादिके सामर्थ्यं शक्तिः | प्रतापः शत्रुविषये सन्तापकारिणी प्रसिद्धिः | प्रभावोऽभिजनधनमन्त्रिसम्पत् | आदिग्रहणेन यशःप्रभृति | एते च सम्पूर्णस्वभावा एव विभावा भवन्ति | उत्तमस्य कदाचित्कश्चिदधिक इति पृथक्पृथगुदाहरणमसत् | वस्तुतो ह्यत्रोदाहरणं सर्वमेव रामादिचरितम् | सचिवायत्तसिद्धौ च वत्सराजप्राये नायके यथायोगं सचिवगता अप्येते मन्तव्याः | प्रतिनायकगता अपि च ते उत्साहव्यञ्जका इति यथायोगं व्यस्तसमस्तभेदकल्पनं कविना कार्यम् | स्थैर्यमचलनम् | गाम्भीर्यकृतं संवरणं धैर्यम् | शौर्य युद्धादिक्रिया | त्यागो दानम् | वैशारद्यं सामाद्युपायचतुष्कस्यैकद्वित्रिचतुरादिभेदैर्यथाविषयं नियोजनम् | अर्थ्यते इत्यर्थः | कर्मणि घञ् | धर्मादि चतुर्वर्गः | कर्मव्युत्पत्त्यैव हि धर्मादयः पुरुषार्थाः इत्युच्यन्ते | पुरुषेणार्थनीयत्वात् | अर्थविशेषस्य विविधत्वं धर्मादिभेदात् | तदयमर्थः | विविधं धर्मादिरूपमर्थविशेषमभिसन्धायं अविषादित्वात् अविस्मयासंमोहश्चेति द्वन्द्वे एकवद्भावः | अविस्मयादसंमोहाच्च हेतोर्योऽध्यवसायो निश्चयः स चोत्साहयतीति णिजन्तात् पचाद्यजन्तत्वेन व्युत्पत्त्या उत्साहहेतुः | उत्साहश्चासावध्यवसायश्चेति कर्मधारयः | एतदुक्तं भवति - आपदि हृदयस्य निमग्नत्वं तत्परवशत्वं विषादित्वं स्वल्पेऽपि सन्तोषो विस्मयः | मिथ्याज्ञानं मोह एतत्त्रयमपास्य यस्तत्त्वनिश्चयः स एवोत्साहहेतुः प्रधानतया | रौद्रे तु ममताप्राधान्यादशास्त्रीयानुचितयुद्धाद्यपीति मोहविस्मयप्राधान्यम् | एवं च विषादित्वादित्रयापासनपूर्वकमुद्भूतेनाध्यवसायेन हेतुना य उत्साह उत्पद्यते स वीररसो नाम | स्थितिः स्थैर्यम् | वीर्यं शौर्यम् | गर्वपदेन तदनुभावो लक्ष्यते | उत्साहनमुत्साहोऽबलस्य विषण्णप्रायस्योत्तेजनं यथा सेतुबन्धकाव्ये | पराक्रमः पराक्रमणा | इत्थमत्र भवद्भिरासितव्यं योद्धव्यमिति बलस्य व्यापारणादितिकर्तव्यतायां भृत्यानां प्रभावना प्रभावसम्पादनम् | आक्षेपो वस्त्वन्तरस्य सूचनं तेन कृतानि तत्प्रधानानि यानि वाक्यानीति गम्भीरदुरवगाहार्थत्वं वाक्यानामित्युक्तम् | (६८) इति वीररसप्रकरणं समाप्तम् | प्. ३२०) अथ भयानको नाम भयस्थायिभावात्मकः | स च विकृतरवसत्त्वदर्शनशिवोलूकत्रासोद्वेगशून्यागारारण्यगमनस्व जनवधबन्धदर्शनश्रुतिकथादिभिर्विभावैरुत्पद्यते | तस्य प्रवेपितकरचरणनयनचपलपुलकमुखवैवर्ण्यस्वरभेदादिभिरनु- भावैरभिनयः प्रयोक्तव्यः | भावाश्चास्य स्तम्भस्वेदगद्गदरोमाञ्चवेपथुस्वरभेदवैवर्ण्यशङ्कामोहदैन् यावेगचापलजडतात्रासापस्मारमरणादयः | अत्रार्याः - अथ भयानकरसप्रकरणम् | वीरस्य भीतावयव(भीताभय)प्रधानत्वाद्भयानकं लक्षयति - अथेति | विकृतो रवोऽट्टहासादिः | सत्त्वानां पिशाचानां दर्शनम् | त्रासोद्वेगौ परगतौ | शून्यागारस्यारण्यस्य च गमनं प्राप्तिः | स्वजनस्य यौ बधबन्धौ तयोर्दर्शनं प्रत्यक्षेण | श्रवणमागमेन | कथाचिरातिक्रान्तयोरपि पुनरनुसन्धानेन स्मरणम् | वेपितुं प्रवृत्तं यत्करचरणं आ(तदा)दिकर्मैव भयव्यञ्जकं व्याध्यादिवैलक्षण्यसूचनात् | पुलको रोमकूपोन्नतिः | स्वरस्य भेदः स्वभावविपर्ययः | गुरुनृपयोरिति | अयमाशयः - भयं तावत्स्त्रीनीचबालादिषु वक्ष्यते | नोत्तममध्यमप्रकृतिषु | तेऽपि (उत्तममध्यमप्रकृतयोऽपि तु गुरुभ्यो राज्ञश्च (कृत्रिमं) भयं दर्शयेयुः | तद्भावेऽप्येषां सुतरामुत्तमत्वं भवति | अप्रभुत्वं चामात्यानाम् | यथाह - स्वेच्छाचारी भीत एवास्मि इति | (रत्ना. १.७) | अनुभावाश्च तथा श्लिष्टास्तत्र प्. ३२१) विकृतरवसत्त्वदर्शनसंग्रामारण्यशून्यगृहगमनात् | गुरुनृपयोरपराधात्कृतकश्च भयानको ज्ञेयः || ६९ || गात्रमुखदृष्टिभेदैरूरुस्तम्भाभिवीक्षणोद्वेगैः | सन्नमुखशोषहृदयस्पन्दनरोमोद्गमैश्च भयम् || ७० || एतत्स्वभावजं स्यात्सत्त्वसमुत्थं तथैव कर्तव्यम् | पुनरेभिरेव भावैह् कृतकं मृदुचेष्टितैः कार्यम् || ७१ || करचरणवेपथुस्तम्भगात्रहृदयप्रकम्पेन | शुष्कोष्ठतालुकण्ठैर्भयानको नित्यमभिनेयः || ७२ || क्रियन्ते लोके येन सत्यत एव भीतोऽयमिति गुर्वादीनां प्रतीर्भवति | अस्वाभाविकत्वाच्च कृतकत्वं बहुतरकालानुवर्तनेनास्वाद्यत्वाच्च रसत्वम् | न च व्यभिचारित्वम् | तद्धि तदा स्याद्यदि स्वभावत एव किञ्चित्काललवमुत्पद्यते (६९) | गात्रादीनां भेदो वर्णकर्मसंस्थानादिविपर्ययः | वीक्ष्यमति(भि)क्र(क्रा)म्यति वीक्षणं कान्दिशीकत्वेन निर्लक्षचक्षुःकृतम् | उद्वेग चलनम् | सादो गात्राणां स्रस्तता | मुखस्य तालुनि शोषः | हृदयस्पन्दनमतिवेगेन | इह भयमित्यभिनेयमिति वीररस इत्यार्यातः सम्बध्यते | ता एता ह्यार्या एकप्रघट्टकतया पूर्वाचार्यैर्लक्षणत्वेन पठिताः | मुनिना तु सुखसङ्ग्रहाय यथास्थानं निवेशिताः | सत्त्वसमुत्थमिति | सत्त्वं मनस्समाधानं तज्जन्मकमिति नटस्येयं शिक्षा | सा च सर्वविषयेति टीकाकारः | तदिदमसत् | कविनटशिक्षार्थमेव सर्वमिदं प्रकरणम् | लोके विभावानुभावाभिनयादिव्यवहाराभावात् | तस्मादयमत्रार्थः - प्. ३२२) अथ बीभत्सो नाम जुगुप्सास्थायिभावात्मकः | स चाहृद्याप्रियाचोक्षानिष्टश्रवणदर्शनकीर्तनादिभिर्विभावैरुत्पद्य अते | तस्य सर्वाङ्गसंहारमुखविकूणनोल्लेखननिष्ठीवनोद्वेजनादिभिरनुभ अवैर-भिनयः प्रयोक्तव्यः | भावाश्चास्यापस्मारोद्वेगावेगमओहव्याधिमरणादयः | अत्रानुवंश्ये आर्ये भवतः - एतत्तावद्भ्यं स्वभावजं रजस्तमःप्रकृतीनां नीचानामित्यर्थः | येऽपि च सत्त्वप्रधानास्तेषां सत्त्वसमुत्थं प्रयत्नकृतमेभिरेवानुभावैः कार्यम् किन्तु मृदुचेष्टितैः यतस्तत्कृतकम् | पुनःशब्दो विशेषद्योतकः | ननु च राजादिः किमिति गुर्वादिभ्यो भयं कृतं(तकं) दर्शयति | दर्शयित्वा किमिति मृदून् गात्रकम्पनादीन्प्रदर्शयति | किमिति च भयानक एव कृतकत्वमुक्तम् | सर्वस्य हि कृतकत्वमुक्तं भवति | यथा वेश्या धनार्थिनी कृतकां रतिमादर्शयति - इत्याशङ्क्य साधारणमुत्तरमाह - तथैव कायमिति | भये हि प्रदर्शिते गुरुर्विनीतं तं जानाति | मृदुच्.एष्तिततया चाधमप्रकृतिमेन न गणयति | कृतकशृङ्गाररत्यादेश्चोपदिष्टान्न काचित्पुरुषार्थसिद्धिः | तेनैव ह्युक्तेन प्रकारेण कार्यपुरुषार्थविशेषो लभ्यते | यत्र तु राजा न कृतकं परानुग्रहाय क्रोधविस्मयादीन्दर्शयति तत्र व्यभिचारितैव तेषां न स्थायितेत्येतदर्थसूचिकामेव गुरुवंशान्तरप्रसिद्धामार्यां पठति - करचरणेति | नित्यमिति | कृतकत्वेऽकृतकत्वे च | (७२) इति भयानकरसप्रकरणम् || अथ बीभत्सरसप्रकरणम् || अवसरप्राप्तं बीभत्सरसं लक्षयति - अथेति | अहृद्यं हृद्यमपि किञ्चित्कस्यचिन्निसर्गतोऽप्रयतं (तोऽप्रियं) लशुनमिव द्विजानाम् | अप्रियं जात्यादिदोषात् | यथा श्लेष्मोपहतस्य क्षीरम् | अचोक्षं स्वरूपेणादुष्टमपि तु मलाद्युपहतम् | अनिष्टं यत्रानिशं भुक्तत्वेनेच्छा निवृत्ता | संहारः पिण्डीकरणम् | मुखस्येति तदङ्गानां सङ्कोचनम् | उल्लेखनमुल्लाघः | निष्ठिवनं कफनिरासनम् | प्. ३२३) अनभिमतदर्शनेन च गन्धरसस्पर्शशब्ददोषैश्च | उद्वेजनैश्च बहुभिर्बीभत्सरसः समुद्भवति || ७३ || मुखनेत्रविकूणनया नासाप्रच्छादनावनमितास्यैः | अव्यक्तपादपतनैर्बीभत्सः सम्यगभिनेयः || ७४ || अथाद्भुतो नाम विस्मयस्थायिभावात्मकः | स च दिव्यजनदर्शनेप्सितमनोरथावाप्त्युपवनदेवकुलादिगमनसभाविम अनमायेन्द्रजालसम्भावनादिभिर्विभावैरुत्पद्यते | तस्य नयनविस्तारानिमेषप्रेक्षणरोमाञ्चाश्रुस्वेदहर्षसाधुवाददानप् रबन्धहाहाकारबाहुवदनचेलाङ्गुलि भ्रमणादिभिरनुभावैरभिनयः प्रयोक्तव्यः | भावाश्चास्य स्तम्भा- उद्वेजनं गात्रोद्धूननन्म् | नासाप्रच्छादनं दुर्गन्धप्राये दृष्टम् | प्रतिघातादव्यक्तानि पादयोः पतनानि | यदि वाऽस्थिकङ्कालाद्याकुले पितृवने सञ्चरतोऽस्फुटितानि पादपतनानि क्वचिद्दीर्घाणि अन्यत्र ह्रस्वानि इति | (७४) इति बीभत्सरसप्रकरणम् || अथाद्भुतरसप्रकरणम् | सर्वत्रान्तेऽद्भुत इत्युक्तं लक्षयितुमाह - अथेति | दिव्या गन्धर्वादयः | ईप्सितः शक्यप्राप्तिरर्थः | अन्यो मनोरथः | तयोः प्राप्तिः | उपवने देवकुले च गमनम् | तस्याद्भुतविभावत्वं येन तत्रत्यं सरःसंनिवेशादि न क्वचित् दृष्टम् | सभा गृहविशेषः | विमानादीनि दिव्यरथाः | माया रूपपरिवर्तनादिका | इन्द्रजालं मन्त्रद्रव्यहस्त प्. ३२४) श्रुस्वेदगद्गदरोमाञ्चावेगसम्भ्रमजडताप्रलयादयः | अत्रानुवंश्ये आर्ये भवतः - यत्त्वतिशयार्थयुक्तं वाक्यं शिल्पं च कर्मरूपं वा | तत्सर्वमद्भुतरसे विभावरूपं हि विज्ञेयम् || ७५ || स्पर्शग्रहोल्लुकसनैर्हाहाकारैश्च साधुवादैश्च | वेपथुगद्गदवचनैः स्वेदाद्यैरभिनयस्तस्य || ७६ || युक्त्यादिना असमभवद्वस्तुप्रदर्शनम् | तस्येत्यद्भुतस्य | हर्षशब्देनात्र तदनुभावाः | साध्विति वदनं साधुवादः | दानं धनादेः | प्रबन्धं सततं कृत्वा हाहाशब्दस्य करणम् | चेलस्याङ्गुलेश्च भ्रमणम् | अतिशेत इत्यतिशयः | अन्यापेक्षया योऽर्थ उत्कृष्टः | तेन वाच्यभूतेन युक्तं यद्वाक्यं यच्च शिल्पं कर्मरूपं (प्रशस्त)कर्मात्मकं प्रशंसायां रूपप् | सर्वमित्येवंप्रकारमिति यावत् | स्पर्शग्रहशब्देन तद्विभावादयः | अभिनयो ल(व)क्ष्यमाणो लक्ष्यते | किञ्चिदाकुञ्चिते नेत्रे कृत्वा भ्रूक्षेपमेव च | तथांसगण्डयोः स्पर्शात्स्पर्शमेवं विनिक्षिपेत् || (ना. शा. २२.७७) इति | गात्रस्योर्ध्वं साह्लादं धूननमुल्लुकसनम् | बहुवचनं प्रकृतिभेदेन प्रकारवैचित्र्यं सूचयति || (७६) इत्यद्भुतरसप्रकरणं समाप्तम् | अथ प्रधानभूतविभावानुगुणभावप्रतिपादनं भेदप्रदर्शनव्याजेन करोति - शृङ्गारमित्यादिना | वाक्यरौद्रो हि तत्र स्वभावरौद्र इति व्यवहरिष्यते | स्वभावानुसारित्वाद्वा- प्. ३२५) शृङ्गारं त्रिविधं विद्याद्वाङ्नैपथ्यक्रियात्मकम् | अङ्गनैपथ्यवाक्यैश्च हास्यरौद्रौ त्रिधा स्मृतौ || ७७ || धर्मोपघातजश्चैव तथार्थापचयोद्भवः | तथा शोककृतश्चैव करुणस्त्रिविधः स्मृतः || ७८ || दानवीरं धर्मवीरं युद्धवीरं तथैव च | रसवीरमपि प्राह ब्रह्मा त्रिविधमेव हि || ७९ || क्यस्य | धर्मोपघतज उत्तमानामपि शोभ(च)नहेतुत्वात् | शोकशब्देन स्वजनादिनाशश्च एते त्रयो विभावाः | धर्मशब्देनाग्निष्टोमादिक्रिया | अत एतद्यजनादि न नियमेनानुभावात्मकम् | प्रतिनायकगतं तु विभावरूपमपि | व्याजादिति | कृतक इत्यर्थः | अनेनानुभावमार्दवं दर्शितम् | अपराध्यन्तीत्यपराद्धा(धा)श्चोरादयः | यत्तु स्वभावस्तहृदयानां स्त्रीबालादीनां तृणेऽपि कम्पमाने भयं तद्वित्रासितकम् | विशेषेण त्रास्यत इति वित्रासितो बालादिः | तत्प्रकृतित्वाद्भयानकं तथोक्तम् | ततः संज्ञायां कन् | गुर्वाद्यपराधात्परमार्थतोऽप्युत्तमानां भयावेग इति त्वसत् | भयं हि विनाशशङ्कात्मकं नोत्तमेषु संभवति | तथा च भयं नाम स्त्रीनीचप्रकृतिकमिति सामान्येन लक्ष्यते | रुधिरान्त्रादिदर्शनाद्यो बीभत्सः क्षोभणत्वाच्छुद्धः | यस्तु विष्ठादिभ्यः स उद्वेगी हृदयं चलयति सोऽशुद्धः | अशुद्धविभावकत्वात् | उपाध्यायस्त्वाह- बीभत्सस्तावद्विभावविशेषात् द्विविधः | यत्र तु संसारनाट्यनायकराग - प्रतिपक्षतया मोक्षसाधनत्वाच्छुद्धः | यदाहुः - शोकात्स्वाङ्गजुगुप्सा इति तथा वितर्कबाधने प्रतिपक्षभावनम् | (योगसू. २.४०, ३३) इति | तेन सोऽपि परमार्थतस्त्रिविध एव | द्वितीयक इत्यनेन तस्य दुर्लभत्वेनाप्राचुर्य सूचयति | प्. ३२६) व्याजाच्चैवापराधाच्च वित्रासितकमेव च | पुनर्भयानकस्यापि विद्यात् त्रिविधमेव हि || ८० || बीभत्सः क्सोभजः शुद्ध उद्वेगी स्यात् द्वितीयकः | विष्ठाकृमिभिरुद्वेगी क्षोभजो रुधिरादिजः || ८१ || द्विव्यश्चानन्दजश्चैव द्विधा ख्यातोऽद्भुतो रसः | दिव्यदर्शनजो दिव्यो हर्षादानन्दजः स्मृतः || ८२ || (अथ शान्तो नाम शमस्थायिभावात्मको मोक्षप्रवर्तकः | स तु तत्त्वज्ञानवैराग्याशयशुद्ध्यादिभिर्विभावैः समुत्पद्यते | तस्य यमनियमाध्यात्मध्यानधारणोपासनसर्वभूतदयालिङ्गग्रहण् आदिभिरनुभावैरभिनयः दिव्य इति | यत्र सभाविमानादयोऽनुभावाः | आनन्दयतीत्यानन्दो मनोरथावाप्त्यादिः | स एव हर्षयतीति हर्षः | एषु च शृङ्गारम् इत्यादिषु श्लोकेषु चकारा विभावानुभावान्तरनिरासशङ्कां पराक्र्तुम् | एवकाराः इयन्त एव तेषां मुख्यत्वेन सङ्गता इति दर्शनार्थाः | तथाशब्दा अनुक्तविभावाद्यूहनार्था इति यथायोगं योज्यम् | (८२) इत्यद्भुतरसप्रकरणं समाप्तम् | अथ शान्तरसविचारः | ये पुनर्नव रसा इति पठन्ति तन्मते शान्तस्वरूपमभिधीयते | तत्र केचिदाहुःशान्तः शमस्थायिभावात्मकस्तपस्यायोगिसम्पर्कादिभिः विभावैरुत्पद्यते | तस्य कामक्रोधाद्यभावरूपैरनुभावैरभिनयः | व्यभिचारी धृतिमतिप्रभृति (इति) | एतदपरे न सहन्ते | शमशान्तयोः पर्यायत्वात् | एकान्न(एकोन)पञ्चाशद्भावा इति सङ्ख्यात्यागात् | किञ्च विभावा ऋतुमाल्यादयस्तत्समनन्तरभाविनि शृङ्गारादावनुसन्धीयन्ते इति युक्तम् | तपोऽध्ययनादयस्तु न शान्तस्य समनन्तरहेतवः | प्. ३२७) प्रयोक्तव्यः | व्यभिचारिणश्चास्य निर्वेदस्मृतिधृतिसर्वाश्रमशौचस्तम्भरोमाञ्चादयः | अत्रार्याः श्लोकाश्च भवन्ति - मोक्षाध्यात्मसमुत्थस्तत्त्वज्ञानार्थहेतुसंयुक्तः | नैःश्रेयसोपदिष्टः शान्तरसो नाम सम्भवति || तत्त्वज्ञानस्यानन्तरहेतव इति चेत्पूर्वतरोदिततत्त्वज्ञानेऽपि तर्हि प्रयोज्यतेति तपोऽध्ययनादीनां विभावता त्यक्ता स्यात् | कामाद्यभावोऽपि नानुभावः | शा(अशा)न्ताद्विपक्षादव्यावृत्तेः | अगमकत्वात्प्रयोगासमवायित्वाच्च | न हि चेष्टाव्युपरमः प्रयोगयोग्यः | सुप्तमोहादयोऽपि हि निःश्वासोच्छ्वासपतनभूशयनादिभिश्चेष्टाभिरेवानुभाव्यन्ते | धृतिप्रभृतिरपि प्राप्तविषयोपभोगः कथं शान्ते स्यात् | न चाकिञ्चित्करत्वमात्रेण तत्त्वज्ञानोपाये व्युत्पाद्यन्ते विनेयाः | नैते परदुःखदुःखितमनसो दृश्यन्ते सम्यग्दर्शनसमावस्थां प्राप्ताः | अपि तु संसारे | तन्न शान्तो रस इति | अत्रोच्यते - यथा इह तावद्धर्मादित्रितयमेवं मोक्षोऽपि पुरुषार्थः | शास्त्रेषु स्मृतीतिहासादिषु च प्राधान्येनोपायतो व्युत्पाद्यत इति सुप्रसिद्धम् | यथा च कामादिषु समुचिताश्चित्तवृत्तयो रत्यादिशब्दवाच्याः कविनटव्यापारेणास्वादयोग्यताप्रापणद्वारेण तथाविधहृदयसंवादवतः सामाजिकान्प्रति रसत्वं शृङ्गारादितया नीयन्ते तथा मोक्षाभिधानपरमपुरुषार्थोचिता चित्तवृत्तिः किमिति रसत्वं नानीयत इति वक्तव्यम् | या चासौ तथाभूता चित्तवृत्तिः सैवात्र स्थायिभावः | एतत्तु चिन्त्यम् | किं नामासौ - तत्त्वज्ञानोत्थितो निर्वेद इति केच्ति | तथा हि - दारिद्र्यादिप्रभवो यो निर्वेदः स तओऽन्य एव | हेतोस्तत्त्वज्ञानस्य वैलक्षण्यात् | स्थायिसञ्चारिमध्ये चैतदर्थमेवायं पठितः | अन्यथा माङ्गलिको मुनिस्तथा न पठेत् | जुगुप्सां च व्यभिचारित्वेन शृङ्गारे निषेधन्मुनिर्भावानां सर्वेषामेव स्थायित्वसञ्चारित्वचित्तोपात्तत्वानुभावस्थत्वान्नि(भावत्वानि) योग्यतोपनिपातितानि शब्दार्थबलाकृष्टान्यनुजानाति | तत्त्वज्ञानजश्च निर्वेदः स्थाययन्तरोपमर्दकः | (उपमर्दक)भाववैचित्र्यसहिष्णुभ्यो रत्यादिभ्यो यः परमः स्थायिशीलः स एव हि स्थाययन्तराणामुपमर्दकः | इदमपि प्. ३२८) बुद्धीन्द्रियकर्मेन्द्रियसंरोधाध्यात्मसंस्थितोपेतः | सर्वप्राणिसुखहितः शान्तरसो नाम विज्ञेयः || न यत्र दुःखं न सुखं न द्वेषो नापि मत्सरः | समः सर्वेषु भूतेषु स शान्तः प्रथितो रसः || भावा विकारा रत्याद्याः शान्तस्तु प्रकृतिर्मतः | पर्यनुयुञ्जते - तत्त्वज्ञानजो निर्वेदो(प्यव)(दोऽस्य च) स्थायीति वदता तत्त्वज्ञानमेवात्र विभावत्वेनोक्तं स्यात् | वैराग्यसबीजादिषु कथं विभावत्वम् ? तदुपायता(त्वा)दिति चेत्कारणकारणो(णे)ऽयं विभावताव्यवहारः | स चातिप्रसङ्गावहः | किञ्च निर्वेदो नाम सर्वत्रानुपादेयताप्रत्ययः वैराग्यलक्षणस्य च (णः | स च) तत्त्वज्ञानस्य प्रत्युक्तो(तो)पयोगी | विरक्तो हि तथा प्रयतते यथाऽस्य तत्त्वज्ञानमुत्पद्यते | तत्त्वज्ञाद्धि मोक्षः | न तु तत्त्वं ज्ञात्वा निर्विद्यते निर्वेदाच्च मोक्ष इति | वैराग्यात्प्रकृतिलयः | इति हि तत्र भवन्तः(ई. कृ. सांख्यकारिका. ४५.) | ननु तत्त्वज्ञानिनः सर्वत्र दृढतरं वैराग्यं दृष्टम् | तत्रभवद्भिरप्युक्तं - तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् इति (योगसूत्र- १-१६) | भवत्येवम् | तादृशं तु वैराग्यं ज्ञानस्यैव परा काष्ठा | इति (व्यासभाष्य - १-१६) भुजङ्गविभुनैव भगवताऽभ्यधायि | ततश्च तत्त्वज्ञानमेवेदं तत्त्वज्ञानमालया परिपोष्यमाणमिति न निर्वेदः स्थायी | किन्तु तत्त्वज्ञानमेव स्थायीति भवेत् | यत्तु व्यभिचारिव्याख्यानावसरे वक्ष्यते तच्चिरकालविभ्रमविप्रलब्धस्योपादेयत्वनिवृत्तये | यत्सम्यग्ज्ञानम् - यथा - वृथा दुग्धोऽन.वांस्स्तनभरनता गौरिति परं परिष्वक्तः षण्ढो युवतिरिति लावण्यरहितः | कृता वैडूर्याशा विकचकिरणे काचशकले मया मूढेन त्वां कृपणमगुणज्ञं प्रणमता || इति प्. ३२९) विकारः प्रकृतेर्जातः पुनस्तत्रैव लीयते || स्वं स्वं निमित्तमासाद्य शान्ताद्भावः प्रवर्तते | पुनर्निमित्तापाये च शान्त एवोपलीयते || एवं नवरसा दृष्टा नाट्यज्ञैर्लक्षणान्विताः |) तन्निर्वेदस्य खेदरूपस्य विभावत्वेन | एतच्च तत्रैव वक्ष्यामः | ननु मिथ्याज्ञानमूलो विषयगन्धस्तत्त्वज्ञानात्प्रशाम्यतीति दुःखजन्मसूत्रेणाक्षपादपादैर्वदद्भिर्मिथ्याज्ञानापचयकारणं तत्त्वज्ञानं वैराग्यस्य दोषापायलक्षणस्य कारणमुक्तम् | ननु ततः किम् ? ननु वैराग्यं निर्वेदः ? क एवमाह ? निर्वेदो हि शोकप्रवाहप्रसररूपश्चित्तवृत्तिविशेषः | वैराग्यं तु रागादीनां प्रध्वंसः | भवतु वा वैराग्यमेव निर्वेदः | तथापि तस्य स्वकारणवशानमध्यभाविनोऽपि न मोक्षे साध्ये सूत्रस्थानीयता प्रत्यपादि आचार्येण | किञ्च तत्त्वज्ञानोत्थितो निर्वेद इति शमस्यैवेदं निर्वेदनाम कृतं स्यात् | न च शमशान्तयोः पर्यायत्वमाशङ्कनीयम् | हासहास्ययोरिव सिद्धसाध्यतया लौकिकालौकिकतया साधारणासाधारणतया च वैलक्षण्यात् | शमशान्तयोरपि सुलभमेव तस्मान्न निर्वेदः स्थायीति | अन्ये मन्यन्ते रत्यादय एवाष्टौ चित्तवृत्तिविशेषा उक्ताः | त एव कथितविभावविविक्तया(तया) श्रुता(त्या)द्यलौकिकविभावविशेषसंश्रया विचित्रा एव तावत् | ततश्च तन्मध्यादेवान्यतमोऽत्र स्थायी | तत्राना(व्या)हतानन्दमयस्वात्मविषया रतिरेव मोक्षसाधनमिति सैव शास्त्रे रतिस्थायी | यथोक्तम् - यश्चात्मरतिरेव स्यादात्मतृप्तश्च मानवः | आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते || (गीता ३-१७) | एवं समस्तविषयं वैकृतं पश्यतो विश्वं च शोच्यं विलोकयतः सांसारिकं च वृत्तान्तमपकारित्वेन पश्यतः सातिशयमसम्मोहप्रधानं वीर्यमाश्रितवतः सर्वस्माद्विषयसार्थाद्विभ्यतः सर्वलोकस्पृहणीयादपि प्रमदादेर्जुगुप्समानस्यापूर्वस्वात्मातिशयलाभाद्वि प्. ३३०) स्मयमानस्य मोक्षसिद्धिरिति | (रतिहासादीनां विस्मयान्तानामन्यतमस्य स्थायित्वं निरूपणीयम् | न चैतन्मुनेर्न सम्मतम् | यावदेव हि विशिष्टान् भावान्परिगणयति रत्यादिशब्देन च तत्प्रकारानेवान्संगृह्णीते तावदेव तद्व्यतिरिक्तालौकिकहेतूपनतानां रत्यादीनामनुजानात्येवापवर्गविषयत्वम् | एवंवादिनां तु परस्परमेव विशारयतामेकस्य स्थायित्वं विशीर्यत एव | तदुपायभेदात्तस्य तस्य स्थायित्वमित्यप्युच्यमानं प्रत्युक्तमेव | स्थायिभेदेन प्रतिपुरुषं रसस्याप्यानन्त्यापत्तेः | मोक्षैकफलत्वादेको रस इति चेत् | क्षयिकफलत्वे वीररौद्रयोरप्येकत्वं स्यात् | अन्ये तु पानकरसवदविभागं प्राप्ताः सर्व एव रत्यादयोऽत्र स्थायिन इत्याहुः | चित्तवृत्तीनामयुगपद्भावादन्योन्यं च विरोधादेतदपि न मनोज्ञम् | कस्तर्ह्यत्र स्थायी | उच्यते - इह तत्त्वज्ञानमेव तावन्मोक्षसाधनमिति तस्यैव मोक्षे स्थायिता युक्ता | तत्वज्ञानं च नामात्मज्ञानमेव | आत्मनश्च(श्चा)व्यतिरिक्तमिन्द्रिय(क्तं स्याद)स्यैव ज्ञानम् ? परो ह्येवमात्माऽनात्मैव स्यात् | विपञ्चितं चैतदस्मद्गुरुभिः | अस्माभिश्चान्यत्र वितन्यत इतीह नातिनिर्बन्धः कृतः | तेनात्मैव ज्ञानानन्दादिविशुद्धधर्मयोगी परिकल्पितविषयोपरागरहितोऽत्र स्थायी | न चास्य स्थायितयास्थायित्वं वचनीयम् | रत्यादयो हि तत्तत्कारणान्तरोदयप्रलयोत्पद्यमाननिरुध्यमानवृत्तयः कञ्चित्कालमापेक्षिकतया स्थायिरूपात्मभित्तिसंश्रयाः षट्(सन्तः) स्थायिन इत्युच्यन्ते | तत्त्वज्ञानं तु सकलभावान्तरभित्तिस्थानीयं सर्वस्थायिभ्यः स्थायितमं सर्वाः रत्यादिकास्स्थायिचित्तवृत्तिर्व्यभिचारीभावयत् निसर्गत एव सिद्धस्थायिभावमिति तन्त्रवचनेन | अत एव पृथगस्य गणना न युक्ता | न हि खण्डमुण्डयोर्मध्ये तृतीयं गोत्वमिति गण्यते | तेनैकान्न(नैकोन)पञ्चाशद्भावा इत्यव्याहतमेव | अस्यापि कथं (न) पृथग्गणनेति चेत् - पृथगास्वाद(दा)योगादिति ब्रूमहे | न हि रत्यादय इवेतरासम्पृक्तेन वपुषा तथाविधमात्मरूपं लौकिकप्रतीतिगोचरः(रम्|) स्वगतमप्यविकल्परूपं व्युत्थानावसरेऽनुसन्धीयमानं चित्तवृत्त्यन्तरकलुषमेवावभाति | भासतां वा लोके तथा | तथापि न सम्भवन्मात्र स्थायिनां गणनम् | रसेषूक्तेष्वनुपयोगात् | अपि तु व्यभिचारित्वाल्लक्षणीयत्वं नेति विज्ञायते | तथाह्यकान्न(ह्येकोन)पञ्चाशत्ता भावैरित्येतत्प्रघट्टकोपपत्तिः | न चास्यात्मस्वभावस्य व्यभिचारित्वमसम्भवादवैचित्र्यावहत्वादनौचित्याच्च | शम आत्मस्वभावः स शम शब्देन प्. ३३१) मुनिना व्यपदिष्टः | यदि तु स एव शमशब्देन व्यपदिश्यते निर्वेदशब्देन वा तन्न कश्चिद्बाधः | केवल शमश्चित्तवृत्यन्तरम् | निर्वेदोऽपि दारिद्र्यादिविभावान्तरोत्थितनिर्वेदतुल्यजातीयो न भवति तज्जातीय एव | हेतुभेदेऽपि तद्व्यपदेश्यो रतिभयादिरिव | तदिदमात्मस्वरूअप्मेव तत्त्वज्ञानं शमः | तथा च यत्कालुष्योपरागविशेषा एवात्मनो रत्यादयः | तदनुगमेऽपि विशुद्धमस्य रूपमव्यवधानसमाधिबलादधिशयय व्युत्थानेऽपि प्रशान्तता भवति | यथोक्तं (तस्य) प्रशान्तवाहिता संस्कारात् (योगसू. ३.१०) इति | तत्त्वज्ञानलक्षणस्य च स्थायिनः समस्तोऽयं लौकिकालौकिकचित्तवृत्तिकलापो व्यभिचारितामभ्येति | तदनुभावा एव च यमनियमाद्युपकृता अनुभावा उपाङ्गाभिनयाद्यध्यायत्रये च ये स्वभावाभिनया वक्ष्यन्ते | अत एते एतद्विषया एव | अयमेव हि स्वभावः | विभावा अपि कथं ईश्वरानुग्रहप्रभृतयः प्रक्षयोन्मुखाश्च रत्यादयोऽत्रास्वद्यान्ते | केवलं यथा विप्रलम्भे औत्सुक्यं संभोगेऽपि वा प्रेमासमाप्तोत्सवम् (तापसवत्सराज. १-१७) इति यथा च रौद्रे औग्र्यं यथा च करुणवीरभयानकाद्भुतेषु निर्वेदधृतित्रासहर्षा व्यभिचारिणोऽपि प्राधान्येनावभासन्ते तथा शान्ते जुगुप्साद्याः सर्वथैव रागप्रतिपक्षत्वात् | तथा हि - महाव्रते नृकपालादिधारणम् - असुभार्यादिसम्बन्धादि विस्तारसंक्षेपादिकर्मीकृतिर्हि धर्मे (?) जुगुप्साहेतुत्वेनैव | निजाभ्यञ्जनदेवरात्पुत्रजन्मान्युपदिष्टम् | स्वात्मनि च कृतकृत्यस्य परार्थघटनायामेवोद्यम इत्युत्साहोऽस्य परोपकारविषयेच्छाप्रयत्नरूपो दयापरपर्यायोऽभ्यधिकोऽन्तरङ्गह् | अत एव (एतद्व्याभिचारिबलात् ?) केचिद्दयावीरत्वेन व्यपदिशन्ति | अन्ये धर्मवीरत्वेन | ननूत्साहोऽहङ्कारप्राणः | शान्तस्त्वहङ्कारशैथिल्यात्मकः | व्यभिचारित्वं इ विरुद्धस्यापि न नोचितं रताविव निर्वेदादेः | शयया शाद्वलम् (आसनं शुचि शिला सद्म द्रुमाणामधः शीतं निर्झरवारि पानमशनं कन्दाः सहाया मृगाः | इत्यप्रार्थितसर्वलभ्यविभवे दोषोऽयमेको वने दुष्प्रापार्थिनि यत्परार्थघटनावन्ध्यैर्वृथा स्थीयते ||) (नागानन्द. ४.२) इत्यादौ प्. ३३२) हि परोपकारकरणे ह्युत्साहस्यैव प्रकर्षो लक्ष्यते | न तूत्साहशून्या काचिदप्यवस्था | इच्छाप्रयत्नव्यतिरेकेण पाषाणतापत्तेः | यत एव परिदृष्टपरापरत्वेन स्वात्मोद्देशेन कर्तव्यान्तरं नावशिष्यते अत एव शान्तहृदयानां परोपकाराय शरीरसर्वस्वादिदानं न शास्त्रविरोधि | आत्मानं गोपायेत् (गौतमधर्मसूत्र ९.३५) इत्यादिना ह्यकृतकृत्यविषयं शरीररक्षणमुपदिश्यते | सन्न्यासिनां तद्रक्षादितात्पर्याभावात् | तथा हि - धर्मार्थकाममोक्षाणां प्राणाः संस्थितिहेतवः | तान्निघ्नता किन्न हतं रक्षता किं न रक्षितम् || (हितोपदेश - १.८३) इति सुप्रसिद्धचतुर्वर्गसाधकत्वमेव देहरक्षायाः निदानं दर्शितम् | कृतकृत्यस्य जलेऽग्नौ श्वभ्रे वा पतेत् इति सन्न्यासित्वे श्रवणात् | तद्यथाकथञ्चित्त्याज्यं शरीरं यदि परार्थं तत्त्यज्यते तकिमिव न सम्पादितं भवति | जीमूतवाहनादीनां न यतित्वमिति चेत् किं तेन नः ? तत्त्वज्ञानित्वं तावदवश्यमस्ति | अन्यथा देहात्ममानिनां देह एव सर्वस्वभूते धर्माद्यनुद्देशेन परार्थे त्यागस्यासम्भवात् | युद्धेऽपि हि न वीरस्य देहत्यागायोद्यमः | परावजयोद्देशेनैव प्रवृत्तेः | भृगुपतनादावपि शुभतरदेहान्तरसम्पिपादयिषैवाधिकं विजृम्भते | तत्स्वार्थानुद्देशेन परार्थसम्पत्त्यै यद्यच्चेष्टितं देहत्यागपर्यन्तमुपदेशदानादि तत्तदलब्धात्मतत्त्वज्ञानानामसम्भाव्यमेवेति तेऽपि तत्त्वज्ञानिनः | ज्ञानिनां सर्वेष्वाश्रमेषु मुक्तिः इति स्मार्तेषु श्रुतौ च | यथोक्तम् - देवार्चनरतस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः | श्राद्धं कृत्वा ददद्द्रव्यं गृहस्थोऽपि हि मुच्यते || इति | केवलं परार्थाभिसन्धिजाद्धर्मात्परोपकारात्मकफलत्वेनैवाभिसंहितात् पुनरपि देहस्य तदुचितस्यैव प्रादुर्भावो बोधिसत्त्वादीनां तत्त्वज्ञानिनामपि | दृष्टश्चाङ्गेष्वपि विश्रान्तिलाभः स्वभावौचित्यात् | यथा रामस्य वीराङ्गे पितुराज्ञां पालयितुः | एवं शृङ्गाराद्यङ्गेष्वपि मन्तव्यम् | अत एव शान्तस्य स्थायित्वेऽप्यप्राधान्यम् | जीमूतवाहने त्रिवर्गसम्पत्तेरेव परोपकृतिप्रधानायाः फलत्वात् | अनेनैवाशयेन नाटकलक्षणे वक्ष्यते ऋद्धिविलासादिभिर्गुणैः (ना. शा. १८-११) इति | अनेन हि ऋद्धिविलासप्रधानमर्थकामोत्तरं सर्वं चरितं सकललोकहृदयसंवादसुन्दरप्रयोजनं नाटके निवेशयितव्यमित्युक्तम् | एतच्च तत्रैव वर्णयिष्यामः | प्. ३३३) अनेनैव चाशयेन न शान्ते कश्चन मुनिना जात्यङ्गको विनियोक्ष्यते (ना. शा. २९.१-४) | तेन जात्यङ्गकविनियोगाभावात्तदसत्त्वमिति प्रत्युक्तम् | अन्ये तु जीमुतवाहनः कस्ते पुत्र त्राता भविष्यति (नागनन्द. ४-९) इति शरणार्थिनीं वृद्धामेव त्रातवान् | शक्तिश्चास्य न काचित् | परहिंसा च न काचिदित्येवमाहुः | तच्चानुमतमेव (तच्चासऽऽगतमेव?) | न हि बोधिसत्त्वानां पुनरप्युत्थानात्मकजीवितमभिसन्धानानुप्रविष्टं शक्ति(श्चोदेति) | न च काकतालीयवृत्त्या शास्त्रमुपदिशति | तत्सिद्धं दयालक्षणो ह्युत्साहोऽत्र प्रधानम् | अन्ये तु व्यभिचारिणो यथायोगं भवन्ति | यथोक्तं तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः | (योगसू. ४-२७) इति | अत एव निश्चेष्टत्वादनुभावाभाव इति प्रत्युक्तम् | यदा तु पर्यन्तभूमिकालाभेऽनुभावाभावस्तदास्याप्रयोज्यत्वम् | रतिशोकादावपि पर्यन्तदशायामप्रयोगस्यैव युक्तत्वा | हृदयसंवादोऽपि तथाविधतत्त्वज्ञानबीजसंस्कारभावितानां भवत्येव | यद्वक्ष्यति - मोक्षे चापि विरागिणः (ना. शा. २७-५८) इति | सर्वस्य न सर्वत्र हृदयसंवादो भयानके वीरप्रकृतेरभावात् | ननु तादृशि प्रयोगे वीरस्य क आस्वादः | उच्यते - यत्रेयं(त्रायं) निबध्यते तत्रावश्यं पुरुषार्थोपयोगिशृङ्गारवीराद्यन्यतममस्त्येव | तन्निष्ठस्तेषामास्वादः | यत्रापि प्रहसनादौ हास्यादेः प्रधानता तत्राप्यनुनिष्पादितरसान्तरनिष्ठ एवास्वादः | भिन्नभिन्नधिकार्यास्वादोद्देश एव रूपकभेद चिन्तननिमित्तमिति केचित् | तस्मादस्ति शान्तो रसः | तथा च चिरन्तनपुस्तकेषु स्थायिभावान् रसत्वमुपनेष्यामः (ना. शा. पु. २९९) इत्यनन्तरं शान्तो नाम शमस्थायिभावात्मकः (ना. शा. पु. ३३२) इत्यादिशान्तलक्षणं पठ्यते | तत्र सर्वरसानां शान्तप्राय एवास्वादो विषयेभ्यो विपरिवृत्त्याऽतर्न्मुखतालाभात्केवलं वासनान्तरोपहित इत्यस्य सर्वप्रकृतित्वाभिधानाय पूर्वमभिधानम् | लोके च पृथक्पृथक्सामान्यस्य न गणनमिति स्थाययस्य पृथङ्नोक्तः | सामान्यमपि तु विवेचकेन पृथगेव गणनीयमिति विवेचकाभिमतसामाजिकास्वादलक्षणप्रतीतिविषयतया स पृथग्भूत एव | इतिहासपुराणाभिधानकोशादौ च नव रसाः श्रूयन्ते श्रीमत्सिद्धान्तशास्त्रेष्वपि | तथा चोक्तम् - प्. ३३४) अष्टानामिह देवानां शृङ्गारादीन् प्रदर्शयेत् | मध्ये च देवदेवस्य शान्तं रूपं प्रकल्पयेत् || (इति) | तस्य च वैराग्यसंसारभीरुतादयो विभावाः | स हि तैरुपनिबद्धैर्विज्ञायते | मोक्षशास्त्रचिन्तादयोऽनुभावाः | निर्वेदमतिस्मृतिधृत्यादयो व्यभिचारिणः | अत एवेश्वरप्रणिधानविषये भक्तिश्रद्धे स्मृतिमतिधृत्युत्साहाद्यनुप्रविष्टेभ्योऽन्यथैवा(स्यैवा)ङ्गमिति न तयोः पृथग्रसत्वेन गणनम् | अत्र सङ्ग्रहकारिका - मोक्षाध्यात्मनिमित्तस्तत्त्वज्ञानार्थहेतुसंयुक्तः | निःश्रेयसधर्मयुतः शान्तरसो नाम विज्ञेयः || विभावस्थाययनुभावयोगः क्रमाद्विशेषणत्रयेण दर्शितः | स्वं स्वं निमित्तमासाद्य शान्ताद्भावः प्रवर्तते | पुनर्निमित्तापाये तु शान्त एव प्रलीयते || इत्यादिना रसान्तरप्रकृतित्वमुपसंहृतम् | यत्तु डिमे शृङ्गारहास्यवर्जं हास्यशृङ्गारपरिहारेण षड्रसत्वं च वक्ष्यते तत्रायं भावः | दीप्तरसकाव्ययोनिः (ना. शा. १८-८५) इति भाविना लक्षणेन रौद्रप्रधाने तावड्डिमे तद्विरुद्धस्य शान्तस्य सम्भावनैव न | किं निषेधेन ? शान्तासम्भवे तु दीप्तरसकाव्ययोनिरित्येतेन किं व्यवच्छेद्यम् | शृङ्गारहास्यवर्जं षड्रसयुक्तः (ना. शा. १८-८४) इति ह्युक्ते कस्तत्र प्रसङ्गह् | ननु करुणबीभत्सभयानकप्राधान्यमनेन पादेन व्यवच्छेद्यते | नैतत् | सात्त्वत्यारभटीवृत्तिसम्पन्नः (१८-८८) इत्यनेनैव तन्निरासात् | शान्ते तु सात्वत्येव ऋत्तिरिति न (?) तद्व्यवच्छेदकमेवैतत् | तेन डिमलक्षणं प्रत्युत शान्तरसस्य सद्भावे लिङ्गम् | शृङ्गारस्तु प्रसभं सेव्यमानः सम्भाव्य एव | तदङ्गं च हास्य इति तयोरेव प्रतिषेधः कृतः प्राप्तत्वात् | स सर्वसाम्याच्च विशेषतो वर्णदेवताभिधानमनुचितमप्यस्य तत्कल्पितमिति ज्ञेयम् | उत्पत्तिस्तु शान्तस्यापि दर्शितैव | सत्त्वाभावो हि हास्यः | सहविभावत्वेन चास्य वीरबीभत्सौ | अत एवास्य रसस्य यमनियमेश्वरप्रणिधानाद्युपदेशः अनुपयो(भो)गितया महाफलत्वं सर्वप्राधान्यमितिवृत्तव्यापकत्वं चोपपन्नमित्यलमतिप्रसङ्गेन | तत्त्वास्वादोऽस्य कीदृशः ? उच्यते - उपरागदायिभिरुत्साहरत्यादिभिरुपरक्तं यदात्मस्वरूपं तदेव विरलोम्भितरत्नान्तरालनिर्भासमानसिततरसूत्रवदाभातस्वरूपं प्. ३३५) एवमेते रसा ज्ञेयास्त्वष्टौ लक्षणलक्षिताः | अत ऊर्ध्व प्रवक्ष्यामि भावानामपि लक्षणम् || ८३ || इति भारतीये नाट्यशास्त्रे रसाध्यायः षष्ठः || सकलेषु रत्यादिषूपरञ्जकेषु तथाभावेनापि सकृद्विभातोऽयमात्मेति न्यायेन भासमानं परोन्मुखतात्मसकलदुःखजालहीनं परमानन्दलाभसंविदेकत्वेन काव्यप्रयोगप्रबन्धाभ्यां साधारणतया निर्भासमानमन्तर्मुखावस्थाभेदेन लोकोत्तरानन्दघनं तथाविधहृदयं विधत्त इति | एवं ते नवैव रसाः | पुमर्थोपयोगित्वेन रञ्जनाधिक्येन वा इयतामेवोपदेश्यत्वात् | तेन रसान्तरसंभवेऽपि पार्षदप्रसिद्ध्या सङ्ख्यानियम इति यदन्यैरुक्तं तत्प्रत्युक्तम् | भावाध्यायेऽपि चैतद्वक्ष्यते | आर्द्रतास्थायिकः स्नेहो रस इति त्वसत् | स्नेहो ह्यभिषङ्गः | स च सर्वो रत्युत्साहादावेव पर्यवस्यति | तथा हि - बालस्य मातापित्रादौ स्नेहो भये विश्रान्तः | यूनोर्मित्रजने रतौ | लक्ष्मणादेः भ्रातरि स्नेहो धर्मवीर एव | एवं वृद्धस्य पुत्रादाविति द्रष्टव्यम् | एषैव गर्धस्थायिकस्य लौल्यरसस्य प्रत्याख्याने सरणिर्मन्तव्या | हासे वा रतौ वान्यत्र पर्यवसानात् | एवं बक्तावपि वाच्यमिति | अध्यायार्थमुपसंहरन् भाविनोऽवकाशं ददत्सङ्गतिं प्रकटीकर्तुमाह - एवमेते रसा ज्ञेया नवेति (स्त्वष्टाविति) | रसवद्गीतमित्यादिव्यपदेशात् स्तूयते | स (शास्तु ये ते रस? मूला एवोपचारा इति दर्शयति - लक्षणलक्षिता इति | भावानामपि लक्षणं रसलक्षणमेव पूरयति | विभावव्यभिचार्यनुभावलक्षणेन रसलक्षणमेव पूर्यते | रतिस्थायिभावप्रभवः ऋतुमाल्यादिविभावको नयनचातुर्याद्यनुभावक इत्युक्तमपि साकाङ्क्षमेव | कीदृशी हि रतिः कश्च विभावः कश्चानुभावः | तेन यद्यप्यापाततो भावानां लक्षणमिदं प्रतिभाति महाचार्या (साहचर्यात्) तथापि वाक्यैकवाक्यतया रसलक्षणमेवेदमित्यपिशब्दस्यार्थ इति शिवम् | इ(र)त्यादिशक्त्यष्टकमध्यवृत्तिर्यस्य स्वहृन्मण्डलसम्प्रयोज्या(ज्यः) | स्थायी शिवश्चेतसि तेन वृत्तिः कृता रसाध्याय इह क्रमेण || इति श्रीमहामाहेश्वराभिनवगुप्तविरचितायां नाट्यवेदविवृतावभिनवभारत्यां रसाध्यायः षष्ठः समाप्तः | प्. ३३६) श्रीः अथ सप्तमोऽध्यायः | भावानिदानीं व्याख्यास्यामः | अत्राह - भावा इति कस्मात् | किं भवन्तीति भावाः किं वा भावयन्तीति भावाः | उच्यते - वागङ्गसत्त्वोपेतान्काव्यार्थान्भावयन्तीति भावा इति | स्थायी प्रबुद्धहृदये व्यभिचारिभूतः कामाकुलासु जनतासु महानुभावः | अन्तर्विभावविषयो रसमात्रमूर्तिः श्रीमान्प्रसन्नहृदयोऽस्तु मम त्रिणेत्रः || भावानिदानीमिति | नन्वध्यायान्त एवैतदासूत्रितमिति किमनेन पुनरुक्तेन | भावाश्चापि कथं प्रोक्ताः (ना. शा. ६-३) इत्यत्रैव प्रश्ने कृते पुनरिहाध्याये किं भवन्ति इत्यादि च किमर्थमुच्यते | अत्र केचिदाहुः - भावाश्चापि इत्यध्यायादौ भावानामपि लक्षणम् इत्य - ध्यायान्ते च विभावादीनां सर्वे(षां) साधारण्येन प्रश्नप्रतिज्ञादि | अधुना तु विभावादिषु वक्तव्येषु प्रथमं तावत्प्राधान्याच्चित्तवृत्तिरूपाः स्थायिव्यभिचारिणो लक्षणीया इति तद्विषयैवेयं प्रतिज्ञा प्रशनश्च | वयं तु ब्रूमः - भावशब्देन तावच्चित्तवृत्तिविशेषा एव विवक्षिताः | तथा च एकोनपञ्चाशता भावैः इत्यादौ तानेवोपसंहरिष्यति | तेषां तु योग्यतावशाद्यथायोगं स्थायिसंचारिविभावानुभावरूपता संभवति | ये त्वेते ऋतुमाल्यादयो विभावा बाह्याश्च बाष्पप्रभृतयोऽनुभावा एकान्तजडस्वभावाः ते न भावशब्दव्यपदेश्याः | ननु रससंवित्स्वभावे निमज्जनादत एवोन्मज्जनाच्च तेऽपि संविदात्मकाः | एवं तर्हि विश्वमेव भावमयं स्यादुपचारात् विज्ञानवादाश्रयाद्वेत्यभिनयधर्म्यादीनां प्. ३३७) पृथक्तानुपपत्तिः | तस्मात्स्थायिव्यभिचारिसात्त्विका एव भावाः | विभावानुभावानां च प्रासङ्गिकं लक्षणम् | एतच्च वक्ष्यामः | यच्च पौनरुक्त्यं चोदितं तदसत् | तथा हि - रसाध्यायप्रारम्भे चोदितमङ्गमध्ये भावा अनुद्दिष्टा एव कथं तत्र तत्रोदीरिता इति | तन्निराकरणार्थमाह- भावानिति | यतोऽतीताध्यायान्ते भावानां लक्षणं रसलक्षणमेव अत इदानीमपि गतचोद्यांशकेऽवसरे भावान्वक्ष्यामो रसानामङ्गमध्ये पठितत्वादिति | ननु चित्तवृत्त्यात्मान एव चेद्भावास्तर्ह्येतुषु व्युत्पत्तिद्वयमपि संभाव्यते | तथा हि भवतिरभूतप्रादुर्भावे | प्रकर्षगतिश्च पुनरभिधानात् | तेन येऽन्तरतःअपूर्वतयैव प्रादुर्भवति न तु क्षणं व्यवतिष्ठते | ते(भ्यो) भावाश्चित्तवृत्त्यात्मा(नो)नुभावज्ञानस्य परिमितकालभावित्वात् | यदि वा भावयन्ति आस्वादनं कुर्वन्ति हृदयं व्याप्नुवन्तीति | ततश्च व्युत्पत्तिद्वयसंबहवनात्कथं भवन्ति इति पक्षमनाशङ्क्यैव किं वा ते भावयन्ति इति प्रश्नोऽयुक्त इत्यभिप्रायेणानुद्भिन्नमर्थ प्रश्नस्योद्भेदयन् प्रश्नार्थमेवानुभाषते - किं भवन्तीत्यादि | भवन्ति भावयन्ति वा | भावयन्तीति च किमेतत्कुर्वन्ति व्याप्नुवन्ति वा | तत्र च द्वयेऽपि किं कर्म | एवं प्रश्नार्थमनुभाष्योत्तरमाह - वागङ्गसत्त्वोपेतानित्यादि | कोः कवतेर्वा कवनीयं काव्यम् | तत्र च पदार्थवाक्यार्थौ रेसेष्वेव पर्यवस्यत इत्यसाधारण्यात्प्राधान्याच्च काव्यस्यार्थाः रसाः | अर्थ्यन्ते प्राधान्येनेत्यर्थाः | न त्वर्थशब्दोऽभिधेयवाची | स्वशब्दानभिधेयत्वं हि रसादीनां ध्वनिकारादिभिर्दशितम् | तच्च मदीयादेव तद्विवरणात्सहृदयालोकलोचनादवधारणीयम् | इह तु यथावसरं वक्ष्यत एव | एवं काव्यार्थान् रसान् भावयन्ति (संस्?)कुर्वते | स्थायिव्यभिचारिकलापेनैव ह्यास्वाद्योऽलौकिकार्थो निर्वर्त्यते | पूर्वं हि स्थाययादिकमवगच्छति ततः सर्वसाधारणतयाऽस्वादयति | तेन पूर्वावगमगोचरीभूतः सन्नुत्तरभूमिकाभागिन आस्वाद्यस्य भावको निष्पादक उच्यते | केन भावयन्तीति करणं दर्शयति - वागङ्गेति | वागादयस्तत्कर्मसु वर्तन्ते | तेन वर्णनाद्यात्मना वाचिकेन संनिवेशवलनादिनाङ्गिकेनान्तर्बहिरात्मना सात्त्विकेन करणभूतेनोपेतान् सम्बद्धान् | प्. ३३८) भू इति (ण्यन्तः) करणे धातुः तथा च भावितं वासितंकृतमित्यनर्थान्तरम् | लोकेऽपि च प्रसिद्धम् | अहो ह्यनेन गन्धेन रसेन वा करणं हि कर्मणि कर्तरि च यद्यपि संबध्यते तथापि(पी)हास्य प्राधान्यात्संबन्धदृशि करणत्वमेव दर्शयितुं तृतीयादि(यया) निर्दिश्यते - वागङ्गमुखरागेणेति | अत(त्र) * *?हार्यं तु यद्यपि नयत्कलताध्रुवायातोरङ्गमत् (नृत्यकलाध्रुवापातयोरन्तरङ्गं) तथापि तदनन्तरं चित्तवृत्त्यवगतौ वाचिकादीनामेवान्तरङ्गता | तथा हि काव्यादपि रसास्वादो भवतीत्युक्तम् | तत्र च न पूर्णताऽहार्यस्य | तेनास्य नोपादानम् | एतदुक्तं भवति - चित्तवृत्तय एव लौकिकाः वाचिकाद्यभिनयप्रक्रियारूढतया स्वात्मानमलौकिकदशयामास्वाद्यं कुर्वन्तीत्यतस्ता एव भावाः | भवतिर्ही ण्यन्तः प्रकृतं करोत्यर्थमाहेति दर्शयति - भू इतीति | त(च)कार उच्चारणार्थः | णिचा संबन्धेनेति इकारप्रत्यये सति भूधातुः करोत्यर्थे वर्तते | एतदेवोपसंहरति (भावितमिति) | अनर्थान्तरमिति | एकोऽर्थ इति यावत् | नन्वास्वाद्यान्तरान्तर्भाव्ये वाचिकादौ करणमितिकर्तव्यतांशे वक्तव्यमित्याशङ्क्य तन्त्रेण व्युत्पत्त्यन्तरं दर्शयन् तमाह - लोकेऽपि चेति | न केवलं भावितं कृतमिति लोके प्रसिद्धं यावद्व्याप्तमित्यपि | एतदपि चेत्यनेनोक्तम् | सर्वमित्येतद्गन्धरसमपि | ननु तत्रापि कृतमित्येवार्थोऽस्त्वित्याशङ्क्याह - तच्च व्याप्त्यर्थमिति | न हि कस्तूरिकागन्धेन वस्त्रं क्रियते | गुणस्यासंक्रान्ते | न च तत्सदृशगुणान्तरोत्पत्तिः | यावद्द्रव्यभावित्वद्गन्धादीनाम् | वस्त्रादौ च विनाशप्रतिपत्तेः | केवलं कस्तूरिकाद्रव्यमेव तावद्रूपदेशचैतन्याक्रमणस्वभावं वस्त्रादिकेऽपि तथा प्रतिपत्तिमाधत्ते | तद्वत्प्रकृतेऽपि | त एव हि वाचिकाद्या अभिनयाः प्रमुखदशायां देशकालविशेषगतत्वेन यद्यपि भान्ति तथापि नटस्य निर्गुणादिह न त(णत्वादिहत)त्त्वात् रामादेः पर(देरपर)मार्थसत्त्वात् भ्रान्तिज्ञानाभावाच्च नियततां विजहतः साधारणीभावमनुप्राप्ताः सामाजिकजनमपि प्. ३३९) सर्वमेव भावितमिति | तच्च व्याप्त्यर्थम् | श्लोकाश्चात्र - विभावेनाहृतो योऽर्थो ह्यनुभावैस्तु गम्यते | वागङ्गसत्त्वाभिनयैः स भाव इति संज्ञितः || १ || मृगमदामोददिशा व्याप्नुवन्ति स्वचित्तवृत्तिव्यापारद्वारेण | तेन भावयन्ति सामाजिकात्मानमिति भावाः | अथ व्युत्पत्त्यन्तरमपि दर्शयितुं प्राक्तनी च व्युत्पत्तिं संग्रहीतुमाह - श्लोकाश्चात्रेति | विभावो विषयः | तेन यः आहृतो निष्पादितः | तेन विभावापेक्षया भाव्यते क्रियत इति भावः | अनुभावानेभ्यो निरूपयति - वागङ्गेति | अन्ये तु वागङ्गसत्त्वाद्यभिनया येषामिति तद्गुणसंविज्ज्ञानेन बहुव्रीहिणा स्वाभिनयसहिता व्यभिचारिणो गृहीताः | तैरिति व्यभिचरिभिश्च भाव्यते मिश्रीकिर्यत इति व्यभिचारिणामपि च व्यभिचारिणो भवन्ति | यथा निर्वेदस्य चिन्ता श्रमस्य निर्वेद इत्यादि निरूपयन्ति | तच्चासत् | स्थायिनो हि व्यभिचारिता भवति | न तु व्यभिचारिणां स्थायिता | एवं हि सति तदास्वादे रसान्तरमपि स्यात् | यत्रापि व्यभिचारिणि व्यभिचार्यन्तरं संभाव्यते तद्यथा - पुरूरवस उन्मादेऽपि तर्कचिन्तादि तत्रापि रतिस्थायिभावस्यैव व्यभिचार्यन्तरयोगः | स केवलममात्यस्थानीयेनोन्मादेन कृतोपरागः | एतच्च यथा नरेन्द्र (ना. शा. ७-१०) इत्यत्र वक्ष्यामः | एवं लोकानुसारेण कविनटशिक्षोपयोगिना व्युत्पत्त्यन्तरमभिधाय सामाजिकाभिप्रायेण यो व्युत्पत्तिद्वयनिरूपितोऽर्थः तत्संग्रहाय श्लोकद्वयमाह - वागङ्गमुखरागेणेति | वागङ्गमुखरागात्मनाऽभिनयेन सत्त्वलक्षणेन चाभिनयेन करणेन कवेः साधारणं तदापि - (रणस्यापि) वर्णनानिपुणस्य यः अन्तर्गतोऽनादिप्राक्तनसंस्कारप्रतिभानमयो न तु लौकिकविषयजो रागान्त(गस्स) एव देशकालादिभेदाभावात्सर्वसाधारणीभावेनास्वादयोग्यस्तं प्. ३४०) वागङ्गमुखरागेण सत्त्वेनाभिनयेन च | कवेरन्तर्गतं भावं भावयन्भाव उच्यते || २ || नानाभिनयसंबद्धान्भावयन्ति रसानिमान् | यस्मात्तस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः || ३ || अथ विभाव इति कस्मात् | उच्यते - विभावो विज्ञानार्थः | विभावः कारणं निमित्तं हेतुरिति पर्यायाः | विभाव्यन्तेऽनेन वागङ्गसत्त्वाभिनया इत्यतो विभावः | यथा विभावितं विज्ञातमित्यनर्थान्तरम् | भावयन् आस्वदयोग्यीकुर्वन् भावश्चित्तवृत्तिलक्षण एवोच्यते | सत्त्वं चितैकाग्र्यं तज्जनितं च कृतकं बाष्पादिप्राप्त्यवस्थात्मकं चेति यथायोगं मन्तव्यम् | तदन्तर्भूतोऽपि वैवर्ण्यात्मा मुखरागः प्राधान्यात्पुनरुक्तः | यद्वक्ष्यति - शाखाङ्गोपाङ्गसंयुक्तः कृतोऽप्यभिनयः शुभः | मुखरागविहीनस्तु नैव शोभान्वितो भवेत् || (ना. शा. ८-१६५) इति | अथेतिकर्तव्यतां निरूपयितुं सङ्ग्रहश्लोकमाह - नानाभिनयेति | रसनयोग्यान् चित्तवृत्तिविशेषान् भावयन्ति गमयन्ति बोधयन्ति बुद्धिविषयान् प्रापयन्ति | इमान् सामाजिकान् | भावयतिः बुद्ध्यर्थत्वाद् द्विकर्मकः | अभिनयसहितानित्यभिनया अपि बुद्धिगोचरं नीयन्ते | इयमेव चासौ अधिवासनात्मा भावना तथा तथा रसान् रसनयोग्यान्निजेन योग्येन रूपेण भावयति यथा निर्वेदोपरक्ता रतिरौत्सुक्योपरक्तेति | तथा रसानलौकिकास्वादविषयान् स्थायिनोऽधिवसयति | लौकिकरतिवासनानुविद्धो हि शृङ्गारस इत्यादि | प्. ३४१) अत्र श्लोकः - बहवोऽर्था विभाव्यन्ते वागङ्गाभिनयाश्रयाः | अनेन यस्मात्तेनायं विभाव इति संज्ञितः || ४ || अथानुभाव इति कस्मात् | उच्यते - अनुभाव्यतेऽनेन वागङ्गसत्त्वकृतोऽभिनय इति | अत्र श्लोकः - वागङ्गाभिनयेनेह यतस्त्वर्थोऽनुभाव्यते | शाखाङ्गोपाङ्गसंयुक्तस्त्वनुभावस्ततः स्मृतः || ५ || विभावेनाहृत इत्युक्तम् - तत्र यद्यपि प्रकरणाच्चित्तवृत्त्युद्भवहेतुर्विषयो विभावशब्दस्यार्थ इति ज्ञातम् | तथापि तत्र प्रवृत्तिनिमित्तं जिज्ञासमानः तदेव प्रश्नयति - विभाव इतीति | कस्मात् | ऋतुमाल्यादयोऽत्र विभावशब्देन किमिति व्यपदिष्टा इति भावः | अत्रोत्तरं विभाव्यन्त इत्यादि | वागादयोऽभिनया येषां स्थायिव्यभिचारिणां ते वागाद्यभिनयसहिता विभाव्यन्ते विशिष्टतया ज्ञायन्ते यैस्ते विभावाः | अभिनयानामनेकहेतुजत्वम् | तद्यथा - हर्षादिभ्यो हासः | घर्मधूमरोगादिभ्यो बाष्पः | तद्बास्.पात्किं प्रतीयताम् | विभावात्तु झडित्येव निश्चयः | अत एव..... आश्रयाः इति | आगङ्गाभिनयद्वारेणैव स्थायिव्यभिचारिणां प्रतीतेः | अत एव व्याचष्टे प्रतीतिहेतव इति | वागाद्यभिनयाश्रया एव सन्तो विभाव्यन्ते न तु निराश्रया एकका इत्यर्थः | यदि हि वागाद्यभिनया विशिष्टतया न ज्ञायन्ते तदा स्थायिव्यभिचारिणोऽपि तथा न ज्ञायन्त इति | प्. ३४२) एवं ते विभावानुभावसंयुक्ता भावा इति व्याख्याताः | अतो ह्येषां भावानां सिद्धिर्भवति | तस्मादेषां भावानां विभावानुभावसंयुक्तानां लक्षणनिदर्शनान्यभिव्याख्यास्यामः | तत्र विभावानुभावौ लोकप्रसिद्धौ | लोकस्वभावानुगतत्वाच्च तयोर्लक्षणं नोच्यतेऽतिप्रसङ्गनिवृत्त्यर्थम् | भवति चात्र श्लोकः - लोकस्वभावसंसिद्धा लोकयात्रानुगामिनः | अनुभावा विभावाश्च ज्ञेयास्त्वभिनये बुधैः || ६ || तत्राष्टौ भावाः स्थायिनः | त्रयस्त्रिंशद्व्यभिचारिणः | अष्टौ सात्त्विका इति भेदाः | एवमेते काव्यरसाभिव्यक्तिहेतव एकोनपञ्चाशद्भावाः प्रत्यवगन्तव्याः | एभ्यश्च सामान्यगुणयोगेन रसा निष्पद्यन्ते | अत्र श्लोकः - योऽर्थो हृदयसंवादी तस्य भावो रसोद्भवः | शरीरं व्याप्यते तेन शुष्कं काष्ठमिवाग्निना || ७ || प्. ३४३) अत्राह - यदि काव्यार्थसंश्रितैर्विभावानुभावव्यञ्जितैरेकोनपञ्चाशद्भावैः सामान्यगुणयोगेनाभिनिष्पद्यन्ते रसास्तत्कथं स्थायिन एव भावा रसत्वमाप्नुवन्ति (इति) | उच्यन्ते - (एवमेतदिति |) यथा हि समानलक्षणास्तुल्यपाणिपादोदरशरीराः समानाङ्गप्रत्यङ्गा अपि पुरुषाः कुलशीलविद्याकर्मशिल्पविचक्षणत्वाद्राजत्वमाप्नुवन्ति तत्रैव चान्येऽल्पबुद्धयस्तेषामेवानुचरा भवन्ति तथा विभावानुभावव्यभिचारिणः स्थायिभावानुपाश्रिता भवन्ति | बह्वाश्रयत्वात्स्वामिभूताः स्थायिनो भावाः | तद्वत्स्थानीयपुरुषगुणभूता अन्ये भावास्तान्गुणतया श्रयन्ते | स्थायिभावा रसत्वमाप्नुवन्ति | परिजनभूता व्यभिचारिणो भावाः | अत्राह - को दृष्टान्त इति | यथा नरेन्द्रो बहुजनपरिवारोऽपि स एव नाम लभते नान्यः सुमहानपि पुरुषः तथा विभावानुभावव्यभिचारिपरिवृतः स्थायी भावो रसनाम लभते | भवति चात्र श्लोकः - प्. ३४४) यथा नराणां नृपतिः शिष्याणां च यथा गुरुः | एवं हि सर्वभावानां भावः स्थायी महानिह || ८ || लक्षणं खलु पूर्वमभिहितमेषां रससंज्ञकानाम् | इदानीं भावसामान्यलक्षणमभिधास्यामः | तत्र स्थायिभावान्वक्ष्यामः - रतिर्नाम प्रमोदात्मिका . र्तुमाल्यानुलेपनाभरणभोजनवरभवनानुभवनाप्रातिकूल्यादिब् हिर्विभावैः समुत्पद्यते | तामभिनयेत्स्मितवदनमधुरकथनभ्रूक्षेपकटाक्षादिभिरनुभा वैः | अत्र श्लोकः - इष्टार्थविषयप्राप्त्या रतिरित्युपजायते | सौम्यत्वादभिनेया सा वाङ्माधुर्याङ्गचेष्टितैः || ९ || हासो नाम - परचेष्टानुकरणकुहकासम्बद्धप्रलापपौरोभाग्यमौर्ख्यादि- भिर्विभावैः समुत्पद्यते | तमभिनयेत्पूर्वोक्तैर्हसितादिभिरनुभावैः | भवति चात्र श्लोकः - प्. ३४५) परचेष्टानुकरणाद्धासः समुपजायते | स्मितहासातिहसितैरभिनेयः स पण्डितैः || १० || शोको नाम - इष्टजनवियोगविभवनाशवधबन्धदुःखानुभवनादिभिर्विभावैः समुत्पद्यते | तस्यास्रपातपरिदेवितविलपितवैवर्ण्यस्वरभेदस्रस्तगात्रताभूमिपतन् असस्वनरुदिताक्रन्दितदीर्घनिःश्वसितजडतोन्मादमोहमरणादिभिरन् उभावैर-भिनयः प्रयोक्तव्यः | रुदितमत्र त्रिविधम् - आनन्दजमार्तिजमीर्ष्यासमुद्भवं चेति | भवन्ति चात्रार्याः - (आनन्देऽप्यार्तिकृतं त्रिविधं रुदितं सदा बुधैर्ज्ञेयम् | तस्य त्वभिनययोगान्विभावगतितः प्रवक्ष्यामि ||) हर्षोत्फुल्लकपोलं सानुस्मरणादपाङ्गविसृतास्रम् | रोमाञ्चगात्रमनिभृतमानन्दसमुद्भवं भवति || ११ || पर्याप्तविमुक्तास्रं सस्वनमस्वस्थगात्रगतिचेष्टम् | भूमिनिपातनिवर्तितविलपितमित्यार्तिजं भवति || १२ || प्. ३४६) प्रस्फुरितौष्ठकपोलं सशिरःकम्पं तथा सनिःश्वासम् | भ्रुकुटीकटाक्षकुटिअल स्त्रीणामीर्ष्याकृतं भवति || १३ || स्त्रीनीचप्रकृतिष्वेष शोको व्यसनसम्भवः | धैर्येणोत्तममध्यानां नीचानां रुदितेन च || १४ || क्रोधो नाम - आधर्षणाक्रुष्टकलहविवादप्रतिकूलादिभिर्विभावैः समुत्पद्यते | अस्य विकृष्टनासापुटोद्वृत्तनयनसन्दष्टोष्ठपुटगण्डस्फुरणादिभिरनु -भावैरभिनयः प्रयोक्तव्यः | रिपुजो गुरुजश्चैव प्रणयिप्रभवस्तथा | भृत्यजः कृतकश्चेति क्रोधः पञ्चविधः स्मृतः || १५ || अत्रार्या भवन्ति - भ्रुकुटीकुटिलोत्कटमुखः सन्दष्टोष्ठः स्पृशन्करणेन करम् | क्रुद्धः स्वभुजप्रेक्षी शत्रौ निर्यन्त्रणं रुष्येत् || १६ || किञ्चिदवाङ्मुखदृष्टिः सास्रस्वेदापमार्जनपरश्च | अव्यक्तोल्बणचेष्टो गुरौ विनययन्त्रितो रुष्येत् || १७ || प्. ३४७) अल्पतरप्रविचारो विकिरन्नश्रूण्यपाङ्गविक्षेपैः | सभ्रुकुटीस्फुरितोष्ठः प्रणयोपगतां प्रियां रुष्येत् || १८ || अथ परिजने तु रोषस्तर्जननिर्भर्त्सनाक्षिविस्तारैः | विप्रेक्षणैश्च विविधैरभिनेयः क्रूरतारहितः || १९ || कारणमवेक्षमाणः प्रायेणायासलिङ्गसंयुक्तः | वीररसान्तरचारी कार्यः कृतको भवति कोपः || २० || उत्साहो नाम - उत्तमप्रकृतिः | स चाविषादशक्तिधैर्यशौर्यादिभिर्विभावैरुत्पद्यते | तस्य धैर्यात्यागवैशारद्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः | अत्र श्लोकः - असम्मोहादिभिर्व्यक्तो व्यवसायनयात्मकः | उत्साहस्त्वभिनेयः स्यादप्रमादोत्थितादिभिः || २१ || भयं नाम - स्त्रीनीचप्रकृतिकम् | गुरुराजापराधश्वापदशून्यागाराटवीपर्वतगहनगजाहिदर्शन् अनिर्भर्त्सनकान्तारदुर्दिननिशान्धकारोलकनक्तञ्चरारावश्रवण अदिभिर्विभावैः समुत्पद्यते | तस्य प्रकम्पितकरचरण- प्. ३४८) हृदयकम्पनस्तम्भमुखशोषजिह्वापरिलेहनस्वेदवेपथुत्रासपरित्रा णान्वेषणधावनोत्क्रुष्टादिभिरनुभावैरभिनयः प्रयोक्तव्यः | अत्र श्लोका - गुरुराजापराधेन रौद्राणां चापि दर्शनात् | श्रवणादपि घोराणां भयं मोहेन जायते || २२ || गात्रकम्पनवित्रासैर्वक्त्रशोषणसम्भ्रमैः | विस्फारितेक्षणैः कार्यमभिनेयक्रियागुणैः || २३ || सत्त्ववित्रासनोद्भूतं भयमुत्पद्यते नृणाम् | स्रस्ताऽऽगाक्षिनिमेषैस्तदभिनेयं तु नर्तकैः || २४ || अत्रार्या भवति - करचरणहृदयकम्पैर्मुखशोषणवदनलेहनस्तम्भैः | सम्भ्रान्तवदनवेपथुसन्त्रासकृतैरभिनयोऽस्य || २५ || जुगुप्सा नाम - स्त्रीनीचप्रकृतिका | सा चाहृद्यदर्शनश्रवणादिभिर्विभावैः समुत्पद्यते | तस्याः सर्वाङ्गसङ्कोचनिष्ठीवनमुखविकूणनहृल्लेखादिभिरनुभावैरब् हिनयः प्रयोक्तव्यः | प्. ३४९) भवति चात्र श्लोक - नासाप्रच्छादनेनेह गात्रसङ्कोचनेन च | उद्वेजनैः सहृल्लेखैर्जुगुप्सामभिनिर्दिशेत् || २६ || विस्मयो नाम - मायेन्द्रजालमानुषकर्मातिशयचित्रपुस्तशिल्पविद्यातिशयादिभिर्विभ अवैः समुत्पद्यते | तस्य नयनविस्तारानिमेषप्रेक्षितभ्रूक्षेपरोमहर्षणशिरःकम्पसाधुव अदादि-भिरनुभावैरभिनयः प्रयोक्तव्यः | भवति चात्र श्लोकः - कर्मातिशयनिर्वृत्तो विस्मयो हर्षसम्भवः | सिद्धिस्थाने त्वसौ साध्यः प्रहर्षपुलकादिभिः || २७ || एवमेते स्थायिनो भावा रससंज्ञाः प्रत्यवगन्तव्याः | व्यभिचारिण इदानीं व्याख्यास्यामः | अत्राह - व्यभिचारिण इति कस्मात् | उच्यते - वि अभि इत्येतावुपसर्गौ | चर इति गत्यर्थो धातुः | विविधमाभिमुख्येन रसेषु चरन्तीति व्यभिचारिणः | वागङ्गसत्त्वोपेताः प्रयोगे रसान्नयन्तीति व्यभिचारिणः | अत्राह - कथं प्. ३५०) नयन्तीति | उच्यते - लोकसिद्धान्त एषः - यथा सूर्य इदं दिनं नक्षत्रं वा नयतीति | न च तेन बाहुभ्यां स्कन्धेन वा नीयते | किं तु लोकप्रसिद्धमेतत् | यथेदं सूर्यओ नक्षत्रं दिनं वा नयतीति | एवमेते व्यभिचारिण इत्यवगन्तव्याः | तानीह सङ्ग्रहाभिहितांस्त्रयस्त्रिंशद्व्यभिचारिणो भावान् वर्णयिष्यामः | तत्र निर्वेदो नाम - दारिद्र्यव्याध्यवमानाधिक्षेपाक्रुष्टक्रोधताडनेष्टजनवियोतत्त्वज् ञानादिभिरिभावैः ... समुत्पद्यते स्त्रीनीचकुसत्त्वानाम् | रुदितनिःश्वसितोच्छ्वसितसम्प्रधारणादिभिरनुभावैस्तमभिनयेत् | भवति चात्र श्लोक - दारिद्र्येष्टवियोगाद्यैः निर्वेदो नाम जायते | सम्प्रधारणनिःश्वासैस्तस्य त्वभिनयो भवेत् || २८ || अत्रानुवंश्ये आर्ये भवतः - इष्टजनविप्रयोगाद्दारिद्र्याद्व्याधितस्तथा दुःखात् | परवृद्धिं वा दृष्ट्वा निर्वेदो नाम सम्भवति || २९ || प्. ३५१) बाष्पपरिप्लुतनयनः पुनः पुनः श्वासदीनौखनेत्रः | योगीव ध्यानपरो भवति हि निर्वेदवान्पुरुषः || ३० || ग्लानिर्नाम - वान्तविरिक्तव्याधितपोनियमोपवासमनस्तापातिपानमदनमद्यसेवन अतिव्यायामाध्वगमनक्षुत्पिपासानिद्राच्छेदादिभिर्विभावैः समुत्पद्यते | तस्याः क्षामवाक्यनयनकपोलमन्दपदोत्क्षेपणवेपनानुत्साहतनुगात्रवैव् अर्ण्यस्वरभेदादिभिरनुभावैरभिनयः प्रयोक्तव्यः | अत्रानुवंश्ये आर्ये भवतः - वान्तविरिक्तव्याधिषु तपसा जरसा च जायते ग्लानिः | कार्श्येन साभिनेया मन्दभ्रमणेन कम्पेन || ३१ || निर्वेद इति दारिद्र्यव्याध्यादिकारणजन्यो रुदितनिःश्वसितादीनां कारणं मनोविकारो दुःखरूपो भावविशेषः | शेषेष्वप्येवं विवृतिः | तत्त्वज्ञानं चिरं भ्रान्त्या गुणितहानोपादानादिप्रबन्धस्य भ्रमनिवृत्तौ सत्यां धिङ्मां वृथा भ्रान्तमिति निर्वेदं जनयति | यथा - वृथा दुग्धोऽनड्वान स्तनभरनता गौरिति चिरं परिष्वक्तः षण्ढो युवतिरिति लावण्यरहितः | कृता वैडूर्याशा विकचकिरणे काचशकले मया मूढेन त्वां कृपणमगुणज्ञं प्रणमता | सम्प्रधारणं यद्यपि वितर्को भावान्तरं तथापि तदनुभावानामत्रानुभावत्वं मन्तव्यम् | न तु व्यभिचारी व्यभिचार्यन्तरेण युज्यते इति | दृष्ट्वा निर्वेदः सम्भवतीति कृदन्तनिर्वेदशब्दान्तर्गतक्रियापेक्षं दृशेस्तुल्यकर्तृकत्वमिति क्त्वाप्रत्ययः | निर्वेदवान् पुरुष इति मतुपा इदं दर्शयति न खल्वमी निर्वेदादयः इदन्तया घटादिवदवभासन्तेऽपि तु अहं निर्विण्ण इत्याश्रय पारतन्त्र्येणैव | विवेकेन तूद्ध्रियन्ते यस्मिन् सत्येव प्रतीतिः स आन्तरो विकारो निर्वेदः | एवमन्यत्र | अयं च निर्वेदः स्वयं पुरुषार्थसिद्धये वोत्साहरत्यादिवदत्यन्तानुरञ्जनाय वा हासविस्मयादिवन्न प्रभवतीत्यन्यमुखप्रेक्षित्वाद् व्यभिचार्येव | एवं शेषेष्वपि वाच्यम् | वान्तं विरिक्तमिति भावे क्तः | मदनसेवनं सुरतसेवा | वाक्यं नयने कपोलौ प्. ३५२) गदितैः क्षामक्षामैर्नेत्रविकारैश्च दीनसञ्चारैः | श्ल्थभावेनाङ्गानां मुहुर्मुहुर्निर्दिशेद्ग्लानिम् || ३२ || शङ्का नाम - सन्देहात्मिका स्त्रीनीचप्रभवा | चौर्याभिग्रहणनृपापराधपापकर्मकरणादिभिर्विभावैःसमुत्प् अद्यते | तस्यामुहुर्मुहुरवलोकनावकुण्ठनमुखशोषणजिह्वापरिलेहनमुख् अवैवर्ण्यस्वरभेदवेपथुशुष्कोष्ठकण्ठवायससाधर्म्यादिभिरनु भावैरभिनयः प्रयोक्तः | चौर्यादिजनिता शङ्का प्रायः कार्या भयानके | प्रियव्यलीकजनिता तथा शृङ्गारिणी मता || ३३ || चेति क्षामाणि | वाक्यस्य क्षामत्वं स्वरस्य नीवत्वात् | मन्दं कृत्वा पदोत्क्षेपणं तत्सहचरितं निक्षेपणमपि | वान्तेत्यादिनिमित्तसप्तमी | मुहुर्मुहुरिति | सजातीयचित्तवृत्तिप्रवाहमात्रे व्यभिचारिणां भवत्यपि नैकस्य चिरमवस्थानमिति सूचयति | चौर्याभिग्रहण इति | यदा चौर्येणान्ये परिगृहीना विज्ञातास्तदा तत्सहायस्य तदानीमरिगृहीतस्याप्यनर्थसंशयस्वभावा शङ्का जायते | चौर्यग्रहणमकार्योपलक्षणम् | तेन ये समानमकार्यं कृतवन्तस्तन्मध्यादन्यतमपरिग्रहेऽन्यस्य तथात्वेनाऽज्ञातस्याऽपि शङ्का जायत इत्युक्तं भवति | तेन नृपापराधादिप्रदर्शनमस्यैव प्रपञ्चः | स्त्रीनीचानाम् इति | स्त्रीणामुत्तमस्वभावानां यद्यप्यकार्यं नास्ति अधमानां तु नीच ग्रहणादेव सङ्ग्रस्तथापि स्त्रीग्रहणमकृतपापानामपि स्त्रीणामन्यत्र सापराधे परिगृहीते मनसि शङ्का जायत एव | भयशेषभूतत्वादस्या भीरुस्वभावत्वाच्च तासामिति प्रदर्शनार्थम् | एवं विभाविका शङ्का स्त्रीनीचानामिति दर्शयन्नायिकान्तरपरिचयाद्यपराधजनिता उत्तमानामपि शङ्का भवतीति दर्शयति | न ह्यत्र विभावा एत एवएति नियमः | नाप्येभ्यो विभावेभ्यः शङ्कैव साप्येभ्यो भवत्येव शङ्केति | किं तु शङ्का तावत् स्वसामग्रीतः प्रत्यात्मवेद्या जायते | तन्मध्ये चैषामस्त्यनुप्रवेश इतीहोच्यते | अत एव याऽन्यगतत्वेन शङ्का यथा समुद्रदत्तस्य नन्दयन्त्यामनुरागशङ्का (पुष्पदूषितकप्रकरणे) दुर्योधनस्य वा भानुमत्यां (वेणीसंहारे) साऽपीह शङ्कात्वेन परिगृहीतैव | केवलमत्यन्तानौचित्यमत्र नायकस्येति नैवंविधं वर्णनोचितं भवति | प्. ३५३) अत्राकारसंवरणमपि केचिदिच्छन्ति | तच्च कुशलैरुपाधिभिरिङ्गितैश्चोपलक्ष्यम् | अत्रार्ये भवत - द्विविधा शङ्का कार्या ह्यात्मसमुत्था च परसमुत्था च | या तत्रात्मसमुत्था सा ज्ञेया दृष्टिचेष्टाभिः || ३४ || किञ्चित्प्रवेपिताङ्गस्त्वधोमुखो वीक्षते च पार्श्वानि | गुरुसज्जमानजिह्वः श्यामास्यः शङ्कितः पुरुषः || ३५ || असूया नाम - नानापराधद्वेषपरैश्वर्यसौभाग्यमेधाविद्यालीलादिभिर्विभावै ः समुत्पद्यते | तस्याश्च परिषदि दोषप्रख्यापनगुणोपघातेर्ष्याचक्षुःप्रदानाधोमुखभ्रुकुटीक्रि यावज्ञानकुत्सनादिभिरनुभावैरभिनयः प्रयोक्तव्यः | आकारसंवरणम् इति | अवहित्थे यद् बाहुल्येन दृश्यते तदत्रापीति | तदनुभावयोगमाह - यदि वाऽवहित्थमत्र भवतीति प्रदर्शयत्यत्र स्थायिनि शङ्का व्यभिचारितामेति तत्र नियमेनाऽवहित्थमपीति प्रदर्श्यते | न तु व्यभिचारिणि व्यभिचार्यन्तरम् | एवं हि सति तस्मिन्यदन्यदित्यादि शृङ्खलया तदाद्यं व्यभिचारित्वं यायात् | यथा शङ्कायां चिन्ता तत्रापि निर्वेदस्तत्र ग्लानिस्तत्रालस्यमित्यादि | एवं सर्वत्र व्यभिवारिलक्षणे व्यभिचार्यन्तरोपादानं व्याख्येयम् | केचिदित्यनेनेदमाह - वस्तुसंवरणं कथं शङ्कां गमयतीत्याशङ्क्याह - तच्च इति | उपाधयः संवरणोपायाः कथाविच्छेदातिकथनादयः | उपाधीयते आच्छाद्यते प्रकृतं यैरिति | उपाधीयन्तेऽन्यत्र प्रस्तावे योज्यन्त इति वा | इङ्गितान्यङ्गोपाङ्गपरिस्पन्दाः सूक्ष्मा ये संवरीतुं न पार्यन्ते संवरणस्य च प्राग्भाविनः संविवरीपितास्ते गृह्यन्ते तैरुपाध्यादिभिः करणभूतैः कुशलैः कर्तृभिस्तदाकारसंवरणं शङ्कानुभावत्वेनोपलक्षयितुं शक्यमेव | द्विविधेति | यदन्यैरुक्तमत्र द्वैविध्यं तत् सर्वव्यभिचारिणामस्ति | स्वात्मगतो हि निर्वेदः कदाचित् परगतो दृष्टिचेष्टाद्युपलक्ष्यः अहं निर्विण्णोऽयं निर्विण्ण इति प्रत्ययात् | तस्मादयमत्रार्थः आत्मशब्देन स्वात्मगतोऽपराध उच्यते परशब्देन परगतोऽपराधः | तत्र परगतेऽपराधेऽसम्भाव्यमानेऽपि कुतश्चिन्निमित्तात् सम्भावनापदवीमुपेयुषि या शङ्का यथा नन्दयन्त्यां दर्शिता सेह परोत्था विवक्षिता | एतदुक्तं भवति | स एव विभावाः स्वात्मनि शङ्कां सम्भाव्यमानदण्डनादिविषयां जनयन्ति | त एव कदाचित् स्वरुपकर्मिकामपि शङ्का सम्भाव्यमानदण्डानादिविषयां जनयन्ति | त एव कदाचित् स्वरूपकर्म्कामपि शङ्कां जनयन्ति किं चौरोऽयं स्यादिति | ननु तथापि कथं परत्र चौर्याद्याशङ्का जायत इत्याह - दृष्टिचेष्टाभिः इति | स हि यदा परः कृतापराध इवावलोकयति चेष्टते वा कुतश्चिदप्रागल्भ्यभीरुत्वस्वभावादेर्निमित्तान्तरात्तदा सापराधा भवत्वन्यथा वा तत्र तु चौर्याद्यपराधविषया शङ्का जायत इति | पार्श्वानि इति | जसा पुनः पुनरलोकनं दर्शयति | एतदेव च वायससाधर्म्यम् | प्. ३५४) अत्रार्ये भवतः - परसौभाग्येश्वरतामेधालीलासमुच्छ्रयान्दृष्ट्वा | उत्पद्यते ह्यसूया कृतापराधो भवेद्यश्च || ३६ || भ्रुकुटिकुटिलोत्कटमुखैः सेर्ष्याक्रोधपरिवृत्तनेत्रैश्च | गुणनाशनविद्वेषैस्तत्राभिनयः प्रयोक्तव्यः || ३७ || मदो नाम - मद्योपयोगादुत्पद्यते | स च त्रिविधः पञ्चविधभावश्च | अत्रार्या भवन्ति - ज्ञेयस्तु मदस्त्रिविधस्तरुणो मध्यस्तथावकृष्टश्च | करणं पञ्चविधं स्यात्तस्याभिनयः प्रयोक्तव्यः || ३८ || कश्चिन्मत्तो गायति रोदिति कश्चित्तथा हसति कश्चित् | परुषवचनाभिधायि कश्चित्कश्चित्तथा स्वपिति || ३९ || उत्तमसत्त्वः शेते हसति च गायति च मध्यमप्रकृतिः | परुषवचनाभिधायी रोदित्यपि चाधमप्रकृतिः || ४० || स्मितवचनमधुररागो हृष्टतनुः किञ्चिदाकुलितवाक्यः | सुकुमाराविद्धगतिस्तरुणमदस्तूत्तमप्रकृतिः || ४१ || स्खलिताघूर्णितनयनः स्रस्तव्याकुलितबाहुविक्षेपः | कुटिलव्याविद्धगतिर्मध्यमदो मध्यमप्रकृतिः || ४२ || नष्टस्मृतिर्हतगतिश्छर्दितहिक्काकफैः सुबीभत्सः | गुरुसज्जमानजिह्वो निष्ठीवति चाधमप्रकृतिः || ४३ || गुणो नाश्यते दोषीक्रियते येन वचनेन तत्तथोक्तम् | यथा तपोजपनियते दाम्भिकोऽयमिति | अवकृष्टो निकृष्ट इत्यर्थः | करणं क्रिया चेष्टा | तेन यैव पञ्चविधा चेष्टा स एव मदस्याभिनयः | स एव च भावशब्देन सूत्रे कथितः | तच्चेष्टापञ्चकमाह - कश्चिदित्यादिना | हर्षशोकहासक्रोधमोहानां मदेनैकस्थायिकत्वं दर्शयति | प्. ३५५) रङ्गे पिबतः कार्या मदवृद्दिर्नाट्ययोगमासाद्य | कार्यो मदक्षयो वै यः खलु पीत्वा प्रविष्टः स्यात् || ४४ || सन्त्रासाच्छोकाद्वा भयात्प्रहर्षाच्च कारण्पगतात् | उत्क्रम्यापि हि कार्यो मदप्रणाशः क्रमात्तज्ज्ञैः || ४५ || एभिर्भावविशेषैर्मदो द्रुतं सम्प्रणाशौपयाति | अभ्युदयसुखैर्वाक्यैर्यथैव शोकः क्षयं याति || ४६ || श्रमो नाम - अध्वव्यायामसेवनादिभिर्विभावैः समुत्पद्यते | तस्य गात्रपरिमर्दनसंवाहननिःश्वसितविजृम्भितमन्दपदोत्क्षेपणनयन् अवदनविकूणनसीत्करादिभिरनुभावैरभिनयः प्रयोक्तव्यः | अत्रार्या- नृत्ताध्वव्यायामान्नरस्य सञ्जायते श्रमो नाम | निःश्वासखेदगमनैस्तस्याभिनयः प्रयोक्तव्यः || ४७ || प्रकृतिभेदेन उत्तमस्तरुणमद एव मध्यमस्य मध्यम इत्यत्र न नियमः कश्चित् | अधमप्रकृतिरेव तु नष्टस्मृत्यादिस्वभाव इति | अनेन च तरुणो मदः सर्वेषां मध्यमो मध्यनीचयोरुत्कृष्टो नीचस्यैवेति दर्शितं भवति | शेत इत्यतिपाने सतीत्यर्थः | हृष्टा सरोमाञ्चा तनुरस्याः | सुकुमारं कृत्वा आविद्धा ईषत् स्खलन्तीत्यर्थः | कविनटोपदेशायाह | रङ्गे पिबत इति | कारणया प्रेरणया प्रयत्नकृतया सन्त्रासादिनिमित्तज्ञापनया उपगत आयात्ः | एतदुक्तं भवति - त्रासादिनिमित्तमेव मदादजानन् कथं त्रासादिना क्षीणमदः स्यात्तस्मात्तन्निमित्तपरिज्ञानं यत्नतो विधेयमिति | द्रुतमित्यनेनोत्क्रम्येति दर्शितं क्रमत्यागं व्याचष्टे | प्रसङ्गादन्यदपि एवंजातीयकं दर्शयति | अभ्युदयसुखैरिति | अभ्युदयेन वाच्येन सुखयन्तीति तथोक्तानि | वाक्यग्रहणं प्रमाणोपलक्षणम् | प्. ३५६) आलस्यं नाम् - खेदव्याधिगर्भस्वभावश्रमसौहित्यादिभिर्विभावैः समुत्पद्यते स्त्रीनीचानाम् | तदभिनयेत्सर्वकर्मानभिलापशयनासननिद्रातन्द्रीसेवनादिभिरनु भावैः | अत्रार्या - आलस्यं त्वभिनेयं खेदोपगतं स्वभावजं चापि | आहारवर्जितानामारम्भाणामनारम्भात् || ४८ || दैन्यं नाम - दौर्गत्यमनस्तापादिभिर्विभावैः समुत्पद्यते | तस्याधृतिशिरोरोगगात्रगौरवान्यमनस्कतामृजापरिवर्जनादिभिरनु- भावैरभिनयः प्रयोक्तव्यः | अत्रार्या - चिन्तौत्सुक्यसमुत्था दुःखाद्या भवति दीनता पुंसाम् | सर्वमृजापरिहारैर्विविधोऽभिनयो भवेत्तस्य || ४९ || चिन्ता नाम - ऐश्वर्यभ्रंशेष्टद्रव्यापहारदारिद्र्यादिभिर्विभावैरुत्पद्यते | तामभिनयेन्निःश्वसितोच्छ्वसितसन्तापध्यानाधोमुखचिन्तनतनुकार्ऽऽ स्यादिभिरनुभावैः | अत्रार्ये भवतः - ऐश्वर्यभ्रंशेष्टद्रव्यक्षयजा बहुप्रकारा तु | हृदयवितर्कोपगता नृणां चिन्ता समुद्भवति || ५० || खेद इति श्रमो विवक्षितस्तेन भावो भावान्तरे विभावतां प्रतिपद्यत एवेति दर्शितम् | सौहित्यमतितृप्तता | आहारवर्जितानामिति | अलसोऽपि ह्यवश्यमाहारं करोत्येव | आरम्भाश्चतुर्वर्गोपायप्रवृत्तयस्तेषामनारम्भेण आरम्भव्यतिरिक्तेन शयनसेवनादिनेत्यर्थः | मृजा शरीरसंस्कारः | ऐश्वर्यभ्रंशस्तात्कालिकः | दारिद्र्यं तु कुलक्रमायातमपि भवतीति विशेषः | चिन्तनं स्मरणमिति मन्तव्यम् | चिन्तानुस्मृतेरन्यैव | चिति स्मृत्यामित्यादि प्. ३५७) सोच्छ्वासैर्निःश्वसितैः सन्तापैश्चैव हृदयशून्यतया | अभिनेतव्या चिन्ता मृजाविहीनैरधृत्या च || ५१ || मोहो नाम - दैवोपघातव्यसनाभिघातव्याधिभयावेगपूर्ववैरानुस्मरणादिब् हिर्विभावैः समुत्पद्यते | तस्य निश्चैतन्यभ्रमणपतनाघूर्णनादर्शनादिभिरनुभावैरभिनय. ह् प्रयोक्तव्यः | अत्र श्लोकस्तावदार्या च - अस्थाने तस्करान्दृष्ट्वा त्रासनैर्विविधैरपि | तत्प्रतीकारशून्यस्य मोहः समुपजायते || ५२ || व्यसनाभिघातभयपूर्ववैरसंस्मरणरोगजो मोहः | सर्वेन्द्रियसम्मोहात्तस्याभिनयः प्रयोक्तव्यः || ५३ || स्मृतिर्नाम - सुखदुःखकृतानां भावानामनुस्मरणम् | सा च स्वास्थ्यजघन्यरात्रिनिद्राच्छेदसमानदर्शनोदाहरणचिन्ताभ्यासा दि-भिर्विभावैः समुत्पद्यते | तामभिनयेच्छिरःकम्पनावलोकनभ्रूसमुन्नमनादिभिरनुभावैः | अत्रार्ये भवतः - त्वदूरविप्रकर्षेणार्थनिर्देशः | सर्वधातूनां ह्यर्थोऽन्योऽन्यतो भिद्यत एव | तथा हि खेऌ गताविति यद्यपि पठ्यते तथाऽपि सविलासगमनमेव विशिष्टं खेलनमिति प्रसिद्ध खेखेलगामीत्यादौ | ग्रसनं च अक्रमकगर्वक्रोधावेशनिर्भरनिगरणविशिष्टमदनं न त्वदनमात्रम् | एवमन्यत्रावधेयम् | हृदये वितर्कस्योपगमो यस्याः सकाशाद् वितर्काद्वोपगमो यस्याः | अनेन चिन्तायाः पूर्वोत्तरकक्ष्ययोर्वितर्को भवतीति शिक्षयति | दैवोपघातोऽग्न्युदकाद्युपद्रवः | व्यसनं पीडादि | तत्कृतोऽभिघात इति केचित् | अभिघातस्तु मर्मप्रहारादिः पृथगेव पुष्कलार्थः | भावान्तरम्पि विभावतामेतीत्याशयेनाहभयेति | व्यभिचारिणि च स्थायीभावो यद्यपि विभाव एव | तथापि भयग्रहणं भये मोहस्य बाहुल्यसूचनार्थम् | भ्रमणमनवस्थानं चित्तस्य घूर्णनं नु देहस्य | तत्प्रतीकारशून्यस्येत्यनेन मोहस्य प्रागवस्थां किंकर्तव्यतालक्षणामपि मोहशब्दवाच्यां दर्शयति सर्वेन्द्रियसम्मोहादित्यनेनान्तरस्य संवेदनस्य मूढेऽप्यनष्टतां दर्शयन्मोहस्य चित्तापत्तिरूपतामाह | सुखदुःखयोः कृतं निष्पत्तिर्यतस्तेषामित्यनेन स्मृतेरशेषविषयव्यापकतामाह - जघन्यः पश्चिमो रात्रेर्भागः | धातुसाम्यकारीति स्मृतिहेतुर्यथोक्तं - रात्रियामस्तुरीयः कालः (वामन- काव्यालङ्कारसूत्रवृत्तौ) इति | निद्राच्छेदोऽर्धरात्रादावपि | सदृशस्य दर्शनं श्रवणं वा चिन्ता प्रणिधानम् | अभ्यासः पुनःपुनः परिशीलनं अवलोकनमिति प्. ३५८) सुखदुःखमतिक्रान्तं तथा मतिविभावितं यथावृत्तम् | चिरविस्मृतं स्मरति यः स्मृतिमानिति वेदितव्योऽसौ || ५४ || स्वास्थ्याभ्याससमुत्था श्रुतिदर्शनसम्भवा स्मृतिर्निपुणैः | शिरौद्वाहनकम्पैर्भ्रूक्षेपैश्चाभिनेतव्या || ५५ || धृतिर्नाम - शौर्यविज्ञानश्रुतिविभवशौचाचारगुरुभक्त्यधिकमनोरथार्थला भक्रीडादिभिर्विभावैः समुत्पद्यते | तामभिनयेत्प्राप्तानां विषयाणामुपभोगादप्राप्तातीतोपहतविनष्टानामननुशोचनादिभि रनु-भावैः | अत्रार्ये भवतः - विज्ञानशौचविभवश्रुतिशक्तिसमुद्भवा धृतिः सद्भिः | भयशोकविषादाद्यै रहिता तु सदा प्रयोक्तव्या || ५६ || प्राप्तानामुपभोगः शब्दरसस्पर्शरूपगन्धानाम् | अप्राप्तैश्च न शोको यस्यां हि भवेद्धृतिः सा तु || ५७ || सदृशस्य | सुखदुःखमिति तज्जनकमित्यर्थः | विभावितमिति पटुप्रत्ययपरिगृहीतत्वमाह | विज्ञानं विवेकज्ञानं श्रुतविभवो बाहुश्रुत्यं शौचाचरणं तपःसेवादि अधिकस्यार्थस्य मनोरथाविषयस्य लाभः मनोरथस्य चार्थस्य लाभः मनोरथ ईप्सितः | मन एअ रथः प्राप्त्युपायो यस्मिन् अत्र कस्यचिद्विषयता ईप्सितलाभे हि धृतो भवति संतुष्टत्वात् | कस्यचित् करणता क्रीडया विनोद्यमानो दुःखितो धृतिं लभते | कस्यचिदुभयरूपता विज्ञानश्रुतविभवादेरिव प्राप्तानां विषयाणामुपभोगमवलम्ब्य यदप्राप्तादीनामननुशोचनं तदादिभिरनुभावैरित् सम्बन्धः तेन प्राप्तोपभोगपूर्वकत्वं सर्वेषामनुभावानामित्युक्तं भवति | न तु पृथगनुभावता प्राप्तभोगस्य | अप्राप्तः स्थितोऽपि तस्याऽविषय अतीतः स्थितोऽपि तद्विषयत्वादपगतः | उपहतो जीर्णादिरूपतां प्राप्तः | विनष्टो ध्वस्तः | प्. ३५९) व्रीडा नाम - अकार्यकरणात्मिका | सा च गुरुयतिक्राणावज्ञानप्रतिज्ञातानिर्वहणपश्चात्तापादिभिर्विभावै ः समुत्पद्यते | ता निगूढवदनाधोमुखविचिन्तनोर्वीलेखनवस्त्राङ्गुलीयकस्पर्शननक् ह-निकृन्तनादिभिरनुभावैरभिनयेत् | अत्रार्ये भवतः - किञ्चिदकार्यं कुर्वन्नेवं यो दृश्यते शुचिभिरन्यैः | पश्चात्तापेन युतो व्रीडित इति वेदितव्योऽसौ || ५८ || लज्जानिगूढवदनो भूमिं विलिखन्नखांश्च विनिकृन्तन् | वस्ताङ्गुलीयकानां संस्पर्शं व्रीडितः कुर्यात् || ५९ || चपलता नाम - रागद्वेषमात्सर्यामर्षेर्ष्याप्रतिकूलादिभिर्विभावैः समुत्पद्यते | तस्याश्च वाक्पारुष्यनिर्भर्त्सनवधबन्धसम्प्रहारताडनादिभिरनुभावैर् अभिनयः प्रयोक्तः | अत्रार्या भवति - अकार्यकरणशब्देन तज्ज्ञानमुच्यते | अकरणीयं मयैवं कृतमित्येवंभूतविज्ञानस्वभावेत्यर्थः | अतः एव स्त्रीबालादेरपूर्वपुरुस्षसन्निधौ लज्जा दृष्टा विनाप्यकार्यकरणात् | अकार्यकरणादात्मा यस्य इत्यन्ये | तत्पक्षे च गुरुव्यतिक्रमणादिप्रपञ्चमात्रं यत् पूर्वं स्वयं त्यक्तं पश्चात्तापं करोति ततो विवेकवतो लज्जा भवति | पूर्वापरविचारशून्यं मां लोकः कलयतीति विलेखनं भूम्यादेः | शुचिभिरिति उचितकार्यकारिभित्यर्थः | अकार्यकारिणां तु मध्ये मयैवाकार्यं कृतमिति न भवति संवित् | पश्चाद्यस्तापो मानसो विवेकः स हि तदा कृतस्योत्पुंसनायोगात् केवलं तापयत्येव | विनिकृन्तन् कुर्यादिति नात्र शत्रानुभावयौगपद्यं द्योत्यते किन्तु नखादीनि निकृन्तति वस्त्रादीनि वा स्पृशतीत्येवं स्पष्टमेतत् | प्. ३६०) अविमृश्य तु यः कार्य पुरुषो वधताडनं समारभते | अविनिश्चित्कारित्वात्स तु खलु चपलो बुधैर्ज्ञेयः || ६० || हर्षो नाम - मनोरथलाभेष्टजनसमागमनमनःपरितोषदेवगुरुराजभर्तृप्रस् आदभोजनाच्छादनलाभोपभोगादिभिर्विभावैः समुत्पद्यते | तमभिनयेन्नयनादनप्रसादप्रियभाषणालिङ्गनकण्टकितपुलकितास् रस्वेदादिभिरनुभावैः | अत्रार्ये भवतः - अप्राप्ये प्राप्ये वा लब्धेऽर्थे प्रियसमागमे वाऽपि | हृदयमनोरथलाभे हर्षः सञ्जायते पुंसाम् || ६१ || नयनवदनप्रसादप्रियभाषालिङ्गनैश्च रोमाञ्चैः | ललितैश्चाङ्गविहारैः स्वेदाद्यैरभिनयस्तस्य || ६२ || वधताडनमिति | यत् पापरूपं सहसा न करणार्हं तदपीत्यनेनान्यदपि सूचितम् | स खलु चपल इति तेनाऽविमृश्याऽपर्यालोच्य स कार्यकरणं चापल्यमिति यावत् | परितोष इति | पुत्रादिगतस्य हर्षस्य हर्षकारणत्वं वदन् निःसजातीयोऽपि भावोऽन्यगतो भावस्य कारणं भवत्येव यथा रामगतो निर्वेदचिन्तादिर्लक्ष्मणस्य निर्वेदचिन्ताद्युत्पत्तौ हेतुरिति सूचयति | अप्राप्य इति असम्भावनीयप्राप्तिके इत्यर्थः | हृदयं यद्यत्र वस्तुनि सारभूतं तल्लाभे हर्ष उत्पद्यते | तद्यथा सुवर्णार्थिनो देशानतराणि भ्राम्यतोऽनन्तसुवर्णमूल्यरत्नलाभे मनोरथस्य तु हृदयग्रहणमाङ्गिकव्यापाराणां व्युदासायेति तु न युक्तं तेषां मनोरथेष्वसम्भाव्यत्वात् | प्. ३६१) आवेगो नाम - उत्पातवातवर्षाग्निकुञ्जरोद्भ्रमणप्रैयाप्रियश्रवणव्यसनाभिघ अतादि-भिर्विभावैः समुत्पद्यते | तत्रोत्पातकृतो नाम विद्युदुल्कानिर्घातप्रपतनचन्द्रसूर्योपरागकेतुदर्शनकृतः | तमभिनयेत्सर्वाङ्गस्रस्ततावैमनस्यमुखवैवर्ण्यविषादविस्मयादि भिः | वातकृतं पुनरवकुण्ठनाक्षिपरिमार्जनवस्त्रसङ्गूहनत्वरितगमनादिभिः | वर्षकृतं पुनः सर्वाङ्गसम्पिण्डनप्रधावनच्छन्नाश्रयमार्गणादिभिः | अग्निकृतं तु धूमाकुलनेत्रत्राऽङ्गसङ्कोचनविधूननातिक्रान्तापक्रान्तादिभि. ह् | कुञ्जरोद्भ्रमणकृतं नाम त्वरिताअसर्पणचञ्चलगमनभयस्तम्भवेपथुपश्चादवलोकनविस्मय आदिभिः | प्रियश्रवणकृतं नामाभ्युत्थानालिङ्गनवस्त्राभरणप्रदानाश्रुपुलकितादिभिः | अप्रियश्रवणकृतं नाम भूमिपतनविषमविवर्तनपरिधावनविलापनाक्रन्दनादिभिः | व्यसनाभिघातजं तु सहसापसर्पणशस्त्रचर्मवर्मधारणगजतुरगरथारोहणसम्र्पद् हा-रणादिभिः | आविष्टहृदयानामेव प्रयोगयोग्यत्वादावेगः सर्वत्र प्रयोगे जीवितमित्याशयेन प्रतिविभावमस्यानुभावभेदेन प्रयोगवैचित्र्यं दर्शयति | तत्रोत्पातकृतो नामेत्यादिना | अतिक्रान्तापक्रान्ते चार्यौ ताभ्यामपसर्पेदित्यर्थः | उत्क्रान्तमर्यादं भ्रमणमुद्भ्रमणम् | अप्रियश्रवणे कस्यचिदावेगस्तत्र च शोकानुभावा एवोपर्युपरिपातिनः क्षिप्रगतयश्च (अधीरस्य) पश्चात्तु शोकः धीरस्य तु प्रथममेव शोक इति श्रीशऽऽकुकः | तच्चासत् | एवं ह्यावेगस्य स्थायित्वं स्यात् शोकस्य च व्यभिचारिता | तस्मादधीरप्रकृतेः शोक प्. ३६२) एवमष्टविकल्पोऽयमावेगः सम्भ्रमात्मकः | स्थैर्येणोत्तममध्यानां नीचानां चापसर्पणैः || ६३ || अत्रार्ये भवतः - अप्रियनिवेदनाद्वा सहसा ह्यवधारितारिवचनस्य | शस्त्राक्षेपात् त्रासादावेगो नाम सम्भवति || ६४ || अप्रियनिवेदनाद्यो विषादभावाश्रयोऽनुभावोऽस्य | सहसारिदर्शनाच्चेत्प्रहरणपरिघट्टनैः कार्यः || ६५ || जडता नाम - सर्वकार्याप्रतिपत्तिः | इष्टानिष्टश्रवणदर्शनव्याध्यादिभिर्विभावैः समुत्पद्यते | तामभिनयेदकथनाविभाषणतूष्णीम्भावाप्रतिभाऽनिमेषनिरीक्ष् अणपरवशत्वादिभिरनुभावैः | अत्रार्या भवति - इष्टं वाऽनिष्टं वा सुखदुःखे वा न वेत्ति यो मोहात् | तूष्णीकः परवशगो भवति स जडसंज्ञितः पुरुषः || ६६ || उत्पन्न एव द्वितीय एव क्षणे आवेगेनाक्रम्यते | धीरप्रकृतेस्तु भवन्नप्यावेगो धैर्येणावहित्थोचितेन संव्रियते न तु नोद्भवति | तथा च वक्ष्यति | स्थैर्येणोत्तममध्यानामिति | न च व्यभिचारिसाहचर्यरहिता काचिदपि स्थायिनो दशास्ति | न च स्थायिभित्तिसम्भववन्ध्या व्यभिचारिचित्रस्थितिः | अपसर्पणैरिति | बहुवचनं प्रकारसूचकम् | पलायनादिभिः प्रकारैरित्यर्थः | अपसर्पणं च कुञ्जराग्न्यादिकृते आवेगे भूयसा भवतीत्युपात्तम् | अप्रियनिवेदनाद्य आवेगोऽस्य विषादाश्रयोऽनुभाव इति वदन् व्यभिचारिणो व्यभिचार्यन्तरे इत्थं स्थितिर्भवतीति दर्शयति | दर्शितं चैतदादावेवास्माभिः सहसेति | पूर्वमनुपलब्धा गमनस्यारेर्दर्शनाद्यावेगः सम्भवति तदा प्रहरणपरिघट्टनं चलनं कार्यम् | कार्यविषयेऽप्रतिपत्तिरित्यनेन विवेकाभावो जडता | चक्षुर्भ्यामपि पश्यतः श्रोत्राभ्यामपि शृण्वत इति दर्शयत् मोहादस्याः स्वरूपान्तरं दर्शयति | अकथनं प्रश्ने कृतेऽप्युत्तरस्य अभाषणं तु सामान्येन | सुहृदादौ वचनस्याप्रवर्तनम् | मोहादिति मोहात्पूर्वं परतो वा भवतीति सम्बन्धः | प्. ३६३) गर्वो नाम - ऐश्वर्यकुलरूपयौवनविद्याबलधनलाभादिभिर्विभावैः समुत्पद्यते | तस्यासूयावज्ञाधर्षणानुत्तरदानासम्भाषणाङ्गावलोकनविभ् रमापहसनवाक्पारुष्यगुरुव्यतिक्रमणाधिक्षेपवचनविच्छेदादिभिर् अनुभावैरभिनयः प्रयोक्तः | अत्रार्या भवति - विद्यावाप्ते रूपादैश्वर्यादथ धनागमाद्वापि | गर्वः स च नीचानां दृष्ट्यङ्गविचारणैः कार्यः || ६७ || विभ्रमः स्त्रीणां गर्वेऽनुभावस्तस्य लक्षणम् - विविधानामर्थानां वागङ्गाहार्यसत्त्वयुक्तानाम् | मदरागहर्षजनितो व्यत्यासो विभ्रमो ज्ञेयः || मदादेरुपलक्षणत्वाद्गर्वोऽप्यत्र गृहीत एव भवति | स चेति | चोऽवधारणे | ये पूर्वं विद्यादिष्वयोग्यास्तेषां नीचानां तदाप्तौ गर्व एव भवति | भवत्येव च दृष्ट्यङ्गानां च विविधैरेव विकारपूर्वकैः सञ्चारणैरिति | तेन धारावाहितया स तेषां तिष्ठत्युत्तमानां तु क्षणद्युतिवत् भवत्येवेत्यावेदितमेव | प्. ३६४) विषादो नाम - कार्यानिस्तरणदैवव्यापत्तिसमुत्थः | तमभिनयेत्सहायान्वेषणोपायचिन्तनोत्साहविघातवैमनस्यनिःश्वसित् आदिभिरनुभावैरुत्तममध्यमानाम् | अधमानां तु विपरिधावनालोकनमुखशोषणसृक्वपरिलेहननिद्रानिःश्वसितध्यान अदिभिरनुभावैः | अत्रार्याश्लोकौ - कार्यानिस्तरणाद्वा चौर्याभिग्रहणराजदोषाद्वा | दैवादर्थविपत्तेर्भवति विषादः सदा पुंसाम् || ६८ || वैचित्र्योपायचिन्ताभ्यां कार्य उत्तममध्ययोः | निद्रानिःश्वसितध्यानैरधमानां तु योजयेत् || ६९ || उपायैरप्यनुक्रान्तस्य कार्यस्य अनिस्तरणं फलासम्पत्तिर्यतस्तथाभूता या दैवव्याप्तेरदृष्टप्रतिकूलताया विषाद इति वदन् दैवदोषजां सदुपायेभ्योऽपि फलासम्पत्तिं विषादस्य विभावत्वेन सूचयति | क्रोधेऽयं न व्यभिचारीति केचित्तदसत् | दृश्यते हि रौद्रप्रकृतिनामपि विषादः यथा रामाभ्युदये एतत्तु क्षतिमातनोति मनसो यद्वज्रधाराङ्किते कौर्येच्छाप्रणयः प्लवङ्गनखरिअः प्राप्तः प्रहस्तोरसि | इति | मनःक्षतिर्हि दौर्मनस्यं विषादानुभावः | ये च प्लवङ्गाः पलायनैकशरणाः पशवस्तेषामेवंविधे क्रौर्येच्छैवानुचिता | किं तु तदीयः प्रणयो यावदभिलषितवस्तुपरिपूर्णतेति दैवकृतेयं सदुपायेनापि फलासम्पत्तिरित्यनुभाव उक्तः | न चैतद्विषादस्य क्रोधव्यभिचारित्वं युक्त्यागमानुभवैर्विरुध्यत इत्यलम् | प्. ३६५) औत्सुक्यं नाम - इष्टजनवियोगानुस्मरणोद्यानदर्शनादिभिर्विभावैः समुत्पद्यते | तस्य दीर्घनिःश्वसिताधोमुखविचिन्तननिद्रातन्द्रीशयनाभिलाषादिभिरनु- भावैरभिनयः प्रयोक्तव्यः | अत्रार्या भवति - इष्टजनस्य वियोगादौत्सुक्यं जायते ह्यनुस्मृत्या | चिन्तानिद्रातन्द्रीगात्रगुरुत्वैरभिनयोऽस्य || ७० || निद्रा नाम - दौर्बल्यश्रमक्लममदालस्यचिन्ताऽत्याहारस्वभावादिभिर्विभावैः समुत्पद्यते | तामभिनयेद्वदनगौरवशरीरावलोकननेत्रघूर्णनगात्रविजृम्भ. नमान्द्योच्छ्वसितसन्नगात्रताऽक्षिनिमीलनादिभिरनुभावैः | उत्सूयत इत्युत्सूशब्देनाङ्कुराद्यभिमुखीभूतो बीजादिः | ततः प्रतिकृति के केऽणो ह्रस्वे उत्सुक इति रूपम् | तस्य भाव औत्सुक्यम् | वियोगग्रहणं विप्रलम्भेऽस्य प्राधान्यं ख्यापयति | इष्टजनस्यालम्बनता | स्मृतेस्तूद्दीपनत्वमिति स्मरणग्रहणेन दर्शयति | शयनाभिलाषो विनापि निद्रया भवतीति भेदेनोपात्तः | दौर्बल्यं व्याध्यादिना क्षीणबलत्वं क्लमो घर्मादिकृतः | प्. ३६६) अत्रार्ये भवतः - आलस्याद्दरुबल्यात्क्लमाच्छ्रमाच्चिन्तनात्स्वभावाच्च | रात्रौ जागरणादपि निद्रा पुरुषस्य सम्भवति || ७१ || तां मुखगौरवगात्रप्रतिलोलननयनमीलनजडत्वैः | जृम्भणगात्रविमर्दैरनुभावैरभिनयेत्प्राज्ञः || ७२ || अपस्मारो नाम - देवयक्षनागब्रह्मराक्षसभूतप्रेतपिशाचग्रहणानुस्मरणोच्छिष्. तशून्यागारसेवनाशुचिकालान्तरापरिपतनव्याध्यादिभिर्विभावैः समुत्पद्यते | तस्य स्फुरितनिःश्वसितोत्कम्पितधावनपतनस्वेदस्तम्भनवदनफेनजिह्वाप् अरिलेहनादिभिरनुभावैरभिनयः प्रयोक्तव्यः | अत्रार्ये भवत - भूतपिशाचग्रहणानुस्मरणोच्छिष्टशून्यगृहगमनात् | कालान्तरातिपातादशुचेश्च भवत्यपस्मारः || ७३ || सहसा भूमौ पतनं प्रवेपनं वदनफेनमोक्षश्च | निःसंज्ञस्योत्थानं रूपाण्येतान्यपस्मारे || ७४ || सुप्तं नाम - निद्राभिभवैषयोपगमनमोहनक्षितितलशयनप्रसारणानुकर्षणा दि-भिर्विभावैः समुत्पद्यते निद्रासमुत्थम् | देवादिभिः पिशाचाद्यन्तैर्गहैर्यदनुस्मरणमधिष्ठानाय | हीनसत्त्वो वा तान् स्मरन्नपस्मारी भवति | ग्रहणं तु प्रतीतम् अशुचेः सतः कालान्तरातिपातश्चिरावस्थानम् | धातूनां वातपित्तश्लेष्मणां वैषम्ये सति बुद्धिस्थाने समावृते सत्यपस्मारो यदाहुस्तच्च धीसत्त्वस.प्लवात् | प्. ३६७) तदुच्छ्वसितसन्नगात्राक्षिनिमीलनसर्वेन्द्रियसम्मोहनोत्स्वप्नायितादिभि रनु-भावैरभिनयेत् | अत्रार्ये भवत - निद्राभिभवेन्द्रियोपरमणमोहनैर्भवेत्सुप्तम् | अक्षिनिमीलोच्छ्वसनैः स्वप्नायितजल्पितैः कार्यः || ७५ || सोच्छ्वासैर्निःश्वासैर्मन्दाक्षिनिमीलनेन निश्चेष्टः | सर्वेन्द्रियसम्मोहात्सुप्तं स्वप्नैश्च युञ्जीत || ७६ || विबोधो नाम - आहारपरिणामनिद्राच्छेदस्वप्नान्ततीव्रशब्दस्पर्शश्रवणादिभिर्वि भावैः समुत्पद्यते | तमभिनयेज्जृम्भणाक्षिपरिमर्दनशयनमोक्षणादिभिरनुभावैः | अत्रार्या भवति - आहारविपरिणामाच्छब्दस्पर्शादिभिश्च स्मभूतः | प्रतिबोधस्त्वभिनेयो जृम्भणवदनाक्षिपरिमर्दैः || ७७ || अमर्षो नाम - विद्यैश्वर्यशौर्यबलाधिकैरधिक्षिप्तस्यावमानितस्य वा समुत्पद्यते | तमभिनयेच्छिरःकम्पनप्रस्वेदनाधोमुखचिन्तनध्यानाध्यवसायो पायसहायान्वेषाणादिभिरनुभावैः | निद्रासमुत्थमित्यनेन निद्राया एव गाढावस्था सुप्तमिति दर्शयन्निद्राया विषयेभ्य उपरिरंसात्मकत्वं स्वरूपमाह - स्वप्नायितम् इति | प्रलपनमिति लोके प्रसिद्धं स्वप्नादसाधारणतात्कालिकविषयज्ञानाद्भिन्नमेव | स्वप्नस्य अयितं प्रतीतिर्यतः स्वप्ने ह्यनुस्मरन् किञ्चित्तथा प्रलपति प्रलापाच्च तस्य तथा स्मृतिरनुमीयते लोकैः | निद्राया नियतमर्यादावशादाहारपरिणामादिना विनापि छेदो भवतीति पृथग् निद्राच्छेद उक्तः | स्वप्नस्य योऽन्तः परिसमाप्तिः | शब्दादयस्तद्गता एवेति घण्टुकः | बाह्या एवेति युक्ततरम् | अमर्ष इति प्रतिकरणेच्छारूपोऽयं क्रोधादन्य एव | ध्यानं निर्लक्षतया- प्. ३६८) अत्र श्लोकौ - आक्षिप्तानां सभामध्ये विद्याशौर्यबलाधिकैः | नॄणामुत्साहसंयोगादमर्षो नाम जायते || ७८ || उत्साहाध्यवसायाभ्यामधोमुखविचिन्तनैः | शिरःप्रकम्पस्वेदाद्यैस्तं प्रयुञ्जीत पण्डितः || ७९ || अवहित्थं नाम - आकारप्रच्छादनात्मकम् | तच्च लज्जाभयापजयगौरवजैह्म्यादिभिर्विभावैः समुत्पद्यते | तस्यान्यथाकथनावलोकितकथाभङ्गकृतकधैर्यादिभिरनुभावैर -भिनयः प्रयोक्तव्यः | अत्र श्लोको भवति - धार्ष्ट्यजैह्म्यादिसम्भूतमवहित्थं भयात्मकम् | तच्चागणनया कार्यं नातीवोत्तरभाषणात् || ८० || उग्रता नाम - चौर्याभिग्रहणनृपापराधासत्रलापादिभिर्विभावैः समुत्पद्यते | तां च वधबन्धनताडननिर्भर्त्सनादिभिरनुभावैरभिनयेत् | अत्रार्या भवति - चौर्याभिग्रहणवशान्नृपापराधादथोग्रता भवति | वधबन्धताडनादिभिरनुभावैरभिनयस्तस्याः || ८१ || ऽवस्थानमिति चिन्तातो भिद्यते | उत्साहसम्पन्न इति निरुत्साहानां प्राकृतानां न भवतीत्यर्थः | उत्साहाऽध्यवसायशब्देन तदनुभावाः | आक्रियते बहिः प्रकाश्यते चित्तवृत्तिर्यैस्तेषां भ्रुविकारमुखरागादीनां संवरणमाच्छादनकारि यच्चित्तवृत्तिरूपं तदवहित्थम् | न बहिस्थं चित्तं येनेति निरुक्तं पृषोदरादित्वाच्च रूपमित्याहुः | जैह्म्यगोपनीयेऽइ गोअपनेच्छाकुटिलाशयत्वम् | प्रगल्भो ह्याकारं संवरीतुं जानातीति धार्ष्ट्यग्रहणम् | सलज्जोऽपि ह्यप्रगल्भो न जानाति | तेन धार्ष्ट्यं सर्वविभावेष्वस्यानुयायीति मन्तव्यम् | अगणना तस्यार्थस्यावलेपेन स्थापनम् | चौर्यमुपलक्षणमकार्याणाम् | तन्निमित्तं गृहीते जने राजादीनामौग्र्यं निर्दयत्वम् | एवं राजन्यपराध्यत्यसत्प्रलापिनि मिथ्यादोषवादिनि | प्. ३६९) मतिर्नाम - नानाशास्त्रविचिन्तनोहापोहादिभिर्विभावैः समुत्पद्यते | तामभिनयेच्छिष्योपदेशार्थविकल्पनसंशयच्छेदादिभिरनुभावैः | भवति चात्र श्लोक - नानाशास्त्रार्थबोधेन मतिः संजायते नृणाम् | शिष्योपदेशार्थकृतस्तस्यास्त्वभिनयो भवेत् || ८२ || व्याधिर्नाम - वातपित्तकफसन्निपातप्रभवः | तस्याः ज्वरादयो विशेषाः | ज्वरस्तु (खलु) द्विविधः सशीतः सदाहश्च | तत्र सशीतो नाम - प्रवेपितसर्वाङ्गोत्कम्पननिकुञ्चनाग्न्यभिलाषरोमाञ्चहनुवनलन नासाविकूणनमुखशोषणपरिदेवतादिभिरनुभावैरभिनेयः | सदाहो नाम - विक्षिप्ताङ्गकरचरणभूम्यभिलाषानुलेपनशीताभिलाषपरिदेवन- मुखशोषोत्क्रुष्टादिभिरनुभावैः | ये चान्ये व्याधयस्तेऽपि खलु मुखविकूणनगात्रस्तम्भस्रस्ताक्षिनिःश्वसनस्तनितोत्क्रुष्टवेपनादिब् हिर-नुभावैभिनेयाः | अत्र श्लोको भवति - समासतस्तु व्याधीनां कर्तव्योऽभिनयो बुधैः | स्रस्ताङ्गगात्रविक्षेपैस्तथा मुखविकूणनैः || ८३ || मतिरिति | अपूर्वप्रतिभानरूपा | ऊहापोहावन्वयव्यतिरेकप्रत्ययौ विधिनिषेधविषयौ वा सम्भावनाप्रत्ययौ | नानाशास्त्राणां योऽर्थः प्रयोजनं विवेकलाभस्ततः सम्पन्ना जाता | शिष्योपदेशलक्षणेन प्रयोजनेन ये देहविकारा भ्रूत्क्षेपादयस्तैरस्या अभिनयः | ज्वरस्य सर्वव्याधिमध्ये प्रधानत्वादुपादानम् | मदनविकारे च ज्वरस्य सम्भवात् | व्याधिसमये च या तत्तद्व्याधिसमुचिता व्याधिमतश्चित्तवृत्तिः सैवेह व्याधिशब्देन विवक्षिता | व्याधिसन्निधौ हि चित्तं न स्वरूपेणावतिष्ठत इति | प्. ३७०) उन्मादो नाम इष्टजनवियोगविभवनाशाभिघातवातपित्तश्लेष्मप्रकोपादिभिर्विभाव् ऐरुत्पद्यते | तमनिमित्तहसितरुदितोत्क्रुष्टासम्बद्धप्रलापशयितोपविष्टोत्थितप्रधा वितनृत्तगीतपठितभस्मपांस्ववधूलनतॄणनिर्माल्यकुचेलचीरघट् अकपालशरावाभरणधारणोपभोगैरनकएश्चानवस्थितैश्चेष्टान् उकरणादिभिरनु-भावैरभिनयेत् | अत्रार्ये भवत - इष्टजनविभवनाशादभिघाताद्वातपित्तकफकोपात् | विविधाच्चित्तविकारादुन्मादो नाम सम्भवति || ८४ || अनिमित्तरुदितहसितोपविष्टगीतप्रधावितोत्क्रुष्टैः | अन्यैश्च विकारकृतैरुन्मादं सम्प्रयुञ्जीत || ८५ || मरणं नाम - व्याधिजमभिघातजञ्च | तत्र यदान्त्रयकृच्छूलदोषवैषम्यगण्डपिटकज्वरविषूचिकादिभिरुत्पद्य ते तद्व्याधिप्रभवम् | अभिघातजन्तु शस्त्राहिदंशविषपानश्वापदगजतुरगरथपशुयानपातविनाश- प्रभवम् | एतेष्विदानीमभिनयविशेषान्वक्ष्यामः - तत्र व्याधिजं विषण्णगात्राव्यायताङ्गविचेष्टितनिमीलितनयनहिक्काश्वासोपेतानवेक्. सितपरिजनाव्यक्ताक्षरकथनादिभिरनुभावैरभिनयेत् | अत्र श्लोको भवति - इष्टजनवियोगादुत्तमस्यापि विप्रलम्भे भवत्युन्मादः पुरूरवस इव | विभवनाशात्त्वनुत्तमस्य | भवनशोके व्यभिचारी | अत एवानुभावाः प्रकृत्यौचित्येन विभजनीयाः | चित्तं विकरोतीति चित्तविकार इति टीकाकाराः | भट्टतोतस्तु - चित्तस्य यो विकारो विकीर्णता एकत्राविश्रमणमनिश्चये सति तत उन्मादो भवति इति | तथाहि - पुरूरवसो झटिति प्रियामपश्यतस्तन्निमित्तं च किञ्चिदप्यलभमानस्योन्मादः | एतदेव हि प्रतिजागरितं कविकुलचक्रवर्तिना (कालिदासेन) तिष्ठेत् कोपवशात् (विक्रमोर्वशीये) इत्यादिना | अनिमित्तता प्रसिद्धनिमित्ताभावात् | व्याधावन्तर्भूतोऽप्युन्मादो इप्रलम्भादौ प्रयोगसौन्दर्यविचित्रचेष्टाभिः करोतीति पृथगुपात्तः | एवमपस्मारे वाच्यम् | स हि बीभत्सभयानकादेर्वैचित्र्यावहः | प्. ३७१) व्याधीनामेकभावो हि मरणाभिनयः स्मृतः | विषण्णगात्रैर्निश्चेष्टैरिन्द्रियैश्च विवर्जितः || ८६ || अभिघातजे तु नानाप्रकारा अभिनयविशेषाः शस्त्रक्षताहिदृष्टविषपीतगजादिपतितश्वापदहताः | यथा तत्र शस्त्रक्षते तावत्सहसा भूमिपतनवेपनस्फुरणादिभिरभिनयः प्रयोक्तव्य. | अहिदष्टे विषपीते वा नानाविषवेगाः | यथा- कार्श्यवेपथुविदाहहिक्काफेनस्कन्धभङ्गजडतामरणानीत्यष्टौ विषवेगाः | अत्र श्लोकौ भवत - कार्श्यं तु प्रथमे वेगे द्वितीय वेपथुर्भवेत् | दाहं तृतीये हिक्कां च चतुर्थे सम्प्रयोजयेत् || ८७ || फेनञ्च पञ्चमे कुर्यात्षष्ठे स्कन्धस्य भञ्जनम् | जडतां सप्तमे कुर्यादष्टमे मरणं भवेत् || ८८ || अत्रार्या भवति - श्वापदगजतुरगरथोद्भवं तु पशुयानपतनजं वाऽपि | शस्त्रक्षतवत्कुर्यादनवेक्षितगात्रसञ्चारम् || ८९ || इत्येवं मरणं ज्ञेयं नानावस्थान्तरात्मकम् | प्रयोक्तव्यं बुधैः सम्यग्यथा भावाङ्गचेष्टितैः || ९० || त्रासो नाम - विद्युदुल्काशनिपातनिर्घाताम्बुधरमहासत्त्वपशुरवादिभिर्विभाव् ऐरुत्पद्यते | तमभिनयेत्संक्षिप्ताङ्गोत्कम्पनवेपथुस्तम्भरोमाञ्चगद्गदप्रला पादि-भिरनुभावैः | व्याधीनामेकभाव इति | एकत्वेन तुल्यत्वेन भवनमित्यनेन सर्वेभ्यो मरणं भवदेकरूपत्वेनैवाभिनीयते इत्युक्तं भवति | यदि वा व्याधीनां यदेकत्वेन निष्प्रतिद्वन्द्वित्वेन भावनमनेन व्याधिना न मे निवर्तितव्यमित्येवंरूपं चित्तं तदेव मरणमभिनीयमानमुच्यते | स एव हि प्राणानां त्यागः | तेन म्रियमाणावस्यैव चित्तवृत्तिरूपेह विवक्षिता | न तु मृतावस्था | तत्रानुभावादेरभावात् | विषण्णानि च तानि अत एव निश्चेष्टानि गात्राणि तैः | इन्द्रियैर्वर्जितोऽभिनय इति सर्वेन्द्रियसम्मोहमाह | विषपीते विषं पीतम् अनेनेति समासः | जातिकालसुखादिभ्य इति निष्ठा तस्य परनिपातः | प्. ३७२) अत्र श्लोको भवति - महाभैरवनादाद्यैस्त्रासः समुपजायते | स्रस्ताङ्गाक्षिनिमेषैश्च तस्य त्वभिनयो भवेत् || ९१ || वितर्को नाम - सन्देहविमर्शविप्रतिपत्त्यादिभिर्विभावैरुत्पद्यते | तमभिनयेद्विविधविचारितप्रश्नसम्प्रधारणमन्त्रसंगूहनादिभि रनु-भावैः | अत्र श्लोको भवति - विचारणादिसम्भूतः सन्देहातिशयात्मकः | वितर्कः सोऽभिनेयस्तु शिरोभ्रूक्षेपकम्पनैः || ९२ || एवमेते त्रयस्त्रिंशद्व्यभिचारिणो भावा देशकालावस्थानुरूप्येणात्मगतपरगतमध्यस्था उत्तममध्यमाधमैः स्त्रीपुंसैः स्वप्रयोगवशादुपपाद्या इति | भीरून् जनान् त्रासयतीति भैरवः | शेष इत्यण् | झटितिं विधूननकारी चमत्कृतिस्वभावस्त्रासो भयात् पूर्वापरविचारपूर्वकादन्य एवेत्यक्षिनिमेषैरिति बहुवचनेन सूचयति | सन्देहः किञ्चिदित्युभयावलम्बी प्रत्ययः संशयरूपः | विमर्शो विशेषप्रतीत्याकाङ्क्षात्मिका इच्छा बाधकप्रमाणेन पक्षान्तराभावप्रतीतिमात्रं विप्रत्ययः | विप्रतिपत्तिर्वा | एभ्योऽनन्तरं भवितव्यताप्रत्ययस्वभाव एकतरपक्षशैथिल्यदायी पक्षान्तरं तुल्यकक्ष्यभावाच्च्यावयन् उन्मग्नतामन्यस्य दर्शयंस्तर्कः | स च संशयात् पृथगेव संशयेन तत्त्वबुभुत्सादिरूपस्य विमर्शादेः स्वीकारेऽपि कविशिक्षार्थं भङ्क्त्वा निरूपणम् | अन्ये तु धर्मिणि सन्देहो धर्मे तु विमर्शो भ्रान्तिज्ञानं विप्रत्यय इत्याहुः | विहृतेति धिया कार्यकलापानां पुनः पुनस्त्यागप्राप्ती विवक्षिते | मन्त्रसङ्गूहनग्रहणेनास्यावहित्थेन | तुल्यस्थायिकतामाह | विचारणापौर्वापर्यादि परामर्शः | आदिग्रहणेन बाधकप्रमाणादि ततो ह्येकपक्षस्य शैथिल्यं जायत इति विचारणादिपूर्वक इत्युक्तम् | नयस्य षाड्गुण्यप्रयोगस्यात्मा यतः अन्यपक्षबलवत्वगतात् सम्भावनाप्रत्ययादेव हि सर्वो नीतिप्रयोगः | तथा च -दैवमचिन्त्यं पुरुषकारस्तु चिन्त्य इति वदन् चाणक्याचार्यस्तर्कपूर्वकमेव समस्तं व्यवहारमाह | उक्तं च भट्टतोतेन - सम्भावनाप्रमाणो हि तीक्ष्णप्रज्ञोऽपि यद् वदेत् | मा गा व्याप्तं नभोऽम्भोदैरम्बुभारानतरिति | प्. ३७३) त्रयस्त्रिंशदिमे भावा विज्ञेया व्यभिचारिणः | सात्त्विकांस्तु पुनर्भावान्प्रवक्ष्याम्यनुपूर्वशः || ९३ || अत्राह- किमन्ये भावाः सत्त्वेन विनाऽभिनीयन्ते यस्मादुच्यन्ते एते सात्त्विका इति | अत्रोच्यते - इह हि सत्त्वं नाम मनःप्रभवम् | तच्च समाहितमनस्त्वादुच्यते | मनसः समाधौ सत्त्वनिष्पत्तिर्भवति | तस्य च योऽसौ स्वभावो रोमाञ्चाश्रुवैवर्ण्यादिलक्षणो यथाभावोपगतः स न शक्योऽन्यमनसा कर्तुमिति | लोकस्वभावानुकरणत्वाच्च नाट्यस्य सत्त्वमीप्सितम् | को दृष्टान्तः - इह हि नाट्यधर्मिप्रवृत्ताः सुखदुःखकृता भावास्तथा सत्त्वविशुद्धाः कार्याः यथा सरूपा भवन्ति | तत्र दुःखं नाम रोदनात्मकं तत्कथमदुःखितेन सुखं च प्रहर्षात्मकमसुखितेन वाभिनेयम् | एतदेवास्य सत्त्वं यत् दुःखितेन सुखितेन वाऽश्रुरोमाञ्चौ दर्शयितव्यौ इति कृत्वा (सत्त्वमीप्सितमिति) सात्त्विका भावा इत्यभिव्याख्याताः | त इमे - एतदुपसंहरति - त्रयस्त्रिंशदमी भावा इति | अन्येषां त्वत्रैवान्तर्भावः | तद्यथा - दम्भस्यावहित्थे | उद्वेगस्य निर्वेदे | क्षुत्तृष्णादेर्ग्लानौ | एवमन्यदप्यूह्यम् | अपरे तु मन्यन्ते कः खलु चित्तवृत्तिर्गमयितुं समर्थः | गणने वा तार्किकतर्कितात्मगुणनवकेन वा साङ्ख्यसङ्ख्यातबुद्धिधर्मोष्टकविपर्ययादिप्रत्ययचतुष्टयेन वा शाक्यशिक्षितचित्तचैत्तद्वयभेदेन वा सर्वेसङ्ग्रहे किमियता ? अथ कविनटशिक्षार्थमेतावतो निरूपणमपरे तर्हि वक्तव्या एव | उक्ता एव वा सामान्याभि - नये मुनिना पुरुसप्रमदागतभावचेष्टालङ्कारनिरूपणेन | इहापि विभावानुभावगणनायां सूचिताः | तथा हि ग्लानौ क्षुत्तृष्नयोरभिधानं विभावत्वेन केवलमतिप्रसिद्धत्वात् | कविनटोपयोगिलक्षणमेषां नातिवोपयुज्यत इति न लक्षिताः | अन्ये त्वाहुः | इयतामेव प्रयोगे सौन्दर्यं भवति | तथा ह्येतावत्स्वेव सहचारिष्ववस्थाविशेषेषु प्रयोगे प्रदर्शितेषु स्थायी चर्वणयोग्यो भवति | एके तु मन्यन्ते - एते तावद्विज्ञेया एतज्ज्ञानदिशा त्वन्येषां लक्षणमूह्यमिति | प्. ३७४) स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथुः | वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विका मताः || ९४ || अत्रार्याः | तत्र - क्रोधभयहर्षलज्जादुःखश्रमरोअगतापघातेभ्यः | व्यायामक्लमधर्मैः स्वेदः सम्पीडनाच्चैव || ९५ || हर्षभयशोकविस्मयविषादरोषादिसम्भवः स्तम्भः | शीतभयहर्षरोषस्पर्शजरारोगजः कम्पः || ९६ || आनन्दामर्षाम्यां धूमाञ्जनजृम्भणाद्भयाच्छोकत् | अनिमेषप्रेक्षणतः शीतद्रोगाद्भवेदश्रु || ९७ || शीतक्रोधभयश्रमरोगक्लमतापजं च वैवर्ण्यम् | स्पर्शभयशीतहर्षात् क्रोधाद्रोगाच्च रोमाञ्चः || ९८ || स्वरभेदो भयहर्षक्रोधजरारौक्ष्यरोगमदजनितः | श्रममूर्छामदनिद्राभिघातमोहादिभिः प्रलयः || ९९ || एवमेते बुधैर्ज्ञेया भावा ह्यष्टौ तु सात्त्विकाः | कर्म चैषां प्रवक्ष्यामि रसभावानुभावकम् || १०० || निःसंज्ञो निष्प्रकम्पश्च स्थितः शून्यजडाकृतिः | स्कन्नगात्रतया चैव स्तम्भं त्वभिनयेद्बुधः || १०१ || व्यजनग्रहणाच्चापि स्वेदापनयनेन च | स्वेदस्याभिनयो योज्यस्तथा वाताभिलाषतः || १०२ || मुहुः कण्टकितत्वेन तथोल्लुकसनेन च | पुलकेन च रोमाञ्चं गात्रस्पर्शेन दर्शयेत् || १०३ || प्. ३७५) स्वरभेदोऽभिनेतव्यो भिन्नगद्गदनिस्वनैः | वेपनात्फुरणात्कम्पाद्वेपथुं सम्प्रदर्शयेत् || १०४ || मुखवर्णपरावृत्त्या नाडीपीडनयोगतः | वैवर्ण्यमभिनेतव्यं प्रयत्नात्तद्धि दुष्करम् || १०५ || बाष्पाम्बुप्लुतनेत्रत्वान्नेत्रसम्मार्जनेन च | मुहुरश्रुकणापातैरास्रं त्वभिनयेद्बुधः || १०६ || निश्चेष्टो निष्प्रकम्पत्वादव्यक्तश्वसितादपि | महीनिपातनाच्चापि प्रलयाभिनयो भवेत् || १०७ || एकोनपञ्चाशदिमे यथाव- द्भावास्त्र्यवस्था गदिता मयेह | भूयश्च ये यत्र रसे नियोज्या- स्तान् श्रोतुमर्हन्ति च विप्रमुख्याः || १०८ || अत्र श्लोका - शङ्काव्याधिस्तथाग्लानिश्चिन्तासूया भयं तथा | विस्मयश्च वितर्कश्च स्तम्भश्चपलता तथा || रोमाञ्चहर्षौ निद्रा च तथोन्मादमदावपि | स्वेदश्चैवावहित्थं च प्रलयो वेपथुस्तथा || विषादश्रमनिर्वेदा गर्वावेगौ धृतिः स्मृतिः | मतिर्मोहो विबोधश्च सुप्तमौत्सुक्यवर्जिते || क्रोधामर्षौ च हासश्च शोकोऽपस्मार एव च | दैन्यं च मरणं चैव रतिरुत्साहसंयुता || प्. ३७६) त्रासवैवर्ण्यरुदितैः स्वरभेदः शमोऽपि च | जडता च तथा षट्च चत्वारिंशत्प्रकीर्तिताः ||) आलस्यौग्र्यजुगुप्साख्यैरेवं भावैस्तु वर्जिताः | उद्भावयन्ति शृङ्गारं सर्वे भावाः स्वसंज्ञया || १०९ || (यथाऽवसरमेते हि स्थायिसञ्चारिसत्त्वजाः | उद्दीपयन्ति शृङ्गारं रसमासाद्य संज्ञितम् ||) ग्लानिः शङ्का ह्यसूया च श्रमश्चपलता तथा | सुप्तं निद्रावहित्थं च हास्ये भावाः प्रकीर्तिताः || ११० || निर्वेदश्चैव चिन्ता स दैन्यं ग्लान्यास्रमेव च | जडता मरणं चैव व्याधिश्च करुणे स्मृताः || १११ || गर्वोऽसूया मदोत्साहावावेगोऽमर्ष एव च | क्रोधश्चपलतौग्र्यं च विज्ञेया रौद्रसम्भवाः || ११२ || असम्मोहस्तथोत्साह आवेगो हर्ष एव च | मतिश्चैव तथोग्रत्वममर्षो मद एव च || ११३ || रोमाञ्चः स्वरभेदश्च क्रोधोऽसूया धृतिस्तथा | गर्वश्चैव वितर्कश्च वीरे भावा भवन्ति हि || ११४ || स्वेदश्च वेपथुश्चैव रोमाञ्चो गद्गदस्तथा | त्रासश्च मरणञ्चैव वैवर्ण्यं च भयानके || ११५ || प्. ३७७) अपस्मारस्तथोन्मादो विषादो मद एव च | मृत्युर्व्याधिर्भयं चैव भावा बीभत्ससंश्रयाः || ११६ || स्तम्भः स्वेदश्च मोहश्च रोमाञ्चो विस्मयस्तथा | आवेगो जडता हर्षो मूर्च्छा चैवाद्भुताश्रयाः || ११७ || ये त्वेते सात्त्विका भावा नानाभिनयसंश्रिताः | रसेष्वेतेषु सर्वे ते ज्ञेया नाट्यप्रयोक्तृभिः || ११८ || न ह्येकरसजं काव्यं किञ्चिदस्ति प्रयोगतः | भावो वापि रसो वापि प्रवृत्तिर्वृत्तिरेव च || ११९ || बहूनां समवेतानां रूपं यस्य भवेद्बहु | स मन्तव्यो रसः स्थायी शेषाः संचारिणो मताः || दीपयन्तः प्रवर्तन्ते ये पुनः स्थायिनं रसम् | ते तु संचारिणो ज्ञेयास्ते हि स्थायित्वमागताः || विभावानुभावयुतो ह्यङ्गवस्तुसमाश्रयः | संचारिभिस्तु संयुक्तः स्थाययेव तु रसो भवेत् || स्थायी सत्त्वातिरेकेण प्रयोक्तव्यः प्रयोक्तृभिः | सञ्चार्याकारमात्रेण स्थायी यस्मादवस्थितः || ये त्वेते सात्त्विका भावा नानाभिनययोजिताः | रसेष्वेतेषु सर्वेषु ते ज्ञेया नाट्यकोविदैः || न ह्येकरसजं काव्यं नैकभावैकवृत्तिकम् | विमर्दे रागमायाति प्रयुक्तं हि प्रयत्नतः || प्. ३७८) भावा वाऽपि रसा वाऽपि प्रवृत्तिर्वृत्तिरेव वा | बीभत्साद्भुतशान्तानां त्रैविध्यं नात्र कथ्यते || षण्णां रसानां त्रैविध्यं नानाभावरसान्वितम् | सत्त्वप्रयोजितो ह्यर्थः प्रयोगोऽत्र विराजते || विदित्वा हि विराजन्ते लोके चित्रं हि दुर्लभम् |) नानाभावार्थसंपन्नाः स्थायिसत्त्वाभिचारिणः | पुष्पावकीर्णाः कर्तव्याः काव्येषु हि रसा बुधैः || १२० || एवं रसाश्च भावाश्च त्र्यवस्था नाटके स्मृताः | य एवमेताञ्जानाति स गच्छेत्सिद्धिउत्तमाम् || १२१ || इति श्रीभारतीये नाट्यशास्त्रे भावव्यञ्जको नाम सप्तमोऽध्यायः || ########### END OF FILE #######